अथ भुज-कोटि-पदप्रभृतिसाधनप्रकारो लिख्यते
दोस्त्रिभोनं
त्रिभोर्ध्वं विशेष्यं रसैश्चक्रतोऽङ्काधिकं स्याद्भुजोनं त्रिभम् ।
कोटिरेकैककं
त्रित्रिभैः स्यात्पदं सूर्य्यमन्दोच्चमष्टाद्रयोंऽशा भवेत्। ॥१॥
मन्दोच्चं
ग्रहवर्जितं निगदितं केन्द्रं तदाख्यं वुधैः
केन्द्रे
स्यात्स्वमृणं फलं क्रियतुलाद्येऽथो विधेयं रवेः ।
केन्द्रं तद्भुजभागखेचरलवोनघ्ना
नखास्ते पृथक्
तद्गोंऽशोननगेषुभिः
परिहृतास्तेऽशादिकं स्यात् फलम् ॥२॥
अथ
पलभा-चरखण्डानयनयोः प्रकारः
मेषादिगे
सायनभागसूर्य्ये दिनार्द्धजाभापलभा भवेत्सा ।
त्रिष्ठाहता
स्युर्दशभिर्भुजङ्गैर्दिग्भिश्चरार्द्धानि गुणोद्धृतान्त्या ॥३॥
अथ
चरसंस्काराद्यानयनप्रकारो लिख्यते
स्पात्सायनोष्णांशुभुजर्क्षसङ्ख्यचरार्द्धयोगो
लवभोग्यघातात् ।
खाग्न्याप्तियुक्तस्तु
चरं धनर्णं तुलाजषड्भे तपनेऽन्यथास्ते ॥ ४ ॥
देयं तच्चरमरुणे
विलिप्तिकासु
मध्येन्दौ
द्विगुणनवोद्धृतं कलासु ।
भाप्तं
तद्द्युमणिफलं लवेऽथ वेदा-
ब्ध्यब्ध्यूनः
खरसाहृतः शकाऽयनांशाः ॥५॥
अथ
दिनमानादिकानयनम्-अक्षांशानयनञ्च
गोलौ स्तः
सौम्ययाम्यौ क्रियघटरसभे खेचरेऽथायने ते,
नक्रात्कर्काच्च
षड्भेऽथ चरपलयुतोनास्तु पञ्चेन्दुनाड्यः ।
घस्रार्द्धं
गोलयोः स्यात्तदयुतरवगुणाः स्यान्निशार्द्धन्त्वथाक्ष-
च्छायेषुघ्न्यक्षभायाः
कृतिदशमलवोनायमाशाः पलांशाः ॥६॥ क्षेपक
स्पष्टचन्द्रसाधनप्रकारः
विधोः
केन्द्रदोर्भागषष्ठोननिघ्नाः
खरामाः पृथक्
तन्नखांशोनितैश्च ।
रसाक्षैर्हृतास्ते
लवाद्यं फलं स्याद्
रवीन्दूस्फुटौ
संस्कृतौ स्तश्च ताभ्याम् ॥ ७ ॥
अथ
सूर्य-चन्द्रयोर्गतिस्पष्टीकरणप्रकारः
केन्द्रस्य
कोटिलवखाश्विलवोननिघ्ना
रुद्रारवेस्त्रिकुहताः
शशिनो द्विनिघ्नाः ।
स्वांगांशकेन
सहिताश्च गतौ धनर्णं
केन्द्रे
कुलीरमृगषट्कगते स्फुटा सा ॥ ८॥
अथ तिथि-नक्षत्र-योग-करणसाधनप्रकारः
भक्ता
व्यर्कविधोर्लवा यमकुभियर्याता तिथिः स्यात्फलं,
शेषं यातमिदं
हरात्प्रपतितं भोग्यं विलिप्तास्तयोः ।
भुक्त्योरन्तरभाजिताश्च
घटिकायातैष्यकाः स्युः क्रमात्,
पूर्वार्द्धे
करणं बवाद्गततिथिर्द्विघ्न्यद्रितष्टा भवेत् ॥९॥
तत्सैकं
त्वपरे दलेऽथ शकुनेः स्युः कृष्णभूतोत्तरा-
दर्धाच्चाथ
विधोश्च सार्कसितगोर्लिप्ताः खखाष्टोद्धृताः ।
याते स्तो
भयुती क्रमाद् गगनषण्णिघ्ने गतैष्ये तयो-
रिन्दोर्भुक्तिहृते
जवैक्यविहृते यातैष्यनाड्यः क्रमात् ॥१०॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें