अथ कन्यापिता विवाहात्पूर्व चन्द्रतारानुकूले शुभे दिने स्नात्वा नित्यकर्मं विधाय नवमहतं वासः परिधाय एकान्तविष्णुमन्दिरं गत्वा स्वासने प्राङ्मुख उपविश्य स्वदक्षिणतः संस्कार्य कन्यां चोपवेश्य दीपं प्रज्वाल्य आचम्य स्वस्तिवाचनशान्ति पाठादिकं कृत्वा सुमुखश्चेति गणेशादिस्मरणानन्तरं संकल्पं कुर्यात् । तद्यथा-अद्येह ममामुकगोत्रायाः अमुकराशेरस्याः कन्याया जन्मसामयिकलग्नाद् अमुकस्थान स्थितामुकदुष्टग्रहसंसूचित वैधव्यादि-दोषनिराकरण-पूर्वक-सौभाग्यप्राप्तिद्वारा भविष्यद्भर्तुरायुरारोग्यैश्वर्यसुखावाप्तये श्रीपरमेश्वरप्रीतये च कुम्भेन सह कन्योद्वाह कर्माहं करिष्ये तत्पूर्वाङ्गत्वेन कलशस्थापन-पुण्याहवाचन-नीराजन-मातृकापूजन वसोर्धारा-निपातनायुष्य-मन्त्रजपाभ्युदयिक-नान्दी श्राद्धादीनि करिष्ये, तत्रादौ निर्विघ्नतासिद्धये श्रीभगवतो गणेश्वरस्य पूजनं करिष्ये । इति सङ्कल्प्य गणपत्यादिपूजनं कृत्वा पूजनपूर्वकमाचार्यं वृत्वा सुवर्णनिर्मितां वरुणप्रतिमां विष्णुप्रतिमां च अग्न्युत्तारणपूर्वकं पञ्चामृतेन संस्नाप्य कलशविधिना स्थापिते जलपूर्णकलशे संस्थाप्य ॐ एतं ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टम् यज्ञ समिमं दधातु विश्वे देवास इह मादयन्तामों ३ प्रतिष्ठ ।। ॐ भूर्भुवः स्वः सुवर्णप्रतिमायां वरुण इहागच्छेह तिष्ठ सुप्रतिष्ठितो वरदो भव । इति प्राणप्रतिष्ठां कृत्वा तथैव विष्णुमपि प्रतिष्ठाप्य कन्याया मङ्गलस्नानं कारयित्वा कंकणबन्धन नूतनचित्रवस्त्रभूषणादिभिः कन्यामलंकृत्य कुम्भसमीपे समानीय पूजनसंकल्पं कारयेत् ॐ अद्येह अमुकगोत्राया अमुकनाम धेयायाः अस्याः कन्याया जन्मसामयिकलग्नाद् अमुकस्थानस्थितामुकग्रहै: संसूचित वैधव्यदोषनिराकरणपूर्वकसौभाग्यसमृद्धिद्वारा भविष्यद्भर्तुरायुरारोग्यैश्वर्याभि वृद्धिकामनया श्रीपरमेश्वरप्रीत्यर्थं च कलशे सुवर्णप्रतिमयोः श्रीविष्णुवरुणयोः पूजनं करिष्ये। इति संकल्प्य ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविभिः । अहेडमानो वरुणेह वोध्युरुषधं समान आयुः प्रमोषीः ।। ॐ विष्णोरराटमसि विष्णोश्नप्वेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि वैष्णवमसि विष्णवे त्वा ।। इति पठित्वा पाद्यादीनि समर्पयामि वरुणाय नमः ।। विष्णवे नमः इति यथोपचारैः वरुणं विष्णुं च सम्पूज्य पुष्पाञ्जलिं गृहीत्वा प्रार्थयेत्–वरुणाङ्गस्वरूपस्त्वं जीवनानां समाश्रय । पतिं जीवय कन्यायाश्चिरं पुत्रान् सुखं कुरु। देहि विष्णो वरं देव कन्यां पालय दुःखतः। पतिं जीवय कन्यायाश्चिरं देहि तथा सुखं ।। इति संप्रार्थ्य मधुपर्केण अर्चयित्वा वस्त्रा लङ्कारादीन्समर्प्य कन्याकुम्भान्तरालेऽन्तः पटं कृत्वा कन्यावस्त्रपरिधानानन्तरं अन्तः पटमपसार्य समञ्जनान्ते विवाहोपयोगि मङ्गलपद्यपाठं कारयित्वा कन्यापिता कन्यादानसङ्कल्पं कुर्यात् । ॐ विष्णुः ३ इत्यादि अद्येह अमुकोऽहम् अमुकराशेरमुकनामधेयाया ममास्याः कन्यायाः जन्मसामयिकलग्नाद् अमुकस्थानस्थितामुक-दुष्ट-ग्रहसंसूचितवैधव्यदोष परिहारपूर्वक सौभाग्य-सिद्धिद्वारा अस्या भविष्यद्भर्तुरायुरारोग्यैश्वर्य्य वृद्धिकामः अमुकगोत्रां अमुकप्रवरां अमुकनाम्नी श्रीरूपिणीं वरार्थिनीं इमां कन्यां श्रीविष्णु वरुणस्वरूपिणेकुम्भाय तुभ्यमहं संप्रददे। ॐ तत्सत् इति संकल्प्य दत्त्वा - अद्य वैधव्यदोषनिवृत्तये कृतैतत्कुम्भ विवाहकर्मणि कन्यादानप्रतिष्ठार्थं इमां दक्षिणां श्रीविष्णुवरुणस्वरूपिणे कुम्भाय तुभ्यमहं संप्रददे इति समर्पयेत् । तदुत्तरं अञ्चलग्रन्थिबन्धनादिसर्वं विवाहविधिवत्कृत्वा 'परित्वा' इत्यर्कविवाह स्थितैर्दशभिः मन्त्रैरधस्तादुपरिष्टाच्च मन्त्रावृत्त्या कन्यां कुम्भं च दशतन्तुसूत्रेण परिवेष्टयेत्। ततः किञ्चित् स्थित्वा वेष्टितसूत्रात्कुम्भं निस्सार्य जलाशये विसृजेत्। ततः पञ्चपल्लवजलेन कन्यामभिषिच्य विष्णुवरुणप्रतिमे वैवाहितवस्त्रादीनि च आचार्याय दद्यात्। तत्र संकल्पः - अद्येह अमुकगोत्रा अमुकराशिरमुकनामधेयाहं मम जन्मसामयिकलग्नाद् अमुकस्थान-स्थितामुकदुष्टग्रहसंसूचित-वैधव्य-दोष परिहारद्वारा सौभाग्यफल-प्राप्तिपूर्वक-भविष्यन्मद्भर्तृशरीरारोग्यायुर्वृद्धिकामा इमे सुपूजिते विष्णुवरुणप्रतिमे इमानि वैवाहिकवस्त्रादीनि च अमुकगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ॐ तत्सत् इति संकल्प्य दद्यात् । ॐ स्वस्तीति प्रतिवचनं । ततो दानप्रतिष्ठां दद्यात् । ॐ अद्य कृतैतत्सुपूजित श्रीविष्णुवरुणप्रतिमादानप्रतिष्ठार्थं इमां दक्षिणां अमुकगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे इति दद्यात् । ततोऽभिषेकतिलकविप्राशीग्रहणम्। सम्प्रदायानुरोधेन अन्येभ्योऽपि ब्राह्मणेभ्यो भूयसीदक्षिणादानम् यथाशक्ति ब्राह्मणभोजनादिकं च कार्यम्। ततः कन्याविवाहं कुर्यात् ।
इति कुम्भविवाहविधिः ।
बहुत सुंदर।पर अगर विवाह प्रक्रिया के क्रम का हिंदी अनुवाद भी साथ होता तो हम जैसे नौसिखियों के लिए समझना थोड़ा सरल हो जाता
जवाब देंहटाएं