शुक्रवार, 27 जनवरी 2017

प्रज्जालितो ज्ञानमयः प्रदीपः

                                                                         लक्ष्मीनाथ समारम्भं नाथयामुनमध्यमाम्।
                                                                         अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्।।
बिहारप्रान्तस्य दक्षिणदिग्भागे संस्कृतभाषायाः प्रचारकस्य श्रीस्वामिरङ्गरामानुजाचार्यस्य नाम को न जानाति। एते स्वकीयपरिश्रमबलेन विविधसंस्कृतशिक्षासंस्थानस्य स्थापनां कृत्वा जनमनसि संस्कृतस्य नवजागरणं कुर्वन्नस्ति।
विशिष्टाद्वैतसम्प्रदाये प्राचीनकालादारभ्य वहवः सुपण्डिताः सुविचारकाः वैष्णवाग्रगण्याः च अभवन्। तेषु एकः प्रमुखः सुपण्डिताः विंशतिशताद्यां जहानाबादजनपदान्तर्गते मिर्जापुरनाम्निग्रामे जनिं लेभे । वाल्याकालादेवायं कुशाग्रबुद्धिः, विविधशास्त्रचिन्तने मग्नः विद्वत्समाजे परमश्रद्धेयानां ज्ञानवृद्धानां माधवाचार्य एवञ्च नीलमेधाचार्यवर्याणां अन्तेवासिरुपेण विभिन्नानि शास्त्राणि अधीतवान्। एतेषां गुरवः स्वामिपरांकुशाचार्यः तरेत नाम्नी ग्रामे संस्कृतविद्यालयमहाविद्यालयोः स्थापनां कृतवान्। तदानीन्तमाः वाराणसेयाः पण्डिताः रङ्गरामानुजाचार्यवर्यस्य प्रतिभां शास्त्रवैदुष्यं च वीक्ष्य चकितचकिताः आसन्। विशिष्टाद्वैतवेदान्ते कृतभूरिपरिश्रमः रङ्गरामानुजाचार्येण अन्येषु दर्शनष्वपि रुचिं विधाय गहनं अध्ययनं कृतम्।
   शास्त्रचिन्तने परिबद्धोयं समयाभावात् तद्दिने चणकं खादित्वा अध्ययने मग्नः आसीत्। यथा कणादः प्रतिदिनं रथ्यायां पतितान् तण्डुलकणान् भक्षयति स्म तथैव अयमपि शास्त्राध्ययनम् अतिक्लेशेन कृतवान्।
    सम्प्रति 84 वर्षदेशीयः अयं चतुविंशतितमे वयसि एव संस्कृतस्य प्रचाराय प्रसाराय च गया जनपदान्तर्गते हुलासंगजनाम्नि  ग्रामे एकं सुविस्तीर्णं भव्यञ्च संस्कृतविद्यालयं स्थापितवान्। तत्र छात्राणां अध्यापकानां च कृते भोजनवासव्यवथापि विहिता । अनन्तरं संस्कृतमहाविद्यालयस्य स्थापनापि कृता।
       बिहारप्रान्तस्य वंगदेशस्य उत्तरप्रदेशस्य च छात्राः तत्र भोजनादिव्यवस्थां प्राप्य अध्ययने रताः अभवन्। असौ सर्वत्र परिभ्रमन् विद्वांसं आनीय अध्यापने योजितवान्। अस्य अथकप्रयासेन उत्तरभारतस्य विद्वांसः तत्र ज्ञानलाभाय गच्छन्ति। तदैव एकः आशुकविः मनसिज शास्त्री आसीत्। सोsपि छात्रान् अध्यापयति स्म। गया जनपदस्य स्थानमिदं अतीव प्रसिद्धमभूत् ।

     गुरुवर्येण अश्वमारुह्य ग्रामे – ग्रामे विहरन् प्रतिगृहं गत्वा संस्कृताध्यापनाय एकं पुत्रं देहीति याचते। तत बालान् संगृह्य स्वविद्यालये आनीय अध्ययने प्रेम्णा योजयति। अस्मान् एते बहु मन्यन्ते स्म। ग्रीष्मावकाशे प्रतिवर्षं वदति स्म भोः सम्पूर्णं अध्ययनं समाप्य गृहं गन्तव्यम्। मध्ये गृहगमनेन अध्ययनभंगः भवति । कथितञ्च यदि वाञ्छसि मूर्खत्वं ग्रामे वस दिनत्रयम्। भवन्तः तु मासपर्यन्तं तत्र स्थास्यति। यदि यूयं गृहं नैव गमिष्यथ चेत् अहमत्रैव सर्वं योगक्षेमं करिष्यामि। छात्रेषु संस्कृतसम्भाषणस्याभ्यासः केन विधिना वर्धिष्यति एतदर्थं संस्कृतवाग्वर्धिनी सभा आरब्धा। परिसरीयाः जनाः संस्कृते एव व्यवहरेयुः एतदर्थं विविधाः योजनाः चालिताः। संस्कृतं लोकभाषा स्यात् इति तेषाम् आभिलाषा लक्ष्यं चास्ति। प्रातः नित्यक्रियां कृत्वा छात्राः तेषां पुरतः पंक्तिबद्धरुपेण उपविश्य अमरकोषः तर्कसंग्रहः लघुसिद्धान्तकौमुदी ग्रन्थानां वाचनं एव सम्मुखे पंक्तिबद्धेन उपावेश्य कारयति। इतः अध्ययनं कृत्वा बहुजनाः विश्वविद्यालये महाविद्यालये अन्यस्मिन् सेवायां युक्ताः सन्ति।

        अधुनापि चातुर्मासकाले प्रायशः दर्शनं‚ व्याकरणं‚ ज्यातिषञ्च पाठयति। स्वस्मै ग्रीष्मकालः भवतु वा शीतकालः सर्वदा वस्त्रद्वयमेव धारयति। संस्कृतं संस्कृतेश्च प्रसाराय गुरुवर्येण पुस्तकप्रकाशनार्थं एकं मुद्रणालयस्यापि स्थापना कृता। ततः एतैः प्रायः त्रिंशदधिकाः ग्रन्थाः वैदिकवाणीति नामिका पत्रिका मुद्रापयित्वा प्रकाश्यं नीताः। प्रतिवर्षं यज्ञकर्मणि छात्राणां श्लोकान्याक्षरी प्रतियोगिता शास्त्रार्थं च कारयित्वा जनसमक्षं संस्कृतस्य प्रदर्शनं कुर्वन्ति।