संस्कृत
के आधुनिक गीतकारों की प्रतिनिधि रचनायें
(भाग-1) में अधोलिखित गीतकारों के गीत संकलित हैं-
गीतकारों
के नाम पुस्तक का नाम कुल गीत
1. अभिराज
राजेन्द्र मिश्र वाग्वधूटी, गीतभारतम्
1+1
2.
ओम् प्रकाश ठाकुर इन्द्रधनुः 4
3. केशव प्रसाद गुप्त कनीनिका, कल्लोलिनी 5
4.
नव लता अप्रकाशित 3
5.
श्यामरामकवि गीतपीतवसनम् 1
6.
भि. वेलणकर जवाहरचिन्तनम् 1
7.
शिवदत्त शर्मा चतुर्वेदी शैवी 1
8.
मनोरमा गीतमालिका 2
9. वासुदेव द्विवेदी शास्त्री भारतराष्ट्रगीतम्, बालकवितावलिः
1+1
1.
काली प्रसाद शास्त्री 1
11.
अज्ञात 1
12. प्रो. राधावल्लभ त्रिपाठी गीतधीवरम् 1
13. रुद्रदेव
त्रिपाठी 2
14. चन्द्रभानुः त्रिपाठी 2
15.
वेणीमाधव शास्त्री भा. जोशी,बाल संस्कृत सारिका 1
16.
परमहंस मिश्र मधुमयं
रहस्यम् 2
17. श्यामानन्द
झा श्यामानन्दरचनावलिः 1
अभिराज राजेन्द्र मिश्र
साभार- वाग्वधूटी
गीतभारतम् से साभार-
भारतं स्वतन्त्रं जातं रे
गायत गायत भो समवेताः भारतं स्वतन्त्रं जातं रे
जातो निरङ्कुशो हिमालयः प्राङ्गणं स्वतन्त्रं जातं रे।।
आत्मीये भारतराष्ट्रे भो आत्मीयाः शासनकर्तारः
नो राजा कोऽपि प्रजा न वा, द्वयमपि स्वतन्त्रं जातं रे ।।
प्राणाहुतयो दत्ता वीरैः स्वातन्त्र्यमवाप्तुं दिवङ्गताः
अवशिष्टानां सौख्यं सम्प्रति, जीवनं स्वतन्त्रं जातं रे ।।
आकाश्मीरात् सिन्धुं यावद् भारतमेकतासूत्रबद्धम्
उत्थाप्य त्रिवर्णध्वजं करे घोषयति स्वतन्त्रं जातं रे !!
स्वातन्त्र्यमवाप्तं सौभाग्यात् दौर्भाग्याद्राष्ट्रं विखण्डितम्
नो हास्यं नो रोदनं मुखे, ननु गृहं स्वतन्त्रं जातं रे !!
झञ्झाया हन्त विपाकोऽयं, किं भविता को ननु जानीते
लेखक- ओम् प्रकाश ठाकुर
भारतीय मनीषा
वद केशव ।
वद केशव ।
किमिदं क्रीडनकम् ?
नहि नहि नहि
एतत् संगणकम्।
श्यामे ! त्वं वद
किं विदधाति ?
प्रश्नानाम्
उत्तरं ददाति ।
अंगुलिमिह
गुटके न्यस्यामि
क्रमशोऽहं
प्रश्नान् पृच्छामि ।
कोऽसौ कोऽसौ ?
येन विरचिता
अष्टाध्यायी
सूत्रैः ग्रथिता ।
वाचयते लिखितं
हरिशरणः
मुनिः पाणिनिः
वैयाकरणः
भैषज्ये कौ
लोकविश्रुतौ
मुनिमान्यौ तौ
चरक - सुश्रुतौ ।
नाट्ये शिल्पे
काऽद्भुतरचना ?
भरतनाट्य-
शास्त्रं तत्प्रथना ।
किं नामैतद्
उपग्रहयानम् ?
आर्यभटम्
विश्वेऽजितमानम् ।
आर्यभटः कः?
ज्योतिर्विज्ञः
ग्रहगतिकथनपटुः
गणितज्ञः।
गणिते या
रचना विख्याता
लीलावत्याः
को निर्माता ?
आचार्योऽसौ
भास्करनामा
तस्यैषा
रचना अभिरामा ।
प्रतिपादयते
यश्चैतन्यं
पादपमध्ये तस्य नाम किम् ।
विस्मितमकरोद्
योऽखिलविश्वं
वसुरिति विदितो
जगदीशोऽयम् ।
अभिनन्द्यं
प्राच्यं विज्ञानं
रक्ष्यमिदं
बहुमूल्यनिधानम् ।
इन्द्रधनुः से साभार-
लेखक- ओम् प्रकाश ठाकुरः
संस्कृतं भूतले राजतां भ्राजताम्
या गिरा ज्ञानपीयूषसंर्वार्षिणी
भुक्तिमुक्तिप्रदा धर्म-संदर्शिनी
पौरुषप्रेरिणी दैन्यसंहारिणी
भव्यभावैर्भवे शान्तिविस्तारिणी
सर्वदा तत्प्रभा मानसे द्योतताम्
संस्कृतं भूतले राजतां भ्राजताम् ।
या प्रदत्ते जनेभ्यो नवां प्रेरणाम्
इष्टकामांश्च या सत्यशोधार्थिनां
ज्ञानविज्ञानशास्त्रैः समुद्भासते
याऽमरैर्मानवैः सर्वदोपास्यते
के न धन्या जगत्यां हि संसेव्यताम्
संस्कृतं भूतले राजतां भ्राजताम् ।
सर्वभावप्रकाशे परं पण्डिता
शब्दमाधुर्य-गाम्भीर्य-सम्मण्डिता
सत्कथालापिनी गीतिकल्लोलिनी
काव्यसम्मोहिनी सज्जनामोदिनी
जीवनी विष्टपे याऽखिलानां गिराम्
संस्कृतं भूतले राजतां भ्राजताम् ।
यत्र देवस्य काव्यामृतं राजते
यत्र सारस्वतं वैभवं भ्राजते
सभ्यता संस्कृतीनामियं जीवनी
विश्वसन्मङ्गला विज्ञसंतोषिणी
रक्षतेमां बुधाः कल्पवल्लीनिभाम्
संस्कृतं भूतले राजतां भ्राजताम् ।
इन्द्रधनुः से साभार
लेखक- केशव प्रसाद गुप्त
मातृभूमिः
अर्चनीया सदा वन्दनीया सदा ।
मातृभूमिर्मया
सेवनीया सदा ।।
प्रेमपूर्णानुरागेण
या रञ्जिता । नेहनीरप्रवाहेण या सिञ्चिता ।।
साधुसन्तप्रभावेण
या नन्दिता । तीर्थराजप्रयागेण या मण्डिता ।।
यत्नतः
सा सुतैर्रक्षणीया सदा ।
मातृभूमिर्मया
सेवनीया सदा ।।
धर्मकर्माञ्चिता
याऽस्ति पुण्यस्थली । योगिवैरागिणां सर्वसिद्धस्थली ।।
रामकृष्णादिनां
दिव्यकर्मस्थली। बुद्ध-बापू-महावीरजन्मस्थली ।।
तत्कथाकौमुदी
कीर्त्तनीया सदा ।
मातृभूमिर्मया
सेवनीया सदा ।।
यत्र
देवापगा लीलया राजते । यत्र वेदत्रयी श्रद्धयागीयते ।।
यत्र
सङ्गीतनादो मुदा श्रूयते यत्र कन्या तु गौरीव सम्पूज्यते ।।
तत्रजा
संस्कृतिर्वर्धनीया सदा ।
मातृभूमिर्मया
सेवनीया सदा ।।
किन्नरैर्देवयक्षादिकैरादृता
शास्त्रपारङ्गतैः पण्डितैरर्चिता ।।
शासकै:
शासितैः साधकैः सेविता । तापसैर्धार्मिकैर्नायकैश्चर्चिता ।।
मृत्तिका
पावनी पूजनीया सदा ।
मातृभूमिर्मया
सेवनीया सदा ।
सत्कवीनां
मुखे राजतां शारदा । पातु नारायणी 'केशवं'
सर्वदा ।
वत्सला
निश्छला शान्तिसौख्यप्रदा । अन्नदा पुण्यदा शक्तिसामर्थ्यदा । । ।
आर्यभूमिर्जनैः
शंसनीया सदा ।
मातृभूमिर्मया
सेवनीया सदा ।।
कनीनिका
से साभार
लेखक-
केशव प्रसाद गुप्त
जयति जयति नो भारतदेशः
गायति
विधिजा लिखति गणेशः ।
जयति
जयति नो भारतदेशः ।।
राजति शीर्षे गिरिर्विशालः ।
चुम्बति चरणं जलनिधिमाला ।।
विविधवितानं सृजति दिनेशः ।
जयति जयति नो भारतदेशः । ।
गङ्गा-यमुना-
शतद्वादयः ।
गोदा-कृष्णा-महाप्रभृतयः
।।
वहन्ति
नद्यो नुदति जलेशः ।
जयति
जयति नो भारतदेशः ।।
वसन्ति बहवो यत्र सात्विकाः ।
चरन्ति धर्म स्वकं धार्मिकाः ।।
एको देशो नैको वेशः ।
जयति जयति नो भारतदेशः ।।
आर्य
संस्कृतिश्चैव सभ्यता ।
वन्द्या
विश्वे सैव सौम्यता ।।
प्रसरति
दिशि दिशि कीर्त्तिरशेषा ।
जयति
जयति नो भारतदेशः ।।
जगद्गुरुत्वं वहतु भारतम् ।
सदा प्रभुस्तं दिशतु सुमार्गम् ।।
रक्षतु विश्वं परं परेशः ।
जयति जयति नो भारतदेशः । ।
कनीनिका से साभार।
लेखक – डॉ. केशव प्रसाद गुप्त
» वर्षणम्
आगता मेघमाला नभो मण्डलम् । दीयते कृष्णमेघैर्जलं पुष्कलम्।।
दृश्यते भास्करो नाद्य तेजोधनः । वर्तते चान्धकारस्तु गाढो घनः ।।
अम्बरञ्चाभवद् वारिदैः श्यामलम्। दीयते कृष्णमेघैर्जलं पुष्कलम्।।
श्रूयते चाम्बुदानां महागर्जनम्। लक्ष्यते कानने बर्हिणां नर्तनम् ।।
पीयते प्राणिवर्गैर्नवीनं जलम्। दीयते कृष्णमेघैर्जलं पुष्कलम्।।
तोयदैः सत्वरं दुन्दभी वाद्यते । दामिनीनर्तनं व्योम्नि सम्भ्राजते ।।
दर्दुरैर्गीयते सस्वरं मङ्गलम्। दीयते कृष्णमेघैर्जलं पुष्कलम्।।
वारिराशिर्नदीनां द्रुतं वर्धते । पर्वतैर्विन्दुघातो भृशं सह्यते ।।
वर्षया सुन्दरं भाति भूमेस्तलम् । दीयते कृष्णमेघैर्जलं पुष्कलम्।।
सप्तवर्णैर्युतं वै नभः प्राङ्गणे। ऐन्द्रचापन्नु दृष्ट्वा च सायंतने
।।
जायते मानसे भूरि कौतूहलम् । दीयते कृष्णमेघैर्जलं पुष्कलम्।।
लेखिका- डॉ. नवलता
लेखक- श्यामरामकवि
माता यस्य धराधरेन्द्रतनयातुल्याऽन्नपूर्णा कृती
तातो यस्य महायशो दशरथो निष्ठावशिष्ठाऽधिकः।
राधामाधवकेलिकौशलकथां कान्तां कवीनां मुदे
काव्यं भव्यमिदं तकार स नवं श्रीश्यामरामः कविः।।
लेखक- श्री भि. वेलणकर
लेखक- शिवदत्त शर्मा चतुर्वेदी
संस्कृत-गीतमालिका से साभार
लेखिका- मनोरमासंस्कृत-गीतमालिका से साभार
लेखिका- मनोरमास्वागत-गीतम्
सैन्य-गीतम्
भारतीयैकता- साधकं संस्कृतम्
भारतीयैकता- साधकं संस्कृतम्
भारतीयत्व-सम्पादकं संस्कृतम्
ज्ञान-पुञ्ज-प्रभादर्शकं संस्कृतम्
सर्वदानन्द-सन्दोहदं संस्कृतम्।।1।।
विश्वबन्धुत्व-विस्तारकं संस्कृतम्
सर्वभूतैकता-कारकं संस्कृतम्
सर्वत:शान्तिसंस्थापकं संस्कृतम्
पञ्चशील-प्रतिष्ठापकं संस्कृतम्।।2।।
त्याग-सन्तोष-सेवाव्रतं संस्कृतम्
विश्वकल्याण-निष्ठायुक्तं संस्कृतम्
ज्ञान-विज्ञान-सम्मेलनं संस्कृतम्
भुक्ति-मुक्ति-द्वयोद्भावनं संस्कृतम्
नगरे-नगरे ग्रामे-ग्रामे विलसतु संस्कृत-वाणी।
सदने-सदने जन-जनवदने जयतु चिरं कल्याणी।।4।।
लेखक- पं. वासुदेव द्विवेदी शास्त्री
मातृ-भूमि-वन्दना
मातृभूमे
नमो मातृभूमे नमो ।
मातृभूमे
नमो मातृभूमे नमः ॥
अग्रतस्ते
नमः पृष्ठतस्ते नमः
ऊर्ध्वतस्ते
नमश्चाऽप्यधस्ते नमः
वामतस्ते
नमो दक्षिणे ते नमो ।
मातृभूमे
नमो मातृभूमे नमः ॥
ते
गिरिभ्यो नमस्ते नदीभ्यो नमः
ते
वनेभ्यो नमो जनपदेभ्यो नमः
ते
कणेभ्यो नमस्ते अणुभ्यो नमो ।
मातृभूमे
नमो मातृभूमे नमः ॥
प्राणदे
त्राणदे देवि शक्तिप्रदे
ऋद्धिदे
सिद्धिदे भुक्ति-मुक्तिप्रदे
सर्वदे
! सर्वदा देवि ! तुभ्यं नमो ।
मातृभूमे
नमो मातृभूमे नमः ।
काली प्रसाद शास्त्री
लेखक- रुद्रदेव त्रिपाठी
वन्दे भारतवर्षम्
गायति
निरतं निखिलो लोकः प्रीत्या यस्योत्कर्षं
तदिह
सुसंस्कृति संस्कृतममलं वन्दे भारतवर्षम्
प्रालेयाचल-
मुकुटमण्डितं कश्मीराञ्चित-भालं
निर्जरतटिनी-मिहिरकन्यका
विलसितचलगलमालम्
क्षीणकल्मषं
विन्ध्यमञ्जुलं श्रित-नार्म्मद-कीलालं
रणरणकैर्यच्चरणमर्णवः
क्षालयते सुविशालम्
लोकालोक –
प्रहरि-राजितं वैरिभ्यो दुर्धर्षम्. वन्दे.....
आदि-सभ्यतास्रोतः
सततं सत्याहिंसा युक्तं
नवमानवता-प्रीतिनिर्मलं
सामगान-संसक्तम्
भाषा-वर्ण-विचाराणामपि
यत्रास्ते वैचित्र्यं
समता-समरसता
विवेकिताख्यातं यत्पावित्र्यम्
निर्द्वन्द्वं
सहजं निरामयं विरलं वीतामर्षम् वन्दे.....
कर्म
नर्मदा भक्तिं गोदा कावेरी विज्ञानं
श्रमं
त्रिवेणी-प्रभृति सिन्धवः शिक्षयन्ति विम्लानम्
आध्यात्मिकबोधं
सुचिरं शङ्कर-वल्लभ-चैतन्या
रामानुजादयः
संददते मुक्तेः पुण्याध्वन्याः
जगद्
वीक्षते यदिह चिन्मयं धर्मोन्नतं सतर्षम् वन्दे.....
संस्कृति-सरिता-सलिलं
निनदति मानवताया गन्त्रं
विलसति
यत्र विकस्वर-भास्वर-गुण-रणितं गणतन्त्रम्
नश्वरमखिलं
विभवं मनुते चिनुते शान्तमरण्यं
प्राणपणैरपि
रक्षति सततं जातं यच्च शरण्यम्
शान्तिं
शंसति हरति क्लान्तिं निन्दति यत् सङ्घर्षम् वन्दे.....
नन्दनवनवत्
सुमैः सुरभितं शस्यं यस्य यशस्यं
विहगानां
कलरुतं वसन्ते मदयति मनः प्रशस्यम्
पूर्वपश्चिमालिङ्गितमुत्तर-दक्षिण-
देश-नमस्यं
दशसु
दिक्षु दिव्यं वररूपं वन्द्यं विश्व-वयस्यम्
स्वर्णसूत्रवद्
ग्रथितं भूमौ वितरतु जगते हर्षम्. वन्दे......
संस्कृत-वाणी
लेखक- रुद्रदेव त्रिपाठी
जयति
मङ्गला संस्कृतवाणी
वेद -
हिमाद्रेश्चिरं वहन्ती विमला गङ्गा कल्याणी
अङ्गानां
धाराभिरुदारा
वेदान्तामृत-निहितविचारा
दर्शन
-तन्त्र -पुराण- स्मृति-तति-
काव्य-कथा
–नाटक-विस्तारा
यस्याः
सूक्ति-सुधा-पानादिह भवति सुखी सकलः प्राणी
अतुलो
यस्याः शब्दागार:
शास्त्राणां
विपुलो विस्तार:
नीचैरुच्चैरभितः
परितः
शुध्देयं
न कुतोऽपि विकार:
चिन्तन-मनन-निदिध्यासनतो
लोकद्वयहित-निर्माणी
स्वस्तिमती
भाषाणां धात्री
सत्यसुधास्त्रतिसरणि-विधात्री
संस्काराणां
रुचिराङ्कुरणै—
विश्वजनीन
- यशः - सुखदात्री
नव
नव-मननयुताऽपि सन्ततं प्रथिता भुवने परमपुराणी
विविधोपास्तिपथान्
प्रदिशन्ती
योगयुक्तितो
मनसि विशन्ती
परब्रह्म-निःश्वसिताम्नायै
–
र्मुक्तिपदान्यपि
मुदा स्पृशन्ती
व्याकृति-शास्त्रदिशा
शब्दानां सततं शुद्धि-परीक्षणशाणी.
ज्ञानं
मानवताया वितरति
विश्वप्रेम
दिशन्ती विहरति
समताऽसमता
समादराणां
भावैः
प्रतिजनहृदयं प्रसरति
वन्दे तां
संयोज्य भक्तितो विनतशिराः स्वीयौ पाणी
जयति
मञ्जुला संस्कृतवाणी
लेखकः- आचार्यः चन्द्रभानुः त्रिपाठी
काकलीं
कुरुष्व
पिकि ! प्रियं वनं न ते न वा विशालशाखिनः
तपन्ति
तापयन्ति चांशवो मरीचिमालिनः
तवारमन्त
पूर्वजा यदीयपादपान्तरे
न
साऽटवी वसन्ति तत्र नागरा विलासिनः
यशोऽवशेषकानने
स्वनीडनाशदुःखिताः
वनान्तरं
समाश्रिताः क्षुधादिताः पतत्त्रिणः
त्वमेकलैव
वर्तसे त्वदीयबान्धवाः प्रियाः
त्वया
सहैव चारिणो गताः खगा विराविणः
अभूदियं
मधुकवीथिका पलाशशोभिता
विभाति
राजमार्ग एष यान्ति यत्र यात्रिणः
रसालमञ्जुमञ्जरीपरागरञ्जिता
पुराऽ–
धुना
श्रयस्व शुष्कशीर्षकं विशाखशाखिनः.
जनैः
कुठारपाणिभिः कृतस्य कर्मणः फलं
सहस्व हे
वनप्रिये! क्षमस्व चापराधिन:
तथास्थिताऽपि
काकलीं कुरुष्व मोहनीं मघौ
यथा भवन्तु भावुका मनस्यरण्यघातिनः
प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम् ॥ १॥
धनानां निधानं धरायां प्रधानं
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत्सदा पूजनीयम् ॥ २॥
अनेका प्रदेशाः अनेकाश्च वेशाः
अनेकानि रूपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत्सदा रक्षणीयम् ॥ ३॥
सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम् ।
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत्सदा श्लाघनीयम् ॥ ४॥
वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः ।
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत्सदा वन्दनीयम् ॥ ५॥
लेखक - डा. वेणीमाधव शास्त्री भा. जोशी
पुस्तक का नाम- बाल संस्कृत सारिका
घटिके घटिके
टिक् टिक् घटिके
घटिके घटिके
टिक् टिक् घटिके
बोधय समयं
टिक् टिक् घटिके ।
धावसि धावसि
सततं घटिके
धावसि लघुलघु
टिक् टिक् घटिके ॥१॥
दिवसे दिवसे
सततं यासि
रात्रावपि नो
विरमसि यासि ।
भित्तौ विहरसि
गेहे गेहे
हस्ते विलससि
देहे देहे ।। २ ।।
त्यजसि
सुवृत्तं न कदापि त्वं
त्यजसि च
मार्गं न कदापि त्वम् ।
चलसि च मार्गे
घटिके वृत्ते
चलसि सकाले
पथि सद्वृत्ते ।।३।।
विश्रामं वा
स्मरसि न नूनं
श्रान्ति नो
वा गणयसि नूनम् ।
कर्तव्यस्य च
वदसि सुनीतिं
सद्वृत्तस्य च
कथयसि रीतिम् ॥४॥
मन्दं मन्दं
गच्छति कालः
गतः
नैवागच्छति कालः ।
सततं याति न
तिष्ठति कालः
तत्त्वमिदं ते
वदति च कालः ॥५॥
लेखक- डॉ. परमहंस मिश्र। वाराणसी ।
आर्य महिला महाविद्यालय के पूर्व
संस्कृत विभागाध्यक्ष, सूर्योदय पत्रिका के सम्पादक तथा महान् तंत्रशास्त्रवेत्ता।
इस पुस्तक में कुल 41 रागबद्ध कविता
हैं।
पुस्तक- मधुमयं रहस्यम्
(गीतिसंग्रह) से साभार
जय जय भारत
देश !
जय जय भारत देश !
अरुण- किरण- रोचिष्णु-रेणु-कण मणि -
गणरम्य सुवेश ।
जय
जय भारत देश !
कलित- कुशेशय -कोश- कुसुमरस-लोलुप
ललित मिलिन्दे
रवि –कर-
निकर-समागम - विकसित-सुरभित शरदरविन्दे
दिवसः विकिरति मङ्गल-कुङ्कुम
मतिशय-सुषमाशेष !
जय
जय भारत देश !
शीतल मन्द-सुगन्धित समरस-मधुमय-मलय-
समीरे
प्रकृतिः
कल-कल्लोल-पुलकिता स्नाति तटिन्या स्तीरे
वातावरण- पवित्र- पुरातन दिविषद् -
दिव्य-निवेश !
जय
जय भारत देश !
हिम- किरीट –कैलाश- सुशोभित! पारावार -परेश !
वसुधा-सुधा-समन्वित
षड्ऋतु-राजित-रुक्म-रमेश!
त्वं ददासि शश्वत्संदेशं जगतीं
द्युम्न दिनेश !
जय
जय भारत देश !
प्रवहति यत्र पुरातन कालात्
मानवतायाः गङ्गा
प्रीति-रीति-संस्कृति-कृति-कलिता
सुनृत-सभ्यता सङ्गा !
प्रथमोषसः संद्रष्ट: ! हे प्रज्ञा
प्रथमेश !
जय जय भारत देश !
वारिद !
वारिद ! वरद ! दयस्व !
वसुधा सम्प्रति जलोपप्लवात्
पङ्कातङ्क-
कलङ्का
सागररूपा - सागराम्बरा
जाता जीवन-शङ्का
सस्यमञ्जरी मृता,
ब्रीहि तृण-शालिराशिरपि नष्टा ।
नह्यवशिष्टमशनमयि! जनता त्रस्ता
विपदि विनष्टा ।
उपसंहर मन्युं जलधर हे !
शान्ति
सुभग वारिद वरद लभस्व !
वारिद !
वरद ! दयस्व !
जलप्लावनं प्रलय-समानम्
विपदा
ग्रस्तं जीवन-मानम्
क्वचिदतिशय-करुणामय-दृश्यम्
हृदयं
द्रवति विचार्य भविष्यम् ।
जन-सम्मर्द-संकुला सौऽका ?
धारावर्त्तं
- संकुला - नौका ?
अरे निमग्ना ! तरल- तरङ्गा
प्राणान् हन्त ! गिलन्ति विभङ्गा !
धन! विधेहि नृशंश ! पिशुनतां,
सद्य: दयां
विधत्स्व
वारिद! वरद
! दयस्व !
लेखक- श्यामानन्द झा (जन्म २७ जुलाई १९०६ स्वर्गवास ३० अगस्त १९४९)
विक्रमार्कं प्रति
विक्रमार्क, पुनरेहि
पुनर्जय हर्षय भारतवर्षम् ।
प्रमदकुलं सम्प्रति प्रतिकूलम्
गदमिव राष्ट्रपयोनिधिकूलम्
आवन्ती सन्ततमुत्सीदति कलयसि किं
नामर्षम् ।
यस्या जन्मभुवश्छायायाम्
विश्वमनैषीः शान्तिसुधायाम्
सैव निगृह्य परैरुपनीता
पराजयैरपकर्षम् ।
अखिलं राज्यतन्त्रमुन्माद्यति
शान्तिकथा मूलादुत्क्राम्यति
चक्रवर्तितामेत्य नवीकुरु
मालवगणनावर्षम् ।
उज्जयिनीयं प्रभवतु धन्या
स्वयं वृणीता त्वां दिक्कन्या
शतधा स्फुटतु वैरिवक्षस्थलमित्वा तव
संघर्षम् ।
कालिदाससुकविः पुनरायात्
शाकुन्तलरघुवंशौ गायात्
नवरत्नैस्तव राजसभा सा
दर्शयतामुत्कर्षम् ।
देवः सुधारसैः परिषिञ्चतु
सस्यश्यामला भूमिश्चञ्चतु
गृहे-गृहे गोदुग्धं प्रवहतु लोको
गच्छतु हर्षम् ।
शिक्षागुरुः समेषामासीत्
शिरसा यस्यादेशमयासीत्
भारतभूर्जनयित्वा
त्वादृशमाहवभूदुर्द्धर्षम् ।
आदरणीय झा जी!
जवाब देंहटाएंसंस्कृत भाषा और साहित्य के प्रति आपका अनुराग अनुकरणीय है। संस्कृत के उत्थान और विकास के लिए किया गया आपका श्रम श्लाघनीय और प्रशंसनीय है।
जयतु भारतं, जयतु संस्कृतम्।
आपका यह प्रयास अवर्णनीय है l हृदय से नमन करती हूं l
जवाब देंहटाएंआपके प्रयास को प्रणाम करती हूं 🙏🏻🙏🏻
जवाब देंहटाएं