आधुनिक संस्कृत गीतकारों की प्रतिनिधि रचनाएं

इस ब्लॉग में अबतक 12 भाग में संस्कृत गीतकारों की कतिपय रचनाओं का संकलन किया गया है ताकि संस्कृत के गीतों में रूचि रखने वाले अध्येता संस्कृत की नवीन रचनाओं से परिचित हो सकें। यह काम अभी भी गतिमान है। आने वाले दिनों में अन्य छूटे हुए तथा नवीन गीतकारों को यहां स्थान दिया जाता रहेगा। अलग-अलग पोस्ट में संकलित गीतों को यहाँ एक स्थान पर कर देने से उन गायकों को भी सुविधा होगी, जो संस्कृत के गीतों को गाना चाहते हैं। प्रत्येक भाग अलग-अलग ब्लॉग पोस्ट हैं। प्रयास किया गया है कि प्रत्येक पोस्ट में किसी एक या दो गीतकारों के दो या दो से अधिक गीतों को स्थान दिया जाय । इन गीतों में कतिपय गीत अन्यत्र मिलना दुर्लभ हैं। ये गीत अभी तक प्रकाश में नहीं आ सके हैं। उन गीतों को रचनाकार की कृतियों से सीधे साभार संकलित कर प्रकाशित किया गया है। गीतों को डिजिटल प्रारूप में मुद्रित कर यहाँ प्रकाशित कर देने से मुझे विश्वास है कि हमारी पीढ़ी संस्कृत गीतकारों के अवदान से सुपरिचित होगी । इस डिजिटल प्रकल्प से कवियों की रचनाओं को संरक्षण व प्रसार मिल सकेगा। विगत वर्षों में आधुनिक लेखकों की रचनाओं को लेकर मैंने यथासामर्थ्य कार्य किया है। इस क्रम में मैंने अनुभव किया है कि संस्कृत के कवि अपने जीवनकाल में अपनी रचना प्रकाशित कराते हैं परन्तु इस भाषा के प्रति व्यापक जन अभिरूचि नहीं होने के कारण कुछ ही वर्षों बाद उनकी कृतियाँ अप्राप्त हो जाती है। सौभाग्यवश अब विद्यालय तथा विश्वविद्यालय के पाठ्यक्रम में प्राचीन रचनाकारों के साथ-साथ आधुनिक रचनाकारों को भी स्थान दिया जाने लगा है। इन पाठ्यक्रमों की अपनी सीमा होती है। पाठ्यक्रम में शामिल रचना हो या मेरे जैसे व्यक्ति का प्रकल्प, यह पाठकों को और अधिक पढ़ने हेतु रूचि जागृत करता है। 

अब तक संस्कृत गीतकारों की रचनाएं अलग-अलग पोस्ट में बिखरी हुई थी। उन सभी को यहाँ एकत्र कर दिया गया है। इससे पढ़ने वाले को अधिक सुविधा होगी। नीचे दिए गए लिंक पर क्लिक करने पर एक अलग बिंडो खुलेगा। 


संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-1)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-2)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-3)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-4)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-5)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-6)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-7)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-8)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-9)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-10)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-11)

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-12)


राम जन्म भूमि मंदिर में भगवान् राम की प्राण प्रतिष्ठा पर संस्कृत में लिखित गीतों का संकलन

Share:

आधुनिक संस्कृत गीतकारों की प्रतिनिधि रचनायें (भाग 12)

 यात्रा

प्रियतम ! नास्ति पथाभिज्ञानम्।
सततगते रति तीव्र लालसा
स्मृत्वा चरणं विस्तृणोमि यत्
कण्टकपूर्ण-विषमपथि सहसा
सोढुं क्षणमिव रोधयामि तत्।
एवं तनुते गते वितानम्
प्रियतम! नास्ति पथाभिज्ञानम्।
घन तमसावृत मम्बरमस्ति
विषमसृतिः शक्तिर्मयि नास्ति
प्रबल प्रभज्जन पूर्ण पयोदो
वर्षति शिशर जलं संध्यास्ति।
ज्वलतितदपि ममान्तर्तज्ञानम्
प्रियतम! नास्ति पथाभिज्ञानम्।
मुहुश्चकासित चपला मे पथि
तिमिर ततिं किल पुनराभरते
मार्गो वृहदीषत् पाथेयं
स्मारं स्मारं विकली कुरूते।
पुनरपि दृष्यति ममाभिमानम्।
प्रियतम! नास्ति पथाभिज्ञानम्।
सततमगच्छमहमेकाकी
कोऽपि मया न कदाप्यनुदृष्टः
किच्चित्पद लक्षण मपहाय
सहचर एव न मार्गे दृष्टः।
धृत्वा यामि श्रुतमिवज्ञानम्
प्रियतम! नास्ति पथाभिज्ञानम्।


भारत-मातः

जयति जयति मम भारत मातः

जगति यशो गरिमा तव ख्यातः

हिममण्डित नगराज किरीटे?

सदा महद्भिस्त्वमेव ध्यातः

यमुना सिन्धु सरस्वत्यङ्गा

वहति हार इव वक्षसि गङ्गा

सुरभित वने नदन्ति विहङ्गा

अरुणोषसि किल हसति प्रभातः

जयति जयति मम भारत मातः


मुरली

गुञ्जति कुञ्जवने मुरली

मन्द्र स्वरैः शुचि कर्म राधिका

पौरुष-पुरुष हरि:

सुन्दरतर श्रमशोभि निकुञ्जे

आह्वयते कुशली

गुञ्जति कुञ्जवने मुरली

ज्ञान-भानुजा कूल-सुवासित

वृद्धि कदम्ब द्रुमे

जनाभाब-वासांसि गृहीत्वा

आगमद् रसिक-छली

गुञ्जति कुञ्जवने मुरली


प्रार्थना

पुनस्तनोतु भारती

प्रभो ! समस्त भारते ।

पुनः सरेत्सुसंस्कृतिः

विधूय सर्व कुप्रथा:

पुनः समृद्धि सम्पदाऽऽ

व्रजेत् गृहे गृहे शुभा ।

अनालसा अतन्द्रिता

अनीति भीति वर्जिताः

युवान आयु शालिनो

भवन्तु देव! भारते ।

विनीत पादपेषुहि

हसन्तु पुष्प पंक्तयः

सुशस्य पूरिताधरा

सुधान्य राशिमुद्भवेत् ।

शमन्तु हीतयः पुनः

दिगन्त शान्ति मावहेत्

पुनः विभर्तु वैभवः

सुगौरवश्च भारते ।

कालिदासं प्रति

कालिदास ! प्रिय ! तव रचनायां

वहति सुधाया धारा

अंशुहास-मावहति मनस्सु

तव कृतिरपरम्पारा ।

विरहि जनानां ललित चित्रणं विलसति कोमल-वाणी

मेघदनमवलोक्य मनसि समवतरति वीणा पाणी ।

रामगिरेरलका पर्यन्तं

जयति कल्पनोदारा –

कालिदास !

चिर कमनीय कुमार-सम्भवे शैल कुलेश हिमाद्रौ

दिव्यरूपिणीं गिरिजां शश्वल् लीनां शम्भु-समाधौ ।

यत्रालौकिक देव किशोरी

लसति नायिका कारा

कालिदास !

त्वया विक्रमोर्वशीय-काव्ये कथा चित्रिता नित्या

समुत्तार्य तौ सत्यधरायां भृता पुण्य-संस्तुत्या ।

कथा वैदिकी-श्रिता पुराणी

तथा कल्पनाकारा !

कालिदास !

वेद मनत्स्वं मालविकाया ललनाया अति गूढम्

अग्निमित्रमासाद्य प्रणयिनं चोर्जित- सत्वविशिष्टम् ।

तयोः प्रीतिरद्यापि प्रसिद्धा

जगतितले साभारा !

कालिदास !

परिवर्तनमनिशं च ऋतूनां तेषामभिनव-रूपम्

ऋतुसंहारं मुदा बबन्ध जगशोभा रस कूपम् ।

क्रांतिवृत्त-मारुह्य विभजति

क्रमशोऽयं रवितारा –

कालिदास !

कोकिल ! तेषु न प्रत्येहि

इमेऽलयः खलु जल्पाकाः

कोकिल ! तेषु न प्रत्येहि

सम्प्रत्येव न ते दिवसा

आयास्यन्ति निसर्गे हि

पत्रहीन नीरस द्रुम राजिः

लता-ललित लावण्य-हतास्ति

शिशिर एव अद्यापि धरायां

तुहिन-विमर्दित पद्म-प्रभास्ति

तिष्ठ मौनमास्थाय विपञ्चिन्

आयास्यति प्रिय पर्व धरायाम्

कटु विषादमापीय मधुर-मुख

शान्तिमेव त्वं विस्तृणुहि

यदा हसिष्यति नवल धराश्रीः

कुसुममुदेष्यति कलिकायाम्

अलङ्करिष्यत्याम्र मञ्जरी

नव रसाल मुद्दाम कलायाम्

पुलकित गन्धवहश्चुचुम्विष्यति

नव कमलिन्या अरुण कपोलम्

श्रमी श्रमिष्यति नव निर्माणेः

विलसिष्यति भुवि शस्य निचोलम्

खगवाला वन कुञ्ज निकुञ्जे

गास्यति मधुरस्वरे प्रियगानम्

विहरिष्यसि पिक ! चूत निकुञ्जे

      समयः स्वयं समायास्यति

प्रावृट्

रिमझिम रिमझिम मेघो वर्षति ।

चेतः प्रियदर्शनमन्विच्छति ।

अलि ! सखि त्वं गुञ्जय वीणां

झूलायामुपविश्य प्रवीणां

पश्य चाम्बराचायं नमति

रिमझिम ।

सुधा चन्द्रिकां वर्षति चन्द्रः

अद्य मनो मे विलसति सान्द्रः ।

छली किलायं मन आकर्षति

रिमझिम रिमझिम मेघो वर्षति ।

 

पन्था मे

प्रियतम ! अनधिगतो मे पन्थाः

मनसि जिग्मिषा त्वरते माम् ।

धवल धरायां सुषमां दृष्टुं

चपल लालसा त्वरते माम् ।

घन तमसावृतमम्बर मास्ते

पंकिल मध्वा बपुरबलम् ।

झंझायामनुवहति प्रवातो

वृष्टि विन्दवो यान्ति तलम् ।

हृदय हारिणीयं मम यात्रा

महानन्दिनं कुरुते माम् । प्रियतम !

चमत्करोति दृशौ नु विद्युत्

तमो वर्द्धते भूयासम् ।

लक्ष्यमनन्तमिदं पाथेयं

स्वल्पमेव जनयत्यायासम्

पारे लक्ष्यं कथं नु यायाम्

मुहुरिति चिन्ता गुरते माम् । प्रियतम !

अध्वनि गच्छन्सदाऽद्वितीयो

नावलोकितः खलु पश्चात् ।

ऋते चरण चिह्नात् पथिलग्नात्

सहचारी लब्धो न पुरस्तात् ।

नीत्वा मनसि प्रयाणोन्मादं

"चरैवेति" कि रमते माम्। प्रियतम !

सिञ्जितमिदमारभते मोदं

नृत्यन्नूपुरझंकारम् ।

अलिकुल कलित मधुर गुञ्जनं

गीत-स्वराणां सञ्चारम् ।

प्रतीयते यत् पारे नद्याः

स्वागत गानं रजते माम् ।

प्रियतम ! अनधिगतो मे पन्थाः

मनसि जिग्मिषा त्वरते माम् ।
        
        अलकनन्दा से साभार

        लेखक - सच्चिदानन्द काण्डपाल

Share:

आधुनिक संस्कृत गीतकारों की प्रतिनिधि रचनायें (भाग 11)

 चल पश्यामः

( रागः - इमनकल्याणम् । तालः-कहरवा )

टङ्ग टङ्ग टङ्ग टङ्ग घण्टी क्वति

शनैः सनाथो गजः प्रयाति ।

चीत्कुर्वन्तश्चपला बालाः

वदन्ति भो भोः, पश्यत, पश्यत,

गज आयाति,

गज आयाति ।।"

आराद् बुक्कत्ति कुक्कुरवर्गः

द्विरदो धीरं चलति सगर्वः ।

विना निदेशं निषादिनोऽसौ

शृणुते न कस्य वचनं जातु

यो यद् वदतु,

न शङ्कते तु ।।

यदा यदाऽऽधोरण आदिशते

तदा तदाज्ञां परिपालयते ।

दात्रे पवित्रदानं वितरत्याशीर्वादम्

पवित्रदानं परिगृह्णाति,

कृतीति हस्ती,

जनाः स्तुवन्ति ।।

ऐरावत-कुल-भूषणमेषः

बभूव वाहनमपि भूपस्य ।

अतिथिः क्व राजकुलस्य मान्यः

ग्रामे ग्रामे क्व याचकोऽद्य ।

स एव हन्त !

करिणी-कान्तः ।।

वटस्य विटपे कृतानुरागः

सलील-कवलं कुरुते नागः

कुथेन वहते पुनश्च भारम्

मध्ये मध्ये हस्तं तनुते ।

चपला बालाः

प्रपलायन्ते ॥

पिपासितः सन्निव सुविरक्तः

विगाहतेऽसौ जले स्वतन्त्रः ।

सुखेन खेलन् खलु मातङ्गः

कवलीकुरुते कमलस्तोमम्,

तडागमध्ये

भ्रामं भ्रामम् ॥

पुनरायाति स तटप्रदेशम्

वप्रक्रीड़ां कुरुतेऽशेषम् ।

वदन्ति लोका हन्त हन्त हा

मलिनीकुरुते पुनरपि देहम्,

गजमूर्खोऽयम्,

गजमूर्खोऽयम् ।।

तथापि लोके प्रशस्तिरस्ति

शुभङ्करोऽसौ सदैव हस्ती ।

वने समृद्धो नगरे भिक्षुः

युगे युगे दर्शनीय-धाम,

निसर्ग-रम्यः,

चल पश्यामः ॥


चल चल शकट

शकटं वदति कें कें।

छागो वदति में में

ओतुर्वदति म्याउँ म्याउँ

बालः क्रन्दति क्वाउँ क्वाउँ ।

काहलो वदति पें पें ।

चुल्ली ज्वलति सें सें ॥

शङ्खो ध्वनति भूँ भूँ।

वृद्धः कुरुते खूँ खूँ ।।

चटका वदति चिक् चिक् ।

घण्टा वदति टिक् टिक् ॥

समयो वदति कुरु स्वकर्म ।

अलसं पुरुषं धिक् धिक् ।।

चलत सखायो घण्टाऽऽह्वयति ।

विद्यालयं याम,

पठेम सकलं शास्त्रं तत्र ।

गानं वा करवाम ॥

कन्दुकखेलो वाऽस्तु ।

वयं क्रीडाम चाद्य,

वदन्ति "वीरा" इति ये सततम् ।

तेषां वारश्चाद्यः ॥

पठेम विद्यां भवेम कृतिनः

पुरुषा जगति श्रेष्ठा

जयं करिष्वामहे च बुद्ध्या

शिल्पक्षेत्रे कृषिकर्मणि वा,

कलासु शास्त्रे

अथवा शस्त्रे,

यथा हि पूर्वे ज्येष्ठाः

कर्मणि नोऽस्तु निष्ठा ।।

अनन्तगगने खगा रमन्ते

वने भ्रमन्ति व्याघ्राः ।

गभीरजलघौ मकरा मत्स्याः

खेलन्ति शुभ्रा यथा तरङ्गाः ।

वयं तु याम,

      तत्र खेलाम,

सन्तो नित्यमुदग्राः !

जागृत तरुण-व्याघ्राः ॥

वदन्ति सर्वे पुष्पकयानम्

पुराणसमय आसीत् ।

रोहाम एव तत् खलु यानम्

यामो नित्यं गगने नूनम् ।

वयं हि देवाः

वयं पिशाचाः,

यथा चरन्तः सकलं कर्म

सुरा वाऽसुराः स्याम ।।

परदेशे वा निजदेशे वा

गृहे बहि-र्वा स्याम।

पूतचरित्राः प्रभूतनिष्ठाः

स्वदेशपुत्राः सदा सुयोग्याः ।

भारतजननी

वीरप्रसविनी

वयमिव तनया धन्याः

पितरोऽस्माकं मान्याः ॥

अयं निजो नः परो वेति किं-

गणना नित्यं हेया ।

उदारमनसः सदा नमन्ति

नरा असंख्या विपुला पृथ्वी

इति भावयन्ति,

गुणैश्च भान्ति,

संस्कृतिरेवं ध्येया

भारतगीतिर्-गेया ।।

१०

चल चल शकट !

चल लघु यन्त्र !

डयस्व गगने यान !

विद्युत् ! चपलं दर्शय मार्गम्,

गृहे बहिश्च ज्वल नः ॥

११

चलनं मधुरं शिवं विभातु

सरणौ सरणौ कुसुमं पततु।

महतो वचनं गुरूणामाज्ञा

परम्पराया महासमज्ञा ।

सर्वं शिरसि हि धार्य्यम्

परं पश्य कुरु कार्यम् ॥


भवन्तु लोका मयि सन्तुष्टाः

चित्रपतङ्ग ! चित्रपतङ्ग !

भ्रातर्वद किं नाम तवैव ।

किं कुरुषेऽत्र किं ते कार्यम् ?

कुसुमात् कुसुमं यासि सहर्षम्

कथमुद्यानं रम्यम्,

 कृते तवास्ति सुमानि किम्बा

स्फुटन्ति वद हे सौम्य !


अहो वयस्य ! किं मे नाम्ना

किं मे पित्रोरथवा धाम्ना ।

सुमं ममास्ति प्रियमत्यन्तम्

स्वान्तःसुखाय भ्रमणं नित्यम् ।

हसामि हर्षं ललितवसन्ते

नाहं कस्यायत्तः,

परिचुम्वामि कुसुमं सकलम्

कर्मेतन्मे मित्र !


न जानासि किं चित्रपतङ्ग !

भान्ति समग्रा लता ममैव ।

अहं चिनोमि कुसुमानि मे

प्रभुत्वमित्थं कथं तवात्र !

पतत्रिजातिः किं वा वेत्ति

सुमस्य रुचिरं गन्धम् !

यदर्थमास्ते यदेव वस्तु

तदेव विभातु नित्यम् ।।


वदति पतत्री वितत्य पत्रम्

शृणु हे वन्धो ! पुनः शृणु त्वम् ।

गगने पवने वितते लोके

अधिकारस्ते यथा तथा मे,

उदारचेताश्चिन्तय चित्ते

पदं स्वकीयं सेव्यम् ।

यथा तव स्वगेहं सुखदम्

तथा वनं मे दिव्यम् ।।

 

वद हे वन्धो ! वनं यदीत्थम्

मनुषे निजस्य सुमानि च त्वम् ।

सुगन्धि-सेवा भवति यदा ते

किमस्ति शेषः कथय तदा मे,

 त्वं खलु रमसे यथा स्वतन्त्रः

तथा कामये नित्यम् ।

भवन्तु लोका मयि सन्तुष्टाः

दिश माऽऽदिशेति मित्र

 

कुरु मे वचनं सततं भ्रातः !

त्वमिष्टपाठे मनो नियुङक्ष्व ।

जगदारामे समं समस्तैः

हस प्रहर्षं प्रसूनवत्त्वम्,

तवाननश्रीः सकलैः काम्या

साधय साधय भद्रम् ।

शोभय जगदुद्यानं नितराम्

सुखं च भजस्व मित्र ! ॥


लभे प्रमोदम्

( रागः - शङ्कराभरणम्, तालः-कहरवा )

इदं रकेटं त्वरितं त्वरितम्

चलतितरां मे दूरदिगन्तम् ।

प्रयाति तरसा सरलीभूतम्

पुष्कर मध्ये न विरमतीदम्,

रमतेऽत्यर्थम्

हरते चित्तम् ।।

इदं सधूमं दृश्यत इव किम्

प्रयाति पारेपुष्करमिव किम् ।

प्रचलतु पुरतः पयोदमध्ये

मिलतु सलीलं घनघनै-स्तत्,

अथवा युद्ध

मध्ये मध्ये ।।

रुषीय - रकेट-मतिदूरस्थम्

अन्तरवर्त्ति तथा ममेदम् ।

हे प्रिय रकेट ! मम लघुगामि

प्रयाहि शीघ्रं महान्तरीक्षम्,

अहमपि यामि

मुदा भ्रमामि ।।

कुमुदवान्धबो निवसति यत्र

प्रयाहि हे मम रकेट ! तत्र ।

प्रतीक्षते मे स चन्द्रमामः

हृदाऽऽलिङ्गितुम् अनुरक्तेन,

प्रसन्नवदनः

कुरङ्गचिह्नः ॥

त्वया गृहीतं विनोदवृत्तम्

ततोऽनुयाति त्वा मम चित्तम् ।

याहि याहि तत् चन्द्रमण्डलम्

प्रेम निवेदय मनसोऽपारम्,

स्मारं स्मारम्

शुभसम्भारम् ।।

वयमिच्छामश्चिर – सौहार्द्दम्

चन्द्रमाम हे नय नो हार्द्दम् ।

दृढीभवतु नः प्रियतावन्धः

रुचिरतरोऽस्तु गतिप्रवन्धः;

त्वं मम मामः

मातुर्मामः,

पितुरपि मामः

सार्वजनीनः ॥

रकेटयानं मामकमिष्टम्

दर्शं दर्शं लभे प्रमोदम् ।

स्वदेशमानं वहमानस्त्वम्

बहुमानं नो लभमानस्त्वम्,

कुरुष्व हर्षम्

सुख-प्रवेशम् ।।

यथायि रकेट ! दूरतरं ते

लक्ष्यं तथाऽस्ति ममापि कृत्ये ।

चलेन मनसा शपेऽहमद्य

पदवीं लप्स्ये सतीमवश्यम्,

करवै वश्यम्

जगत्यशेषम् ॥

चन्द्र ! त्वमेव वरेण्यमामः

सकल-शिशूनां भवसि हि काम्यः ।

समेधतां नः प्रियता-वन्धः

प्रसरतु लोके प्रेम - सुगन्धः,

रकेटमेवम्

उपैतु भव्यम् ।।

१०

मूर्त्तः प्रणयोऽमृत एवास्तु

मम संदेश-श्चिरं शमेतु ।

चलतु रकेटं सत्वरमेवम्

लभतां चित्तं मम संयोगम्,

भवतु स्वर्ग्यम्

सकलैर्भाग्यम् ।।


अयि मे मातर्वसुन्धरे

 

अयि भारतजननि ! विश्वविजयिनि !

वन्दे चरणं, वन्दे चरणम्,

वन्दे तव चरणाब्जम् ।

तव पुण्यरजो मम चन्दनमिष्टम्

चकास्तु तनौ हि नित्यम् ॥

भारतवर्षं तनुते हर्षं

हृदये मे चिरमत्र,

जलपवनै – र्मम जीवनमस्ति

अन्नमद्भिः ते करोमि प्रणतिम् ।

त्वदन्तरीक्षं शोभनमस्ति

कुर्वे ततः प्रशस्तिम् ।।

भारतवर्षं पुण्यभूमिः

जन्मभूमि हि कर्मभूमिः ।

तनयास्तस्या वयं हि सर्वे

तदुत्सङ्गके निवासिनो ये ।

वयं नायका वयं भावुकाः

कर्मकराः स्मोऽध्यसायिनश्च

देशाय सततं यतामहे ॥

वयं शासका वयं च कृषिकाः

स्वदेश-मातुः सदा रक्षकाः ।

माऽस्तु कश्चिद् दुःखी पापी

यथाहमस्मि स तथास्तु सुखी

वयं हि भारतपुत्राः ।

हृदये वचने कर्मणि नित्यं

भवेम साधुचरित्रा ।।

सेयं जननी मातृभूमिः

सेयं जननी पुण्यभूमिः,

सेयं जननी दिव्या वसुधा

सेयं ममैव कर्मभूमिः,

धर्मभूमिश्च स्वर्गभूमिः ।

हासः खेलो यत्र क्रन्दन-

मधुना कथं नु प्रजहामि ?

अस्या धूलिः पुण्या

अस्याः सलिलं मधुरम् ।

अस्याः पवनः सेव्यः

अस्या गीतं गेयम् ।

तृणं लता वा पुष्पं यत् तत्

चकास्तु चिरमवधेयम् ।।

अस्यां रूपं दृश्यम्

अस्यो गुण आदर्शः,

अस्या गन्धः पेयः

अस्याः स्पर्शः स्वर्गः,

इन्द्रिय-जातं भवतु मे शक्तम्

गृह्णातु हि तद् भोग्यम् ।।

अयि मे मातर्वसुन्धरे !

शृणु मे प्रियमाह्वानम्,

पूरय ममाभिलाषम्

प्रदेहि मे सन्तोषम् ।

सुखमैश्वर्यं शुभमश्रान्तम्

द्रदेहि मे चाशेषम् ।।

हे प्रजामयि ! हे पुण्यमयि !

शक्तिमत्यसि, शक्तिं मयि धेहि ।

कीर्त्तिमत्यसि, कीत्ति मयि धेहि !

बुद्धिमत्यसि, बुद्धिं मयि धेहि ।

शान्तिमत्यसि, शान्तिं मयि धेहि ।

हे कृपामयि ! हे सुधामयि !

त्वं मयि धेहि, त्वं मयि धेहि ॥


मातृवन्दनम्

( राग - खरहरप्रिया । तालः - कहरवा । )

नमामि मातस्तव चरणम्

जन-संहति - शुभफलदे !

भारतजननि ! विश्वविजयिनि !

ममतामयि ! वरदे !

शुभदे ! जननि ! संहति.... ।।

गङ्गा-यमुने वहतो नित्यम्

पाप-निवारणदक्षे !

तुङ्गहिमालय उन्नतमूर्धा

स्पर्धत इतरैः संख्ये ।

सततं बहुफलदे !

सुखदे ! जननि ! संहति.... ।।

तव उपवने विकसति पुष्पम्

तव वृक्षे कूजति पक्षी ।

तव चरणं सेवत उदधिः

वाञ्च्छति तव च समृद्धिम् ।

अयि भारतजननि ! वन्दे,

जननि ! संहति .... ।।

दीपज्योतिनित्यम्

शंसति नश्चिर - सत्यम् ।

निर्मलगगने चन्द्रः

वितरति नः खलु सौख्यम् ।

सर्वं चित्रं तनुते, जननि ! संहति .... ।।

प्रदीयतां नः श्रेयः

समर्ण्यतां नः प्रेयः

समेधतां नः कीर्त्तिः

प्रसरतु गुरुजने भक्तिः ।

तनुतां तव सुतभाग्यम्,

जननि ! संहति.... ।।

प्रसीद हे परमेश !

कुरुष्व तमसो नाशम् ।

प्रयच्छ जनता-शुभ-सुखदे !

जननि ! संहति .... ।।


साभार- रङ्गरुचिरम्

लेखकः- पण्डित दिगम्बर महापात्रः

Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)