सुरभारतीप्रभावः (SURBHARATI PRABHAVAH)


मङ्गलाचरणम् (नान्दी)

यस्मादक्षरतः क्षरन्ति सततं भूतानि खादीनि वै।
वाचो यत् प्रथयन्ति चार्थविभवं रूपाणि नामश्रुतिम्।
यस्याशेषकृपादृशा जगदिदं बालोपि बोद्धुं क्षमः।
शब्दार्थप्रतिपत्तये तमु नुमः  शश्वद्गुरुं शङ्करम्।।

यो ह्याब्रह्म समस्तचेतनजडं स्वस्मिन्निलीनं जगद्।
प्राकाश्यं गमयत्यथ स्वधिषणाशक्त्या सिसृक्षावशात्।।
पात्रीकृत्य च लीलया नटयति स्वेच्छाविभूत्या समान्।
सिद्ध्यर्थं लघुरूपकाश्रयगतास्तं सूत्रधारं नुमः।।

(ततः प्रविशति सूत्रधारः)
सूत्रधारः- (सर्वतो विलोक्य) अहो, महती इयं विद्वत्सभा विराजते। आकारयामि तावत् सज्जिकाम्। आर्ये,    सज्जिके....
नटी- (नेपथ्यतः) क्षणेनैव आयामि।.....
सूत्रधारः- त्वरस्व। चिरात्प्रतीक्षे त्वाम्।
नटी- (सम्भ्रमं नाटयित्वा) इयमागता।
सूत्रधारः- क्व गता आसीः।
नटी- न क्वापि आर्य। अपि न स्मर्यते भवता उत्तरप्रदेश संस्कृतसंस्थानद्वारा आयोज्यमानोस्ति गुरुपूर्णिमासमारोहः।
सूत्रधारः- (विहस्य) स्मरामि आर्ये। तथापि.....एतां सहृदयानां सभां दृष्ट्वा सम्भ्रम इव जातः। एतेषां सुखाय प्रस्तोतव्यं किञ्चिद् विशिष्टम्।
नटी- नटा खलु वयम्। नाट्यमतिरिच्य किमपरं विशिष्टं भवितुमर्हति।
उक्तं हि-
उपदेशालापमात्रेण शिक्षितुं यन्न शक्यते।
तद्धि नाट्यप्रयोगेण स्वतः बुद्ध्यावगम्यते।।
सूत्रधारः- साधूक्तम् आर्ये। मतिमती भवती।
नटी- कथं विलम्बस्तर्हि। आचार्यया श्रीमत्या नवलतया विरचितं सुरभारतीप्रभावः इत्याख्यं
यन्नवीनं लघुनाट्यमस्माभिः सज्जीकृतं तस्य प्रयोगेण साधयामः स्वस्य अभीष्टम्।
सूत्रधारः- अलमति विलम्बेन। आकारय नटांस्तावत्।
नटी- सिद्धा अस्मदीया नटाः। मञ्चसज्जा अपि नाट्यानुकूला कृता एव वर्तते। एतु, पश्यावस्तावत्।
(इति निष्क्रान्तौ)

(प्रथमदृश्यम्)

स्थानम्- (शेषनाथमहोदयस्य गृहम्। एकस्मिन् कक्षे तस्य पुत्रः वैभवः अध्ययनोत्पीठिकायां
स्थापिते सङ्गणके किमपि चलच्चित्रं पश्यन्नस्ति।)
(नेपथ्ये तस्य मातुः स्वरः श्रूयते)
सरला- वत्स, वैभव, एहि जलपानं सिद्धमस्ति।
वैभवः- मातः, अधुना पठन्नस्मि। .......(कर्णयोः इयरफोन इति उपकरणं दधानः सः
कक्षस्य द्वारं पिधाय उपविष्टः।)  
सरला- (नेपथ्यतः) वैभव...वैभव, कथं न श्रृणोषि?
वैभव- (कोपेन) अम्ब, कथं मां पीडयसि। मया उक्तं, पठन्नस्मि।
सरला- भवतु, तत्रैव आनयामि। (हस्ते जलपानं दुग्धपात्रं च स्वीकृत्य) कपाटं कथं पिहितम्? उद्घाटय।
(वैभवः अश्रुत इव उपविशति)
सरला- सुप्तः किं वैभव! (मञ्चे आगत्य) अहं हस्ते जलपानं स्वीकृत्य स्थिता अस्मि। शीघ्रम्
उद्घाटय।
वैभव- (ससम्भ्रमम्) अरे बप्तः...! अम्बा अत्रागता। (शीघ्रं सङ्गणकं स्थगयति। कर्णाभ्यां
इयरफोन इति उपकरणम् अपसारयति। पुस्तकम् उद्घाट्य उत्पीठिकायां स्थापयति) (कपाटमुद्घाट्य सरोषम्) किं भोः अम्ब। पठितुमपि न पारयामि। वारं वारं विघ्नं करोति भवती।
सरला- (जलपानं दुग्धं च स्थापयित्वा लालयन्ती) जाने, बहु पठति मम वत्सः। किञ्चित् खाद।
वैभवः- (अपलपन्निव) भवती गच्छतु अम्ब। अहं खादिष्यामि। मम एकान्ते अध्ययनस्य अभ्यासः।
एवं व्यवधानं भवति।
(सरला गच्छति। वैभवः शनैः पुनः कपाटं पिधाय पुस्तकं कोणे स्थापयति। सङ्गणके च तदेव चलचित्रं सञ्चालयति। किमपि आधुनिकगीतं तत्र गीयमानं भवति। वैभवः कर्णयो उपकरणं धृत्वा उत्थाय गीतेन सहैव नृत्ते प्रवर्तते।)
वैभवस्य स्वसा मुक्ता- (कपाटं उद्घाट्य सहसा प्रविशति) ( भ्रातरमुदिश्य सर्वं विलोक्य नेत्रे भ्रामयन् इंगित्य वदति) अहो एतत् पठने विध्नं भवति।
वैभवः- भगिनीं ताडनाय (हस्तमुत्थाय) धावति। (मुक्ता उच्चस्वरेण अम्ब अम्ब इति वदन्  उभौ मञ्चतः अपसरतः)
           (द्वितीय दृश्यम्)

(वैभवस्य सहपाठी कमलेशः सरला च मञ्चे प्रविशतः।)
(जनान्तिकम्)
कमलेशः- नमस्ते आण्टी जी। वैभवः गृहे अस्ति वा।
सरला- आम्, सः पठन्नस्ति। किमपि कार्यमस्ति वा।
कमलेशः- आम्, अद्य अस्माकं गुरु जी अतिरिक्तकक्षां स्वीकरिष्यति।
सरला- स तु न उक्तवान्।
कमलेशः- स असावधानोस्ति। अहम् आह्वयामि।....वैभव..... भोः वैभव। बहिरागच्छ! कक्षायां
न चलिषयसि?
वैभवः- (कक्षाद्बहिः आगमनं विनट्य) किं वदसि मित्र, अद्य......!
कमलेशः- (सङ्केतेन अपवार्य) वैभव, त्वया व्हॉट्सएप न दृष्टं स्यात्! तत्र सूचितं यदद्य गुरुजी
अतिरिक्तकक्षां स्वीकरिष्यति। एहि चलावः।
वैभवः- एवं ननु! चलामि। (सरलामभिलक्ष्य) मातः, यावदागच्छामि मम पुस्तकं कक्षे तथैव भवतु।

(उभौ निष्क्रान्तौ)

(तृतीय दृश्यम्)

(मञ्चे  एको बालकः द्वे बालिके च स्थिताः। ते परस्परमालपन्ति।)
(कमलेशः वैभवश्च प्रविशतः)
(मंचे कक्षा प्रदर्शनीया)
वैभवः- (रिक्तकक्षां पश्यन् व्यङ्ग्येन) अहो, इयं कक्षा चलति! त्वया मिथ्या कथमुक्तम्?
कमलेशः- मिथ्याभाषिणं प्रति मिथ्याभाषणे को दोषः?
वैभवः- कथम्?
कमलेशः- गुरो! अहं सर्वं जानामि। वराकीं मातरं वञ्चयित्वा सङ्गणके चलच्चित्रं पश्यसि।
(उभौ परस्परं हस्तौ सङ्घट्य हसतः- हा हा हा हा हा।)
मीना- किमभवत्। बहु हसतः उभौ भवन्तौ!
वैभवः- (हसन्नेव) रहस्यमेत्!
सुधीरः- (बलं दत्वा) वैभवं विमोच्य आनीतवान् कमलेशः।
राकेशः- चलामस्तावत्।
साध्वी- कुत्र।
मीना- न स्मरसि किम् अद्ये सर्वे वयं कुकरैलमनोरञ्जनस्थलं गन्तुं योजनां कृतवन्तः।
साध्वी- अहं न गमिष्यामि। मया दिनत्रयात् संस्कृतशिविरं गम्यते। पुनश्च गृहे अपि न सूचितम्मया।
कमलेशः- संस्कृतशिविरम्? पण्डिता भवितुमिचछसि किम्?
साध्वी- (उपेक्षया) पण्डिता भवानि न वा किन्तु मानवी अवश्यं भविष्यामि।
सुधीरः- (परिहासेन) हुम्,
मूषकान्नवशतान् भुक्त्वा विडालो तीर्थमेष्यति।
मीना- संस्कृतशिविरं.......?
साध्वी- (आक्षिप्य) आम्, संस्कृतशिविरम्।
वैभवः-  (व्यङ्ग्येन) धन्यासि देवि! अस्माभिः सह तव समायोजनं न भविता। मम बुद्धौ मम पाठ्यविषया अपि न आगच्छन्ति। त्वं संस्कृतशिविरं गच्छसि।
राकेशः- संस्कृतस्य अध्ययनं तु शुष्के क्षेत्रे वन्ध्यवीजवपनमिव।
कमलेशः- इदानीं तु विज्ञानस्य तन्त्रस्य च प्राधान्यं वर्तते। सर्वे तन्त्रज्ञाः भवितुमिच्छन्ति। त्वं पुनः....(इति उपहसति)।
साध्वी- पूर्वम् अहमपि एवमेव चिन्तयामि स्म। किन्तु यदा शिविरं गता तदा ज्ञातं संस्कृतस्य
सामर्थ्यम्।
सुधीरः- हॉं, हॉं, आलपस्व पुरागीतिम्! (सगर्वम्) वयं तु आधुनिकाः।
मीना- (बोधयन्ती इव) साध्वि, धनं जीवनस्य सर्वस्वम्। धनार्जनाय च विज्ञानम् आवश्यकम्।
साध्वी-  युष्माभिः न श्रुतं संस्कृतं पठ आधुनिको भव इति।
वैभवः- हा हा हा हा, संस्कृतं पठ आधुनिको भव’!
सुधीरः- (सनाट्यम्) शिखां धर! तिलकं विभूषय! धौतवस्त्रं धर! मन्त्रं वाचय!
कमलेशः- (तस्य स्वरेण स्वरं मेलयित्वा) आधुनिको भव!
साध्वी- (विहस्य) वानरः किं विजानीयाद् आर्द्रकस्वादमद्भुतम्। यावत्कालं समीपं गत्वा
कस्यापि गुणदोषं मा पश्यत तावत् कापि टिप्पणी न कार्या।
सर्वे- (सहैव उपहसन्त इव) साधु भोः! द्रक्ष्यामः।
साध्वी- अवश्यम्। श्वः तत्र चल। गुरुजी युष्मान् स्वयं बोधयिष्यति।
वैभवः- श्वः कथम्? अद्यैव चलिष्यामः। (प्रश्नमुद्रया) सम्यक्...!
राकेशः- युष्माकं पार्श्वे किमपि अपरं कार्यं नास्ति तर्हि गच्छत। मम रुचिः नास्ति। अयमहं गच्छामि। (इति निर्गच्छति)
(अन्ये सर्वे परस्परं हस्तमेलनं कुर्वन्ति।)
(सर्वे निष्क्रान्ताः)
  
(चतुर्थदृश्यम्)
(स्थानम्- आचार्यबृहस्पतेः संस्कृतमयं गृहम्, गृहे पुरातन- वैज्ञानिकानां विभिन्नानि चित्राणि राजन्ते। मन्दं मन्दं अनुदितगीतस्य ध्वनिः आयाति )
(साध्वीं पुरस्कृत्य सर्वाणि मित्राणि प्रविशन्ति)

(आचार्य बृहस्पतिः आसन्दे उपविष्टः  Science in Sanskrit इति पुस्तकं पठन्नस्ति। गुरुमाता रेणुका पार्श्वे उपविष्टास्ति। अन्तःपुरे बालक- बालिकानां कोलाहलध्वनिः श्रूयते। साध्वी स्वमित्रैः सह आगच्छति। सा आचार्यस्य चरणस्पर्शं करोति। आचार्य आशीर्वचो ब्रूते। अन्ये नमस्कुर्वन्ति। सहसा आचार्यपुत्रः बालकः आदित्यः आगत्य उच्चस्वरेण वदति।
आदित्यः – तात! रमा मां ताडयति।
गुरु जी- (उच्चस्वरेण) रमे! किं कुरुषे?
आदित्यः तात!
गुरु जी- गच्छ, क्रीड।
गुरु जी- (साध्वीं प्रति अभिमुखीभूय) वद। किं वदसि।
साध्वी - तेषां परिचयं कारयति। इयं मीना, अयं वैभवः, एष सुधीरः, असौ कमलेशः।)
(अन्ये यथाकथञ्चित् नमस्कुर्वन्ति।)
गुरु जी- वद साध्वि, कथमेते.......?
साध्वी- गुरु जी, एतेषां मनःसु संस्कृतं प्रति काश्चन शङ्काः सन्ति।
गुरु जी- (पुस्तकं हस्तात अपसार्य उत्पीठिकायां स्थापयति, उपनेत्रमपि पुस्तकस्योपरि स्थापयति।) एवम् ननु! हां, वदन्तु कस्य का शङ्का।
(सर्वे परस्परं सङ्कोचेन पश्यन्ति।)
गुरु जी- निःसङ्कोचं पृच्छन्तु।
सुधीरः- (सम्बोधनं विनैव) किं नाम पुस्तकम् एतत्। Science in Sanskrit. इति खलु। (साश्यर्यम्) संस्कृते विज्ञानम्!......
गुरु जी- (स्मयमानः प्रतिप्रश्नम् उपस्थापयति) कथं न? संस्कृतेन भवान् किम् अवगच्छति?
वैभवः- एका प्रचीना भाषा खलु। पण्डितानां भाषा.......।
मीना- संस्कृतेन पूजापाठः भवति।
कमलेशः- महोदय, बहु कठिना भाषा इयम्। मया तु कदापि रूपाणि एव न कण्ठस्थानि कर्तुं शक्यन्ते स्म।
आचार्य जी- अपरं किमपि?
साध्वी- गुरु जी, एतान् भवान् एव बोधयतु।
गुरु जी- बाढम्। ......उपविश्य ध्यानेन श्रृण्वन्तु। (सर्वे उपविशन्ति।)। संस्कृतं वेदादिशास्त्राणां
भाषा इति भवन्तः श्रुतवन्तः।
(वैभवः जृम्भत इव। तस्य मुखमुद्रया अरुचिः दृश्यते)
वैभवः- (जनान्तिकम्) साध्वि, क्व आनीताः वयं त्वया।
गच्छामः स्म विनोदाय पतिता उपदेशखातके..।
गुरुजी- (कर्णौ दत्वा) किमेतौ मन्त्रयतः। मन्ये एताभ्याम् अत्र न रोचते।
कमलेशश्च- नहि, नहि.....। (सङ्कोचमिश्रितधृष्ठतया) वस्तुतः वयं मनोरञ्जार्थं क्वचिद् गच्छन्त आस्म।
गुरु जी- अवश्यम्। मनोरञ्जनं तु श्रमहरम्। (किचद्विचिन्त्य) उचितकाले आगताः यूयम्। अद्य
गुरुपूर्णमावसरे प्रस्तोतुम् आचार्य वासुदेवद्विवेदिना विरचिता कजरीगीतिरेका मम पुत्र्या सज्जीकृता। साध्वि, तस्याः प्रस्तुतिपूर्वमभ्यासं श्रोतुमिच्छसि चेत्.......?
साध्वी- (सोत्साहम्) अरे हॉं, गुरुजी, मया तु विस्मृतमेव!  (सर्वान् अभिमुखीभूय) वैभव,
कमलेश, मीने, अतीव मधुरमस्ति तद्गीतम्। यूयमपि श्रृणुथ।
गुरुजी- भवतु तर्हि, पुत्रि सारिके, एहि अत्रैव अन्तिमाम् अभ्यासप्रस्तुतिं कुरु।
( सारिका स्वदलेन सह मञ्चं प्रविशति)
(कजरी गीयते) सखि श्यामला......इत्यादि।
(सर्वे मन्त्रमुग्धा इव श्रृण्वन्ति)
(गीतेः समाप्तौ तालिकावादनेन हर्षं प्रकटयन्ति)
सर्वे- (सहैव) अतीव आनन्दो अनुभूतः।
सुधीरः- एतन्मधुरं संस्कृतगीतं मया कदापि न श्रुतम्।
मीना- पुनरपि......संस्कृतगीते आधुनिकवाद्ययन्त्राणि!......आश्चर्यकरम्!
साध्वी- पूर्वं ममापि रुचिः नासीत्। किन्तु अधुना संस्कृते मम श्रद्धा भवति।
वैभवः- अहमपि जितः।
गुरु जी- एतदेव न। इतिहासः भूगोलम्, अर्थशास्त्रं कृषिशास्त्रं वास्तुशास्त्रम् (engineering)
रसायनविज्ञानं भौतिकी किं वा सर्वपि आधुनिकतन्त्रविज्ञानं technology इति संस्कृते वर्तते।
वैभवः- (आश्चर्येण) एतद्वा...!
कमलेशः- सर्वं संस्कृते कथं भवितुमर्हति?
गुरु जी- लोकभाषा आसीदियम् अत एव।
सुधीरः- गुरुजी, परन्तु......
गुरुजी- परन्तु किम्...?
कमलेशः- कथं वयं ज्ञास्यामः?
गुरुजी- संस्कृतेन सम्भाष्य, संस्कृतं पठित्वा।
साध्वी- सत्यम्।
सुधीरः- मित्राणि, कः विचारः?
कमलेशः-  तस्मात् तव कर्णस्फोटकाद् उद्धतगीताद् इदं गीतं मधुरतरम् इति भावये।
मीना-  गुरुजी, वयमपि संस्कृतं पठितुम् इच्छामः।
गुरुजी- (स्मयमानः) आगच्छन्तु। स्वागतम्।....अत्र निःशुल्कं पाठ्यते खलु!
सर्वे- ओम्। (पार्श्वतः पुष्पाणि आनीय गुरुचरणयोः समर्प्य प्रणम्य मञ्चात् निःसरन्ति)
(प्रणामसमये एव मञ्चे भरतवाक्यं गीयते)
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
 गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः।।
(नेपथ्यतः मन्दस्वरः आयाति)
(असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मामृतङ्गमय।।)

लेखिका- डॉ. नवलता, लखनऊ
Share:

Model Timetable for UGC NET/ JRF Sanskrit (Code 25) Preparation

समयसारिणी

समयः
कार्यम्
सान्दर्भिकं संकेतञ्च
4:00 AM
जागरणम्, पादप्रक्षालनम्

4:15- 5:15 AM
पूर्वदिने पठितानां विषयानां पुनरावृत्तिः
टिप्पणी-निर्माणकार्यम्
5:15- 6:15 AM
व्यायामः,योगः ध्यानञ्च

6:15- 6:30 AM
स्नानम्

6:30- 7:30 AM
सामान्यप्रश्नपत्रस्य अध्ययनम्
टिप्पणी-निर्माणकार्यम्
7:30- 8:00 AM
जलपानं, समाचार-पत्रवाचनम्

8:00- 11:00 AM
अध्ययन-सत्रम् 1
वैदिकसाहित्यस्याध्ययनम् उत्तरलेखनञच
11:00- 11:30 AM
संक्षिप्तविरामः

11:30- 01:00 PM
अध्ययन-सत्रम् 2
दर्शन-साहित्यस्याध्ययनम् उत्तरलेखनञच
1:00- 1:30 PM
भोजनम्

1:30- 2:00 PM
संक्षिप्तविरामः

2:00- 4:00 PM
अध्ययन-सत्रम् 3
व्याकरणं भाषाविज्ञानयोः अध्ययनम् उत्तरलेखनञ्च
4:00- 4:30 PM
अल्पविरामकालः

4:30- 5:30 PM
अन्तर्जालचलचित्रमाध्यमेन पुस्तकमाध्यमेन वा अध्ययनम्
साहित्यशास्त्रस्य, काव्यशास्य छन्दसः अध्ययनमुत्तरलेखनञ्च
5:30- 6:15 PM
शारीरिक-गतिविधयः
भ्रमणं, मित्रैः सह जल्पनम्
6:15- 6:30 PM
स्नानम्

6:30- 7:30 PM
अध्ययन-सत्रम् 4
पुराणेतिहासस्य,धर्मशास्त्रस्य अभिलेखशास्त्रस्य च अध्ययनम्
7:30- 9:00 PM
रात्रिभोजनम् + मित्रैः सह अधीतविषयोपरि चर्चा

9:00- 10:00 PM
अध्ययन-सत्रम् 5
कृताध्ययनस्य टिप्पणी-निर्माणकार्यम्
10:00-10:30 PM
अभ्यास- सत्रम्
आदर्शप्रश्नपत्रस्य उत्तर-लेखनम्
10:30 PM
शयनकालः

        टिप्पणी इस समय सारिणी के अनुसार  एक सप्ताह प्रथम प्रश्न पत्र तथा दूसरे सप्ताह द्वितीय प्रश्न पत्र                                  का अध्ययन करना चाहिए।  

Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)