गङ्गास्तुतिः
मातः
शैलसुतासपत्नि वसुधाश्रृङ्गारहारावलि
स्वर्गारोहणवैजयन्ति
भवतीं भागीरथीं प्रार्थये ।
त्वत्तीरे
वसतः त्वदम्बु पिबतस्त्वद्वीचिषु प्रेङ्खतः
त्वन्नाम
स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ 1॥
त्वत्तीरे
तरुकोटरान्तरगतो गङ्गे विहङ्गो वरं
त्वन्नीरे
नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः ।
नैवान्यत्र
मदान्धसिन्धुरघटासङ्घट्टघण्टारण-
त्कारस्तत्र
समस्तवैरिवनिता-लब्धस्तुतिर्भूपतिः ॥ 2॥
उक्षा
पक्षी तुरग उरगः कोऽपि वा वारणो वाऽ-
वारीणः
स्यां जननमरणक्लेशदुःखासहिष्णुः ।
न
त्वन्यत्र प्रविरल-रणत्किङ्किणी-क्वाणमित्रं
वारस्त्रीभिश्चमरमरुता
वीजितो भूमिपालः ॥ 3॥
काकैर्निष्कुषितं
श्वभिः कवलितं गोमायुभिर्लुण्टितं
स्रोतोभिश्चलितं
तटाम्बु-लुलितं वीचीभिरान्दोलितम् ।
दिव्यस्त्री-कर-चारुचामर-मरुत्संवीज्यमानः
कदा
द्रक्ष्येऽहं
परमेश्वरि त्रिपथगे भागीरथी स्वं वपुः ॥ 4॥
अभिनव-बिसवल्ली-पादपद्मस्य
विष्णोः
मदन-मथन-मौलेर्मालती-पुष्पमाला
।
जयति
जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित-कलिकलङ्का
जाह्नवी नः पुनातु ॥ 5॥
एतत्ताल-तमाल-साल-सरलव्यालोल-वल्लीलता-
च्छत्रं
सूर्यकर-प्रतापरहितं शङ्खेन्दु-कुन्दोज्ज्वलम् ।
गन्धर्वामर-सिद्ध-किन्नरवधू-तुङ्गस्तनास्फालितं
स्नानाय
प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम् ॥ 6॥
गाङ्गं
वारि मनोहारि मुरारि-चरणच्युतम् ।
त्रिपुरारि-शिरश्चारि
पापहारि पुनातु माम् ॥ 7॥
पापापहारि
दुरितारि तरङ्गधारि
शैलप्रचारि
गिरिराज-गुहाविदारि ।
झङ्कारकारि
हरिपाद-रजोपहारि
गाङ्गं
पुनातु सततं शुभकारि वारि ॥ 8॥
गङ्गाष्टकं
पठति यः प्रयतः प्रभाते
वाल्मीकिना
विरचितं शुभदं मनुष्यः ।
प्रक्षाल्य
गात्र-कलिकल्मष-पङ्कमाशु
मोक्षं
लभेत् पतति नैव नरो भवाब्धौ ॥ 9॥
गङ्गास्तोत्रम्
देवि
सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि
विमले मम मतिरास्तां तव पदकमले ॥ 1॥
भागिरथि
सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः ।
नाहं
जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ 2॥
हरिपदपाद्य
तरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु
मम दुष्कृति भारं कुरु कृपया भवसागरपारम् ॥ 3॥
तव
जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे
त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ 4॥
पतितोद्धारिणि
जाह्नवि गङ्गे खण्डित गिरिवरमण्डितभङ्गे ।
भीष्मजननि
हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ॥ 5॥
कल्पलतामिव
फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि
गङ्गे विमुखयुवति कृततरलापाङ्गे ॥ 6॥
तव
चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि
जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ 7॥
पुनरसदङ्गे
पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये ॥ 8॥
रोगं
शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे
वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ 9॥
अलकानन्दे
परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव
तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥ 10॥
वरमिह
नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा
श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः ॥ 11॥
भो
भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं
नित्यं पठति नरो यः स जयति सत्यम् ॥ 12॥
येषां
हृदये गङ्गा भक्तिः तेषां भवति सदा सुखमुक्तिः ।
मधुराकन्ता
पञ्झटिकाभिः परमानन्दकलितललिताभिः ॥13॥
गङ्गास्तोत्रमिदं
भवसारं वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवकशङ्कररचितं
पठति सुखीस्तव इति च समाप्तः ॥ 14॥
Jai ho
जवाब देंहटाएं