उदिते
सूर्ये धरणी विहसति
(लालनगीतम्)
उदिते
सूर्ये धरणी विहसति ।
पक्षी
कूजति कमलं विकसति ॥ १॥
नदति
मन्दिरे उच्चैर्ढक्का ।
सरितः
सलिले सेलति नौका ॥ २॥
पुष्पे
पुष्पे नानारङ्गाः ।
तेषु
डयन्ते चित्रपतङ्गाः ॥ ३॥
वृक्षे
वृक्षे नूतनपत्रम् ।
विविधैर्वर्णैविभाति
चित्रम् ॥ ४॥
धेनुः
प्रतार्यच्छति दुग्धम् ।
शुद्धं
स्वच्छं मधुरं स्निग्धम् ॥ ५॥
गहने
विपिने व्याघ्रो गर्जति ।
उच्चैस्तत्र
च सिंहः नर्दति ॥ ६॥
हरिणोऽयं
खादति नवघासम् ।
सर्वत्र
च पश्यति सविलासम् ॥ ७॥
उष्ट्रः
तुङ्गः मन्दं गच्छति ।
पृष्ठे
प्रचुरं भारं निवहति ॥ ८॥
घोटकराजः
क्षिप्रं धावति ।
धावनसमये
किमपि न खादति ॥ ९॥
पश्यत
भल्लूकमिमं करालम् ।
नृत्यति
थथथै कुरु करतालम् ॥ १०॥
लेखकः - सम्पदानन्दमिश्रः
वन्दे भारतवर्षम्
वन्दे भारतवर्षम् ।
कल-कल
प्रवहति पावनी गङ्गा
हिमधारा
धवलिता तरलतरङ्गा
कामयते
पदस्पर्शम्, वन्दे भारतवर्षम् ॥ ध्रुवम् ॥
हिमगिरिकटितटपटपरिधानं
काश्मीरभूस्वरमणिमयस्थानं
वन्दे मातरमितिराष्ट्रसङ्गीत-
माददाति बहुहर्षम्,
वन्दे भारतवर्षम् ॥ १॥
कुङ्कुम-सुश्वेत-हारितवर्ण-
मान्दोलितास्शोकचक्रवितानं
उड्डीयते
भुवि भारतभूधरे
ज्वालयति
स्वप्रकाशम्, वन्दे भारतवर्षम् ॥ २॥
कालिदास-वाणीकण्ठनिनादं
माघ-भवभूतिकाव्यप्रमोदं
दण्डि-वाणभट्ट-मम्मट-कैयटाः
विभूषिताः यस्य वेशम्,
वन्दे भारतवर्षम् ॥ ३॥
सीमासुरक्षिणः
भारतवीराः
दुर्गम-दुर्भेद्यचारणधीराः
जल-स्थल-पुष्करमार्गे
सुसज्जिताः
पोषयन्ति
निजदेशम्,
वन्दे भारतवर्षम् ॥ ४॥
निगमागमधर्मशास्त्रसहितं
पुराण-दर्शन-वेदाङ्गसत्यं
व्याकरण-साहित्य-विज्ञानविधृत-
सुन्दरशाश्वतोत्कर्षम्,
वन्दे भारतवर्षम् ॥ ५॥
लेखकः - नन्दप्रदीप्तकुमारः
कृष्णप्रसाद घिमिरे
जन्म – संवत् 1976
शङ्कर ! शङ्कर ! शं कुरु शम् (ध्रुवपदम् )
अघहर ! परमेश्वर ! शङ्कर ! जगतां हर कलुषम् जागृहि नाथ ! परात्पर ! हे शिव ! नः स्मर कुरु शम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
जय जय शिव ! राहुर ! पुरहर ! वरकर! हर दुरितम् जय जय गिरिजाप्रिय ! मृड ! वरदं स्मर स्वं चरितम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
त्यज संश्रितमाधिहरं प्रवरं स्वसमाधिमिमम्
कुरु देव ! सुरेश्वर ! रागपरं स्वमनस्तदिदम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
भज नाथ ! शिवामशिवां मनसा त्वयि रागपराम्
सरसां कुरु तां क्षणतो भगवंश्चरितैरपराम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
अवलोकय चाऽत्र कृतीं स्वगतस्थिरसत्यधृतिम्
भवकृत्यगतिं जगतः प्रकृतिं ह्यवसन्नसृतिम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
जागृहि नाथ ! परात्पर ! शङ्कर ! नः स्मर कुरु शम्
हे शिव ! शङ्कर ! शं कुरु हर ! हर कलुषं कुरु शम् ।
शङ्कर ! शङ्कर ! शं कुरु शम्
गौरी गिरीश ! भगवंस्तव जातपूर्वैः
कृत्यैररुन्तुदनिभैर्व्यथितान्तरात्मा ।
तूष्णीं विषीदति विभो ! विजयाजयाभ्यां
संसेव्यमानचरणापि न शान्तिमेति ॥
गौरी-गिरीशम् गीति काव्य से साभार
पठत
संस्कृतम्, वदत संस्कृतं
लसतु
संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं
वेदवाङ्मयं
लसति
यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता
यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभिः
॥ १॥
स्थानमूर्जितं
यस्य मन्वते
वाग्विचिन्तका
हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना
जना नैव जानते
भारतीयसंस्कृतिं
सनातनाभिधां वराम् ॥ २॥
जयतु
संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य
संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु
संस्कृतम्, जयतु मनुकुलं
जयतु
जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ ३॥
लेखक -
मञ्जुनाथ शर्मा
मम
माता देवता ।
मम
माता देवता ॥
अतिसरला,
मयि मृदुला
गृह
कुशला,
सा अतुला ॥ १॥
पाययति
दुग्धं,
भोजयति भक्तं
लालयति
नित्यं,
तोषयति चित्तम् ॥ २॥
सायङ्काले
नीराजयति
पाठयति
च मां शुभङ्करोति
॥ श्लो ॥ शुभं कुरु त्वं कल्याणम् आरोग्यं धनसम्पदः ।
दुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥
पाठयति
च मां शुभङ्ककरोति ॥ ३॥
रात्रौ
अङ्के मां स्वापयति
मधु
मधु मधुरं गीतं गायति
आ
आ आ आ आ ॥ ४॥
लेखक- श्री ल.म.
चक्रदेवः
अग्रे चल अग्रे चल
अग्रे
चल,
अग्रे चल !
निश्चिन्तो
रिपुकुपितः सज्जश्चल पौरुषभानो ।
अग्रे
चल,
अग्रे चल, अग्रे चल, सैनिकबन्धो
॥ ध्रु०॥
बलं
त्वदीयं हस्तिदुर्लभं
युद्धकौशलं
व्याघ्रजयकरं
शौर्यं
नितरां लज्जितसिंहं
चित्रं
तव चिन्तितमपि नामयते धैर्यसुमेरो ॥ १॥
स्वेषां
चिन्तां मा कार्षीस्त्वं
चितां
परेषां रचय केवलं
रक्षिष्यामो
मुदा त्वज्जनं
विस्मरेम
स्वप्नेऽपि न वचनं स्वं सुकीर्तिसिन्धो ॥ २॥
तव
पत्नी नः अग्रजपत्नी
जननी
नान्या,
निजैव जननी
सुतः
सुता ते नो भाग्यखनी
रिपुनाशादपरं
ते मनसि मास्तु आप्तजनमृदो ॥ ३॥
राष्ट्रस्यायं
ममापकर्ता
इमं
मूलतः अस्मि निहन्ता
अहं
जीविता अयमेको वा
रणे
रणे घोषस्तव उद्गच्छतु मानिजनेन्दो ॥ ४॥
शत्रुं
दग्धुं वाञ्छच्चित्तं
दष्टे
ओष्ठे तप्तं रक्तं
स्फुरिते
बाहौ वलयं सक्तं
जयो
जयो नियतस्तव जयो जयो भारतसूनो ॥ ५॥
लेखक- अशोक अकलूजकर
जयतात्
संस्कृतवाणी मधुरा
भवतात्
विश्व-जनादरणीया
मञ्जुलभाषिणी
चारुविलासिनी
कलरव-रम्यधुनी
॥
पावन-मुनिजन-कुञ्ज-विहारिणी
सुमनोमन्दिर-लास्य-विधायिनी
अनुपमसुन्दरी
ललितकलावनी
वल्मीकभवादि-कवीन्द्रखनी
ज्ञानप्रदायिनी
रसिकविलासिनी
घनविपदुपशमनी
॥१॥
सत्य-शान्ति-शम-दमोपदेशिनी
धर्मकर्मसु
धैर्यप्रचोदिनी
नीरसभुवने
नवरसपूरिणी
सपदि
जनानां तापनिवारिणी
कलिमलहारिणी
भवजलतारिणी
सरसिजभवरमणी
॥२॥
लेखकः- गु. गणपय्यहोळ्ळ:
भाति
मे भारतम्, भाति मे भारतम् ।
भूतले
भाति मेऽनारतं भारतम् ॥ ध्रुवकम् ॥
मानवामानितं
दानवाबाधितं
निर्जराराधितं
सज्जनासाधितम् ।
पण्डितैः
पूजितं पक्षिभिः कूजितं
भूतले
भाति मेऽनारतं भारतम् ॥ १॥
यस्य
सन्दृश्य सन्दृश्य शोभा नवा
यस्य
संस्मृत्य संस्मृत्य गाथा नवाः।
रोमहर्षो
नृणां जायते वै सतां
भूतले
भाति तन्मामकं भारतम् ॥ २॥
यच्च
विश्रामभूमिर्मतं प्राणिनां
यस्य चित्ते प्रभूतोऽवकाशस्तथा ।
यत्र
चागत्य गन्तुं न कोऽपीच्छुको
भूतले
भाति तन्मामकं भारतम् ॥ ३॥
पण्डितैर्योद्धभिर्वाणिजैः
कार्मिकैः
शस्त्रिभिः
शास्त्रिभिवर्णिभिर्गोहिभिः।
वानप्रस्थैश्च
संन्यासैभिर्मण्डितं
भूतले
भाति मेऽनारतं भारतम् ॥ ४॥
लेखक - डॉ. रमाकान्त शुक्ल
अभिमानधना
विनयोपेता शालीना भारतजनताऽहम् ।
कुलिशादपि
कठिना कुसुमादपि सुकुमारा भारतजनताऽहम् ॥ १॥
निवसामि
समस्ते संसारे मन्ये च कुटुम्बं वसुन्धराम् ।
प्रेयः
श्रेयः च चिनोम्युभयं सुविवेका भारतजनताऽहम् ॥ २॥
विज्ञानधनाऽहं
ज्ञानधना साहित्यकला-सङ्गीतपरा ।
अध्यात्मसुधा-तटिनी-स्नानैः
परिपूता भारतजनताऽहम् ॥ ३॥
मम
गीतैर्मुग्धं समं जगत्, मम नृत्यैर्मुग्ध
समं जगत् ।
मम
काव्यैर्मुग्धं समं जगत्, रसभरिता
भारतजनताऽहम् ॥ ४॥
उत्सवप्रियाऽहं
श्रमप्रिया, पदयात्रा-देशाटन-प्रिया ।
लोकक्रीडासक्ता
वर्धेऽतिथिदेवा, भारतजनताऽहम् ॥ ५॥
मैत्री
मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः
पर्यायः ।
मित्रस्य
चक्षुषा संसारं, पश्यन्ती भारतजनताऽहम् ॥ ६॥
विश्वस्मिन्
जगति गताहमस्मि, विश्वस्मिन् जगति सदा दृश्ये ।
विश्वस्मिन्
जगति करोमि कर्म, कर्मण्या
भारतजनताऽहम् ॥ ७॥
लेखकः - पद्मश्री रमाकान्त शुक्लः
पश्य
देवस्य काव्यं यदास्तेऽमृतं
यज्जराबाधितं नो भवेज्जातुचित् ।
अस्य
संज्ञास्ति वेदः सदा पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ १॥
अस्ति
माता मदीया धरेयं तथै-
वास्म्यहं तत्सुतस्तत्सपर्यापरः ।
घोषणेयं
यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ २॥
राष्ट्रमास्तां
सुपुष्टं समृद्धं सदा
त्यागभोगौ सखायौ भवेतां तथा ।
देशनेयं
यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ३॥
वारिवाहः
सुकाले समागच्छतात्
सन्तु गावश्च पुष्टाः सवत्साः समाः।
मार्गणेयं
यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ४॥
मा
जलानां तरुणां च हिंसा कुरु
द्युतखेलां परित्यज्य कर्षं कुरु ।
मानवं
या दिशन्ती श्रुतिं तां मुदा
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ५॥
नैकधर्मास्तथानेकवाचो
नरा
मातरं भूमिमेनां सदा रक्षत ।
राष्ट्रियां
वैश्विकीमेकतां तन्वतीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ६॥
लेखक- डॉ.
रमाकान्त शुक्ल
स्वागतं पयोद! ते
गर्जनेन
वर्षणेन ते धरा प्रमोदते।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।
हे
सुकालवारिमुक्! त्वया धरा सुतर्पिता
हे
पयोद! चातकास्त्वया भृशं सुहर्षिताः
केकिनां
गणस्त्वया मुदा वनेषु नर्त्यते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।1
वीतवर्षशोषकृत्
यदाधुना त्वमागतः
भूमनःस्थतापराशिरत्ययं
द्रुतं गतः
मानसे
मुदो न मान्ति दर्शनाज्जनस्य ते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।2
मार्जितार्स्त्रुटीर्विलोक्य
ते प्रमोदमेम्यहम्
हर्षितान्
वनस्पतीन् विलोक्य मोदमेम्यहम्
सर्वतः
प्रसन्नता जनाननेषु विद्यते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।3
नूतनाः
सुपादपाः प्रमोदिता सुवल्लरी
उच्छलत्सुविभ्रमा
तरङ्गितास्ति निर्झरी
पक्षिणश्च
नीडनिर्मितिं द्रुतं प्रकुर्वते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।4
क्षेत्रकर्षणेन
बीजवापकर्मणा द्रुतं
कर्षकैः
सभार्यकैः स्वधर्मपालनं कृतं
श्रावणेऽथ
भाद्रकेऽपि ते दयां भजन्तु ते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।5
अङ्गणेषु
गेहपृष्ठकेषु वा वनान्तरे
वीथिकासु
वारिपूरितासु वापि चत्वरे।
प्रावृषोऽभिषेकमर्भका
मुदा प्रकुर्वते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।6
दोलया
मनोविनोदमाचरन्ति बालिकाः
तीव्रगामिनो
गृहं प्रयान्ति पश्य पान्थकाः
उत्कया
बलाकया मनोरथः स्व पूर्यते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।7
‘तोयदेन पूरिता मनोरथाः समे हि नो
वारिदेन
दारितं सुदीर्घसङ्कटं हि नो’
ग्रामवासिभिश्च
नागरैर्मुदाद्य कथ्यते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।8
पक्षिणश्चतुष्पदाः
सरीसृपाः पयश्चराः
मोदमाप्नुवन्ति
कान्तिमाप्नुवन्ति भूधराः
फुल्लितैः
कदम्बकैः सुहास एष कीर्यते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।9
क्लिन्नवस्त्रयोषितो
महर्षिमानभञ्जिकाः
धार्यते
भुवा मुदा हरीतिमा सुशाटिका
रामणीयकं
नवं चं किं न वाद्य दृश्यते?
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।10
दर्दुराः
प्रमोदिताः सुहंसकाः पलायिताः
पद्मनाशगर्विताः
शिलीन्ध्रकाः समुद्गताः
द्वन्द्व
एव जीवनं नु! चिन्तयाऽलमत्र ते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।11
तावता
जलेन सिञ्च वारिवाह! मेदिनीम्
यावता
न याति सा दशां स्वजीवखेदिनीम्
प्लावनं
भवेत्क्वचिन्न चातिवर्षणेन ते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।12
शस्त्रवह्नितापशामको
भवेः पयोद हे!
द्वेषवह्नितापशामको
भवेः पयोद हे!
शान्तिरस्तु
सौख्यमस्तु सीकरैः पयोद!ते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।13
मोदमेतु
मेदिनी प्रमोदमेतु मानवः।
नो
कदापि बाधतां भुवं कुशोषदानवः।।
अन्नमस्तु,
दुग्धमस्तु, विद्युदस्तु केन ते।।
स्वागतं
पयोद! ते स्वागतं पयोद! ते।।14
लेखक- डॉ. रमाकान्त शुक्ल
भज
भारतदेशम्
बालचर
! भज भारत देशं
भारत
देशं भज सविशेषं, त्यज रागद्वेषम् ।
बालचर,
भज भारत देशम् ।
सहज
ललामं,
शोभा-धामं, महि-मण्डल-भूषं
बुधवर
- वृन्दैः सुरनर - वन्द्यैः सुविहित - शुश्रूषं
बालचर,
भज भारत देशम् ।
सुखद-समीरे
सुर-सरि-तीरे कानन-घन-कुञ्जे
दिशि
दिशि प्रान्ते, रम्य प्रशान्ते, पावनता-पुञ्जे
बालचर,
भज भारत देशम् ।
शुचि
हिम-निलये, सुरभित मलये सुहरित-गिरि
विन्ध्ये
सुकृत-प्रभूते,
प्रकृति प्रसूते, अविकृत, अविनिन्द्ये
बालचर,
भज भारत देशम् ।
भज
स्वावश्यं, त्यज आलस्य, व्रज शुभ-पन्थानं
त्यज
अभिमानं,
व्रज म्रियमाणं, भज-सेवा-स्थानं
बालचर,
भज भारत देशम् ।
भारत
- भाग्यं,
गत - वैराग्यं, कुरु स्ववशीभूतं
भू
- साम्राज्यं, कुरु अविभाज्यं, शुचि - सेवा-पूतम
बालचर,
भज भारत देशम् ।
लेखकः - श्री श्रीधर पाठकः
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें