शनिवार, 5 मई 2018

लघुसिद्धान्तकौमुदी (अव्ययप्रकरणपर्यन्तम्)

                            नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।
                             पाणिनीय प्रवेशाय लघु सिद्धान्तकौमुदीम्।
अइउण्।1। ऋलृक्। 2। एओङ्। 3।  ऐऔच्। 4। हयवरट्। 5। लण्। 6। ञमङणनम्। 7। झभञ्। 8। घढधष्। 9।जबगडदश्। 10। खफछठथचटतव्। 11। कपय्। 12। शषसर्। हल्।
इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्या इतः । हकारादिष्वकार उच्चारणार्थः । लण्मध्येत्वित्संज्ञकः।

                                          अथ संज्ञाप्रकरणम्

१ हलन्‍त्‍यम्
उपदेशेऽन्‍त्‍यं हलित्‍स्‍यात् । उपदेश आद्योच्‍चारणम् । सूत्रेष्‍वदृष्‍टं पदं सूत्रान्‍तरादनुवर्तनीयं सर्वत्र ।।
२ अदर्शनं लोपः
प्रसक्तस्‍यादर्शनं लोपसंज्ञं स्‍यात् ।
३ तस्‍य लोपः
तस्‍येतो लोपः स्‍यात् । णादयोऽणाद्यर्थाः ।
४ आदिरन्‍त्‍येन सहेता
अन्‍त्‍येनेता सहित आदिर्मध्‍यगानां स्‍वस्‍य च संज्ञा स्‍यात् यथाऽणिति अ इ उ वर्णानां संज्ञा । एवमच् हल् अलित्‍यादयः ।।
५ ऊकालोऽज्‍झ्रस्‍वदीर्घप्‍लुतः
उश्‍च ऊश्‍च ऊ३श्‍च वः; वां कालो यस्‍य सोऽच् क्रमाद् ह्रस्‍वदीर्घप्‍लुतसंज्ञः स्‍यात् । स प्रत्‍येकमुदात्तादि भेदेन त्रिधा ।
६ उच्‍चैरुदात्तः
७ नीचैरनुदात्तः
८ समाहारः स्‍वरितः
स नवविधोऽपि प्रत्‍येकमनुनासिकत्‍वाननुनासिकत्‍वाभ्‍यां द्विधा ।।
९ मुखनासिकावचनोऽनुनासिकः
मुखसहितनासिकयोच्‍चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्‍यात् । तदित्‍थम् अ इ उ ऋ एषां वर्णानां प्रत्‍येकमष्‍टादश भेदाः । लृवर्णस्‍य द्वादश, तस्‍य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्‍वाभावात् ।।
१० तुल्‍यास्‍यप्रयत्‍नं सवर्णम्
ताल्‍वादिस्‍थानमाभ्‍यन्‍तरप्रयत्‍नश्‍चेत्‍येतद्द्वयं यस्‍य येन तुल्‍यं तन्‍मिथः सवर्णसंज्ञं स्‍यात् । (ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्‍यम्) । अकुहविसर्जनीयानां कण्‍ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्‍ताः । उपूपध्‍मानीयानामोष्‍ठौ । ञमङणनानां नासिका च । एदैतोः कण्‍ठतालु । ओदौतोः कण्‍ठोष्‍टम् । वकारस्‍य दन्‍तोष्‍ठम् । जिह्‍वामूलीयस्‍य जिह्‍वामूलम् । नासिकाऽनुस्‍वारस्‍य । यत्‍नो द्विधा आभ्‍यन्‍तरो बाह्‍यश्‍च । आद्यः पञ्चधा स्‍पृष्‍टेषत्‍स्‍पृष्‍टेषद्विवृतविवृतसंवृत भेदात् । तत्र स्‍पृष्‍टं प्रयतनं स्‍पर्शानाम् । ईषत्‍स्‍पृष्‍टमन्‍तःस्‍थानाम् । ईषद्विवृतमूष्‍मणाम् । विवृतं स्‍वराणाम् । ह्रस्‍वस्‍यावर्णस्‍य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । बाह्‍यप्रयत्‍नस्‍त्‍वेकादशधा विवारः संवारः श्‍वासो नादो घोषोऽघोषोऽल्‍पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्‍वरितश्‍चेति । खरो विवाराः श्वासा अघोषाश्‍च । हशः संवारा नादा घोषाश्‍च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्‍चाल्‍पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्‍च महाप्राणाः । कादयो मावसानाः स्‍पर्शाः । यणोऽन्‍तःस्‍थाः । शल ऊष्‍माणः । अचः स्‍वराः । -क-ख इति कखाभ्‍यां प्रगर्धविसर्गसदृशो जिह्‍वामूलीयः । -प-फ इति पफाभ्‍यां प्रागर्धविसर्गसदृश उपध्‍मानीयः । अं अः इत्‍यचः परावनुस्‍वारविसर्गौ ।।
११ अणुदित्‍सवर्णस्‍य चाप्रत्‍ययः
प्रतीयते विधीयत इति प्रत्‍ययः । अविधीयमानोऽणुदिच्‍च सवर्णस्‍य संज्ञा स्‍यात् । अत्रैवाण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् अ इत्‍यष्‍टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्‍त्रशिंतः । एवं लृकारोऽपि । एचो द्वादशानाम् । अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्‍ते द्वयोर्द्वयोस्‍संज्ञा ।
१२ परः संनिकर्षः संहिता
वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्‍यात् ।।
१३ हलोऽनन्‍तराः संयोगः
अज्‍भिरव्‍यवहिता हलः संयोगसंज्ञाः स्‍युः ।।
१४ सुप्‍तिङन्‍तं पदम्
सुबन्‍तं तिङन्‍तं च पदसंज्ञं स्‍यात् ।।
     इति संज्ञाप्रकरणम्

                                                      अथाच्‍सन्‍धिः

१५ इको यणचि
इकः स्‍थाने यण् स्‍यादचि संहितायां विषये । सुधी उपास्‍य इति स्‍थिते ।।
१६ तस्‍मिन्निति निर्दिष्‍टे पूर्वस्‍य
सप्‍तमीनिर्देशेन विधीयमानं कार्यं वर्णान्‍तरेणाव्‍यवहितस्‍य पूर्वस्‍य बोध्‍यम् ।।
१७ स्‍थानेऽन्‍तरतमः
प्रसङ्गे सति सदृशतम आदेशः स्‍यात् । सुध्‍य् उपास्‍य इति जाते ।।
१८ अनचि च
अचः परस्‍य यरो द्वे वा स्‍तो न त्‍वचि । इति धकारस्‍य द्वित्‍वेन सुध्‍ध्‍य् उपास्‍य इति जाते ।।
१९ झलां जश् झशि
स्‍पष्‍टम् । इति पूर्वधकारस्‍य दकारः ।।
२० संयोगान्‍तस्‍य लोपः
संयोगान्‍तं यत्‍पदं तदन्‍तस्‍य लोपः स्‍यात् ।।
२१ अलोऽन्‍त्‍यस्‍य
षष्‍ठीनिर्दिष्‍टोऽन्‍त्‍यस्‍याल आदेशः स्‍यात् । इति यलोपे प्राप्‍ते – (यणः प्रतिषेधो वाच्‍यः) । सुद्ध्युपास्‍यः । मद्ध्‍वरिः । धात्त्रंशः । लाकृतिः ।।
२२ एचोऽयवायावः
एचः क्रमादय् अव् आय् आव् एते स्‍युरचि ।।
२३ यथासंख्‍यमनुदेशः समानाम्
समसम्बन्‍धी विधिर्यथासंख्‍यं स्‍यात् । हरये । विष्‍णवे । नायकः । पावकः ।।
२४ वान्‍तो यि प्रत्‍यये
यकारादौ प्रत्‍यये परे ओदौतोरव् आव् एतौ स्‍तः । गव्‍यम् । नाव्‍यम् । (अध्‍वपरिमाणे च) । गव्‍यूतिः ।।
२५ अदेङ् गुणः
अत् एङ् च गुणसंज्ञः स्‍यात् ।।
२६ तपरस्‍तत्‍कालस्‍य
तः परो यस्‍मात्‍स च तात्‍परश्‍चोच्‍चार्यमाणसमकालस्‍यैव संज्ञा स्‍यात् ।।
२७ आद्गुणः
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्‍यात् । उपेन्‍द्रः । गङ्गोदकम् ।।
२८ उपदेशेऽजनुनासिक इत्
उपदेशेऽनुनासिकोऽजित्‍संज्ञः स्‍यात् । प्रतिज्ञानुनासिक्‍याः पाणिनीयाः । लण्‍सूत्रस्‍थावर्णेन सहोच्‍चार्यमाणो रेफो रलयोः संज्ञा ।।
२९ उरण् रपरः
ऋ इति त्रिंशतः संज्ञेत्‍युक्तम् । तत्‍स्‍थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्‍णर्द्धिः । तवल्‍कारः ।।
३० लोपः शाकल्‍यस्‍य
अवर्णपूर्वयोः पदान्‍तयोर्यवयोर्लोपो वाऽशि परे ।।
३१ पूर्वत्रासिद्धम्
सपादसप्‍ताध्‍यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्‍त्रमसिद्धम् । हर इह, हरयिह । विष्‍ण इह, विष्‍णविह ।।
३२ वृद्धिरादैच्
आदैच्‍च वृद्धिसंज्ञः स्‍यात् ।।
३३ वृद्धिरेचि
आदेचि परे वृद्धिरेकादेशः स्‍यात् । गुणापवादः । कृष्‍णैकत्‍वम् । गङ्गौघः । देवैश्वर्यम् । कृष्‍णौत्‍कण्‍ठ्यम् ।।
३४ एत्‍येधत्‍यूठ्सु
अवर्णादेजाद्योरेत्‍येधत्‍योरूठि च परे वृद्धिरेकादेशः स्‍यात् । उपैति । उपैधते । प्रष्‍ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्‍प्रेदिधत् । (अक्षादूहिन्‍यामुपसंख्‍यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्‍येषु) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्‍यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्‍सतरकम्‍बलवसनार्णदशानामृणे) । प्रार्णम्, वत्‍सतरार्णम्, इत्‍यादि ।।
३५ उपसर्गाः क्रियायोगे
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्‍युः । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादयः ।।
३६ भूवादयो धातवः
क्रियावाचिनो भ्‍वादयो धातुसंज्ञाः स्‍युः ।।
३७ उपसर्गादृति धातौ
अवर्णान्‍तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्‍यात् । प्राच्‍र्छति ।।
३८ एङि पररूपम्
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्‍यात् । प्रेजते । उपोषति ।।
३९ अचोऽन्‍त्‍यादि टि
अचां मध्‍ये योऽन्‍त्‍यः स आदिर्यस्‍य तट् टिसंज्ञं स्‍यात् । (शकन्‍ध्‍वादिषु पररूपं वाच्‍यम्) । तच्‍च टेः । शकन्‍धुः । कर्कन्‍धुः मनीषा । आकृतिगणोऽयम् । मार्त्तण्‍डः ।।
४० ओमाङोश्‍च
ओमि आङि चात्‍परे पररूपमेकादेशः स्‍यात् । शिवाय नमः । शिव एहि ।।
४१ अन्‍तादिवच्‍च
योऽयमेकादेशः स पूर्वस्‍यान्‍तवत्‍परस्‍यादिवत् । शिवेहि ।।
४२ अकः सवर्णे दीर्घः
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्‍यात् । दैत्‍यारिः । श्रीशः । विष्‍णूदयः । होतॄकारः ।।
४३ एङः पदान्‍तादति
पदान्‍तादेङोऽति परे पूर्वरूपमेकादेशः स्‍यात् । हरेऽव । विष्‍णोऽव ।।
४४ सर्वत्र विभाषाः गोः
लोके वेदे चैङन्‍तस्‍य गोरति वा प्रकृतिभावः पदान्‍ते । गोअग्रम्, गोऽग्रम् । एङन्‍तस्‍य किम् ? चित्रग्‍वग्रम् । पदान्‍ते किम्? गोः ।।
४५ अनेकाल् शित्‍सर्वस्‍य
इति प्राप्‍ते ।।
४६ ङिच्‍च
ङिदनेकालप्‍यन्‍त्‍यस्‍ययैव स्‍यात् ।।
४७ अवङ् स्‍फोटायनस्‍य
पदान्‍ते एङन्‍तस्‍य गोरवङ् वाऽचि । गवाग्रम्, गोऽग्रम् । पदान्‍ते किम् ? गवि ।।
४८ इन्‍द्रे च
गोरवङ् स्‍यादिन्‍द्रे । गवेन्‍द्रः ।।
४९ दूराद्धूते च
दूरात्‍सम्‍बोधने वाक्‍यस्‍य टेः प्‍लुतो वा ।।
५० प्‍लुतप्रगृह्‍या अचि नित्‍यम्
एतेऽचि प्रकृत्‍या स्‍युः । आगच्‍छ कृष्‍ण ३ अत्र गौश्‍चरति ।।
५१ ईदूदेद् द्विवचनं प्रगृह्‍यम्
ईदूदेदन्‍तं द्विवचनं प्रगृह्‍यं स्‍यात् । हरी एतौ । विष्‍णू इमौ । गङ्गे अमू ।।
५२ अदसो मात्
अस्‍मात्‍परावीदूतौ प्रगृह्‍यौ स्‍तः । अमी ईशाः । रामकृष्‍णावमू आसाते । मात्‍किम् ? अमुकेऽत्र ।।
५३ चादयोऽसत्‍वे
अद्रव्‍यार्थाश्‍चादयो निपाताः स्‍युः ।।
५४ प्रादयः
एतेऽपि तथा ।।
५५ निपात एकाजनाङ्
एकोऽज् निपात आङ्वर्जः प्रगृह्‍यः स्‍यात् । इ इन्‍द्रः । उ उमेशः । वाक्‍यस्‍मरणयोरङित्; आ एवं नु मन्‍यसे । आ एवं किल तत् । अन्‍यत्र ङित् ; आ ईषदुष्‍णम् ओष्‍णम् ।।
५६ ओत्
ओदन्‍तो निपातः प्रगृह्‍यः स्‍यात् । अहो ईशाः ।।
५७ सम्‍बुद्धौ शाकल्‍यस्‍येतावनार्षे
सम्‍बुद्धिनिमित्तक ओकारो वा प्रगृह्‍योऽवैदिके इतौ परे । विष्‍णो इति, विष्‍ण इति, विष्‍णविति ।।
५८ मय उञो वो वा
मयः परस्‍य उञो वो वाऽचि । किम्‍वुक्तम्, किमु उक्तम् ।।
५९ इकोऽसवर्णे शाकल्‍यस्‍य ह्रस्‍वश्‍च
पदान्‍ता इको ह्रस्‍वा वा स्‍युरसवर्णेऽचि । ह्रस्‍वविधिसामथ्‍र्यान्न स्‍वरसन्‍धिः । चक्रि अत्र, चक्रय्‍त्र । पदान्‍ता इति किम् ? गौर्यौ -
६० अचो रहाभ्‍यां द्वे
अचः पराभ्‍यां रेफहकाराभ्‍यां परस्‍य यरो द्वे वा स्‍तः । गौर्य्‍यौ । (न समासे) । वाप्‍यश्वः ।।
६१ ऋत्‍यकः
ऋति परे पदान्‍ता अकः प्राग्‍वद्वा । ब्रह्‍म ऋषिः, ब्रह्‍मर्षिः । पदान्‍ताः किम् ? आर्च्छत् ।।

इत्‍यच्‍सन्‍धिः

                                         अथ हल् सन्‍धिः


६२ स्‍तोः श्‍चुना श्‍चुः
सकारतवर्गयोः शकारचवर्गाभ्‍यां योगे शकारचवर्गौ स्‍तः । रामश्‍शेते । रामश्‍चिनोति । सच्‍चित् । शाङिर््गञ्जय ।।
६३ शात्
शात्‍परस्‍य तवर्गस्‍य चुत्‍वं न स्‍यात् । विश्‍नः । प्रश्‍नः ।।
६४ ष्‍टुना ष्‍टुः
स्‍तोः ष्‍टुना योगे ष्‍टुः स्‍यात् । रामष्‍षष्‍ठः । रामष्‍टीकते । पेष्‍टा । तट्टीका । चक्रिण्‍ढौकसे ।।
६५ न पदान्‍ताट्टोरनाम्
पदान्‍ताट्टवर्गात्‍परस्‍यानामः स्‍तोः ष्‍टुर्न स्‍यात् । षट् सन्‍तः । षट् ते । पदान्‍तात्‍किम् ? ईट्टे । टोः किम् ? सर्पिष्‍टमम् । (अनाम्‍नवतिनगरीणामिति वाच्‍यम्) । षण्‍णवतिः । षण्‍णगय्‍र्यः ।।
६६ तोः षि
न ष्‍टुत्‍वम् । सन्‍षष्‍ठः ।।
६७ झलां जशोऽन्‍ते
पदान्‍ते झलां जशः स्‍युः । वागीशः ।।
६८ यरोऽनुनासिकेऽनुनासिको वा
यरः पदान्‍तस्‍यानुनासिके परेऽनुनासिको वा स्‍यात् । एतन्‍मुरारिः, एतद् मुरारिः ।
 (प्रत्‍यये भाषायां नित्‍यम्) । तन्‍मात्रम्। चिन्‍मयम् ।।
६९ तोर्लि
तवर्गस्‍य लकारे परे परसवर्णः । तवर्गस्‍य लकारे परे परसवर्णः । तल्‍लयः । विद्वाँल्‍लिखति । नस्‍यानुनासिको लः ।
७० उदः स्‍थास्‍तम्‍भोः पूर्वस्‍य
उदः परयोः स्‍थास्‍तम्‍भोः पूर्वसवर्णः ।।
७१ तस्‍मादित्‍युत्तरस्‍य
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्‍तरेणाव्‍यवहितस्‍य परस्‍य ज्ञेयम् ।।
७२ आदेः परस्‍य
परस्‍य यद्विहितं तत्तस्‍यादेर्बोध्‍यम् । इति सस्‍य थः ।।
७३ झरो झरि सवर्णे
हलः परस्‍य झरो वा लोपः सवर्णे झरि ।।
७४ खरि च
खरि झलां चरः । इत्‍युदो दस्‍य तः । उत्‍थानम् । उत्तम्‍भनम् ।।
७५ झयो होऽन्‍यतरस्‍याम्
झयः परस्‍य हस्‍य वा पूर्वसवर्णः । नादस्‍य घोषस्‍य संवारस्‍य महाप्राणस्‍य तादृशो वर्गचतुर्थः । वाग्‍घरिः, वाग्‍हरिः ।।
७६ शश्‍छोऽटि
झयः परस्‍य शस्‍य छो वाऽटि । तद् शिव इत्‍यत्र दस्‍य श्‍चुत्‍वेन जकारे कृते खरि चेति जकारस्‍य चकारः । तच्‍छिवः, तच्‍शिवः । (छत्‍वममीति वाच्‍यम्) तच्‍छ्लोकेन ।।
७७ मोऽनुस्‍वारः
मान्‍तस्‍य पदस्‍यानुस्‍वारो हलि । हरिं वन्‍दे ।।
७८ नश्‍चापदान्‍तस्‍य झलि
नस्‍य मस्‍य चापदान्‍तस्‍य झल्‍यनुस्‍वारः । यशांसि । आक्रंस्‍यते । झलि किम् ? मन्‍यते ।।
७९ अनुस्‍वारस्‍य ययि परसवर्णः
स्‍पष्‍टम् । शान्‍तः ।।
८० वा पदान्‍तस्‍य
त्‍वङ्करोषि, त्‍वं करोषि ।।
८१ मो राजि समः क्‍वौ
क्‍िवबन्‍ते राजतौ परे समो मस्‍य म एव स्‍यात् । सम्राट् ।।
८२ हे मपरे वा
मपरे हकारे परे मस्‍य मो वा । किम् ह्‍मलयति, किं ह्‍मलयति । (यवलपरे यवला वा)। किय्  ह्‍यः, किं ह्‍यः । किव्ँ ह्‍वलयति, किं ह्‍वलयति । किल्ँ ह्‍लादयति, किं ह्‍लादयति ।।
८३ नपरे नः
नपरे हकारे मस्‍य नो वा । किन् ह्‍नुते, किं ह्‍नुते ।।
८४ आद्यन्‍तौ टकितौ
टित्‍कितौ यस्‍योक्तौ तस्‍य क्रमादाद्यन्‍तावयवौ स्‍तः ।।
८५ ङ्णोः कुक्‍टुक् शरि
वा स्‍तः । (चयो द्वितीयाः शरि पौष्‍करसादेरिति वाच्‍यम्) । प्राङ्ख् षष्‍ठः, प्राङ्क्षष्‍ठः, प्राङ् षष्‍ठः । सुगण्‍ठ् षष्‍ठः सुगण्‍ट् षष्‍ठः, सुगण् षष्‍ठः ।।
८६ डः सि धुट्
डात्‍परस्‍य सस्‍य धुड्वा । षट्त्‍सन्‍तः, षट् सन्‍तः ।।
८७ नस्‍च
नान्‍तात्‍परस्‍य सस्‍य धुड्वा । सन्‍त्‍सः, सन्‍सः ।।
८८ शि तुक्
पदान्‍तस्‍य नस्‍य शे परे तुग्‍वा । सञ्छम्‍भुः, सञ्च्‍छम्‍भुः, सञ्च्‍शम्‍भुः, सञ्शम्‍भुः ।।
८९ ङमो ह्‍रस्‍वादचि ङमुण् नित्‍यम्
ह्रस्‍वात्‍परे यो ङम् तदन्‍तं यत्‍पदं तस्‍मात्‍परस्‍याचो ङमुट् । प्रत्‍यङ्ङात्‍मा । सुगण्‍णीशः । सन्नच्‍युतः ।।
९० समः सुटि
समो रुः सुटि ।।
९१ अत्रानुनासिकः पूर्वस्‍य तुवा
अत्र रुप्रकरणे रोः पूर्वस्‍यानुनासिको वा ।।
९२ अनुनासिकात्‍परोऽनुस्‍वारः
अनुनासिकं विहाय रोः पूर्वस्‍मात्‍परोऽनुस्‍वारागमः ।।
९३ खरवसानयोर्विसर्जनीयः
खरि अवसाने च पदान्‍तसाय रेफस्‍य विसर्गः । (संपुंकानां सो वक्तव्‍यः) । सँस्‍स्‍कर्ता, संस्‍स्‍कर्ता ।।
९४ पुमः खय्‍यम्‍परे
अम्‍परे खयि पुमो रुः । पुँस्‍कोकिलः, पुंस्‍कोकिलः ।।
९५ नश्‍छव्‍यप्रशान्
अम्‍परे छवि नान्‍तस्‍य पदस्‍यरुः; न तु प्रशान्‍शब्‍दस्‍य ।।
९६ विसर्जनीयस्‍य सः
खरि । चक्रिंस्‍त्रायस्‍व, चक्रिंस्‍त्रायस्‍व । अप्रशान् किम् ? प्रशान्‍तनोति । पदस्‍येति किम् ? हन्‍ति ।।
९७ नॄन् पे
नॄनित्‍यस्‍य रुर्वा पे ।।
९८ कुप्‍वोः ͝    क  ͝͝   पौ च
कवर्गे पवर्गे च विसर्गस्‍य एक एपौ स्‍तः, चाद्विसर्गः । नॄँ ͝͝   पाहि, नॄःँ ए पाहि, नॄःंपाहि । नॄन्‍पाहि ।।
९९ तस्‍य परमाम्रेडितम्
द्विरुक्तस्‍य परमाम्रेडितम् स्‍यात् ।।
१०० कानाम्रेडिते
कान्नकारस्‍य रुः स्‍यादाम्रेडिते । काँस्‍कान्, कांस्‍कान् ।।
१०१ छे च
ह्रस्‍वस्‍य छे तुक् । शिवच्‍छाया ।।
१०२ पदान्‍ताद्वा
दीर्घात् पदान्‍तात् छे तुग्‍वा । लक्ष्मीच्‍छायालक्ष्मीछाया ।।
इति हल्‍सन्‍धिः ।

                                              अथ विसर्गसन्‍धिः

१०३ विसर्जनीयस्‍य सः
खरि । विष्‍णुस्‍त्राता ।।
१०४ वा शरि
शरि विसर्गस्‍य विसर्गो वा । हरिः शेते, हरिश्‍शेते ।।
१०५ ससजुषो रुः
पदान्‍तस्‍य सस्‍य सजुषश्‍च रुः स्‍यात् ।।
१०६ अतो रोरप्‍लुतादप्‍लुतादप्‍लुते
अप्‍लुतादतः परस्‍य रोरुः स्‍यादप्‍लुतेऽति । शिवोऽर्च्यः ।।
१०७ हशि च
तथा । शिवो वन्‍द्यः ।।
१०८ भोभगोअघोअपूर्वस्‍य योऽशि
एतत्‍पूर्वस्‍य रोर्यादेशोऽशि । देवा इह, देवायिह । भोस् भगोस् अघोस् इति सान्‍ता निपाताः । तेषां रोर्यत्‍वे कृते ।।
१०९ हलि सर्वेषाम्
भोभगोअघोअपूर्वस्‍य यस्‍य लोपः स्‍याद्धलि । भो देवाः । भगो नमस्‍ते । अघो याहि ।।
११० रोऽसुपि
अह्‍नो रेफादेशो न तु सुपि । अहरहः । अहर्गणः ।।
१११ रो रि
रेफस्‍य रेफे परे लोपः ।।
११२ ढ्रलोपे पूर्वस्‍य दीर्घोऽणः
ढरेफयोर्लोपनिमित्तयोः पूर्वस्‍याणो दीर्घः । पुना रमते । हरी रम्‍यः । शम्‍भू राजते । अणः किम् ? तृढः । वृढः । मनस् रथ इत्‍यत्र रुत्‍वे कृते हशि चेत्‍युत्‍वे रोरीति लोपे च प्राप्‍ते ।।
११३ विप्रतिषेधे परं कार्यम्
तुल्‍यबलविरोधे परं कार्यं स्‍यात् । इति लोपे प्राप्‍ते । पूर्वत्रासिद्धमिति रोरीत्‍यस्‍यासिद्धत्‍वादुत्‍वमेव । मनोरथः ।।
११४ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
अककारयोरेतत्तदोर्यः सुस्‍तस्‍य लोपो हलि न तु नञ्समासे । एष विष्‍णुः । स शम्‍भुः । अकोः किम् ? एषको रुद्रः । अनञ्समासे किम् ? असः शिवः । हलि किम् ? एषोऽत्र ।।
११५ सोऽचि लोपे चेत्‍पादपूरणम्
स इत्‍यस्‍य सोर्लोपः स्‍यादचि पादश्‍चेल्‍लोपे सत्‍येव पूर्येत । सेमामविड्ढ प्रभृतिम् । सैष दाशरथी रामः ।।
इति विसर्गसन्‍धिः ।।
इति पञ्चसन्‍धिप्रकरणम् ।

                                अथ षड्लङ्गेषु अजन्‍तपुँल्‍लिङ्गाः

११६ अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्
धातुं प्रत्‍ययं प्रत्‍ययान्‍तं च वर्जयित्‍वा अर्थवच्‍छब्‍दस्‍वरूपं प्रातिपदिकसंज्ञं स्‍यात् ।।
११७ कृत्तद्धितसमासाश्‍च
कृत्तद्धितान्‍तौ समासाश्‍च तथा स्‍युः ।।
११८ स्‍वौजसमौट्छष्‍टाभ्‍याम्‍भिस्‍ङेभ्‍याम्‍भ्‍यस्‍ङसिभ्‍याम्‍भ्‍यस्‍ङसोसाम्‍ङ्योस्‍सुप्
सु औ जस् इति प्रथमा । अम् औट् शस् इति द्वितीया । टा भ्‍याम् भिस् इति तृतीया । ङे भ्‍याम् भ्‍यस् इति चतुर्थी । ङसि भ्‍याम् भ्‍यस् इति पञ्चमी । ङस् ओस् आम् इति षष्‍ठी । ङि ओस् सुप् इति सप्‍तमी ।।
११९ ङ्याप्‍प्रातिपदिकात्
१२० प्रत्‍ययः
१२१ परश्‍च
इत्‍यधिकृत्‍य । ङ्यन्‍तादाबन्‍तात्‍प्रातिपदिकाच्‍च परे स्‍वादयः प्रत्‍ययाः स्‍युः ।।
१२२ सुपः
सुपस्‍त्रीणि त्रीणि वचनान्‍येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्‍युः ।।
१२३ द्व्‍येकयोर्द्विवचनैकवचने
द्वित्‍वैकत्‍वयोरेते स्‍तः ।।
१२४ विरामोऽवसानम्
वर्णानामभावोऽवसानसंज्ञः स्‍यात् । रुत्‍वविसर्गौ । रामः ।।
१२५ सरूपाणामेकशेष एकविभक्तौ
एकविभक्तौ यानि सरूपाण्‍येव दृष्‍टानि तेषामेक एव शिष्‍यते ।।
१२६ प्रथमयोः पूर्वसवर्णः
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्‍यात् । इति प्राप्‍ते ।।
१२७ नादिचि
आदिचि न पूर्वसवर्णदीर्घः । वृद्धिरेचि । रामौ ।।
१२८ बहुषु बहुवचनम्
बहुत्‍वविवक्षायां बहुवचनं स्‍यात् ।।
१२९ चुटू
प्रत्‍ययाद्यौ चुटू इतौ स्‍तः ।।
१३० विभक्तिश्‍च
सुप्‍तिङौ विभक्तिसंज्ञौ स्‍तः ।।
१३१ न विभक्तौ तुस्‍माः
विभक्तिस्‍थास्‍तवर्गसमा नेतः । इति सस्‍य नेत्त्वम् । रामाः ।।
१३२ एकवचनं सम्‍बुद्धिः
सम्‍बोधने प्रथमाया एकवचनं सम्‍बुद्धिसंज्ञं स्‍यात् ।।
१३३ यस्‍मात्‍प्रत्‍ययविधिस्‍तदादि प्रत्‍ययेऽङ्गम्
यः प्रत्‍ययो यस्‍मात् क्रियते तदादिशब्‍दस्‍वरूपं तस्‍मिन्नङ्गं स्‍यात् ।।
१३४ एङ्ह्रस्‍वात्‍सम्‍बुद्धेः
एङन्‍ताद्ध्रस्‍वान्‍ताच्‍चाङ्गाद्धल्‍लुप्‍यते सम्‍बुद्धेश्‍चेत् । हे राम । हे रामौ । हे रामाः ।।
१३५ अमि पूर्वः
अकोऽम्‍यचि पूर्वरूपमेकादेशः । रामम् । रामौ ।।
१३६ लशक्‍वतद्धिते
तद्धितवर्जप्रत्‍ययाद्या लशकवर्गा इतः स्‍युः ।।
१३७ तस्‍माच्‍छसो नः पुंसि
पूर्वसवर्णदीर्घात्‍परो यः शसः सस्‍तस्‍य नः स्‍यात्‍पुंसि ।।
१३८ अट्कुप्‍वाङ्नुम्‍व्‍यवायेऽपि
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्‍तैर्यथासंभवं मिलितैश्‍च व्‍यवधानेऽपि रषाभ्‍यां परस्‍य नस्‍य णः समानपदे । इति प्राप्‍ते ।।
१३९ पदान्‍तस्‍य
नस्‍य णो न । रामान् ।।
१४० टाङसिङसामिनात्‍स्‍याः
अदन्‍ताट्टादीनामिनादयः स्‍युः । णत्‍वम् । रामेण ।।
१४१ सुपि च
यञादौ सुपि अतोऽङ्गस्‍य दीर्घः । रामाभ्‍याम् ।।
१४२ अतो भिस ऐस्
अनेकाल्‍शित्‍सर्वस्‍य । रामैः ।।
१४३ ङेर्यः
अतोऽङ्गात्‍परस्‍य ङेयदिशः ।।
१४४ स्‍थानिवदादेशोऽनल्‍विधौ
आदेशः स्‍थानिवत्‍स्‍यान्न तु स्‍थान्‍यलाश्रयविधौ । इति स्‍थानिवत्त्वात् सुपि चेति दीर्घः । रामाय । रामाभ्‍याम् ।।
१४५ बहुवचने झल्‍येत्
झलादौ बहुवचने सुप्‍यतोऽङ्गस्‍यैकारः । रामेभ्‍यः । सुपि किम् ? पचध्‍वम् ।।
१४६ वाऽवसाने
अवसाने झलां चरो वा । रामात्, रामाद् । रामाभ्‍याम् । रामेभ्‍यः । रामस्‍य ।।
१४७ ओसि च
अतोऽङ्गस्‍यैकारः । रामयोः ।।
१४८ ह्रस्‍वनद्यापो नुट्
ह्रस्‍वान्‍तान्नद्यन्‍तादाबन्‍ताच्‍चाङ्गात्‍परस्‍यामो नुडागमः ।।
१४९ नामि
अजन्‍ताङ्गस्‍य दीर्घः । रामाणाम् । रामे । रामयोः । सुपि एत्त्वे कृते ।।
१५० आदेशप्रत्‍यययोः
इण्‍कुभ्‍यां परस्‍यापदान्‍तस्‍यादेशस्‍य प्रत्‍ययावयवस्‍य यः सस्‍तस्‍य मूर्धन्‍यादेशः । ईषद्विवृतस्‍य सस्‍य तादृश एव षः । रामेषु । एवं कृष्‍णादयोऽप्‍यदन्‍ताः ।।
१५१ सर्वादीनि सर्वनामानि
सर्व विश्व उभ उभय डतर डतम अन्‍य अन्‍यतर इतर त्‍वत् त्‍व नेम सम सिम । पूर्वपरावरदिक्षणोत्तरापराधराणि व्‍यवस्‍थायामसंज्ञायाम् । स्‍वमज्ञातिधनाख्‍यायाम् । अन्‍तरं बहिर्योगोपसंव्‍यानयोः । त्‍यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्‍मद् अस्‍मद् भवतु किम् ।।
१५२ जसः शी
अदन्‍तात्‍सर्वनाम्‍नो जसः शी स्‍यात् । अनेकाल्‍त्‍वात्‍सर्वादेशः । सर्वे ।।
१५३ सर्वनाम्‍नः स्‍मै
अतः सर्वनाम्‍नो डेः स्‍मै । सर्वस्‍मै ।।
१५४ ङसिङ्योः स्‍मात्‍स्‍िमनौ
अतः सर्वनाम्‍न एतयोरेतौ स्‍तः । सर्वस्‍मात् ।।
१५५ आमि सर्वनाम्‍नः सुट्
अवर्णान्‍तात्‍परस्‍य सर्वनाम्‍नो विहितस्‍यामः सुडागमः । एत्‍वषत्‍वे । सर्वेषाम् । सर्वस्‍मिन् । शेषं रामवत् । एवं विश्वादयोऽप्‍यदन्‍ताः ।। उभशब्‍दो नित्‍यं द्विवचनान्‍तः । उभौ २ । उभाभ्‍याम् ३ । उभयोः २ । तस्‍येह पाठोऽकजर्थः । उभयशब्‍दस्‍य द्विवचनं नास्‍ति । उभयः । उभये । उभयम् । उभयान् । उभयेन । उभयैः । उभयस्‍मै । उभयेभ्‍यः । उभयस्‍मात् । उभयेभ्‍यः । उभयस्‍य । उभयेषाम् । उभयस्‍मिन् । उभयेषु ।। डतरडतमौ प्रत्‍ययौ, प्रत्‍ययग्रहणे तदन्‍तग्रहणमिति तदन्‍ता ग्राह्‍याः ।। नेम इत्‍यर्धे ।। समः सर्वपर्याय स्‍तुल्‍यपर्यायस्‍तु न, यथासंख्‍यमनुदेशः समानामिति ज्ञापकात् ।।
१५६ पूर्वपरावरदिक्षणोत्तरापराधराणि व्‍यवस्‍थायामसंज्ञायाम्
एतेषां व्‍यवस्‍थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्‍सर्वत्र या प्राप्‍ता सा जसि वा स्‍यात् । पूर्वे, पूर्वाः । असंज्ञायां किम् ? उत्तराः कुरवः । स्‍वाभिधेयापेक्षावधिनियमो व्‍यवस्‍था । व्‍यवस्‍थायां किम् ? दिक्षणा गाथकाः, कुशला इत्‍यर्थः ।।
१५७ स्‍वमज्ञातिधनाख्‍यायाम्
ज्ञातिधनान्‍यवाचिनः स्‍वशब्‍दस्‍य प्राप्‍ता संज्ञा जसि वा । स्‍वे, स्‍वाः; आत्‍मीयाः, आत्‍मान इति वा । ज्ञातिधनवाचिनस्‍तु, स्‍वाः; ज्ञातयोऽर्था वा ।।
१५८ अन्‍तरं बहिर्योगोपसंव्‍यानयोः
बाह्‍ये परिधानीये चार्थेऽन्‍तरशब्‍दस्‍य प्राप्‍ता संज्ञा जसि वा । अन्‍तरे, अन्‍तरा वा गृहाः; बाह्‍या इत्‍यर्थः । अन्‍तरे, अन्‍तरा वा शाटकाः; परिधानीया इत्‍यर्थः ।।
१५९ पूर्वादिभ्‍यो नवभ्‍यो वा
एभ्‍यो ङसिङ्योः स्‍मात्‍स्‍िमनौ वा स्‍तः । पूर्वस्‍मात्, पूर्वात् । पूर्वस्‍मिन्, पूर्वे । एवं परादीनाम् । शेषं सर्ववत् ।।
१६० प्रथमचरमतयाल्‍पार्द्धकतिपयनेमाश्‍च
एते जसि उक्तसंज्ञा वा स्‍युः । प्रथमे, प्रथमाः ।। तयः प्रत्‍ययः । द्वितये, द्वितयाः । शेषं रामवत् ।। नेमे, नेमाः । शेषं सर्ववत् ।। (तीयस्‍य ङित्‍सु वा) । द्वितीयस्‍मै, द्वितीयायेत्‍यादि । एवं तृतीयः ।। निर्जरः ।।
१६१ जराया जरसन्‍यतरस्‍याम्
जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ । (प) पदाङ्गाधिकारे तस्‍य च तदन्‍तस्‍य च । (प) निर्दिश्‍यमानस्‍यादेशा भवन्‍ति । (प) एकदेशविकृतमनन्‍यवत्, इति जरशब्‍दस्‍य जरस् । निर्जरसौ । निर्जरस इत्‍यादि । पक्षे हलादौ च रामवत् ।। विश्वपाः ।।
१६२ दीर्घाज्‍जसि च
दीर्घाज्‍जसि इचि च परे पूर्वसवर्णदीर्घो न स्‍यात् । विश्वपौ । विश्वपाः । हे विश्वपाः । विश्वपाम् । विश्वपौ ।।
१६३ सुडनपुंसकस्‍य
स्‍वादिपञ्चवचनानि सर्वनामस्‍थानसंज्ञानि स्‍युरक्‍लीबस्‍य ।।
१६४ स्‍वादिष्‍वसर्वनामस्‍थाने
कप्‍प्रत्‍ययावधिषु स्‍वादिष्‍वसर्वनामस्‍थानेषु पूर्वं पदं स्‍यात् ।।
१६५ यचि भम्
यादिष्‍वजादिषु च कप्‍प्रत्‍ययावधिषु स्‍वादिष्‍वसर्वनामस्‍थानेषु पूर्वं भसंज्ञं स्‍यात् ।।
१६६ आकडारादेका संज्ञा
इत ऊध्‍र्वं कडाराः कर्मधारय इत्‍यतः प्रागेकस्‍यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च ।।
१६७ आतो धातोः
आकारान्‍तो यो धातुस्‍तदन्‍तस्‍य भस्‍याङ्गस्‍य लोपः । अलोऽन्‍त्‍यस्‍य । विश्वपः । विश्वपा । विश्वपाभ्‍यामित्‍यादि । एवं शङ्खध्‍मादयः । धातोः किम् ? हाहान् ।। हरिः । हरी ।।
१६८ जसि च
ह्रस्‍वान्‍तस्‍याङ्गस्‍य गुणः । हरयः ।।
१६९ ह्रस्‍वस्‍य गुणः
सम्‍बुद्धौ । हे हरे । हरिम् । हरी । हरीन् ।।
१७० शेषो घ्‍यसखि
शेष इति स्‍पष्‍टार्थम् । ह्रस्‍वौ याविदुतौ तदन्‍तं सखिवर्जं घिसंज्ञम् ।।
१७१ आङो नाऽस्‍त्रियाम्
घेः परस्‍याङो ना स्‍यादस्‍त्रियाम् । आङिति टासंज्ञा । हरिणा । हरिभ्‍याम् । हरिभिः ।।
१७२ घेर्ङिति
घिसंज्ञस्‍य ङिति सुपि गुणः । हरये । हरिभ्‍याम् । हरिभ्‍यः ।।
१७३ ङसिङसोश्‍च
एङो ङसिङसोरति पूर्वरूपमेकादेशः । हरेः २ । हर्योः २ । हरीणाम् ।।
१७४ अच्‍च घेः
इदुद्भ्‍यामुत्तरस्‍य ङेरौत्, घेरच्‍च । हरौ । हरिषु । एवं कव्‍यादयः ।।
१७५ अनङ् सौ
सख्‍युरङ्गस्‍यानङादेशोऽसम्‍बुद्धौ सौ ।।
१७६ अलोऽन्‍त्‍यात्‍पूर्व उपधा
अन्‍त्‍यादलः पूर्वो वर्ण उपधासंज्ञः ।।
१७७ सर्वनामस्‍थाने चासम्‍बुद्धौ
नान्‍तस्‍योपधाया दीर्घोऽसम्‍बुद्धौ सर्वनामस्‍थाने ।।
१७८ अपृक्त एकाल् प्रत्‍ययः
एकाल् प्रत्‍ययो यः सोऽपृक्तसंज्ञः स्‍यात् ।।
१७९ हल्‍ङ्याब्‍भ्‍यो दीर्घात्‍सुतिस्‍यपृक्तं हल्
हलन्‍तात्‍परं दीर्घौ यौ ङ्यापौ तदन्‍ताच्‍च परं सुतिसीत्‍येतदपृक्तं हल् लुप्‍यते ।।
१८० नलोपः प्रातिपदिकान्‍तस्‍य
प्रातिपदिकसंज्ञकं यत्‍पदं तदन्‍तस्‍य नस्‍य लोपः । सखा ।।
१८१ सख्‍युरसंबुद्धौ
सख्‍युरङ्गात्‍परं संबुद्धिवर्जं सर्वनामस्‍थानं णिद्वत्‍स्‍यात् ।।
१८२ अचो ञ्णिति
अजन्‍ताङ्गस्‍य वृद्धिर्ञिति णिति च परे । सखायौ । सखायः । हे सखे । सखायम् । सखायौ । सखीन् । सख्‍या । सख्‍ये ।।
१८३ ख्‍यत्‍यात्‍परस्‍य
खितिशब्‍दाभ्‍यां खीतीशब्‍दाभ्‍यां कृतयणादेशाभ्‍यां परस्‍य ङसिङसोरत उः । सख्‍युः ।।
१८४ औत्
इतः परस्‍य ङेरौत् । सख्‍यौ । शेषं हरिवत् ।।
१८५ पतिः समास एव
घिसंज्ञः । पत्‍युः २ । पत्‍यौ । शेषं हरिवत् । समासे तु भूपतये । कतिशब्‍दो नित्‍यं बहुवचनान्‍तः ।।
१८६ बहुगणवतुडति संख्‍या
१८७ डति च
डत्‍यन्‍ता संख्‍या षट्संज्ञा स्‍यात् ।।
१८८ षड्भ्‍यो लुक्
जश्‍शसोः ।।
१८९ प्रत्‍ययस्‍य लुक्‍श्‍लुलुपः
लुक्‍श्‍लुलुप्‍शब्‍दैः कृतं प्रत्‍ययादर्शनं क्रमात्तत्तत्‍संज्ञं स्‍यात् ।।
१९० प्रत्‍ययलोपे प्रत्‍ययलक्षणम्
प्रत्‍यये लुप्‍ते तदाश्रितं कार्यं स्‍यात् । इति जसि चेति गुणे प्राप्‍ते ।।
१९१ न लुमताऽङ्गस्‍य
लुमता शब्‍देन लुप्‍ते तन्निमित्तमङ्गकार्यं न स्‍यात् । कति २ । कतिभिः । कतिभ्‍यः २ । कतीनाम् । कतिषु । युष्‍मदस्‍मत्‍षट्संज्ञकास्‍त्रिषु सरूपाः ।। त्रिशब्‍दो नित्‍यं बहुवचनान्‍तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्‍यः २ ।।
१९२ त्रेस्‍त्रयः
त्रिशब्‍दस्‍य त्रयादेशः स्‍यादामि । त्रयाणाम् । त्रिषु । गौणत्‍वेऽपि प्रियत्रयाणाम् ।।
१९३ त्‍यदादीनामः
एषामकारो विभक्तौ । (द्विपय्‍र्यन्‍तानामेवेष्‍टिः) । द्वौ २ । द्वाभ्‍याम् ३ । द्वयोः २ ।। पाति लोकमिति पपीः सूर्यः ।।
१९४ दीर्घाज्‍जसि च
पप्‍यौ २ । पप्‍यः । हे पपीः । पपीम् । पपीन् । पप्‍या । पपीभ्‍याम् ३ । पपीभिः । पप्‍ये । पपीभ्‍यः २ । पप्‍यः २ । पप्‍योः । दीर्घत्‍वान्न नुट्, पप्‍याम् । ङौ तु सवर्णदीर्घः, पपी । पप्‍योः । पपीषु । एवं वातप्रम्‍यादयः ।। बह्‍व्‍यः श्रेयस्‍यो यस्‍य स बहुश्रेयसी ।।
१९५ यू स्‍त्र्याख्‍यौ नदी
ईदूदन्‍तौ नित्‍यस्‍त्रीलिङ्गौ नदीसंज्ञौ स्‍तः । (प्रथमलिङ्गग्रहणं च) । पूर्वं स्‍त्र्याख्‍यस्‍योपसर्जनत्‍वेऽपि नदीत्‍वं वक्तव्‍यमित्‍यर्थः ।।
१९६ अम्‍बार्थनद्योर्ह्रस्‍वः
सम्‍बुद्धौ । हे बहुश्रेयसि ।।
१९७ आण्‍नद्याः
नद्यन्‍तात्‍परेषां ङितामाडागमः ।।
१९८ आटश्‍च
आटोऽचि परे वृद्धिरेकादेशः । बहुश्रेयस्‍यै । बहुश्रेयस्‍याः । बहुश्रेयसीनाम् ।।
१९९ ङेराम्‍नद्याम्‍नीभ्‍यः
नद्यन्‍तादाबन्‍तान्नीशब्‍दाच्‍च परस्‍य ङेराम् । बहुश्रेयस्‍याम् । शेषं पपीवत् ।। अङ्यन्‍तत्‍वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् ।। प्रधीः ।।
२०० अचि श्‍नुधातुभ्रुवां य्‍वोरियङुवङौ
श्‍नु प्रत्‍ययान्‍तस्‍येवर्णोवर्णान्‍तस्‍य धातोर्भ्रू इत्‍यस्‍य चाङ्गस्‍य चेयङुवङौ स्‍तोऽजादौ प्रत्‍यये परे । इति प्राप्‍ते ।।
२०१ एरनेकाचोऽसंयोगपूर्वस्‍य
धात्‍ववयवसंयोगपूर्वो न भवति य इवर्णस्‍तदन्‍तो यो धातुस्‍तदन्‍तस्‍यानेकाचोऽङ्गस्‍य यणजादौ प्रत्‍यये । प्रध्‍यौ । प्रध्‍यः । प्रध्‍यम् । प्रध्‍यौ । प्रध्‍यः । प्रध्‍यि । शेषं पपीवत् । एवं ग्रामणीः । ङौ तु ग्रामण्‍याम् ।। अनेकाचः किम् ? नीः । नियौ । नियः । अमि शसि च परत्‍वादियङ्, नियम् । ङेराम्; नियाम् ।। असंयोगपूर्वस्‍य किम् ? सुश्रियौ । यवक्रियौ ।।
२०२ गतिश्‍च
प्रादयः क्रियायोगे गतिसंज्ञाः स्‍युः । (गतिकारकेतरपूर्वपदस्‍य यण् नेष्‍यते) । शुद्धधियौ ।।
२०३ न भूसुधियोः
एतयोरचि सुपि यण्‍न । सुधियौ । सुधिय इत्‍यादि ।। सुखमिच्‍छतीति सुखीः । सुतीः । सुख्‍यौ । सुत्‍यौ । सुख्‍युः । सुत्‍युः । शेषं प्रधीवत् । शम्‍भुर्हरिवत् । एवं भान्‍वादयः ।।
२०४ तृज्‍वत्‍क्रोष्‍टुः
असम्‍बुद्धौ सर्वनामस्‍थाने परे । क्रोष्‍टुशब्‍दस्‍य स्‍थाने क्रोष्‍टृशब्‍दः प्रयोक्तव्‍य इत्‍यर्थः ।।
२०५ ऋतो ङिसर्वनामस्‍थानयोः
ऋतोऽङ्गस्‍य गुणो ङौ सर्वनामस्‍थाने च । इति प्राप्‍ते
२०६ ऋदुशनस्‍पुरुदंसोऽनेहसां च
ऋदन्‍तानाम् उशनसादीनाम् च अनङ् स्‍यात् असंबुद्धौ सौ ।।
२०७ अप्‍तृन्‍तृच्‍स्‍वसृनप्‍तृनेष्‍टृत्‍वष्‍टृक्षत्तृहोतृपोतृप्रशास्‍तॄणाम्
अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्‍थाने । क्रोष्‍टा । क्रोष्‍टारौ । क्रोष्‍टारः । क्रोष्‍टून् ।।
२०८ विभाषा तृतीयादिष्‍वचि
अजादिषु तृतीयादिषु क्रोष्‍टुर्वा तृज्‍वत् । क्रोष्‍ट्रा । क्रोष्‍ट्रे ।।
२०९ ऋत उत्
ऋतो ङसिङसोरति उदेकादेशः । रपरः ।।
२१० रात्‍सस्‍य
रेफात्‍संयोगान्‍तस्‍य सस्‍यैव लोपो नान्‍यस्‍य । रस्‍य विसर्गः । क्रोष्‍टुः २ । क्रोष्‍ट्रोः २ । (नुमचिरतृज्‍वद्भावेभ्‍यो नुट् पूर्वविप्रतिषेधेन) । क्रोष्‍टूनाम् । क्रोष्‍टरि । पक्षे हलादौ च शम्‍भुवत् ।। हूहूः । हूह्‍वौ । हूह्‍वः । हूहूम् इत्‍यादि ।। अतिचमूशब्‍दे तु नदीकाय्‍र्यं विशेषः । हे अतिचमु । अतिचम्‍वै । अतिचम्‍वाः । अतिचमूनाम् ।। खलपूः ।।
२११ ओः सुपि
धात्‍ववयवसंयोगपूर्वो न भवति य उवर्णस्‍तदन्‍तो यो धातुस्‍तदन्‍तस्‍यानेकाचोऽङ्गस्‍य यण् स्‍यादचि सुपि । खलप्‍वौ । खलप्‍वः । एवं सुल्‍वादयः ।। स्‍वभूः । स्‍वभुवौ । स्‍वभुवः ।। वर्षाभूः ।।
२१२ वर्षाभ्‍वश्‍च
अस्‍य यण् स्‍यादचि सुपि । वर्षाभ्‍वावित्‍यादि ।। दृन्‍भूः । (दृन्‍करपुनः पूर्वस्‍य भुवो यण् वक्तव्‍यः) । दृन्‍भ्‍वौ । एवं करभूः ।। धाता । हे धातः । धातारौ । धातारः । (ऋवर्णान्‍नस्‍य णत्‍वं वाच्‍यम्) । धातॄणाम् । एवं नप्‍त्रादयः ।। नप्‍त्रादिग्रहणं व्‍युत्‍पत्तिपक्षे नियमार्थम् । तेनेह न । पिता । पितरौ । पितरः । पितरम् । शेषं धातृवत् । एवं जामात्रादयः ।। ना । नरौ ।।
२१३ नृ च
अस्‍य नामि वा धीर्घः । नृणाम् । नॄणाम् ।।
२१४ गोतो णित्
ओकाराद्विहितं सर्वनामस्‍थानं णिद्वत् । गौः । गावौ । गावः ।।
२१५ औतोऽम्‍शसोः
ओतोऽम्‍शसोरचि आकार एकादेशः । गाम् । गावौ । गाः । गवा । गवे । गोः । इत्‍यादि ।।
२१६ रायो हलि
अस्‍याकारादेशो हलि विभक्तौ । राः । रायौ । रायः । राम्‍यामित्‍यादि ।। ग्‍लौः । ग्‍लावौ । ग्‍लावः । ग्‍लौभ्‍यामित्‍यादि ।।
इत्‍यजन्‍तपुँल्‍लिङ्गाः ।

                                         अथाजन्‍तस्‍त्रीलिङ्गाः

रमा ।
२१७ औङ आपः
आबन्‍तादङ्गात्‍परस्‍ययौङः शी स्‍यात् । औङित्‍यौकारविभक्तेः संज्ञा । रमे । रमाः ।।
२१८ सम्‍बुद्धौ च
आप एकारः स्‍यात्‍सम्‍बुद्धौ । एङ्ह्रस्‍वादिति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः ।।
२१९ आङि चापः
आङि ओसि चाप एकारः । रमया । रमाभ्‍याम् । रमाभिः ।।
२२० याडापः
आपो ङितो याट् । वृद्धिः । रमायै । रमाभ्‍याम् । रमाभ्‍यः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमासु । एवं दुर्गाम्‍बिकादयः ।।
२२१ सर्वनाम्‍नः स्‍याड्ढ्रस्‍वश्‍च
आबन्‍तात्‍सर्वनाम्‍नो ङितः स्‍याट् स्‍यादापश्‍च ह्रस्‍वः । सर्वस्‍यै । सर्वस्‍याः । सर्वासाम् । सर्वस्‍याम् । शेषं रमावत् ।। एवं विश्वादय आबन्‍ताः ।।
२२२ विभाषा दिक्‍समासे बहुव्रीहौ
सर्वनामता वा । उत्तरपूर्वस्‍यै, उत्तरपूर्वायै । तीयस्‍येति वा सर्वनामसंज्ञा । द्वितीयस्‍यै, द्वितीयायै ।। एवं तृतीया ।। अम्‍बार्थेति ह्रस्‍वः । हे अम्‍ब । हे अक्‍क । हे अल्‍ल ।। जरा । जरसौ इत्‍यादि । पक्षे रमावत् ।। गोपाः, विश्वपावत् ।। मतीः । मत्‍या ।।
२२३ ङिति ह्रस्‍श्‍च
इयङुवङ्स्‍थानौ स्‍त्रीशब्‍दभिन्नौ नित्‍यस्‍त्रीलिङ्गावीदूतौ, ह्रस्‍वौ चेवर्णोवर्णौ, स्‍त्रियां वा नदीसंज्ञौ स्‍तो ङिति । मत्‍यै, मतये । मत्‍याः २ । मतेः २ ।।
२२४ इदुद्भ्‍याम्
इदुद्भ्‍यां नदीसंज्ञकाभ्‍यां परस्‍य ङेराम् । मत्‍याम्, मतौ । शेषं हरिवत् ।। एवं बुद्ध्‍यादयः ।।
२२५ त्रिचतुरोः स्‍त्रियां तिसृचतसृ
स्‍त्रीलिङ्गयोरेतौ स्‍तो विभक्तौ ।।
२२६ अचि र ऋतः
तिसृ चतसृ एतयोर्ऋकारस्‍य रेफादेशः स्‍यादचि । गुणदीर्घोत्‍वानामपवादः । तिस्रः । तिसृभ्‍यः । तिसृभ्‍यः । आमि नुट् ।।
२२७ न तिसृचतसृ
एतयोर्नामि दीर्घो न । तिसृणाम् । तिसृषु ।। द्वे । द्वे । द्वाभ्‍याम् । द्वाभ्‍याम् । द्वाभ्‍याम् । द्वयोः । द्वयोः ।। गौरी । गौय्‍र्यौ । गौय्‍र्यः । हे गौरि । गौय्‍र्यै इत्‍यादि । एवं नद्यादयः ।। लक्ष्मीः । शेषं गौरीवत् ।। एवं तरीतन्‍त्र्यादयः ।। स्‍त्री । हे स्‍त्रि ।।
२२८ स्‍त्रियाः
अस्‍येयङ् स्‍यादजादौ प्रत्‍यये परे । स्‍त्रियौ । स्‍त्रियः ।।
२२९ वाम्‍शसोः
अमि शसि च स्‍त्रिया इयङ् वा स्‍यात् । स्‍त्रियम्, स्‍त्रीम् । स्‍त्रियः, स्‍त्रीः । स्‍त्रिया । स्‍त्रियै । स्‍त्रियाः । परत्‍वान्नुट् । स्‍त्रीणाम् । स्‍त्रीषु ।। श्रीः । श्रियौ । श्रियाः ।।
२३० नेयङुवङ्स्‍थानावस्‍त्री
इयङुवङोः स्‍थितिर्ययोस्‍तावीदूतौ नदीसंज्ञौ न स्‍तो न तु स्‍त्री । हे श्रीः । श्रियै, श्रिये । श्रियाः, श्रियः ।।
२३१ वामि
इयङुवङ्स्‍थानौ स्‍त्र्याख्‍यौ यू आमि वा नदीसंज्ञौ स्‍तो न तु स्‍त्री । श्रीणाम्, श्रियाम् । श्रियि, श्रियाम् ।। धेनुर्मतिवत् ।।
२३२ स्‍त्रियां च
स्‍त्रीवाची क्रोष्‍टुशब्‍दस्‍तृजन्‍तवद्रूपं लभते ।।
२३३ ऋन्नेभ्‍यो ङीप्
ऋदन्‍तेभ्‍यो नान्‍तेभ्‍यश्‍च स्‍त्रियां ङीप् । क्रोष्‍ट्री गौरीवत् ।। भ्रूः श्रीवत् ।। स्‍वयम्‍भूः पुंवत् ।।
२३४ न षट्स्‍वस्रादिभ्‍यः
ङीप्‍टापौ न स्‍तः ।।
स्‍वसा तिस्रश्‍चतस्रश्‍च ननान्‍दा दुहिता तथा ।
याता मातेति सप्‍तैते स्‍वस्रादय उदाहृताः ।।
स्‍वसा । स्‍वसारौ ।। माता पितृवत् । शसि मातॄः ।। द्यौर्गोवत् ।। राः पुंवत् ।। नौग्‍र्लौवत् ।।
इत्‍यजन्‍तस्‍त्रीलिङ्गाः

                                         अथाजन्‍तनपुंसकलिङ्गाः

२३५ अतोऽम्
अतोऽङ्गात् क्‍लीबात्‍स्‍वमोरम् । अमि पूर्वः । ज्ञानम् । एङ्ह्रस्‍वादिति हल्‍लोपः । हे ज्ञान।।
२३६ नपुंसकाच्‍च
क्‍लीबादौङः शी स्‍यात् । भसंज्ञायाम् ।।
२३७ यस्‍येति च
कडारे तद्धिते च परे भस्‍येवर्णावर्णयोर्लोपः । इत्‍यल्‍लोपे प्राप्‍ते (औङः श्‍यां प्रतिषेधो वाच्‍यः) । ज्ञाने ।।
२३८ जश्‍शसोः शिः
क्‍लीबादनयोः शिः स्‍यात् ।।
२३९ शि सर्वनामस्‍थानम्
शि इत्‍येतदुक्तसंज्ञं स्‍यात् ।।
२४० नपुंसकस्‍य झलचः
झलन्‍तस्‍याजन्‍तस्‍य च क्‍लीबस्‍य नुम् स्‍यात् सर्वनामस्‍थाने ।।
२४१ मिदचोऽन्‍त्‍यात्‍परः
अचां मध्‍ये योऽन्‍त्‍यस्‍तस्‍मात्‍परस्‍तस्‍यैवान्‍तावयवो मित्‍स्‍यात् । उपधादीर्घः । ज्ञानानि । पुनस्‍तद्वत् । शेषं पुंवत् ।। एवं धन वन फलादयः ।।
२४२ अद्ड्डतरादिभ्‍यः पञ्चभ्‍यः
एभ्‍यः क्‍लीबेभ्‍यः स्‍वमोः अद्डादेशः स्‍यात् ।।
२४३ टेः
डिति भस्‍य टेर्लोपः । कतरत्, कतरद् । कतरे । कतराणि । हे कतरत् । शेषं पुंवत् ।। एवं कतमत् । इतरत् । अन्‍यत् । अन्‍यतरत् । अन्‍यतमस्‍य त्‍वन्‍यतममित्‍येव । (एकतरात्‍प्रतिषेधो वक्तव्‍यः)। एकतरम् ।।
२४४ ह्रस्‍वो नपुंसके प्रातिपदिकस्‍य
अजन्‍तस्‍येत्‍येव । श्रीपं ज्ञानवत् ।।
२४५ स्‍वमोर्नपुंसकात्
लुक् स्‍यात् । वारि ।।
२४६ इकोऽचि विभक्तौ
इगन्‍तस्‍य क्‍लीबस्‍य नुमचि विभक्तौ । वारिणी । वारीणि । न लुमतेत्‍यस्‍यानित्‍यत्‍वात्‍पक्षे संबुद्धिनिमित्तो गुणः । हे वारे, हे वारि । घेर्ङितीति गुणे प्राप्‍ते (वृद्ध्‍यौत्त्वतृज्‍वद्भावगुणेभ्‍यो नुम् पूर्वविप्रतिषेधेन) । वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । वारीणाम् । वारिणि । हलादौ हरिवत् ।।
२४७ अस्‍थिदधिसक्‍थ्‍यक्ष्णामनङुदात्तः
एषामनङ् स्‍याट्टादावचि ।।
२४८ अल्‍लोपोऽनः
अङ्गावयवोऽसर्वनामस्‍थानयजादिस्‍वादिपरो योऽन् तस्‍याकारस्‍य लोपः । दध्‍ना । दध्‍ने । दध्‍नः । दध्‍नः । दध्‍नोः । दध्‍नोः ।।
२४९ विभाषा ङिश्‍योः
अङ्गावयवोऽसर्वनामस्‍थानयजादिस्‍वादिपरो योऽन् तस्‍याकारस्‍य लोपो वा स्‍याङत् ङिश्‍योः परयोः । दध्‍नि, दधनि । शेषं वारिवत् ।। एवमस्‍थिसक्‍थ्‍यिक्ष ।। सुधि । सुधिनी । सुधीनि । हे सुधे, हे सुधि ।।
२५० तृतीयादिषु भाषितपुंस्‍कं पुंवद्गालवस्‍य
प्रवृत्तिनिमित्तैक्‍ये भाषितपुंस्‍कमिगन्‍तं क्‍लीबं पुंवद्वा टादावचि । सुधिया, सुधिनेत्‍यादि ।। मधु । मधुनी । मधूनि । हे मधो, हे मधु ।। सुलु । सुलुनी । सुलूनि । सुलुनेत्‍यादि ।। धातृ । धातृणी । धातॄणि । हे धातः, हे धातृ । धातॄणाम् ।। एवं ज्ञात्रादयः ।।
२५१ एच इग्‍घ्रस्‍वादेशे
आदिश्‍यमानेषु ह्रस्‍वेषु एच इगेव स्‍यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्‍यादि ।। प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतमनन्‍यवत् । प्रराभ्‍याम् । प्ररीणाम् ।। सुनु । सुनुनी । सुनूनि । सुनुनेत्‍यादि ।।
इत्‍यजन्‍तनपुंसकलिङ्गाः ।
अथ हलन्‍त पुँल्‍लिङ्गाः
२५२ हो ढः
हस्‍य ढः स्‍याज्‍झलि पदान्‍ते च । लिट्, लिड् । लिहौ । लिहः । लिड्भ्‍याम् । लिट्त्‍सु, लिट्सु ।।
२५३ दादेर्धातोर्घः
झलि पदान्‍ते चोपदेशे दादेर्धातेर्हस्‍य घः ।।
२५४ एकाचो बशो भष् झषन्‍तस्‍य स्‍ध्‍वोः
धात्‍ववयवस्‍यैकाचो झषन्‍तस्‍य बशो भष् से ध्‍वे पदान्‍ते च । धुक्, धुग् । दुहौ । दुहः । धुग्‍भ्‍याम् । धुक्षु ।।
२५५ वा द्रुहमुहष्‍णुहष्‍णिहाम्
एषां हस्‍य वा घो झलि पदान्‍ते च । ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्‍भ्‍याम्, ध्रुड्भ्‍याम् । ध्रुक्षु, ध्रुट्त्‍सु, ध्रुट्सु ।। एवं मुक्, मुग् इत्‍यादि ।।
२५६ धात्‍वादेः षः सः
स्‍नुक्, स्‍नुग्, स्‍नुट्, स्‍नुड् । एवं स्‍निक्, स्‍निग्, स्‍निट्, स्‍निड् ।। विश्ववाट्, विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ।।
२५७ इग्‍यणः संप्रसारणम्
यणः स्‍थाने प्रयुज्‍यमानो य इक् स संप्रसारणसंज्ञः स्‍यात् ।।
२५८ वाह ऊठ्
भस्‍य वाहः संप्रसारणमूठ् ।।
२५९ संप्रसारणाच्‍च
संप्रसारणादचि पूर्वरूपमेकादेशः । एत्‍येधत्‍यूिठ्स्‍वति वृद्धिः । विश्वौहः, इत्‍यादि ।।
२६० चतुरनडुहोरामुदात्तः
अनयोराम् स्‍यात्‍सर्वनामस्‍थाने परे ।।
२६१ सावनडुहः
अस्‍य नुम् स्‍यात् सौ परे । अनड्वान् ।।
२६२ अम् संबुद्धौ
हे अनड्वन् । हे अनड्वाहौ । हे अनड्वाहः । अनडुहः । अनडुहा ।।
२६३ वसुस्रंसुध्‍वंस्‍वनडुहां दः
सान्‍तवस्‍वन्‍तस्‍य स्रंसादेश्‍च दः स्‍यात्‍पदान्‍ते । अनडुद्भ्‍यामित्‍यादि ।। सान्‍तेति किम् ? विद्वान् । पदान्‍ते किम् ? स्रस्‍तम् ।
ध्‍वस्‍तम् ।।
२६४ सहेः साडः सः
साडू्रपस्‍य सहेः सस्‍य मूर्धन्‍यादेशः । तुराषाट्, तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्‍यामित्‍यादि ।।
२६५ दिव औत्
दिविति प्रातिपदिकस्‍यौत्‍स्‍यात्‍सौ । सुद्यौः । सुदिवौ ।।
२६६ दिव उत्
दिवोऽन्‍तादेश उकारः स्‍यात् पदान्‍ते । सुद्युभ्‍यामित्‍यादि ।। चत्‍वारः । चतुरः । चतुर्भिः । चतुभ्‍र्यः ।।
२६७ षट्चतुभ्‍र्यश्‍च
एभ्‍य आमो नुडागमः ।।
२६८ रषाभ्‍यां नो णः समानपदे
२६९ अचो रहाभ्‍यां द्वे
अचः पराभ्‍यां रेफहकाराभ्‍यां परस्‍य यरो द्वे वा स्‍तः । चतुण्‍र्णाम्, चतुर्णाम् ।।
२७० रोः सुपि
रोरेव विसर्गः सुपि । षत्‍वम् । षस्‍य द्वित्‍वे प्राप्‍ते ।।
२७१ शरोऽचि
अचि परे शरो न द्वे स्‍तः । चतुर्षु ।।
२७२ मो नो धातोः
धातोर्मस्‍य नः पदान्‍ते । प्रशान् ।।
२७३ किमः कः
किमः कः स्‍याद्विभक्तौ । कः । कौ । के इत्‍यादि । शेषं सर्ववत् ।।
२७४ इदमो मः
सौ । त्‍यदाद्यत्‍वापवादः ।।
२७५ इदोऽय् पुंसि
इदम इदोऽय् सौ पुंसि । अयम् । त्‍यदाद्यत्‍वे ।।
२७६ अतो गुणे
अपदान्‍तादतो गुणे पररूपमेकादेशः ।।
२७७ दश्‍च
इदमो दस्‍य मः स्‍याद्विभक्तौ । इमौ । इमे । त्‍यदादेः सम्‍बोधनं नास्‍तीत्‍युत्‍सर्गः ।।
२७८ अनाप्‍यकः
अककारस्‍येदम इदोऽनापि विभक्तौ । आबिति प्रत्‍याहारः । अनेन ।।
२७९ हलि लोपः
अककारस्‍येदम इदो लोप आपि हलादौ । नानर्थकेऽलोऽन्‍त्‍यविधिरनभ्‍यासविकारे ।।
२८० आद्यन्‍तवदेकस्‍मिन्
एकस्‍मिन्‍क्रियमाणं कार्यमादाविवान्‍त इव स्‍यात् । सुपि चेति दीर्घः । आभ्‍याम् ।।
२८१ नेदमदसोरकोः
अककारयोरिदमदसोर्भिस ऐस् न । एभिः । अस्‍मै । एभ्‍यः । अस्‍मात् । अस्‍य । अनयोः । एषाम् । अस्‍मिन् । अनयोः । एषु ।।
२८२ द्वितीयाटौस्‍स्‍वेनः
इदमेतदोरन्‍वादेशे । किञ्चित्‍कार्यं विधातुमुपात्तस्‍य कार्यान्‍तरं विधातुं पुनरुपादानमन्‍वादेशः । यथा अनेन व्‍याकरणमधीत मेनं छन्‍दोऽध्‍यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्‍वामिति ।। एनम् । एनौ । एनान् । एनेन । एनयोः । एनयोः ।। राजा ।।
२८३ न ङिसम्‍बुद्ध्‍योः
नस्‍य लोपो न ङौ सम्‍बुद्धौ च । हे राजन् । (ङावुत्तरपदे प्रतिषेधो वक्तव्‍यः) । ब्रह्‍मनिष्‍ठः । राजानौ । राजानः । राज्ञः ।।
२८४ नलोपः सुप्‍स्‍वरसंज्ञातुग्‍विधिषु कृति
सुब्‍विधौ स्‍वरविधौ संज्ञाविधौ कृति तुग्‍विधौ च नलोपोऽसिद्धो नान्‍यत्र राजाश्व इत्‍यादौ । इत्‍यसिद्धत्‍वादात्‍वमेत्त्वमैस्‍त्‍वं च न । राजभ्‍याम् । राजभिः । राज्ञि, राजनि । राजसु ।। यज्‍वा । यज्‍वानौ । यज्‍वानः ।।
२८५ न संयोगाद्वमन्‍तात्
वमन्‍तसंयोगादनोऽकारस्‍य लोपो न । यज्‍वनः । यज्‍वा । यज्‍वभ्‍याम् ।। ब्रह्‍मणः । ब्रह्‍मणा ।।
२८६ इन्‍हन्‍पूषार्यम्‍णां शौ
एषां शावेवोपधाया दीर्घो नान्‍यत्र । इति निषेधे प्राप्‍ते
२८७ सौ च
इन्नादीनामुपधाया दीर्घोऽसंबुद्धौ सौ । वृत्रहा । हे वृत्रहन् ।।
२८८ एकाजुत्तरपदे णः
एकाजुत्तपरदं यस्‍य तस्‍मिन्‍समासे पूर्वपदस्‍थान्निमित्तात्‍परस्‍य प्रतिपदिकान्‍तनुम्‍विभक्तिस्‍थस्‍य नस्‍य णः । वृत्रहणौ ।।
२८९ हो हन्‍तेञ्णर्न्निेषु
ञिति णिति प्रत्‍यये नकारे च परे हन्‍तेर्हकारस्‍य कुत्‍वम् । वृत्रघ्‍नः इत्‍यादि । एवं शाङिर््गन्, यशस्‍विन्, अर्यमन्, पूषन् ।।
२९० मघवा बहुलम्
मघवन्‍शब्‍दस्‍य वा तृ इत्‍यन्‍तादेशः । ऋ इत् ।।
२९१ उगिदचां सर्वनामस्‍थानेऽधातोः
अधातोरुगितो नलोपिनोऽञ्चतेश्‍च नुम् स्‍यात्‍सर्वनामस्‍थाने परे । मघवान् । मघवन्‍तौ । मघवन्‍तः । हे मघवन् । मघवद्भ्‍याम् । तृत्‍वाभावे मघवा । सुटि राजवत् ।।
२९२ श्वयुवमघोनामतद्धिते
अन्नन्‍तानां भानामेषामतद्धिते संप्रसारणम् । मघोनः । मघवभ्‍याम् । एवं श्वन्, युवन् ।।
२९३ न संप्रसारणे संप्रसारणम्
संप्रसारणे परतः पूर्वस्‍य यणः संप्रसारणं न स्‍यात् । इति यकारस्‍य नेत्‍वम् । अत एव ज्ञापकादन्‍त्‍यस्‍य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्‍याम् इत्‍यादि ।। अर्वा । हे अर्वन् ।।
२९४ अर्वणस्‍त्रसावनञः
नञा रहितस्‍यार्वन्नित्‍यस्‍याङ्गस्‍य तृ इत्‍यन्‍तादेशो न तु सौ । अर्वन्‍तौ । अर्वन्‍तः । अर्वद्भ्‍यामित्‍यादि ।।
२९५ पथिमथ्‍यृभुक्षामात्
एषामाकारोऽन्‍तादेशः स्‍यात् सौ परे ।।
२९६ इतोऽत्‍सर्वनामस्‍थाने
पथ्‍यादेरिकारस्‍याकारः स्‍यात्‍सर्वनामस्‍थाने परे ।।
२९७ थो न्‍थः
पथिमथोस्‍थस्‍य न्‍थादेशः सर्वनामस्‍थाने । पन्‍थाः । पन्‍थानौ । पन्‍थानः ।।
२९८ भस्‍य टेर्लोपः
भस्‍य पथ्‍यादेष्‍टेर्लोपः । पथः । पथा । पथिभ्‍याम् ।। एवं मथिन्, ऋभुिक्षन् ।।
२९९ ष्‍णान्‍ता षट्
षान्‍ता नान्‍ता च संख्‍या षट्संज्ञा स्‍यात् । पञ्चन्‍शब्‍दो नित्‍यं बहुवचनान्‍तः । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्‍यः । पञ्चभ्‍यः ।
नुट् ।।
३०० नोपधायाः
नान्‍तस्‍योपधाया दीर्घो नामि । पञ्चानाम् । पञ्चसु ।।
३०१ अष्‍टन आ विभक्तौ
हलादौ वा स्‍यात् ।।
३०२ अष्‍टाभ्‍य औश्
कृताकारादष्‍टनो जश्‍शसोरौश् । अष्‍टभ्‍य इति वक्तव्‍ये कृतात्‍वनिर्देशो जश्‍शसोर्विषये आत्‍वं ज्ञापयति । अष्‍टौ । अष्‍टौ । अष्‍टाभिः । अष्‍टाभ्‍यः । अष्‍टाभ्‍यः । अष्‍टानाम् । अष्‍टासु । आत्‍वाभावे अष्‍ट, पञ्चवत् ।।
३०३ ऋत्‍विग्‍दधृक्‍स्रग्‍दिगुष्‍णिगञ्चुयुजिक्रुञ्चां च
एभ्‍यः िक्‍वन्, अञ्चेः सुप्‍युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्‍च निपात्‍यते । कनावितौ ।।
३०४ कृदतिङ्
अत्र धात्‍वधिकारे तिङि्भन्नः प्रत्‍ययः कृत्‍संज्ञः स्‍यात् ।।
३०५ वेरपृक्तस्‍य
अपृक्तस्‍य वस्‍य लोपः ।।
३०६ िक्‍वन्‍प्रत्‍ययस्‍य कुः
िक्‍वन्‍प्रत्‍ययो यस्‍मात्तस्‍य कवर्गोऽन्‍तादेशः पदान्‍ते । अस्‍यासिद्धत्‍वाच्‍चोः कुरिति कुत्‍वम् । ऋत्‍विक्, ऋत्‍विग् । ऋत्‍विजौ ।
ऋत्‍विग्‍भ्‍याम् ।।
३०७ युजेरसमासे
युजेः सर्वनामस्‍थाने नुम् स्‍यादसमासे । सुलोपः । संयोगान्‍तलोपः । कुत्‍वेन नस्‍य ङः । युङ् । अनुस्‍वारपरसवर्णौ । युञ्जौ । युञ्जः । युग्‍भ्‍याम् ।।
३०८ चोः कुः
चवर्गस्‍य कवर्गः स्‍याज्‍झलि पदान्‍ते च । सुयुक्, सुयुग् । सुयुजौ । सुयुग्‍भ्‍याम् ।। खन् । खञ्जौ । खन्‍भ्‍याम् ।।
३०९ व्रश्‍चभ्रस्‍जसृजमृजयजराजभ्राजच्‍छशां षः
झलि पदान्‍ते च । जश्‍त्‍वचत्‍र्वे । राट्, राड् । राजौ । राजः । राड्भ्‍याम् ।। एवं विभ्राट्, देवेट्, विश्वसृट् ।। (परौ व्रजेः षः पदान्‍ते) । परावुपपदे व्रजेः िक्‍वप् स्‍याद्दीर्घश्‍च पदान्‍ते षत्‍वमपि । परिव्राट् । परिव्राजौ ।।
३१० विश्वस्‍य वसुराटोः
विश्वशब्‍दस्‍य दीर्घोऽन्‍तादेशः स्‍याद्सौ राट्शब्‍दे च परे । विश्वराट्, विश्वराड् । विश्वराजौ । विश्वराड्भ्‍याम् ।।
३११ स्‍कोः संयोगाद्योरन्‍ते च
पदान्‍ते झलि च यः संयोगस्‍तदाद्योः स्‍कोर्लोपः । भृट् । सस्‍य श्‍चुत्‍वेन सः । झलां जश् झशि इति शस्‍य जः । भृज्‍जौ । भृड्भ्‍याम् ।। त्‍यदाद्यत्‍वं पररूपत्‍वं च ।।
३१२ तदोः सः सावनन्‍त्‍ययोः
त्‍यदादीनां तकारदकारयोरनन्‍त्‍ययोः सः स्‍यात्‍सौ । स्‍यः । त्‍यौ । त्‍ये ।। सः । तौ । ते ।। यः । यौ । ये ।। एषः । एतौ । एते ।।
३१३ ङेप्रथमयोरम्
युष्‍मदस्‍मद्भ्‍यां परस्‍य ङे इत्‍येतस्‍य प्रथमाद्वितीययोश्‍चामादेशः ।।
३१४ त्‍वाहौ सौ
अनयोर्मपर्यन्‍तस्‍य त्‍वाहौ आदेशौ स्‍तः ।।
३१५ शेषे लोपः
एतयोष्‍टिलोपः । त्‍वम् । अहम् ।।
३१६ युवावौ द्विवचने
द्वयोरुक्तावनयोर्मपर्यन्‍तस्‍य युवावौ स्‍तो विभक्तौ ।।
३१७ प्रथमायाश्‍च द्विवचने भाषायाम्
औङ्येतयोरात्‍वं लोके । युवाम् । आवाम् ।।
३१८ यूयवयौ जसि
अनयोर्मपर्यन्‍तस्‍य । यूयम् । वयम् ।।
३१९ त्‍वमावेकवचने
एकस्‍योक्तावनयोर्मपर्यन्‍तस्‍य त्‍वमौ स्‍तो विभक्तौ ।।
३२० द्वितीयायाञ्च
अनयोरात्‍स्‍यात् । त्‍वाम् । माम् ।।
३२१ शसो न
आभ्‍यां शसो नः स्‍यात् । अमोऽपवादः । आदेः परस्‍य । संयोगान्‍तलोपः । युष्‍मान् । अस्‍मान् ।।
३२२ योऽचि
अनयोर्यकारादेशः स्‍यादनादेशेऽजादौ परतः । त्‍वया । मया ।।
३२३ युष्‍मदस्‍मदोरनादेशे
अनयोरात्‍स्‍यादनादेशे हलादौ विभक्तौ । युवाभ्‍याम् । आवाभ्‍याम् । युष्‍माभिः । अस्‍माभिः ।।
३२४ तुभ्‍यमह्‍यौ ङयि
अनयोर्मपर्यन्‍तस्‍य । टिलोपः । तुभ्‍यम् । मह्‍यम् ।।
३२५ भ्‍यसोऽभ्‍यम्
आभ्‍यां परस्‍य । युष्‍मभ्‍यम् । अस्‍मभ्‍यम् ।।
३२६ एकवचनस्‍य च
आभ्‍यां ङसेरत् । त्‍वत् । मत् ।।
३२७ पञ्चम्‍या अत्
आभ्‍यां पञ्चम्‍यां भ्‍यसोऽत्‍स्‍यात् । युष्‍मत् । अस्‍मत् ।।
३२८ तवममौ ङसि
अनयोर्मपर्यन्‍तस्‍य तवममौ स्‍तो ङसि ।।
३२९ युष्‍मदस्‍मद्भ्‍यां ङसोऽश्
तव । मम । युवयोः । आवयोः ।।
३३० साम आकम्
आभ्‍यां परस्‍य साम आकं स्‍यात् । युष्‍माकम् । अस्‍माकम् । त्‍वयि । मयि । युवयोः । आवयोः । युष्‍मासु । अस्‍मासु ।।
३३१ युष्‍मदस्‍मदोः षष्‍ठीचतुर्थीद्वितीयास्‍थयोर्वांनावौ
पदात्‍परयोरपादादौ स्‍थितयोः षष्‍ठ्यदिविशिष्‍टयोर्वां नौ इत्‍यादेशौ स्‍तः ।।
३३२ बहुवचनस्‍य वस्‍नसौ
उक्तविधयोरनयोः षष्‍ठ्यदिबहुवचनान्‍तयोर्वस्‍नसौ स्‍तः ।।
३३३ तेमयावेकवचनस्‍य
उक्तविधयोरनयोष्‍षष्‍ठीचतुथ्‍र्येकवचनान्‍तयोस्‍ते मे एतौ स्‍तः ।।
३३४ त्‍वामौ द्वितीयायाः
द्वितीयैकवचनान्‍तयोस्‍त्‍वा मा इत्‍यादेशौ स्‍तः ।।
श्रीशस्‍तवाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः । स्‍वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ।।
सुखं वां नौ ददात्‍वीशः पतिर्वामपि नौ हरिः । सोऽव्‍याद्वो नः शिवं वो नो दद्यात् सेव्‍योऽत्र वः स नः ।।
(एकवाक्‍ये युष्‍मदस्‍मदादेशा वक्तव्‍याः) । एकतिङ् वाक्‍यम् । ओदनं पच तव भविष्‍यति । (एते वान्नावादयोऽनन्‍वादेशे वा वक्तव्‍याः) । अन्‍वादेशे तु नित्‍यं स्‍युः । धाता ते भक्तोऽस्‍ति, धाता तव भक्तोऽस्‍ति वा । तस्‍मै ते नम इत्‍येव ।। सुपात्, सुपाद् ।। सुपदौ ।।
३३५ पादः पत्
पाच्‍छब्‍दान्‍तं यदङ्गं भं तदवयवस्‍य पाच्‍छब्‍दस्‍य पदादेशः ।। सुपदः । सुपदा । सुपाद्भ्‍याम् ।। अग्‍निमत्, अग्‍निमद् । अग्‍निमथौ । अग्‍निमथः ।।
३३६ अनिदितां हल उपधायाः िक्‍ङति
हलन्‍तानामनिदितामङ्गानामुपधाया नस्‍य लोपः किति ङिति । नुम् । संयोगान्‍तस्‍य लोपः । नस्‍य कुत्‍वेन ङः । प्राङ् । प्राञ्चौ । प्राञ्चः ।।
३३७ अचः
लुप्‍तनकारस्‍याञ्चतेर्भस्‍याकारस्‍य लोपः ।।
३३८ चौ
लुप्‍ताकारनकारेऽञ्चतौ परे पूर्वस्‍याणो दीर्गः । प्राचः । प्राचा । प्राग्‍भ्‍याम् ।। प्रत्‍यङ् । प्रत्‍यञ्चौ । प्रतीचः । प्रत्‍यग्‍भ्‍याम् ।। उदङ् । उदञ्चौ ।।
३३९ उद ईत्
उच्‍छब्‍दात्‍परस्‍य लुप्‍तनकारस्‍याञ्चतेर्भस्‍याकारस्‍य ईत् । उदीचः । उदीचा । उदग्‍भ्‍याम् । ,
३४० समः समि
वप्रत्‍ययान्‍तेऽञ्चतौ । सम्‍यङ् । सम्‍यञ्चौ । समीचः । सम्‍यग्‍भ्‍याम् ।। ,
३४१ सहस्‍य सध्रिः
तथा । सध्र्यङ् ।। ,
३४२ तिरसस्‍तिर्यलोपे
अलुप्‍ताकारेऽञ्चतौ वप्रत्‍ययान्‍ते तिरसस्‍तिर्यादेशः । तिर्यङ् । तिर्यञ्चौ । तिरश्‍चः । तिर्यग्‍भ्‍याम् ।। ,
३४३ नाञ्चेः पूजायाम्
पूजार्थस्‍याञ्चतेरुपधाया नस्‍य लोपो न । प्राङ् । प्राञ्चौ । नलोपाभावादलोपो न । प्राञ्चः । प्राङ्भ्‍याम् । प्राङ्क्षु ।। एवं पूजार्थे प्रत्‍यङ्ङादयः ।। क्रुङ् । क्रुञ्चौ । क्रुङ्भ्‍याम् ।। पयोमुक्, पयोमुग् । पयोमुचौ । पयोमुग्‍भ्‍याम् ।। उगित्त्वान्नुमि – ,
३४४ सान्‍तमहतः संयोगस्‍य
सान्‍तसंयोगस्‍य महतश्‍च यो नकारस्‍तस्‍योपधाया दीर्घोऽसम्‍बुद्धौ सर्वनामस्‍थाने । महान् । महान्‍तौ । महान्‍तः । हे महन् । महद्भ्‍याम् ।। ,
३४५ अत्‍वसन्‍तस्‍य चाधातोः
अत्‍वन्‍तस्‍योपधाया दीर्घो धातुभिन्नासन्‍तस्‍य चासम्‍बुद्धौ सौ परे । उगित्तवान्नुम् । धीमान् । धीमन्‍तौ । धीमन्‍तः । हे धीमन् शसादौ महद्वत् ।। भातेर्डवतुः । डित्त्वसामथ्‍र्यादभस्‍यापि टेर्लोपः । भवान् । भवान्‍तौ । भवन्‍तः । शत्रन्‍तस्‍य भवन् ।। ,
३४६ उभे अभ्‍यस्‍तम्
षाष्‍ठद्वित्‍वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्‍यस्‍तसंज्ञे स्‍तः ।। ,
३४७ नाभ्‍यस्‍ताच्‍छतुः
अभ्‍यस्‍तात्‍परस्‍य शतुर्नुम् न । ददत्, ददद् । ददतौ । ददतः ।। ,
३४८ जिक्षत्‍यादयः षट्
षड्धातवोऽन्‍ये जिक्षतिश्‍च सप्‍तम एते अभ्‍यस्‍तसंज्ञाः स्‍युः । जक्षत्, जक्षद् । जक्षतौ । जक्षतः ।। एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् ।। गुप्, गुब् । गुपौ । गुपः । गुब्‍भ्‍याम् ।। ,
३४९ त्‍यदादिषु दृशोऽनालोचने कञ्च
त्‍यदादिषूपपदेष्‍वज्ञानार्थाद्दृशेः कञ् स्‍यात् । चात् िक्‍वन् ।। ,
३५० आ सर्वनाम्‍नः
सर्वनाम्‍न आकारोऽन्‍तादेशः स्‍याद्दृग्‍द्ृशवतुषु । तादृक्, तादृग् । तादृशौ । तादृशः । तादृग्‍भ्‍याम् ।। व्रश्‍चेति षः । जश्‍त्‍वचत्‍र्वे । विट्, विड् । विशौ । विशः । विड्भ्‍याम् ।। ,
३५१ नशेर्वा
नशेः कवर्गोऽन्‍तादेशो वा पदान्‍ते । नक्, नग्; नट्, नड् । नशौ । नशः । नग्‍भ्‍याम्, नड्भ्‍याम् ।। ,
३५२ स्‍पृशोऽनुदके िक्‍वन्
अनुदके सुप्‍युपपदे स्‍पृशेः िक्‍वन् । घृतस्‍पृक्, घृतस्‍पृग् । घृतस्‍पृशौ । घृतस्‍पृशः ।। दधृक्, दधृग् । दधृषौ । दधृग्‍भ्‍याम् ।। रत्‍नमुषौ । रत्‍नमुड्भ्‍याम् ।। षट्, षड् । षिड्भः । षङ्भ्‍यः । षण्‍णाम् । षट्सु ।। रुत्‍वं प्रति षत्‍वस्‍यासिद्धत्‍वससजुषो रुरिति रुत्‍वम् ।। ,
३५३ र्वोरुपधाया दीर्घ इकः
रेफवान्‍तयोर्धात्‍वोरुपधाया इको दीर्घः पदान्‍ते । पिपठीः । पिपठिषौ । पिपठीभ्‍र्याम् ।। ,
३५४ नुम्‍विसर्जनीयशव्‍र्यवायेऽपि
एतैः प्रत्‍येकं व्‍यवधानेऽपि इण्‍कुभ्‍यां परस्‍य सस्‍य मूर्धन्‍यादेशः । ष्‍टुत्‍वेन पूर्वस्‍य षः । पिपठीष्‍षु, पिपठीःषु ।। चिकीः । चिकीर्षौ । चिकीभ्‍र्याम् । चिकीर्षु ।। विद्वान् । विद्वांसौ । हे विद्वन् ।। ,
३५५ वसोः सम्‍प्रसारणम्
वस्‍वन्‍तस्‍य भस्‍य सम्‍प्रसारणं स्‍यात् । विदुषः । वसुस्रंस्‍विति दः । विद्वद्भ्‍याम् ।।
३५६ पुंसोऽसुङ्
सर्वनामस्‍थाने विविक्षते पुंसोऽसुङ् स्‍यात् । पुमान् । हे पुमन् । पुमांसौ । पुंसः । पुम्‍भ्‍याम् । पुंसु ।। ऋदुशनेत्‍यनङ् । उशना । उशनसौ । (अस्‍य संबुद्धौ वानङ्, नलोपश्‍च वा वाच्‍यः) । हे उशन, हेउशनन्, हेउशनः । हे उशनसौ । उशनोभ्‍याम् । उशनस्‍सु ।। अनेहा । अनेहसौ । हे अनेहः ।। वेधाः । वेधसौ । हे वेधः । वेधोभ्‍याम् ।।
३५७ अदस औ सुलोपश्‍च
अदस औकारोऽन्‍तादेशः स्‍यात्‍सौ परे सुलोपश्‍च । तदोरिति सः । असौ । त्‍यदाद्यत्‍वम् । वृद्धिः ।।
३५८ अदसोऽसेर्दादु दो मः
अदसोऽसान्‍तस्‍य दात्‍परस्‍य उदूतौ स्‍तो दस्‍य मश्‍च । आन्‍तरतम्‍याद्ध्‍स्‍वस्‍य उः, दीर्घस्‍य ऊः । अमू । जसः शी । गुणः ।।
३५९ एत ईद्बहुवचने
अदसो दात्‍परस्‍यैत ईद्दस्‍य च मो बह्‍वर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्‍चादुत्‍वमत्‍वे । अमुम् । अमू । अमून् । मुत्‍वे कृते घिसंज्ञायां नाभावः ।।
३६० न मु ने
नाभावे कर्तव्‍ये कृते च मुभावो नासिद्धः । अमुना । अमूभ्‍याम् ३ । अमीभिः । अमुष्‍मै । अमीभ्‍यः २ । अमुष्‍मात् । अमुष्‍य । अमुयोः २ । अमीषाम् । अमुष्‍मिन् । अमीषु ।।
इति हलन्‍त पुँल्‍लिङ्गाः ।।

                                                     अथ हलन्‍तस्‍त्रीलिङ्गाः

३६१ नहो धः
नहो हस्‍य धः स्‍याज्‍झलि पदान्‍ते च ।।
३६२ नहिवृतिवृषिव्‍यधिरुचिसहितनिषु क्‍वौ
िक्‍वबन्‍तेषु पूर्वपदस्‍य दीर्घः । उपानत्, उपानद् । उपानहौ । उपानत्‍सु ।। िक्‍वन्नन्‍तत्‍वात् कुत्‍वेन घः । उष्‍णिक्, उष्‍णिग् । उष्‍णिहौ । उष्‍णिग्‍भ्‍याम् ।। द्यौः । दिवौ । दिवः । द्युभ्‍याम् ।। गीः । गिरौ । गिरः ।। एवं पूः ।। चतस्रः । चतसृणाम् ।। का । के । काः । सर्वावत् ।।
३६३ यः सौ
इदमो दस्‍य यः इयम् । त्‍यदाद्यत्‍वम् । पररूपत्‍वम् । टाप् । दश्‍चेति मः । इमे । इमाः । इमाम् । अनया । हलि लोपः । आभ्‍याम् । आभिः । अस्‍यै । अस्‍याः । अनयोः । आसाम् । अस्‍याम् । आसु ।। त्‍यदाद्यत्‍वम् । टाप् । स्‍या । त्‍ये । त्‍याः ।। एवं तद्, एतद् ।। वाक्, वाग् । वाचौ । वाग्‍भ्‍याम् । वाक्षु ।। अप्‍शब्‍दो नित्‍यं बहुवचनान्‍तः । अप्‍तृन्निति दीर्घः । आपः । अपः ।।
३६४ अपो भि
अपस्‍तकारो भादौ प्रत्‍यये । अिद्भः । अद्भ्‍यः । अद्भ्‍यः । अपाम् । अप्‍सु ।। दिक्, दिश् । दिशौ । दिशः । दिग्‍भ्‍याम् ।। त्‍यदादिष्‍विति दृशेः िक्‍वन्‍विधानादन्‍यत्रापि कुत्‍वम् । दृक्, दृग् । दृशौ । दृग्‍भ्‍याम् ।। त्‍विट्, त्‍विड् । त्‍विषौ । त्‍विड्भ्‍याम् ।। ससजुषो रुरिति रुत्‍वम् । सजूः । सजुषौ । सजूभ्‍र्याम् ।। आशीः । आशिषौ । आशीभ्‍र्याम् ।। असौ । उत्‍वमत्‍वे । अमू । अमूः । अमुया । अमूभ्‍याम् ३ । अमूभिः । अमुष्‍यै । अमूभ्‍यः २ । अमुष्‍याः । अमुयोः २ । अमूषाम् । अमुष्‍याम् । अमूषु ।।
इति हलन्‍तस्‍त्रीलिङ्गाः ।

                                                   अथ हलन्‍तनपुंसकलिङ्गाः


स्‍वमोर्लुक् । दत्‍वम् । स्‍वनडुत्, स्‍वनडुद् । स्‍वनडुही । चतुरनडुहोरित्‍याम् । स्‍वनड्वांहि । पुनस्‍तद्वत् । शेषं पुंवत् ।। वाः । वारी । वारि । वाभ्‍र्याम् ।। चत्‍वारि ।। किम् । के । कानि ।। इदम् । इमे । इमानि ।। (अन्‍वादेशे नपुंसके वा एनद्वक्तव्‍यः) । एनत् । एने । एनानि । एनेन । एनयोः ।। अहः । विभाषा ङिश्‍योः । अह्‍नी, अहनी । अहानि ।।
३६५ अहन्
अहन्नित्‍यस्‍य रुः पदान्‍ते । अहोभ्‍याम् ।। दण्‍डि । दण्‍डिनी । दण्‍डीनि । दण्‍डिना । दण्‍डिभ्‍याम् ।। सुपथि । टेर्लोपः । सुपथी । सुपन्‍थानि ।। ऊर्क्, ऊर्ग् । ऊर्जी । ऊन्र्जि । नरजानां संयोगः । तत् । ते । तानि ।। यत् । ये । यानि ।। एतत् । एते । एतानि ।। गवाक्, गवाग् । गोची । गवाञ्चि । पुनस्‍तद्वत् । गोचा । गवाग्‍भ्‍याम् ।। शकृत् । शकृती । शकृन्‍ति ।। ददत् ।।
३६६ वा नपुंसकस्‍य
अभ्‍यस्‍तात्‍परो यः शता तदन्‍तस्‍य क्‍लीबस्‍य वा नुम् सर्वनामस्‍थाने । ददन्‍ति, ददति ।। तुदत् ।।
३६७ आच्‍छीनद्ययोर्नुम्
अवर्णान्‍तादङ्गात्‍परो यः शतुरवयस्‍तदन्‍तस्‍य नुम् वा शीनद्योः । तुदन्‍ती, तुदती । तुदन्‍ति ।।
३६८ शप्‍श्‍यनोर्नित्‍यम्
शप्‍श्‍यनोरात्‍परो यः शतुरवयवस्‍तदन्‍तस्‍य नित्‍यं नुम् शीनद्योः । पचन्‍ती । पचन्‍ति । दीव्‍यत् । दीव्‍यन्‍ती । दीव्‍यन्‍ति ।। धनुः । धनुषी । सान्‍तेति दीर्घः । नुम्‍विसर्जनीयेति षः । धनुषि । धनुषा । धनुभ्‍र्याम् । एवं चक्षुर्हविरादयः ।। पयः । पयसी । पयांसि । पयसा । पयाभ्‍याम् ।। सुपुम् । सुपुंसी । सुपुमांसि ।। अदः । विभक्तिकार्यम् । उत्‍वमत्‍वे । अमू । अमूनि । शेषं पुंवत् ।। ,

इति हलन्‍तनपुंसकलिङ्गाः ।

इति षिड्लङ्गप्रकरणम् ।

                                                     अथाव्‍ययानि

३६९ स्‍वरादिनिपातमव्‍ययम्
स्‍वरादयो निपाताश्‍चाव्‍ययसंज्ञाः स्‍युः । स्‍वर् । अन्‍तर् । प्रातर् । पुनर् । सनुतर् । उच्‍चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्‍यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्‍णीम् । बहिस् । अवस् । समया । निकषा । स्‍वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । वत् । ब्राह्‍मणवत् । क्षत्रियवत् ।। सना । सनत् । सनात् । उपधा । तिरस् । अन्‍तरा । अन्‍तरेण । ज्‍योक् । कम् । षम् । सहसा । विना । नाना । स्‍वस्‍ति । स्‍वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्‍यत् । अस्‍ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्‍या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम्, प्रवाहिका । आर्यहलम् । अभीणम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतान् । मा । माङ् । आकृतिगणोऽयम् ।।
च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्‍चित् । यत्र । नह । हन्‍त । माकिः । माकिम् । नकिः । नकिम् । माङ् । नञ् । यावत् । तावत् । त्‍वे । द्वै । त्‍वै । रै । श्रौषट् । वौषट् । स्‍वाहा । स्‍वधा । वषट् । तुम् । तथाहि । खलु । किल । अथो । अथ । सुष्‍ठु । स्‍म । आदह । (उपसर्गविभक्तिस्‍वरप्रतिरूपकाश्‍च)। अवदत्तम् । अहंयुः । अस्‍तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट् । प्‍याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु । एकपदे । युत् । आतः । चादिरप्‍याकृतिगणः ।।
तसिलादयः प्राक् पाशपः । शस्‍प्रभृतयः प्राक् समासान्‍तेभ्‍यः । अम् । आम् । कृत्‍वोर्थाः । तसिवती । नानाञौ । एतदन्‍तमप्‍यव्‍ययम् ।।
३७० कृन्‍मेजन्‍तः
कृद्यो मान्‍त एजन्‍तश्‍च तदन्‍तमव्‍ययं स्‍यात् । स्‍मारं स्‍मारम् । जीवसे । पिबध्‍यै ।।
३७१ क्‍त्‍वातोसुन्‍कसुनः
एतदन्‍तमव्‍ययम् । कृत्‍वा । उदेतोः । विसृपः ।।
३७२ अव्‍ययीभावश्‍च
अधिहरि ।।
३७३ अव्‍ययादाप्‍सुपः
अव्‍ययाद्विहितस्‍यापः सुपश्‍च लुक् । तत्र शालायाम् ।।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्‍येति तदव्‍ययम् ।।
वष्‍टि भागुरिरल्‍लोपमवाप्‍योरुपसर्गयोः । आपं चैव हलन्‍तानां यथा वाचा निशा दिशा ।।
वगाहः, अवगाहः । पिधानम्, अपिधानम् ।।
इत्‍यव्‍ययानि ।।