मैं अपने इस संकलनात्मक आलेख की श्रृंखला में अबतक 4 भाग प्रस्तुत कर चुका हूँ। उनमें नवीन रचनाकारों के प्रतिनिधि संस्कृत नवगीति (संस्कृत गीत) के साथ-साथ रचनाकरों की संक्षिप्त जीवनी भी दिया हूँ। प्रस्तुत भाग- 5 में भी गीतों की लोकोपयोगिता को ध्यान में रखकर गीतों का चयन किया गया है। साहित्यिक दृष्टिकोण से इन रचनाकरों की कतिपय अच्छी रचना रहते हुए भी उसे यहाँ सम्मिलित नहीं करने की विवशता भी है।
संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-5) में अधोलिखित गीतकारों के गीत संकलित हैं-
गीतकारों के नाम
जनार्दन हेगडे
डॉ. विश्वास
रामनाथ सुमन
पुत्री मम खलु निद्राति
मानसं मम विकसितं कुरु
मानसं मम विकसितं कुरु
मानसचर हे।
कुरु निर्मलम् उज्ज्वलम् अयि
चिर सुन्दर है।
उद्यतम् अतिप्रबुद्धम् अपि
निर्भयं कुरु हे।
सुशिवम् अनलसम् अति
निःसंशयं कुरु हे।
आन्तरं मम विकसितं कुरु
आन्तरतर हे।
योजय मां निखिलसङ्गे
मुञ्च हे मम बन्धनम्।
सञ्चारय सकलकर्मसु
शान्तं तवच्छन्दः।
चरणपो चित्तं मम
निष्पन्दितं कुरु हे।
कुरु नन्दितम्, अतिनन्दितम्,
अभिनन्दितम् हे।
आन्तरं मम विकसितं कुरु
आन्तरतर हे।
संख्या-गीतम्
एकम् एकम् आगच्छ ।
द्वे द्वे स्वागतम् ।
त्रीणि त्रीणि उपविश ।
चत्वारि चत्वारि कुशलं वा ?
पञ्च पञ्च कः विशेष: ?
षट् षट् कृपया वद ।
सप्त सप्त दुग्धं पिब ।
अष्ट अष्ट पुनर्मिलामः ।
नव नव नमस्ते ।
दश दश राम राम राम ।
एहि एहि वीर रे
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
त्वं हि मार्गदर्शकः । त्वं हि देशरक्षकः । त्वं हि शत्रुनाशकः । कालनागतक्षकः ॥
त्वं हि मार्गदर्शकः । त्वं हि देशरक्षकः । त्वं हि शत्रुनाशकः । कालनागतक्षकः ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
साहसी सदा भवेः । वीरतां सदा भजे । भरतीयसंस्कृतिं । मानसे सदा धरेः ॥
साहसी सदा भवेः । वीरतां सदा भजे । भरतीयसंस्कृतिं । मानसे सदा धरेः ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
पदं पदं मिलच्चलेत् । सोत्साहं मनो भवेत् । भारतस्य गौरवाय । सर्वदा जयो भवेत् ॥
पदं पदं मिलच्चलेत् । सोत्साहं मनो भवेत् । भारतस्य गौरवाय । सर्वदा जयो भवेत् ॥
एहि एहि वीर रे । वीरतां विधेहि रे । भारतस्य रक्षणाय । जीवनं प्रदेहि रे ॥
शुनक शुनक एहि एहि
शुनक शुनक एहि एहि !!
किमिव रोचते
खाद्यमहो पेयमहो
सर्वमिष्यते।।
शुनक शुनक सर्वमिदं
कुत अपेक्ष्यते
अत्त्वा पीत्वा सर्वमिदं
वेश्म रक्ष्यते ।।
शुनक शुनक दृष्टे चौरे
किं विधीयते
बौ बौ बौ बौ
इति हि भष्यते।।
साधु शुनकानीय गृहात्
खाद्यमर्प्यते।
शीघ्रमेहि अत्त्वा सपदि
वेश्म रक्ष्यते।।
अहं पठामि
अहं लिखामि । वयं लिखामः ।
अहं हसामि । वयं हसामः ।
अहं चलामि । वयं चलामः ।
अहं पश्यामि । वयं पश्यामः ।
अहं स्मरामि । वयं स्मरामः ।
अहं गच्छामि । वयं गच्छामः ।
अहं क्रीडामि । वयं क्रीडामः ।
अहम् आगच्छामि । वयम् आगच्छामः ।
अहम् इच्छामि । वयम् इच्छामः ।
अहम् उपविशामि । वयम् उपविशामः ।
मम देवाः
मातापितरौ गुरवो ज्येष्ठाः
देवाः खलु तान् प्रणमामः ।
अतिथिर्बन्धुः सकलो लोकः
श्रद्धेयास्तान् प्रणमामः ॥
सूर्यश्चन्द्रस्तारा गगनं
वन्द्याः ननु तान् प्रणमामः ।
धेनुर्वृषभः खगाश्च पशवः
उपकर्तॄन् तान् प्रणमामः ॥
जननीं भूमिं भारतदेशं
भक्त्या वयं नु प्रणमामः ।
गिरीन् तरूनपि नदीश्च कूपान्
प्रभातकाले प्रणमामः ॥
अनिलजलादीन् अनलतृणादीन्
सर्वान् मनसा प्रणमामः ।
वाग्देवीं तां ज्ञानदायिनीं
प्रयता नियतं प्रणमामः ॥
--डाॅ जनार्दन हेगडे
अहं प्रभाते उत्तिष्ठामि
अहं प्रभाते उत्तिष्ठामि
मातापितरौ प्रणमामि ।
देवान् भक्तवरेण्यान् नत्वा
पठने मतिं विधास्यामि ॥
विना विलम्बं शालां गच्छन्
पाठ्यांशान् अवगच्छामि ।
सर्वान् विषयान् सम्यगधीत्य
बुद्धिविशदतां प्राप्नोमि ॥
शिष्टाचारान् साधुविचारान्
वृद्धिकरान् आकलयामि ।
विद्याभ्यासाचारविचारैः
सर्वश्रेष्ठतां विन्दामि ।
ध्येया धरणीयम्
जननीयम्, मम जननीयम्, भारतधरणीयम्
पावनचरितेयम्, श्रितजनवरदेयम्
सुरनुतचरणेयम् ।। जननीयम्।।
वेदबृंहिता शास्त्रमण्डिता दर्शनसम्पदियम्
ऋषिमुनिमहिता कविकुलगीता भूतलरत्नमिदम् ।
वसुदा वसुधा सर्वसवित्री शर्मदभूमिरियम्
पुण्यधरित्री ज्ञानशेवधिस्सकलैर्वन्द्येयम्।।
जननीयम् .....
निरुपमसत्त्वा विविधगुणाढ्या संस्कृतिसारेयम्
सरससरिद्भिस्तुङ्गभूधरैर्भूषितकायेयम् ।
सस्यसमृद्धा सुभगनिसर्गा न्यक्कृतनाकेयम्
बाहुबलेड्या बहुबलधर्त्री धर्मविधात्रीयम्।।
जननीयम्....
निर्मलचित्तैस्तन्वा विभवैस्सदा हि सेव्येयम्
हृदि धरणीया सुतैस्समस्तैरनन्यशरणेयम् ।
भगिनि, भ्रातः, सुहृद्वान्धवाः, पूज्या मातेयम्
रात्रिन्दिवमप्यविरतमनसा ध्येया धरणीयम्।।
जननीयम्.....
लेखक- जनार्दन हेगडे
प्रयाणगीतम्
चन्दनतुल्या भारतभूमिः
रामनाथ सुमन
चन्दनतुल्या भारतभूमिस्तपस्थली
ग्रामो ग्रामः ।
बाला-बाला देवी प्रतिमा वत्सो वत्सः
श्रीरामः।
मन्दिरवत् पावनं शरीरं
सर्वो मानव उपकारी।
सिहा इह खेलनका जाता
गौरिह पूज्या जनयित्री।।
इह प्रभाते शङ्खध्वनिः सायं
सङ्गीतस्वान्।
बाला-बाला देवी प्रतिमा वत्सो वत्सः
श्रीरामः ।। (1)
अत्र कर्मतो भाग्यनिर्मितिः
पौरुषनिष्ठा कल्याणी।
अत्र त्यागतपस्या मिश्रा
गाथा गायति कविवाणी।।
अत्र ज्ञानप्रवाहो गङ्गासलिलनिर्मलो
ह्यविरामः ।
बाला बाला देवीप्रतिमा वत्सो वत्सः
श्रीरामः ।। (2)
अत्रत्यैः सैनिकैः समरभुवि
सदा गीयते श्रीगीता।
अत्र क्षेत्रे हलफालाधः
खेलति सुकुमारी सीता।।
अत्र जीवनादर्शे जटितो
मङ्गलमयमणिरभिरामः ।
बाला बाला देवी प्रतिमा वत्सो वत्सः
श्रीरामः ।। (3)
प्रयाण-गीतम्
पदं पदं प्रवर्धते,
किशोरगुल्मसैनिकः !
जयत्वकामनायुतः विजेतृगीत-गायकः!!
स्वतन्त्रताप्रवर्तकः स्वतन्त्रदेशरक्षकः!
स्वतन्त्रता-सुवर्ण-जन्यवर्ण-मोद-वर्धकः!!
अशोक-चक्रशोभितः करे ध्वजः
त्रिवर्णकः!
हृदि प्रतापवीरता अदम्य-साहसान्वितः!!
न मार्गरोधने क्षमाः समुद्र-पर्वतादिकाः
!
समस्तवैरिनाशकः यथा सुवीरसायकः!!
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें