स्तोत्र - संग्रहः

इस स्तोत्र संग्रह में विष्णु , गणेश एवं अन्य विविध देवी देवताओं के स्तोत्र संकलित हैं।

गणपति अथर्वशीर्षम्

ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्ताऽसि।
त्वमेव केवलं धर्ताऽसि।
त्वमेव केवलं हर्ताऽसि।
त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्माऽसि नित्यम्॥१॥
ऋतं वच्मि । सत्यं वच्मि॥२॥
अव त्वं माम्। अव वक्तारम्।
अव श्रोतारम्। अव दातारम्।
अव धातारम्। अवानूचानमव शिष्यम्।
अव पश्चात्तात्। अव पुरस्तात्।
अवोत्तरात्तात्। अव दक्षिणात्तात्।
अव चोर्ध्वात्तात्। अवाधरात्तात्।
सर्वतो मां पाहि पाहि समन्तात्॥३॥
त्वं वाङ्मयस्त्वं चिन्मय:।
त्वमानन्दमयस्त्वं ब्रह्ममय:।
त्वं सच्चिदानन्दाद्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्मासि।
त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥
सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं तत्त्वस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोऽनलोऽनिलो नभ:।
त्वं चत्वारि वाक्पदानि॥५॥
त्वं गुणत्रयातीत:। त्वमवस्थात्रयातीत:।
त्वं देहत्रयातीत:। त्वं कालत्रयातीत:।
त्वं मूलाधारस्थितोऽसि नित्यम्।
त्वं शक्तित्रयात्मक:।
त्वां योगिनो ध्यायन्ति नित्यम्।
त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्मभूर्भुव:स्वरोम्॥६॥
गणादिं पूर्वमुच्चार्य वर्णादिस्तदनन्तरम्।
अनुस्वार: परतर:। अर्धेन्दुलसितम्।
तारेण ऋध्दम्। एतत्तव मनुस्वरूपम्।
गकार: पूर्वरूपम्। अकारो मध्यमरूपं।
अनुस्वारश्चान्त्यरुपं। बिन्दुरुत्तररूपम्।
नाद: संधानम्। संहिता सन्धि:।
सैषा गणेशविद्या:। गणक ऋषि:।
निचृद्गायत्रीच्छन्द:। गणपतिर्देवता।
ॐ गं गणपतये नम:॥७॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।
तन्नो दन्ती प्रचोदयात्॥८॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै: सुपूजितम्।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
आविर्भूतं च सृष्टयादौ प्रकृते: पुरुषात्परम्।
एवं ध्यायति यो नित्यं स योगी योगिनां वर:॥९॥
नमो व्रातपतये नमो गणपतये
नम: प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय।
वरदमूर्तये नमो नम:॥१०॥
फलश्रुति
एतदथर्वशीर्षं योऽधिते।
स ब्रह्मभूयाय कल्पते।
स सर्वत: सुखममेधते।
स सर्वविघ्नैर्नबाध्यते।
स पञ्चमहापापात्प्रमुच्यते॥
सायमधीयानो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रात्रिकृतं पापं नाशयति।
सायंप्रात: प्रयुंजानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति।
धर्मार्थकाममोक्षं च विन्दति॥
इदमथर्वशीर्षमशिष्याय न देयम्।
यो यदि मोहाद्दास्यति।
स पापीयान् भवति।
सहस्त्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत्॥११॥
अनेन गणपतिमभिषिंचति।
स वाग्मी भवति।
चतुर्थ्यामनश्नन् जपति।
स विद्यावान् भवति।
इत्यथर्वणवाक्यम्।
ब्रह्माद्यावरणं विद्यात्।
न बिभेति कदाचनेति॥१२॥
यो दूर्वांकुरैर्यजति।
स वैश्रवणोपमो भवति।
यो लार्जैर्यजति स यशोवान् भवति।
स मेधावान् भवति।
यो मोदकसहस्त्रेण यजति।
स वाञ्छितफलमवाप्नोति।
यः साज्यसमिद्भिर्यजति।
स सर्वं लभते स सर्वं लभते॥१३॥
अष्टौ ब्राह्मणान् समम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्ता सिध्दमंत्रो भवति।
महाविघ्नात्प्रमुच्यते।
महादोषात्प्रमुच्यते।
महापापात् प्रमुच्यते।
स सर्वविद्भवति स सर्वविद्भवति।
य एवं वेद इत्युपनिषद्॥१४॥

गणेशपञ्चरत्न स्तोत्रम्

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥

सङ्कटनाशनं गणेशस्तोत्रम्

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेनित्यं आयुः कामाऽर्थ सिध्दये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाषष्टम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशेतानि नामानि त्रिसन्ध्यं य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वसिध्दिकरं परम् ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिध्दिं च लभते नाऽत्र संशय: ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत: ॥८॥

इति नारदपुराणे सङ्कटनाशनं गणेशस्तोत्रं सम्पूर्णम् ।।


रामचन्द्रस्तुतिः

नमामि भक्तवत्सलं कृपालुशीलकोमलं
भजामि ते पदाम्बुजमकामिनां स्वधामदम् ।
निकाम-श्यामसुन्दरं भवाम्बुनाथमन्दरं
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥ १ ॥

प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं
निषङ्गचापसायकं धरं त्रिलोकनायकम् ।
दिनेशवंशमण्डनं महेशचापखण्डनं
मुनीन्द्रसन्तरञ्जनं सुरारिवृन्दभञ्जनम् ॥ २ ॥

मनोजवैरिवन्दितमजादिदेवसेवितं
विशुद्धबोधविग्रहं समस्तदूषणापहम् ।
नमामि इन्दिरापतिं सुखाकरं सतां गतिं
भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥ ३ ॥

त्वदङ्घ्रिमूल ये नरा भजन्ति हीनमत्सराः
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले ।
विविक्तवासिनः सदा भजन्ति मुक्तये मुदा
निरस्य इन्द्रियादिकं प्रयान्ति ते गतिं स्वकाम् ॥ ४ ॥

त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं
जगद्गुरुं च शाश्वतं तुरीयमेव केवलम् ।
भजामि भाववल्लभं कुयोगिनां सुदुर्लभं
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् ॥ ५ ॥

अनूपरूपभूपतिं नतोऽहमुर्विजापतिं
प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे ।
पठन्ति ये स्तवं इदं नरादरेण ते पदं
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम् ॥ ६ ॥


इति श्रीमद्गोस्वामितुलसीदासकृता रामचन्द्रस्तुतिः सम्पूर्णा।


अच्युताष्टकम्

अच्युतं केशवं रामनारायणं  कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं  जानकीनायकं रामचन्द्रं भजे ॥

अच्युतं केशवं सत्यभामाधवं  माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं  देवकीनन्दनं नन्दजं सन्दधे ॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे  रुक्मणीरागिणे जानकी जानये ।
वल्लवीवल्वभायार्चितायात्मने  कंशविध्वंसिने वंशिने ते नमः ॥

कृष्ण गोविन्द हे राम नारायण  श्रीपते वासुदेवाजित  श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज  द्वारकानायक द्रौपदीरक्षक ॥

राक्षसक्षोभितः सीतया शोभितो  दण्डकरण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥

धेनुकारिष्टकानिष्टकृद्द्वेषिहा  केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो  बालगोपालकः पातु मां सर्वदा ॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं  प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं  लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं  रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं  किङ्किणी मञ्जुलं श्यामलं तं भजे ॥

अच्युतस्याष्टकं यः पठेदिष्टदं  प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥

इति श्रीमच्छङ्कराचार्यविरचितम् अच्युताष्टकं सम्पूर्णम् ।


 ।। कृष्णाष्टकम् ।।

भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्त-चित्तरञ्जनं सदैव नन्दनन्दनम्‌।
सुपिच्छ-गुच्छ-मस्तकं सुनाद-वेणुहस्तकं
ह्यनङ्ग-रङ्गसागरं नमामि कृष्णनागरम्‌॥1॥

मनोजगर्वमोचनं विशाल-लोल-लोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्‌।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणम्‌॥2॥

कदम्बसूनुकुण्डलं सुचारु-गण्ड-मण्डलं
व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम्‌।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्‌॥3॥

सदैव पादपङ्कजं मदीयमानसे निजं
दधानमुत्तमालकं नमामि नन्दबालकम्‌।
समस्त-दोष-शोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि कृष्णलालसम्‌॥4॥

भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि दुग्धचोरकम्‌।
दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम्‌॥5॥

गुणाकरं सुखाकरं कृपाकरं कृपावरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्‌।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम्‌॥6॥

समस्तगोपनन्दनं हृदम्बुजैकमोहनं
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्‌।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकम्‌।7॥

विदग्ध-गोपिकामनो-मनोज्ञ-तल्पशायिनं
नमामि कुञ्जकानने प्रवृद्ध-वह्नि-पायिनम्‌।
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्‌।

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्‌
भवेत्‌ स नन्द-नन्दने भवे भवे सुभक्तिमान्‌॥8॥


इति शंकराचार्यविरचितं कृष्णाष्टकं सम्पूर्णम्।।

कृष्णाष्टकम् (2)

श्रियाश्लिष्टो विष्णुः स्थिर-चर-गुरूर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताऽब्जनयनः।
गदी शङ्खी चक्री विमल-वनमाली स्थिररूचिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।1।।

यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा।
लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।2।।

असूनायम्यादौ यमनियम-मुख्यैः सुकरणै
र्निरूद्धयेदं चित्तं हृदि विलयमानीय सकलम्।
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।3।।


पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम्।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।4।।

महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते।
बलारातेर्गर्वं परिहरति योऽसौ विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।5।।

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।6।।

नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः।
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।7।।


यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदा लोकस्वामी प्रकटितवपुः सेतुधृगजः।
सतां धाता स्वच्छो निगमगुणगीतो व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः।।8।।


इति शंकराचार्यविरचितं कृष्णाष्टकं सम्पूर्णम्।।

गोविन्दाष्टकम्

चिदानन्दाकारं श्रुतिसरससारं समरसं
   निराधाराधारं भवजलधिपारं परगुणम् ।
रमाग्रीवाहारं व्रजवनविहारं हरनुतं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १॥
महाम्भोदिस्थानं स्थिरचरनिदानं दिविजपं
  सुधाधारापानं विहगपतियानं यमरतम् ।
मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदम्
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ २॥
धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैः
  महावाक्यैज्ञेयं त्रिभुवनविधेयं विधिपरम् ।
मनोमानामेयं सपदि हृदि नेयं नवतनुं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ३॥
महामायाजालं विमलवनमालं मलहरं
  सुबालं गोपालं निहतशिशुपालं शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ४॥
नभोबिम्बस्फीतं निगमगणगीतं समगतिं
  सुरौघे सम्प्रीतं दितिजविपरीतं पुरिशयम् ।
गिरां पन्थातीतं स्वदितनवनीतं नयकरं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ५॥
परेशं पद्मेशं शिवकमलजेशम् शिवकरं
  द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं नगधरं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ६॥
रमाकान्तं कान्तं भवभयलयान्तं भवसुखं
  दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम् ।
विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ७॥
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं
  बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् ।
स्वनिष्ठं धार्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं
  सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ८॥
गदापाणेरेतद्दुरितदलनं दुःखशमनं
  विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।
स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनो
  वरं विष्णोः स्थानं व्रजति खलु वैकुण्ठभुवनम् ॥

इति श्री परमहंसस्वामिब्रह्मानन्दविरचितं श्रीगोविन्दाष्टकं सम्पूर्णम्

॥ हरिस्तोत्रम् ॥

जगज्जालपालं चलत्कण्ठमालं (कचत्कण्ठमालं) शरच्चन्द्रभालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं सुपद्मासहायं भजेऽहं भजेऽहम् ॥ १॥

सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासम् ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥ २॥

रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारम् ।
चिदानन्दरूपं मनोज्ञस्वरूपं धृतानेकरूपं भजेऽहं भजेऽहम् ॥ ३॥

जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥ ४॥

कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकूलं जगद्वृक्षमूलं निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥ ५॥

समस्तामरेशं द्विरेफाभकेशं जगद्बिम्बलेशं हृदाकाशदेशम् ।
सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥ ६॥

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं महाम्भोधितीरं भजेऽहं भजेऽहम् ॥ ७॥

रमावामभागं तलानग्रनागं कृताधीनयागं गतारागरागम् ।
मुनीन्द्रैः सुगीतं सुरैः सम्परीतं गुणौधैरतीतं भजेऽहं भजेऽहम् ॥ ८॥
फलश्रुति ॥
इदं यस्तु नित्यं समाधाय चित्तं पठेदष्टकं कण्ठहारं मुरारेः ।
स विष्णोर्विशोकं ध्रुवं याति लोकं जराजन्मशोकं पुनर्विन्दते नो ॥ ९॥


इति  श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिस्तोत्रं सम्पूर्णम् ॥

दशावतार स्तोत्रम्

प्रलयपयोधिजले धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥
केशव धृतमीनशरीर जय जगदीश हरे ॥ १॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥
वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलङ्ककलेव निमग्ना ॥
केशव धृतसूकररूप जय जगदीश हरे ॥ ३॥
तव करकमलवरे नखमद्भुतशृङ्गम् ।
दलितहिरण्यकशिपुतनुभृङ्गम् ॥
केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४॥
छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जय जगदीश हरे ॥ ५॥
क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥
केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौलिबलिं रमणीयं ॥
केशव धृतरामशरीर जय जगदीश हरे ॥ ७॥
वहसि वपुषि विशदे वसनं जलदाभम् ।
हलहतिभीतिमिलितयमुनाभम् ॥
 केशव धृतहलधररूप जय जगदीश हरे ॥ ८॥
निन्दसि यज्ञविधेरहह श्रुतिजातम् ।
 सदयहृदयदर्शितपशुघातम् ॥
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९॥
म्लेच्छनिवहनिधने कलयसि करवालम्
धूमकेतुमिव किमपि करालम् ॥
केशव धृतकल्किशरीर जय जगदीश हरे ॥ १०॥
श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदं शुभदं भवसारम् ॥
केशव धृतदशविधरूप जय जगदीश हरे ॥ ११॥

दशावतार स्तोत्रम् 2

श्रितकमलाकुचमण्डल! धृतकुण्डल! ।
कलितललितवनमाल! जय, जय, देव! हरे! ॥ १ ॥

दिनमणीमण्डलमण्डन! भवखण्डन! ।
मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ २ ॥

कालियविषधरगञ्जन! जनरञ्जन! ।
यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ ३ ॥

मधुमुरनरकविनाशन! गरुडासन! ।
सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ ४ ॥

अमलकमलदललोचन! भवमोचन्! ।
त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ ५ ॥

जनकसुताकृतभूषण! जितदूषण! ।
समरशमितदशखण्ठ! जय, जय, देव! हरे! ॥ ६ ॥

अभिनवजलधरसुन्दर! धृतमन्दर! ।
श्रीमुखचन्द्रचकोर! जय, जय, देव! हरे! ॥ ७ ॥

श्रीजयदेवकवेरिदं कुरुते मुदम् ।
मङ्गलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ ८ ॥

दशावतार स्तोत्रम् 3


ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥
विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १ ॥

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ २ ॥

मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३ ॥

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४ ॥

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५ ॥

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६ ॥

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७ ॥

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८ ॥

॥ नारायणाऽष्टादशकम् ॥

प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय
स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राऽविरासीद्धरिः ।
वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदयन्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १॥

श्रीरामाऽत्र विभीषणोऽयमधुना त्वार्तो भयादागतः
सुग्रीवानय पालयेऽहमधुना पौलस्त्यमेवागतम् ।
एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यन्ददा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥

नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां
पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश माम् ।
मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥

हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वाऽसि क्वाऽसि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।
इत्युक्तोऽक्षयवस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥

यत्पादाब्ज-नखोदकं त्रिजगतां पापौघविध्वंसनं
यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् ।
पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवान्-
आर्तत्राणपरायणः  स भगवान्नारायणो मे गतिः ॥ ५॥

यन्नाम श्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं
त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् ।
तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोस्म्यहम्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥

पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं
दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् ।
योऽदात् तं शरणागतं तु तपसा हेमाद्रिसिंहासनं
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥

नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका
जारिण्यः कुल-जाति-धर्म-विमुखा अध्यात्मभावं ययुः ।
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति-
र्ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ८॥

क्षुत्तृष्णार्त-सहस्रशिष्यसहितं दुर्वाससं क्षोभितं
द्रौपद्या भय-भक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।
भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ९॥

येनाऽरक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज-
स्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति ।
पौलस्त्येन निराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १०॥

येनावाहि महाहवे वसुमती संवर्तकाले महा-
लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् ।
यःपापिद्रुम-सम्प्रवर्तमचिराद्धत्त्वा च योऽगात् प्रियम्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ११॥

योद्धाऽसौ भुवनत्रये मधुपतिर्भर्ता नराणां बले
राधाया अकरोद्रते रतिमनः पूर्तिः सुरेन्द्रानुजः ।
यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गतान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १२॥

यःसान्दीपिनिदेशतश्च तनयं लोकान्तरात्सन्नतं
चाऽनीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये ।
सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादनाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १३॥

यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः
प्राणान्मुक्तिमशेषितामनु च यः पापौघदावातियुक् ।
सद्यो भागवतोत्तमात्मनि मतिं प्रापाम्बरीषाभिध-
श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १४॥

योऽरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं
दीनाऽदीन-चकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः ।
तज्जीर्णाम्बर-मुष्टिमात्रपृथुकानादाय भुक्त्वा क्षणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १५॥

यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते
यत्संशेति पतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।
यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १६॥

कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले
चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७॥

वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणाद्-
औदार्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यःश्रीपतिरेवसर्वजगतामेते हि तत्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १८॥

इति श्री शङ्कराचार्यविरचितमार्तत्राणपरायण-नारायणाष्टादशकं सम्पूर्णम् ॥

श्रीजगन्नाथाष्टकम्

कदाचित् कालिन्दी-तटविपिन-सङ्गीतकरवो
मुदाभीरी-नारीवदन-कमलास्वाद-मधुपः । 
रमा-शम्भुर्ब्रह्माऽमरपति-गणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १ ॥

भुजे सव्ये वेणुं शिरसि शिखिपिंच्छं कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते ।
सदा श्रीमद्वृन्दावन-वसतिलीला-परिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु ने ॥ २ ॥

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन् प्रासादान्तः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवाऽवसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ३ ॥

कृपापारावारः सजल-जलद-श्रेणिरुचिरो
रमावाणीराम-स्फुरदमल-पद्मोद्भवमुखैः ।
सुरेन्द्रैराराध्यः श्रुतिगण-शिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ४ ॥

रथारूढो गच्छन् पथि मिलित-भूदेवपटलैः
स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ५ ॥

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दो राधा-सरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ६ ॥

न वै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं
न याचेऽहं रम्यां निखिलजनकाभ्यां वरवधूम् ।
सदा काले काले प्रमथ-पतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ७ ॥

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं निश्चितपदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥


इति श्री शङ्कराचार्यप्रणीतं जगन्नाथाष्टकं सम्पूर्णम्॥

॥ गरूडध्वजस्तोत्रम् ॥


ध्रुव उवाच
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
   संजीयत्यखिलशक्तिधरः            स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्-
   प्राणान्नमो भगवते पुरूषाय तुभ्यम् ॥ १॥

एकस्त्वमेव भगवन्निदमात्मशक्त्या
   मायाख्ययोरूगुणया महदाद्यशेषम् ।
सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु
   नानेव दारुषु विभावसुवद् विभासि ॥ २॥

त्वद्दत्तया वयुनयेदमचष्ट विश्वं
   सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्याऽपवर्ग्यशरणं तव पादमूलं
   विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ३॥

नूनं विमुष्टमतयस्तव मायया ते
   ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्य-
   मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ४॥

या निर्वृतिस्तनुभूतां तव पादपद्म-
   ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
   किन्त्वन्तकासिलुलितात् पततां विमानात् ॥ ५॥

भक्तिं मूहुः प्रवहतां त्वयि मे प्रसङ्गो
   भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरूव्यसनं भवाब्धिं
   नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ६॥

ते न स्मरन्त्यतितरां प्रियमीशमर्त्यं
   ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ये त्वब्जनाभ भवदीयपदारविन्द-
   सौगंध्य-लुब्ध-हृदयेषु कृतप्रसङ्गाः ॥ ७॥

तिर्यङ्गम-द्विज-सरीसृपदेवदैत्य-
   मर्त्यादिभिः परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाद्यनेकं
   नातःपरं परम वेद्मि न यत्र वादः ॥ ८॥

कल्पान्त एतदखिलं जठरेण गृह्णन्
   शेते पुमान् स्वदृगनन्तसखस्तदङ्के ।
यन्नाभिसिन्धुरूहकाञ्चनलोकपद्म-
   गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ ९॥

त्वं नित्यमुक्तपरिशुद्ध-विशुद्ध आत्मा
   कूटस्थ आदिपुरूषो भगवांस्त्र्यधीशः ।
यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या
   द्रष्टा स्थितावधिमखो व्यातिरिक्त आस्से ॥ १०॥

यस्मिन् विरूद्धगतयो ह्यनिशं पतन्ति
   विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्भह्म विश्वभवमेकमनन्तमाद्यम-
   अनन्दमात्रमविकारमहं प्रपद्ये ॥ ११॥

सत्याशिषो हि भगवंस्तव पादपद्म-
   माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः ।
अप्येवमार्य भगवान् परिपाति दीनान्
   वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १२॥

मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १३॥

श्रीभगवानुवाच
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १४॥

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ १५॥

मेढ्यां गोचक्रवत्स्थास्नु परस्तात् कल्पवासिनाम् ।
धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ॥

चरन्ति दक्षिणोकृत्य भ्रमन्तो यत्सतारकाः ॥ १६॥

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ १७॥

ततो गंतासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्ठादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ १८॥

मैत्रेय उवाच
इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥ १९॥


। इति श्रीगरुडध्वजस्तोत्रं सम्पूर्णम् ।

  श्रीवेङ्कटेशप्रपत्तिः

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णो: परां प्रेयसीं
तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीं
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥१॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक!
सर्वज्ञ-शक्त-नतवत्सल सर्वशेषिन्।
स्वामिन् सुशील-सुलभाश्रितपारिजात
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥२॥
आनूपुरार्पितसुजातसुगन्धिपुष्प-
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥३॥
सद्योविकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम्।
सम्यक्षु साहसपदेषुविलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥४॥
रेखामयध्वजसुधाकलशातपत्र-
वज्राङ्कुशांबुरुहकल्पकशङ्खचक्रैः।
भव्यैरलंकृततलौ परतत्त्वचिह्नैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥५॥
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ।
उद्यन्नखांशुभिरुदस्तशशांकभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥६॥
सप्रेमभीतिकमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥७॥
लक्ष्मीमहीतदनुरूपनिजानुभाव-
नीलादि दिव्यमहिषी करपल्लवानाम्।
आरुण्यसंक्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥८॥
नित्यानमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥९॥
विष्णोः पदे परम इत्युदितप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१०॥
पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥११॥
मन्मूर्ध्नि कालियफणेषु विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१२॥
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१३॥
प्रायः प्रपन्नजनता प्रथमावगाह्यौ
मातुः स्तनाविव शिशोरमृतायमानौ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१४॥
सत्त्वोत्तरैर्सततसेव्यपदांबुजेन
संसारतारकदयार्द्रदृगञ्चलेन।
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१५॥
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥१६॥

हनुमत्स्तुतिः

आञ्जनेय-मति-पाटलाननं काञ्चनाद्रि-कमनीय-विग्रहम्।
पारिजात-तरुमूल-वासिनं भावयामि पवमान-नन्दनम्।।1।।

गोष्पदीकृत-वारीशं मशकीकृत-राक्षसम् ।
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ।।2।।

यत्र यत्ररघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारि-परिपूर्ण-लोचनं मारुतिं नमत-राक्षसान्तकम्।।3।।

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।।4।।
अतुलितबलधामं हेमशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।
सकल-गुणनिधानं वानराणामधीशं,
रघुपतिप्रियभक्तं वातजातं नमामि।।5।।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरण प्रपद्ये।।6।।

                      विविध स्तोत्र

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥१॥

भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ २॥

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ ३॥

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः  किल तं द्रष्टुं न यमः शक्तः ॥ ४॥

पतितोद्धारिणि जाह्नवि गङ्गे  खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे  विमुखयुवतिकृततरलापाङ्गे ॥ ६॥

तव चेन्मातः स्रोतःस्नातः  पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे  कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥

पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८॥

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे॥ ९॥

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥१०॥

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः॥ ११॥

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२॥

येषां हृदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकान्तापज्झटिकाभिः परमानन्दकलितललिताभिः ॥ १३॥

गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवकशङ्कररचितं पठति सुखी स्तव इति च समाप्तः ॥ १४॥

गंगास्तुतिः (मातः शैलसुता) पर जाने के लिए यहाँ क्लिक करें।

  गङ्गाष्टकम्                    

मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि
स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये ।
त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खत-
स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥

त्वत्तीरे तरुकॊटरान्तरगतो गङ्गे विहङ्गो वरं
त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः।
नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टघण्टारण-
त्कारत्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः ॥२॥

उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा
वारीणः स्यां जननमरणक्लेशदुःखासहिष्णु: ।
न त्वन्यत्र प्रविरलरणत्कङ्कणक्वाणमिश्रं
वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः ॥३॥

काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिर्लुण्ठितं
स्रोतोभिश्चलितं तटांबुलुलितं  वीचीभिरान्दोलितम्।
दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा
द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ॥४॥

अभिनवबिसवल्ली पादपद्मस्य विष्णो-
र्मदनमथन्मौलेर्मालतीपुष्पमाला   ।
जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपितकलिकलङ्का जाह्नवी नः पुनातु ॥५॥

एतत्तालतमालसालसरलव्यालोलवल्लीलता-
च्छन्नं सूर्यकरप्रतापरहितं शंखेन्दुकुन्दोज्ज्वलम्।
गन्धर्वामरसिद्धकिन्नरवधूत्तुङ्गस्तनास्फालितं
स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम्॥६॥

गाङ्गं वारि मनोहारि मुरारिचरणच्युतम्।
त्रिपुरारिशिरश्चारी पापहारि पुनातु माम् ॥७॥

पापहारि दुरितारि तरङ्गधारी
शैलप्रचारि गिरिराजगुहाविदारि।
झङ्कारकारि हरिपादरजोऽपहारि
गाङ्गं पुनातु सततं शुभकारि वारि ॥८॥

इति वाल्मीकिविरचितं गङ्गाष्टकम् पूर्णम्

कालिदासकृतं गङ्गाष्टकम्


नमस्तेऽस्तु गङ्गे त्वदङ्गप्रसङ्गाद्-
भुजंगास्तुरङ्गाः कुरङ्गाः प्लवङ्गाः ।
अनङ्गारिरङ्गाः ससङ्गाः शिवाङ्गा
भुजङ्गाधिपाङ्गीकृताङ्गा भवन्ति ॥ १॥

नमो जह्नुकन्ये न मन्ये त्वदन्यैर्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः ।
अतोऽहं नतोऽहं सतो गौरतोये वसिष्ठादिभिर्गीयमानाभिधेये ॥ २॥

त्वदामज्जनात्सज्जनो दुर्जनो वा विमानैः समानः समानैर्हि मानैः ।
समायाति तस्मिन्पुरारातिलोके पुरद्वारसंरुद्धदिक्पाललोके ॥ ३॥

स्वरावासदम्भोलिदम्भोपि रम्भापरीरम्भसम्भावनाधीरचेताः ।
समाकाङ्क्षते त्वत्तटे वृक्षवाटीकुटीरे वसन्नेतुमायुर्दिनानि ॥ ४॥

त्रिलोकस्य भर्तुर्जटाजूटबन्धात्स्वसीमान्तभागे मनाक्प्रस्खलन्तः ।
भवान्या रुषा प्रोढसापन्तभावात्करेणाहतास्तवत्तरङ्गा जयन्ति ॥ ५॥

जलोन्मज्जदैरावतोद्दानकुम्भस्फुरत्प्रस्खलत्सान्द्रसिन्दूररागे ।
क्कचित्पद्मिनीरेणुभङ्गे प्रसङ्गे मनः खेलतां जह्नुकन्यातरङ्गे ॥ ६॥

भवत्तीरवानीरवातोत्थधूलीलवस्पर्शतस्तत्क्षणं क्षीणपापः ।
जनोऽयं जगत्पावने त्वत्प्रसादात्पदे पौरुहूतेऽपि धत्तेऽवहेलाम् ॥ ७॥

त्रिसन्ध्यानमल्लेखकोटीरनानाविधानेकरत्नांशुबिम्बप्रभाभिः ।
स्फुरत्पादपीठे हठेनाष्टमूर्तेर्जटाजूटवासे  नताः स्मः पदं ते ॥ ८॥

इदं यः पठेदष्टकं जह्नुपुत्र्यास्रिकालं कृतं कालिदासेन रम्यम् ।
समायास्यतीन्द्रादिभिर्गीयमानं पदं कैशवं शैशवं नो लभेत्सः ॥ ९॥


इति श्रीकालिदासकृतं गङ्गाष्टकस्तोत्रं सम्पूर्णम् ॥

।।गङ्गाष्टकम्।।

भगवति भवलीलामौलिमाले तवाम्भः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलङ्कातङ्कमङ्के लुठन्ति।।1।।

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती।
क्षोणीपृष्टे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु।।2।।

मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकरभ-कराक्रान्तरंहस्तरङ्गम्।।3।।
आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्।
भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी भूतले।।4।।

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी।
शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी।।5।।

कुतो वीचीर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुरनिवासं वितरसि।
त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः।।6।।

गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
            पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणी स्वर्गमार्गे।
प्रायाश्चित्तं यदि स्यात्तव जलकणिका ब्रह्महत्यादिपापे
            कस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गङ्गे प्रसीद।।7।।

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद।।7।।

मातर्जाह्नवि शंभुसङ्गमिलिते मौलौ निधायाञ्जलिं
       त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम्।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
       भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती।।8।।

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति।।9।।


इति शंकराचार्यविरचितं गङ्गाष्टकं सम्पूर्णम्।।

।।यमुनाष्टकम्।।

कृपापारावारां तपनतनयां तापशमनीं
मुरारि-प्रेयस्यां भवभयदवां भक्तिवरदाम्।
वियज्ज्वालोन्मुक्तां श्रियमपि सुखाप्तेः परिदिनं
सदा धीरो नूनं भजति यमुनां नित्यफलदाम्।।1।।

मधुवन-चारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते
मधुरिपुभूषणि माधव-तोषिणि गोकुलभीतिविनाशकृते।
जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।2।।

अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे
परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे।
व्रजपुरवासि-जनार्जितपातक-हारिणि विश्वजनोद्धरिके
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।3।।

अतिविषदाम्बुधिमग्नजनं भवताप-शताकुलमानसकं
गति-मति-हीनमशेषभयाकुलमागतपाद-सरोजयुगम्।
ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।4।।

नवजलदद्युति-कोटिलसत्तनु-हेमभयाभर-रञ्जितके
तडिदवहेलि-पदाञ्चल-चञ्चल-शोभितपीत-सुचेलधरे।
मणिमय-भूषण-चित्रपटासन-रञ्जित-गञ्जित-भानुकरे
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।5।।


शुभपुलिने मधुमत्तयदूद्भव-रासमहोत्सव-केलिभरे
उच्चकुलाचल-राजित-मौक्तिक-हारमयाभररोदसिके।
नवमणिकोटिक-भास्करकञ्चुकि-शोभिततारक-हारयुते
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।6।।

करिवरमौक्तिक-नासिकभूषण-वातचमत्कृत-चञ्चलके
मुखकमलामल-सौरभचञ्चल-मत्तमधुव्रतलोचनिके।
मणिगणकुण्डल-लोलपरिस्फुरदाकुल-गण्डयुगामलके
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।7।।

कलरवनूपुर-हेममयाचित-पादसरोरुह-सारुणिके
धिमि-धिमि-धिमि-धिमि-तालविनोदित-मानसमञ्जुल-पादगते।
तव पदपङ्कजमाश्रितमानव-चित्तसदाऽखिलतापहरे
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्।।8।।

भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो
यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया।
हयाह्नेषैः कामं करकुसुमपुञ्जैरविरतां
सदा भोक्ता भोगान्मरणसमये याति हरिताम्।।9।।


इति शंकराचार्यविरचितं यमुनाष्टकं सम्पूर्णम्।।

॥ श्री शारदा-प्रार्थना ॥


नमस्ते शारदे देवि काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ १॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी  ॥ २॥

नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम् ।
भवानीं भवसन्ताप-निर्वापणसुधानदीम् ॥ ३॥

भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः  ।
वेदवेदाङ्गवेदान्त-विद्यास्थानेभ्य एव च ॥ ४॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः   ॥ ५॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत् ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः   ॥ ६॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः  ॥ ७॥


॥ इति श्रीशङ्कराचार्यविरचिता शारदाप्रार्थना पूर्णा  ॥

नवग्रह- स्तोत्रम्

जपा-कुसुम-संकाशं काश्यपेयं महद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥
दधि-शङ्ख तुषाराभं क्षीरोदार्णव-संभवम्।
नमामि शशिनं सोमं शम्भोः मुकुट-भूषणम्॥२॥
धरणी-गर्भ-संभूतं विद्युत्कान्ति-समप्रभम्।
कुमारं शक्ति-हस्तं च मंगलं प्रणमाम्यहम्॥३॥
प्रियंगु-कलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्य-गुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥
देवानां च ऋषीणां च गुरुं काञ्चन-सन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥
हिम-कुन्द-मृणालाभं दैत्यानां परमं गुरुम्।
सर्व-शास्त्र-प्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥
नीलाञ्जन-समाभासं रविपुत्रं यमाग्रजम्।
छाया-मार्तण्ड-संभूतं तं नमामि शनैश्चरम्॥७॥
अर्धकायं महावीर्यं चन्द्रादित्य-विमर्दनम्।
सिंहिका-गर्भ-सम्भूतं तं राहुं प्रणमाम्यहम्॥८॥
पलाश-पुष्प-सङ्काशं तारका-ग्रह-मस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥
फलश्रुतिः
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्न-शान्तिर्भविष्यति॥१०॥
नर-नारी-नृपाणां च भवेद् दुःस्वप्न-नाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि-वर्धनम्॥११॥
गृह-नक्षत्रजाः पीडाः तस्कराग्निसमुद्-भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥१२॥

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥ 
                   
                           वेदान्तस्तोत्राणि

चर्पटपञ्जरिकास्तोत्रम्

                        
                          शङ्कराचार्यरचितम्


भज गोविन्दं भज गोविन्दं
     गोविन्दं भज मूढ़मते।
प्राप्ते सन्निहिते मरणे
      नहि नहि रक्षति डुकृञ्करण ।।1।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
बालस्तावत्क्रीडासक्त
स्तरूणस्तावत्तरूणीरक्तः।
वृद्धस्तावच्चिन्तामग्नः परे
ब्रह्मणि कोऽपि न लग्नः ।।2।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
अंगं गलितं पलितं मुण्डं
      दशन विहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं
      तदपि न मुञ्चत्याशापिण्डम् ।।3।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
पुनरपि जननं पुनरपि मरणं
      पुनरपि जननीजठरे शयनम्।
इह संसारे खलु दुस्तारे
      कृपयापारे पाहि मुरारे ।।4।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
दिनमपि रजनी सायं प्रातः
      शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायु
स्तदपि न मुञ्चत्याशावायुः ।।5।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
जटिलो मुण्डी लुंचितकेशः
      काषायाम्बरबहुकृतवेषः।
पश्यन्नपि न च पश्यति मूढ़ः
      उदरनिमित्तं बहुकृतवेशः ।।6।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
वयसि गते कः कामविकारः
      शुष्के नीरे कः कासारः।
क्षीणे वित्ते कः परिवारो
      ज्ञाते तत्त्वे कः संसारः ।।7।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
अग्रे वन्हिः पृष्ठे भानुः
      रात्रौ चिबुकसमर्पितजानुः।
करतलभिक्षा तरुतलवास
      स्तदपि न मुञ्चत्याशापाशः ।।8।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
यावद्वित्तोपार्जनशक्त
      स्तावन्निजपरिवारो रक्तः।
पश्चाज्जर्जरभूते देहे
      वार्तां कोऽपि न पृच्छति गेहे ।।9।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
रथ्याकर्पटविरचितकन्थः
      पुण्यापुण्यविवर्जितपन्थः।
न त्वं नाहं नायं लोक
      स्तदपि किमर्थं क्रियते शोकः ।।10।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
नारीस्तनभरजघननिवेशं
      दृष्ट्वा मायामोहावेशम्।
एतन्मासवसादिविकारं
      मनसि विचारय वारम्वारम् ।।11।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
गेयं गीतानामसहस्रम
      ध्येयं श्रीपतिरूपमजस्रम्।
नेयं सज्जनसंगे चित्तं
      देयं दीनजनाय च वित्तम् ।।12।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
भगवद्गीता किञ्चिदधीता
      गंगाजललवकणिका पीता।
येनाकारि मुरारेरर्चा
      तस्य यमः किं कुरुते चर्चाम् ।।13।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
कोऽहं कस्त्वं कुत आयातः
      का मे जननी को मे तातः।
इति परिभावय सर्वमसारं
       सर्वं त्यक्त्वा स्वप्नविचारम् ।।14।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः।
कस्य त्वं कः कुत आयात
      स्तत्त्वं चिन्तय मनसि भ्रान्तः ।।15।।

भज गोविन्दं भज गोविन्दं
      गोविन्दं भज मूढ़मते।
सुरतटिनीतरूमूलनिवासः
      शय्याभूतलमजिनं वासः।
सर्वपरिग्रहभोगत्यागः

      कस्य सुखं न करोति विरागः ।।16।।

निर्वाणषटकम्

मनोबुद्धयहंकार-चित्तानि नाहंन च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम-भूमिर्न तेजो न वायुःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।1।।

न च प्राणसंज्ञो न वै पञ्चवायुःन वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायुःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।2।।

 न मे द्वेषरागौ न मे लोभमोहौमदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।3।।

न पुण्यं न पापं न सौख्यं न दुःखंन मन्त्रो न तीर्थो न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ताचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।4।।

न मे मृत्युशंका न मे जातिभेदःपिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरूर्नैव शिष्यःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।5।।

अहं निर्विकल्पो निराकाररूपोविभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।

सदा मे समत्वं न मुक्तिर्न बन्धःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।6।।


॥ निर्वाण- दशकम् ॥


न भूमिर्न तोयं न तेजो न वायुः
    न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १॥

न वर्णा न वर्णाश्रमाचारधर्मा
    न मे धारणा ध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहीनात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २॥

न माता पिता वा न देवा न लोका
    न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ३॥

न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
    न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥

न चोर्ध्व न चाधो न चान्तर्न बाह्यं
    न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥

न शुक्लं न कृष्णं न रक्तं न पीतं
    न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥

न शास्ता न शास्त्रं न शिष्यो न शिक्षा
    न च त्वं न चाहं न चायं प्रपञ्चः ।
स्वरूपावबोधो विकल्पासहिष्णुः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥

न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
    न विश्वौ न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणं तुरीयः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥

अपि व्यापकत्वादितत्वात् प्रयोगात्
    स्वतः सिद्धभावादनन्याश्रयत्वात् ।
जगत् तुच्छमेतत् समस्तं तदन्यत्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥

न चैकं तदन्यद् द्वितीयं कुतः स्यात्
    न केवलत्वं न वाऽकेवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वात्
    कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १०॥


॥ इति श्रीमद् शंकराचार्यविरचितं दशश्लोकी समाप्तम् ॥

गुर्वष्टकम्

शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरु तुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।१।।

कलत्रं धनं पुत्र-पौत्रादिसर्वं गृहे बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।२।।

षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।३।।

विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चाऽन्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।४।।

क्षमामण्डले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।५।।

यशो मे गतं दिक्षु दानप्रतापात् जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।६।।

न भोगे न योगे न वा वाजिराजौ न कन्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।७।।

अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्ध्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।।८।।

गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाच्छितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।९।।


इति शंकराचार्यविरचितं गुर्वष्टकं सम्पूर्णम्।।

मङ्गल-स्तोत्रम्

गणाधिपो भानु-शशी-धरासुतो बुधो गुरुर्भार्गवसूर्यनन्दनाः ।
राहुश्च केतुश्च परं नवग्रहाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ १॥

उपेन्द्र इन्द्रो वरुणो हुताशनस्त्रिविक्रमो भानुसखश्चतुर्भुजः ।
गन्धर्व-यक्षोरग-सिद्ध-चारणाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ २॥

नलो दधीचिः सगरः पुरूरवा शाकुन्तलेयो भरतो धनञ्जयः ।
रामत्रयं वैन्यबली युधिष्ठिरः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ३॥

मनु-र्मरीचि-र्भृगु-दक्ष-नारदाः पाराशरो व्यास-वसिष्ठ-भार्गवाः ।
वाल्मीकि-कुम्भोद्भव-गर्ग-गौतमाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ४॥

रम्भाशची सत्यवती च देवकी गौरी च लक्ष्मीश्च दितिश्च रुक्मिणी ।
कूर्मो गजेन्द्रः सचराऽचरा धरा कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ५॥

गङ्गा च क्षिप्रा यमुना सरस्वती गोदावरी वेत्रवती च नर्मदा ।
सा चन्द्रभागा वरुणा त्वसी नदी कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ६॥

तुङ्ग-प्रभासो गुरुचक्रपुष्करं गया विमुक्ता बदरी वटेश्वरः ।
केदार-पम्पासरसश्च नैमिषं कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ७॥

शङ्खश्च दूर्वासित-पत्र-चामरं मणिः प्रदीपो वररत्नकाञ्चनम् ।
सम्पूर्णकुम्भः सुहृतो हुताशनः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ८॥

प्रयाणकाले यदि वा सुमङ्गले प्रभातकाले च नृपाभिषेचने ।
धर्मार्थकामाय जयाय भाषितं व्यासेन कुर्यात्तु मनोरथं हि तत् ॥ ९॥

इति व्यासकृतं मङ्गलस्तोत्रं पूर्णम् ।

4 टिप्‍पणियां:

  1. इतने बहुमूल्य और बड़ी मात्रा में स्तोत्रों का संकलन करना निश्चय ही उल्लेखनीय कार्य है। सबसे अच्छी बात यह है कि यहां पर दिये गये पाठों में शुद्धता है। अन्यत्र उपलब्ध स्तोत्र में अशुद्धियां है।

    जवाब देंहटाएं
  2. जय सियाराम बहुत अच्छा लगा देखकर कृपया मुझे इतना बताएं कि कोई आपके ऐप का नाम जो हम इंस्टॉल कर लें और यह सारी जानकारी हमें ऐप के माध्यम से मिले उस ऐप का नाम क्या है प्लीज बताएं जरूर

    जवाब देंहटाएं
    उत्तर
    1. इसका ऐप अभी नहीं बना सका। ध्वनि मुद्रण कराने के बाद उपलब्ध करा दूँगा।

      हटाएं