उदिते
सूर्ये धरणी विहसति
(लालनगीतम्)
उदिते
सूर्ये धरणी विहसति ।
पक्षी
कूजति कमलं विकसति ॥ १॥
नदति
मन्दिरे उच्चैर्ढक्का ।
सरितः
सलिले सेलति नौका ॥ २॥
पुष्पे
पुष्पे नानारङ्गाः ।
तेषु
डयन्ते चित्रपतङ्गाः ॥ ३॥
वृक्षे
वृक्षे नूतनपत्रम् ।
विविधैर्वर्णैविभाति
चित्रम् ॥ ४॥
धेनुः
प्रतार्यच्छति दुग्धम् ।
शुद्धं
स्वच्छं मधुरं स्निग्धम् ॥ ५॥
गहने
विपिने व्याघ्रो गर्जति ।
उच्चैस्तत्र
च सिंहः नर्दति ॥ ६॥
हरिणोऽयं
खादति नवघासम् ।
सर्वत्र
च पश्यति सविलासम् ॥ ७॥
उष्ट्रः
तुङ्गः मन्दं गच्छति ।
पृष्ठे
प्रचुरं भारं निवहति ॥ ८॥
घोटकराजः
क्षिप्रं धावति ।
धावनसमये
किमपि न खादति ॥ ९॥
पश्यत
भल्लूकमिमं करालम् ।
नृत्यति
थथथै कुरु करतालम् ॥ १०॥
लेखकः - सम्पदानन्दमिश्रः
वन्दे भारतवर्षम्
वन्दे भारतवर्षम् ।
कल-कल
प्रवहति पावनी गङ्गा
हिमधारा
धवलिता तरलतरङ्गा
कामयते
पदस्पर्शम्, वन्दे भारतवर्षम् ॥ ध्रुवम् ॥
हिमगिरिकटितटपटपरिधानं
काश्मीरभूस्वरमणिमयस्थानं
वन्दे मातरमितिराष्ट्रसङ्गीत-
माददाति बहुहर्षम्,
वन्दे भारतवर्षम् ॥ १॥
कुङ्कुम-सुश्वेत-हारितवर्ण-
मान्दोलितास्शोकचक्रवितानं
उड्डीयते
भुवि भारतभूधरे
ज्वालयति
स्वप्रकाशम्, वन्दे भारतवर्षम् ॥ २॥
कालिदास-वाणीकण्ठनिनादं
माघ-भवभूतिकाव्यप्रमोदं
दण्डि-वाणभट्ट-मम्मट-कैयटाः
विभूषिताः यस्य वेशम्,
वन्दे भारतवर्षम् ॥ ३॥
सीमासुरक्षिणः
भारतवीराः
दुर्गम-दुर्भेद्यचारणधीराः
जल-स्थल-पुष्करमार्गे
सुसज्जिताः
पोषयन्ति
निजदेशम्,
वन्दे भारतवर्षम् ॥ ४॥
निगमागमधर्मशास्त्रसहितं
पुराण-दर्शन-वेदाङ्गसत्यं
व्याकरण-साहित्य-विज्ञानविधृत-
सुन्दरशाश्वतोत्कर्षम्,
वन्दे भारतवर्षम् ॥ ५॥
लेखकः - नन्दप्रदीप्तकुमारः
कृष्णप्रसाद घिमिरे
जन्म – संवत् 1976
शङ्कर ! शङ्कर ! शं कुरु शम् (ध्रुवपदम् )
अघहर ! परमेश्वर ! शङ्कर ! जगतां हर कलुषम् जागृहि नाथ ! परात्पर ! हे शिव ! नः स्मर कुरु शम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
जय जय शिव ! राहुर ! पुरहर ! वरकर! हर दुरितम् जय जय गिरिजाप्रिय ! मृड ! वरदं स्मर स्वं चरितम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
त्यज संश्रितमाधिहरं प्रवरं स्वसमाधिमिमम्
कुरु देव ! सुरेश्वर ! रागपरं स्वमनस्तदिदम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
भज नाथ ! शिवामशिवां मनसा त्वयि रागपराम्
सरसां कुरु तां क्षणतो भगवंश्चरितैरपराम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
अवलोकय चाऽत्र कृतीं स्वगतस्थिरसत्यधृतिम्
भवकृत्यगतिं जगतः प्रकृतिं ह्यवसन्नसृतिम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
जागृहि नाथ ! परात्पर ! शङ्कर ! नः स्मर कुरु शम्
हे शिव ! शङ्कर ! शं कुरु हर ! हर कलुषं कुरु शम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
गौरी गिरीश ! भगवंस्तव जातपूर्वैः
कृत्यैररुन्तुदनिभैर्व्यथितान्तरात्मा ।
तूष्णीं विषीदति विभो ! विजयाजयाभ्यां
संसेव्यमानचरणापि न शान्तिमेति ॥
गौरी-गिरीशम् गीति काव्य से साभार
पठत
संस्कृतम्, वदत संस्कृतं
लसतु
संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं
वेदवाङ्मयं
लसति
यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता
यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभिः
॥ १॥
स्थानमूर्जितं
यस्य मन्वते
वाग्विचिन्तका
हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना
जना नैव जानते
भारतीयसंस्कृतिं
सनातनाभिधां वराम् ॥ २॥
जयतु
संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य
संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु
संस्कृतम्, जयतु मनुकुलं
जयतु
जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ ३॥
लेखक -
मञ्जुनाथ शर्मा
मम
माता देवता ।
मम
माता देवता ॥
अतिसरला,
मयि मृदुला
गृह
कुशला,
सा अतुला ॥ १॥
पाययति
दुग्धं,
भोजयति भक्तं
लालयति
नित्यं,
तोषयति चित्तम् ॥ २॥
सायङ्काले
नीराजयति
पाठयति
च मां शुभङ्करोति
॥ श्लो ॥ शुभं कुरु त्वं कल्याणम् आरोग्यं धनसम्पदः ।
दुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥
पाठयति
च मां शुभङ्ककरोति ॥ ३॥
रात्रौ
अङ्के मां स्वापयति
मधु
मधु मधुरं गीतं गायति
आ
आ आ आ आ ॥ ४॥
लेखक- श्री ल.म.
चक्रदेवः
अग्रे चल अग्रे चल
अग्रे
चल,
अग्रे चल !
निश्चिन्तो
रिपुकुपितः सज्जश्चल पौरुषभानो ।
अग्रे
चल,
अग्रे चल, अग्रे चल, सैनिकबन्धो
॥ ध्रु०॥
बलं
त्वदीयं हस्तिदुर्लभं
युद्धकौशलं
व्याघ्रजयकरं
शौर्यं
नितरां लज्जितसिंहं
चित्रं
तव चिन्तितमपि नामयते धैर्यसुमेरो ॥ १॥
स्वेषां
चिन्तां मा कार्षीस्त्वं
चितां
परेषां रचय केवलं
रक्षिष्यामो
मुदा त्वज्जनं
विस्मरेम
स्वप्नेऽपि न वचनं स्वं सुकीर्तिसिन्धो ॥ २॥
तव
पत्नी नः अग्रजपत्नी
जननी
नान्या,
निजैव जननी
सुतः
सुता ते नो भाग्यखनी
रिपुनाशादपरं
ते मनसि मास्तु आप्तजनमृदो ॥ ३॥
राष्ट्रस्यायं
ममापकर्ता
इमं
मूलतः अस्मि निहन्ता
अहं
जीविता अयमेको वा
रणे
रणे घोषस्तव उद्गच्छतु मानिजनेन्दो ॥ ४॥
शत्रुं
दग्धुं वाञ्छच्चित्तं
दष्टे
ओष्ठे तप्तं रक्तं
स्फुरिते
बाहौ वलयं सक्तं
जयो
जयो नियतस्तव जयो जयो भारतसूनो ॥ ५॥
लेखक- अशोक अकलूजकर
जयतात्
संस्कृतवाणी मधुरा
भवतात्
विश्व-जनादरणीया
मञ्जुलभाषिणी
चारुविलासिनी
कलरव-रम्यधुनी
॥
पावन-मुनिजन-कुञ्ज-विहारिणी
सुमनोमन्दिर-लास्य-विधायिनी
अनुपमसुन्दरी
ललितकलावनी
वल्मीकभवादि-कवीन्द्रखनी
ज्ञानप्रदायिनी
रसिकविलासिनी
घनविपदुपशमनी
॥१॥
सत्य-शान्ति-शम-दमोपदेशिनी
धर्मकर्मसु
धैर्यप्रचोदिनी
नीरसभुवने
नवरसपूरिणी
सपदि
जनानां तापनिवारिणी
कलिमलहारिणी
भवजलतारिणी
सरसिजभवरमणी
॥२॥
लेखकः- गु. गणपय्यहोळ्ळ:
भज भारतदेशम्
बालचर
! भज भारत देशं
भारत
देशं भज सविशेषं, त्यज रागद्वेषम् ।
बालचर,
भज भारत देशम् ।
सहज
ललामं,
शोभा-धामं, महि-मण्डल-भूषं
बुधवर
- वृन्दैः सुरनर - वन्द्यैः सुविहित - शुश्रूषं
बालचर,
भज भारत देशम् ।
सुखद-समीरे
सुर-सरि-तीरे कानन-घन-कुञ्जे
दिशि
दिशि प्रान्ते, रम्य प्रशान्ते, पावनता-पुञ्जे
बालचर,
भज भारत देशम् ।
शुचि
हिम-निलये, सुरभित मलये सुहरित-गिरि
विन्ध्ये
सुकृत-प्रभूते,
प्रकृति प्रसूते, अविकृत, अविनिन्द्ये
बालचर,
भज भारत देशम् ।
भज
स्वावश्यं, त्यज आलस्य, व्रज शुभ-पन्थानं
त्यज
अभिमानं,
व्रज म्रियमाणं, भज-सेवा-स्थानं
बालचर,
भज भारत देशम् ।
भारत
- भाग्यं,
गत - वैराग्यं, कुरु स्ववशीभूतं
भू
- साम्राज्यं, कुरु अविभाज्यं, शुचि - सेवा-पूतम
बालचर,
भज भारत देशम् ।
लेखकः - श्री श्रीधर पाठकः





Helpful and inspiration
जवाब देंहटाएं