मंगलवार, 12 जुलाई 2011

संस्कृतस्य सेवनं गीतम्‌ - 7

संस्कृतस्य सेवनंसंस्कृताय जीवनम्‌ ।
लोकहितसमृद्धये भवतु तनुसमर्पणम्‌ ॥
कार्य - गौरवं स्मरन्‌,विध्नवारिधिं   तरन्‌,
लक्ष्यसिद्धिमक्षिसात्‌ करोमि सोद्यमः स्वयम्‌ ।
यावदेति संस्कृतं,  प्रतिजनं  गृहं  गृहम्‌ ॥
तावदविरता   गतिस्तावदनुपदं    पदम्‌ ॥1॥ लोक0.........

कामये न सम्पदं,भोगसाधनं सुखम्‌,
किदन्यदाद्रिये विना न संस्कृतोन्नतिम्‌ ।
गौरवास्पदं पदंनेतुमद्य संस्कृतम्‌ ॥
बद्धकटिरयं जनो निधाय जीवनं पणम्‌ ॥2॥ लोक0.........

भाषिता च वागियं भाषिता भवेद्‌ ध्रुवम्‌,
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्‌ ।
भरतभूमिभूषणं सर्ववाग्विभूषणम्‌ ॥
संस्कृतिप्रवाहकं संस्कृतं विराजताम्‌ ॥3॥ लोक0.........