श्रममाहात्म्यम्
गोधान्य धनदानानि प्रशस्यान्यपि सर्वथा
।
शरीरश्रमदानस्य कलां नार्हन्ति षोडशीम् ॥ १ ॥
शमिनो दमिनस्तद्वद्यागिनो योगिनोऽपि वा !
तेऽजस्त्रं श्रमिणः क्षेत्रे तुलां नार्हन्ति कर्हिचित्
॥ २॥
प्रश्राम्यन् पङ्किले क्षेत्रे पङ्कलिप्ततनुर्हि यः ।
स वन्द्योऽश्रमिणः साधोर्भस्माङ्किततनोरपि ॥ ३ ॥
श्रमिणो व्रणचिह्नानि क्षेत्रेऽरण्ये रणेऽथवा ।
तानि प्रवालमालाभ्यो रोचिष्मन्ति विभान्ति मे ॥ ४ ॥
स्वश्रमोपार्जितं ह्यन्नं तन्नूनं परमामृतम् ।
न तत् क्षीराब्धिसम्भूतं न वा यज्ञहुतं हविः ॥ ५ ॥
श्राम्यन्ति गृहिणो यत्र सर्वेऽपि सततं गृहे ।
स्वच्छता सुव्यवस्था च राजते तत्र देवता ॥ ६ ॥
न तद् बिभर्ति पावित्र्यं गाङ्गं वा यामुनं जलम् ।
कृषीवलस्य तप्तस्य कायोत्थं श्रमवारि यत् ॥ ७ ॥
यदाज्याहुतिभिः पुण्यं दीर्घसत्रेष्ववाप्यते ।
नूनं शतगुणं तस्मात् क्षेत्रेषु जलसिञ्चनैः ॥ ८ ॥
श्राम्यन्तः खलु यज्वानः श्राम्यन्तः खलु योगिनः ।
श्राम्यन्त एव दातारः श्रीमन्तो न कथञ्चन ॥ ९ ॥
श्रीमन्तः श्रमवन्तश्च नैव तुल्याः कदाचन ।
भान्ति रत्नोपलैरेके श्रमवारिकणैः परे ॥ १० ॥
श्रीमतां श्रमहीनानां भारात् खिन्नां वसुन्धराम् ।
प्रीणयन्ति स्वकौशल्यैः श्राम्यन्तः कारुशिल्पिनः ॥ ११ ॥
जयन्ति ते कलावन्तः सन्ततश्रमनैष्ठिकाः ।
येषामद्भुतनिर्माणैर्जगदेतदलङ्कृतम् ॥ १२ ॥
धिग् धिक् तं मांसलं देहं रूपयौवनशालिनः ।
यो न धत्ते श्रमाभावाद् गात्रस्नायुकठोरताम् ॥ १३ ॥
न मुक्तासु न हीरेषु तत्तेजः खलु राजते ।
शिल्पिनः श्रमतप्तस्य स्वेदाम्बुकणिकासु यत् ॥ १४ ॥
मांसलोऽपि हि कायोऽसौ नूनं पाषाणनिर्मितः ।
न यः परिश्रमैरेति प्रस्विन्नाखिलगात्रताम् ॥ १५ ॥
प्रियं पद्मादपीशस्य नीहारकणिकाचितात् ।
मुखं स्वेदाम्बुसङ्क्लिन्नं शिल्पिनः श्रमजीविनः ॥ १६
॥
अधनेनापि जीयन्ते श्रमिणा धनसम्पदः ।
सधनेन तु हीयन्तेऽश्रमिणा कुलसम्पदः ॥ १७ ॥
पदवाक्यमयी वाणी जिह्वयैव निगीर्यते ।
सा तु श्रममयी वाणी सर्वैरङ्गैरुदीर्यते ॥ १८ ॥
श्रमेण दुःखं यत्किञ्चित् कार्यकालेऽनुभूयते ।
कालेन स्मर्यमाणं तत् प्रमोदायैव कल्पते ॥ १९ ॥
पुष्पिण्यौ श्रमिणो जङ्घे गतिर्धीरोद्धता तथा ।
व्यूढं वक्षो दृढावंसौ वपुरारोग्यमन्दिरम् ॥ २० ॥
श्राम्यतः शुभकार्येषु जागरूकतयाऽनिशम् ।
श्रमश्रान्तानि नियतं दैन्यानि खलु शेरते ॥ २१ ॥
ज्ञानभक्तिविहीनोऽपि यः श्राम्यति सुकर्मसु ।
साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ २२ ॥
(१९७७)
श्रमयोगः
योगिनामपि सर्वेषां पूजनीयो हि सर्वथा ।
एकाकी प्रतपन् श्रेत्रे श्रमयोगी कृषीवलः ॥ १ ॥
श्रमयोगी महायोगी श्रमिको धार्मिको महान् ।
श्रमाचारी ब्रह्मचारी श्रमशीलो हि शीलवान् ॥ २ ॥
श्राम्यन्तोऽविरत लोके श्रेयांसो वृषभा हि ते ।
अलसाः किन्तु न श्लाध्याः सिंहा गह्वरशायिनः ॥ ३ ॥
ब्रह्मर्षीणां कुले जातो भूदेवो नहि तत्त्वतः ।
अकुलीनोऽपि भूदेवो यो भुवं सम्प्रसेवते ॥ ४ ॥
पूजार्हो नरदेवानां भूदेवानाञ्च सर्वथा ।
श्रमदेवो महात्माऽसौ निशि जाग्रन् दिवा तपन् ॥ ५ ॥
भूदेवानां नृदेवानां देवानां स्वर्गिणामपि ।
श्रमदेवो हि पूजार्हः प्राणिनां वृषभो यथा ॥ ६ ॥
वृषो हि भगवान् धर्मो मुनीनामपि सम्मतः ।
परिश्राम्यत्यविश्रान्तं यदसौ लोकहेतवे ॥ ७ ॥
शोचनीयो यथा लोके पतितो निर्धनो जडः ।
श्रमात् पराजितो नूनं शोचनीयतरस्ततः ॥ ८ ॥
कृशोत्साहः कृशबलः कृशकर्मा कृशश्रमः ।
स एव हि कृशो नूनं न शरीरकृशः कृशः ॥ ९ ॥
ये शास्त्रपण्डिता लोके येऽथवा शस्त्रपण्डिताः ।
श्रमिकैरेव पाल्यन्ते देवैराराधका इव ॥ १० ॥
श्रमिकं निर्धनञ्चापि भूदेवा भूभृतस्तथा ।
वणिजोऽप्युपजीवन्ति श्रमिको जीवनप्रदः ॥ ११॥
(१९७७)
लेखकः- श्रीधरभास्करवर्णेकरः
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें