शनिवार, 17 मार्च 2012

गुरुगीता


||प्रथमोऽध्यायः ||
अचिन्त्याव्यक्तरूपाय निर्गुणाय गणात्मने | 
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ||||
 ऋषय ऊचुः |
 सूत सूत महाप्राज्ञ निगमागमपारगम् |
 गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ||||
 यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते |
 येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ||||
 यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् | 
तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया |||| 
गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः
त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः |||| 
इति संप्रार्थितः सूतो मुनिसङ्घैर्मुहुर्मुहुः || 
कुतूहलेन महता प्रोवाच मधुरं वचः ||||
 सूत उवाच |
 श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा | 
वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् |||| 
पुरा कैलासशिखरे सिद्धगन्धर्वसेविते | 
तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे |||| 
व्याघ्राजिने समासीनं शुकादिमुनिवन्दितम् | 
बोधयन्तं परं तत्त्वं मध्ये मुनिगणे क्वचित् |||| 
प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् | 
दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ||१०|| 
पार्वत्युवाच | 
ॐ नमो देव देवेश परात्पर जगद्गुरो | 
त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ||११|| 
विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् | 
नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ||१२|| 
दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे | 
किमेतन्न विजानेऽहं कृपया वद मे प्रभो ||१३|| 
भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् | 
ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम् ||१४|| 
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् | 
तत्कृपां कुरु मे स्वामिन्नमामि चरणौ तव ||१५|| 
इति संप्रार्थितः शश्वन्महादेवो महेश्वरः | 
आनन्दभरतिः स्वान्ते पार्वतीमिदमब्रवीत् ||१६|| 
श्री महादेव उवाच | 
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् | 
न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ||१७|| 
मम रूपासि देवि त्वमतस्तत्कथयामि ते | लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ||१८|| यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ||१९|| यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः | विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ||२०|| दुर्लभं त्रिषु लोकेषु तच्छृणुश्व वदाम्यहम् | गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ||२१|| वेदशास्त्रपुराणानि चेतिहासादिकानि च | मन्त्रयन्त्रादिविद्यानां मोहनोच्चाटनादिकम् ||२२|| शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः | अपभ्रंशाः समस्तानां जीवानां भ्रान्तचेतसाम् ||२३|| जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च | गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ||२४|| गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने | तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ||२५|| गूढाविद्या जगन्माया देहश्चाज्ञानसम्भवः | विज्ञानं यत्प्रसादेन गुरुशब्देन कथयते ||२६|| यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् | तारकं भवसिन्धोश्च तं गुरुं प्रणमाम्यहम् ||२७|| देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् | सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ||२८|| सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः | गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ||२९|| शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः | गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ||३०|| अज्ञानमूलहरणं जन्मकर्मनिवारकम् | ज्ञानविज्ञानसिद्ध्यर्थं गुरुपादोदकं पिबेत् ||३१|| गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् | गुरुमूर्तेः सदा ध्यानं गुरोर्नाम्नः सदा जपः ||३२|| स्वदेशिकस्यैव च नामकीर्तनं भवेदनन्तस्य शिवस्य कीर्तनम् | स्वदेशिकस्यैव च नामचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम् ||३३|| यत्पादरेणुर्वै नित्यं कोऽपि संसारवारिधौ | सेतुबन्धायते नाथं देशिकं तमुपास्महे ||३४|| यदनुग्रहमात्रेण शोकमोहौ विनश्यतः | तस्मै श्रीदेशिकेन्द्राय नमोऽस्तु परमात्मने ||३५|| यस्मादनुग्रहं लब्ध्वा महदज्ञान्मुत्सृजेत् | तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ||३६|| काशीक्षेत्रं निवासश्च जान्हवी चरणोदकम् | गुरुविश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ||३७|| गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः | तत्पादं विष्णुपादं स्यात् तत्र दत्तमनन्तकम् ||३८|| गुरुमूर्ति स्मरेन्नित्यं गुरुर्नाम सदा जपेत् | गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ||३९|| गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः | गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ||४०|| स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् | एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ||४१|| अनन्याश्चिन्तयन्तो ये सुलभं परमं सुखम् | तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ||४२|| गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते | त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ||४३|| गुकारश्चान्धकारो हि रुकारस्तेज उच्यते | अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ||४४|| गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् | भवरोगहरत्याच्च गुरुरित्यभिधीयते ||४५|| गुकारश्च गुणातीतो रूपातीतो रुकारकः | गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ||४६|| गुकारः प्रथमो वर्णो मायादिगुणभासकः | रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम् ||४७|| एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् | गरुडोरगगन्धर्वसिद्धादिसुरपूजितम् ||४८|| ध्रुवं देहि मुमुक्षूणां नास्ति तत्त्वं गुरोः परम् | गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ||४९|| आसनं शयनं वस्त्रं वाहनं भूषणादिकम् | साधकेन प्रदातव्यं गुरुसन्तोषकारणम् ||५०|| कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् | दीर्घदण्डं नमस्कृत्य निर्लज्जौ गुरुसन्निधौ ||५१|| शरीरमिन्द्रियं प्राणमर्थस्वजनबान्धवान् | आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ||५२|| गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् | गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ||५३|| सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् | वेदान्तार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम् ||५४|| यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् | स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम् ||५५|| कृमिकोटिभिराविष्टं दुर्गन्धकुलदूषितम् | अनित्यं दुःखनिलयं देहं विद्धि वरानने ||५६|| संसारवृक्षमारूढाः पतन्ति नरकार्णवे | यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ||५७|| गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः | गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ||५८|| अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ||५९|| अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ||६०|| स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् | त्वंपदं दर्शितं येन तस्मै श्रीगुरवे नमः ||६१|| चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् | असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ||६२|| निमिषन्निमिषार्ध्वाद्वा यद्वाक्यादै विमुच्यते | स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ||६३|| चैतन्यं शाश्वतं शांतं व्योमातीतं निरञ्जनम् | नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ||६४|| निर्गुणं निर्मलं शान्तं जंगमं स्थिरमेव च | व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ||६५|| स पिता स च मे माता स बन्धुः स च देवता | संसारमोहनाशाय तस्मै श्रीगुरवे नमः ||६६|| यत्सत्त्वेन जगत्सत्यं यत्प्रकाशेन भाति तत् | यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ||६७|| यस्मिन्स्थितमिदं सर्वं भाति यद्भानरूपतः | प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ||६८|| येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा | जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ||६९|| यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः | सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ||७०|| यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः | अनन्यभावभावाय तस्मै श्रीगुरवे नमः ||७१|| यस्मै कारणरूपाय कार्यरूपेण भाति यत् | कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ||७२|| नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता | कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ||७३|| ज्ञानशक्तिसमारूढतत्त्वमालाविभूषणे | भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ||७४|| अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने | ज्ञानानिलप्रभावेन तस्मै श्रीगुरवे नमः ||७५|| शोषणं भवसिन्धोश्च दीपनं क्षरसंपदाम् | गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ||७६|| न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः | न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ||७७|| मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः | ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ||७८|| गुरुरादिरनादिश्च गुरुः परमदैवतम् | गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः ||७९|| एक एव परो बन्धुर्विषमे समुपस्थिते | गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ||८०|| गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः | गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ||८१|| भवारण्यप्रविष्टस्य दिङ्मोहभ्रान्तचेतसः | येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः ||८२|| तापत्रयाग्नितप्तनामशान्तप्राणिनां भुवि | यस्य पादोदकं गङ्गा तस्मै श्रीगुरवे नमः ||८३|| अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः | सम्यग्ज्ञानमहामन्त्रवेदिनं सद्गुरु विना ||८४|| हेतवे जगतामेव संसारार्णवसेतवे | प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ||८५|| ध्यानमूलं गुरोर्मूतिःर् पूजामूलं गुरोः पदम् | मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ||८६|| सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत् | गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम् ||८७|| शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन | लब्ध्वा कुलगुरु सम्यग्गुरुमेव समाश्रयेत् ||८८|| मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुवर्न्तरं व्रजेत् ||८९|| वन्दे गुरुपदद्वन्द्वं वाङ्मनातीतगोचरम् | श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ||९०|| गुकारं च गुणातीतं रूकारं रूपवर्जितम् | गुणातीतमरूपं च यो दद्यात् स गुरुः स्मृतः ||९१|| अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः | योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ||९२|| अयं मयाञ्जलिर्बद्धो दयासागरसिद्धये | यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ||९३|| श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः | मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ||९४|| कुलानां कुलकोटीनां तारकस्तत्र तत्क्षणात् | अतस्तं सद्गुरु ज्ञात्वा त्रिकालमभिवादयेत् ||९५|| श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते | तस्यां दिशि नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ||९६|| साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् | भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ||९७|| दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा | मनसा वचसा चेति प्रणामोष्टाङ्ग उच्यते ||९८|| तस्यै दिशे सततमज्जलिरेष नित्यम् प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः | जागर्ति यत्र भगवान् गुरुचक्रवर्ती विश्वस्थितिप्रलयनाटकनित्यसाक्षी ||९९|| अभैस्तैः किमु दीर्घकालविमलैर्व्यादिप्रदैर्दुष्करैः प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुजर्यैः | यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ||१००|| ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः | गुरोः प्रसादतो नान्यत् साधनं गुरुमार्गिणाम् ||१०१|| यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः | मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ||१०२|| गुरोः कृपाप्रसादेन ब्रह्मविष्णुशिवादयः | सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यन्तकर्मणि ||१०३|| देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरुः | मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ||१०४|| तार्किकाश्छान्दसाश्चैव दैवज्ञाः कर्मठाः प्रिये | लौकिकास्ते न जानन्ति गुरुतत्त्वं निराकुलम् ||१०५|| महाहङ्कारगर्वेण ततोविद्याबलेन च | भ्रमन्त्येतस्मिन् संसारे घटीयन्त्रं यथा पुनः ||१०६|| यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा | तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ||१०७|| न मुक्तास्तु गन्धर्वाः पितृयक्षास्तु चारणाः | ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ||१०८|| ||इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां प्रथमोऽध्यायः ||
||अथ द्वितीयोऽध्यायः ||
ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् | सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ||१०९|| श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि | श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि ||११०|| ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् | एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ||१११|| हृदम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् | ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् सच्चित्सुखाभीष्टवरं दधानम् ||११२|| श्वेताम्बरं श्वेतविलेपपुष्पम् मुक्ताविभूषं मुदितं द्विनेत्रम् | वामाङ्कपीठस्थितदिव्यशक्तिम् मन्दस्मितं पूर्णकृपानिधानम् ||११३|| ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् | योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि ||११४|| वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् | जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै ||११५|| यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् | कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ||११६|| पादाब्जे सर्वसंसारदावकालानलं स्वके | ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ||११७|| अकथादित्रिरेखाब्जे सहस्रदलमण्डले | हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ||११८|| नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् | नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ||११९|| सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः | अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ||१२०|| सकलभुवनरङ्गस्थापनास्तम्भयष्टिः सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः | सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ||१२१|| न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् | शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ||१२२|| इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् | हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः ||१२३|| विदितं विदितं विदितं विदितं विजनं विजनं विजनं विजनम् | विधिशासनतो विधिशासनतो विधिशासनतो विधिशासनतः ||१२४|| एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् | तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ||१२५|| गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत् | अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ||१२६|| ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते | ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ||१२७|| किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि | दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ||१२८|| करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः | सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ||१२९|| एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः | स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ||१३०|| यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् | गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ||१३१|| हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन | गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ||१३२|| गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः | अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ||१३३|| अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा | कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ ||१३४|| दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् | तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ||१३५|| अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा | भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ||१३६|| गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् | न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः ||१३७|| गुरौ सति स्वयं देवि परेषां तु कदाचन | उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ||१३८|| न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् | दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ||१३९|| नोपाश्रमं च पर्यकं न च पादप्रसारणम् | नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ||१४०|| गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत् | कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ||१४१|| अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् | दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ||१४२|| पादुकासनशय्यादि गुरुणा यदभीष्टितम् | नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ||१४३|| गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् | नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ||१४४|| गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् | स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि ||१४५|| नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् | कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम् ||१४६|| नानृतं नाप्रियं चैव न गर्व नापि वा बहु | न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत् ||१४७|| प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर | इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ ||१४८|| मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि | कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ||१४९|| अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा | गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ||१५०|| मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् | स्मृतिवेदपुराणानां सारमेव न संशयः ||१५१|| सत्कारमानपूजार्थं दण्डकाषयधारणः | स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः ||१५२|| विजानन्ति महावाक्यं गुरोश्चरण सेवया | ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः ||१५३|| नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् | यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ||१५४|| गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् | समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ||१५५|| आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम् | स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ||१५६|| वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम् | नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ||१५७|| परात्परतरं ध्यायेन्नित्यमानन्दकारकम् | हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ||१५८|| स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा | तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ||१५९|| अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि | तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते ||१६०|| अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम् | अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ||१६१|| अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् | विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ||१६२|| अगोचरं तथाऽगम्यं नामरूपविवर्जितम् | निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ||१६३|| यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु | शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ||१६४|| यथा निजस्वभावेन कुण्डलकटकादयः | सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ||१६५|| स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् | कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ||१६६|| गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् | पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ||१६७|| श्रीपार्वती उवाच | पिण्डं किं तु महादेव पदं किं समुदाहृतम् | रूपातीतं च रूपं किं एतदाख्याहि शंकर ||१६८|| श्रीमहादेव उवाच | पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् | रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ||१६९|| पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने | रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ||१७०|| गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् | स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ||१७१|| ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः | षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ||१७२|| गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् | गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ||१७३|| एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः | बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ||१७४|| न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके | गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ||१७५|| चार्वाकवैष्णवमते सुखं प्राभाकरे न हि | गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ||१७६|| न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् | यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ||१७७|| नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि | इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ||१७८|| यतः परमकैवल्यं गुरुमार्गेण वै भवेत् | गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ||१७९|| एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः | एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ||१८०|| अभ्यासान्निमिषेणैवं समाधिमधिगच्छति | आजन्मजनितं पापं तत्क्षणादेव नश्यति ||१८१|| किमावाहनमव्यक्तै व्यापकं किं विसर्जनम् | अमूर्तो च कथं पूजा कथं ध्यानं निरामये ||१८२|| गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः | तामसो रुद्ररूपेण सृजत्यवति हन्ति च ||१८३|| स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् | परात्परतरं नान्यत् सर्वगं च निरामयम् ||१८४|| तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः | एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ||१८५|| लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा | निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ||१८६|| सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि | सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित् ||१८७|| यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः | मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ||१८८|| उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः | गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः ||१८९|| नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत् | स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ||१९०|| यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये | अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ||१९१|| शिवपूजारतो वापि विष्णुपूजारतोऽथवा | गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ||१९२|| शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि | सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ||१९३|| सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः | गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ||१९४|| गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति | शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ||१९५|| तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः | विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ||१९६|| निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् | रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ||१९७|| ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः | स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ||१९८|| शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे | स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ||१९९|| न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः | वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत् ||२००|| पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः | स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ||२०१|| कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः | कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ||२०२|| ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये | एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ||२०३|| शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् | नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ||२०४|| गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः | सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः ||२०५|| सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् | यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ||२०६|| गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते | श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ||२०७|| नतास्मि ते नाथ पदारविन्दं बुद्धीन्द्रियाप्राणमनोवचोभिः | यच्चिन्त्यते भावित आत्मयुक्तौ मुमुक्षिभिः कर्ममयोपशान्तये ||२०८|| अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये | लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ||२०९|| लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे | ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ||२१०|| इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि | लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ||२११|| गुरुगीतामिमां देवि हृदि नित्यं विभावय | महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ||२१२|| गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये | अन्ये च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम् ||२१३|| अनन्त फलमाप्नोति गुरुगीता जपेन तु | सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ||२१४|| अकालमृत्युहर्त्री च सर्वसंकटनाशिनी | यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ||२१५|| सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी | यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ||२१६|| महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् | अथवा मोहने वश्ये स्वयमेव जपेत्सदा ||२१७|| कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले | उपविश्य ततो देवि जपेदेकाग्रमानसः ||२१८|| शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये | पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ||२१९|| वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः | मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ||२२०|| कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि | कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ||२२१|| आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् | नैऋर्त्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ||२२२|| उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा | याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ||२२३|| मोहनं सर्वभूतानां बन्धमोक्षकरं परम् | देवराज्ञां प्रियकरं राजानं वशमानयेत् ||२२४|| मुखस्तम्भकरं चैव गुणानां च विवर्धनम् | दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ||२२५|| प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम् | दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ||२२६|| मोहशान्तिकरं चैव बन्धमोक्षकरं परम् | स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ||२२७|| यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् | नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ||२२८|| सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् | अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ||२२९|| आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् | निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ||२३०|| अवैधव्यं सकामा तु लभते चान्यजन्मनि | सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ||२३१|| सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् | यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ||२३२|| काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः | चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम् ||२३३|| लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् | गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ||२३४|| जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः | शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ||२३५|| ||इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां द्वितीयोऽध्यायः ||
||अथ तृतीयः अध्यायः ||
 अथ काम्यजपस्थानं कथयामि वरानने | सागरान्ते सरितीरे तीर्थे हरिहरालये ||२३६|| शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे | वटस्य धात्र्या मूले वा मठे वृन्दावने तथा ||२३७|| पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा | निर्वेदनेन मौनेन जपमेतत् समारभेत् ||२३८|| जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा | हीनं कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च ||२३९|| श्मशाने बिल्वमूले वा वटमूलान्तिके तथा | सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ||२४०|| पीतासनं मोहने तु ह्यसितं चाभिचारिके | ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ||२४१|| जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम् | गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ||२४२|| जपन् जयमवाप्नोति मरणे मुक्तिदायिका | सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ||२४३|| गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा | दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ||२४४|| भवमूलविनाशाय चाष्टपाशनिवृत्तये | गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ||२४५|| स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः | तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ||२४६|| सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति | तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ||२४७|| आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा | अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ||२४८|| शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये | तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते ||२४९|| समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् | भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि ||२५०|| तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा | ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ||२५१|| एवंविधो महायुक्तः सर्वत्र वर्तते सदा | तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ||२५२|| गुरुसन्तोषणादेव मुक्तो भवति पार्वति | अणिमादिषु भोक्तृत्वं कृपया देवि जायते ||२५३|| साम्येन रमते ज्ञानी दिवा वा यदि वा निशि | एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ||२५४|| अथ संसारिणः सर्वे गुरुगीताजपेन तु | सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ||२५५|| सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् | गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ||२५६|| गुरुर्देवो गुरुर्धमोर् गुरौ निष्ठा परं तपः | गुरोः परतरं नास्ति त्रिवारं कथयामि ते ||२५७|| धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः | धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ||२५८|| आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः | ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ||२५९|| शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता | मातृकुलं पितृकुलं गुरुरेव न संशयः ||२६०|| मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते | गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ ||२६१|| विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् | येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती ||२६२|| ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः | सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ||२६३|| गुरुभावः परं तीर्थमन्यर्थं निरर्थकम् | सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ||२६४|| कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः | अतः परं मया देवि कथितन्न मम प्रिये ||२६५|| इदं रहस्यमस्पष्टं वक्तव्यं च वरानने | सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ||२६६|| स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति | न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ||२६७|| अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु | मनसाऽपि न वक्तव्या गुरुगीता कदाचन ||२६८|| गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ||२६९|| चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः | मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ||२७०|| गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः | कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ||२७१|| सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः | स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ||२७२|| वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् | यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ||२७३|| वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् | प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ||२७४|| पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति |  गुरुर्बोधको भूयादुभयोरयमुत्तमः ||२७५|| मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम् | निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ||२७६|| अनित्यमिति निर्दिश्य संसारं संकटालयम् | वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ||२७७|| तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति | कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ||२७८|| सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः | जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ||२७९|| बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः | लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ||२८०|| एवं बहुविधा लोके गुरवः सन्ति पार्वति | तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ||२८१|| निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः | ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ||२८२|| एवं श्रुत्वा महादेवी महादेववचस्तथा | अत्यन्तविह्वलमना शंकरं परिपृच्छति ||२८३|| पार्वत्युवाच | नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे | श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ||२८४|| स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः | दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ||२८५|| श्री महादेव उवाच | श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः | तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ||२८६|| अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् | स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ||२८७|| जलानां सागरो राजा यथा भवति पार्वति | गुरूणां तत्र सर्वेषां राजायं परमो गुरुः ||२८८|| मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः | तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ||२८९|| सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी | अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ||२९०|| द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् | अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ||२९१|| यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता | स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ||२९२|| सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् | तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः ||२९३|| स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् | यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ||२९४|| मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति | न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ||२९५|| वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः | यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ||२९६|| गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि | पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ||२९७|| श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता | गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ||२९८|| कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे | मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ||२९९|| कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया | तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ||३००|| गुरुरेको हि जानाति स्वरूपं देवमव्ययम् | तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ||३०१|| स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् | तपोजपादिअक्ं देवि सकलं बालजल्पवत् ||३०२|| शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन | शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः ||३०३|| न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः | भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ||३०४|| तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये | गुरूं विना न जानन्ति मूढास्तत्परमं पदम् ||३०५|| भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे ||३०६|| कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः | मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः ||३०७|| दुःसंगं च परित्यज्य पापकर्म परित्यजेत् | चित्तचिह्नमिदं यस्य दीक्षा विधीयते ||३०८|| चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः | द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ||३०९|| एतल्लक्षण संयुक्तं सर्वभूतहिते रतम् | निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ||३१०|| क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् | मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम् ||३११|| क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम् | गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ||३१२|| शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् | तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ||३१३|| अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च | प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ||३१४|| रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे | सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः ||३१५|| सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः | साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ||३१६|| नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च | अभक्ताय विभक्ताय न वाच्येयं कदाचन ||३१७|| स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे | निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ||३१८|| सर्व पापप्रशमनं सर्वोपद्रववारकम् | जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ||३१९|| श्रुतिसारमिदं देवि सर्वमुक्तं समासतः | नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ||३२०|| बहुजन्मकृतात्पादयमर्थो न रोचते | जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा ||३२१|| अहमेव जगत्सर्वमहमेव परं पदम् | एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ||३२२|| अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् | इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम् ||३२३|| यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् | नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री ||३२४|| नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् | नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ||३२५|| नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय | शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय ||३२६|| सच्चिदानन्दरूपाय व्यापिने परमात्मने | नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ||३२७|| सत्यानन्दस्वरूपाय बोधैकसुखकारिणे | नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ||३२८|| नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे | विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ||३२९|| नवाय नवरूपाय परमार्थैकरूपिणे | सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ||३३०|| स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने | परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ||३३१|| विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् | प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ||३३२|| पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः | सदा मच्चित्तरूपेण विधेहि भवदासनम् ||३३३|| श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् | यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ||३३४|| नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे | यस्य वागमृतं हन्ति विषं संसारसंज्ञकम् ||३३५|| नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः | तत्कृतासारवेदेन गुरुचित्पदमच्युतम् ||३३६|| अच्युताय मनस्तुभ्यं गुरवे परमात्मने | सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ||३३७|| नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे | शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ||३३८|| ओमच्युताय गुरवे शिष्यसंसारसेतवे | भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ||३३९|| गुरुनामसमं दैवं न पिता न च बान्धवाः | गुरुनामसमः स्वामी नेदृशं परमं पदम् ||३४०|| एकाक्षरप्रदातारं यो गुरुं नैव मन्यते | श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ||३४१|| गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता | गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ||३४२|| शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि | तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत् ||३४३|| संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् | दारिद्र्यदुःखभवरोगविनाशमन्त्रं वन्दे महाभयहरं गुरुराजमन्त्रम् ||३४४|| सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः | एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ||३४५|| एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् | इदमेव परं तत्त्वं श्रुणु देवि सुखावहम् ||३४६|| गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः | रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित् ||३४७|| न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी | गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ||३४८|| गुरुगीतामिमां देवि भवदुःखविनाशिनीम् | गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ||३४९|| रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि | अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ||३५०|| यस्य प्रसादादहमेव सर्वं मय्येव सर्वं परिकल्पितं च | इत्थं विजानामि सदात्मरूपं ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ||३५१|| अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः | ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ||३५२|| 
||इति श्रीगुरुगीतायां तृतीयोऽध्यायः ||

 इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त