॥ अथ दिग्वर्गः ॥
दिशस्तु
ककुभः काष्ठा आशाश्च हरितश्च ताः ।
प्राच्यवाचीप्रतीच्यस्ताः
पूर्वदक्षिणपश्चिमाः ॥ १ ॥
उत्तरादिगुदीची
स्याद्दिश्यं तु त्रिषु दिग्भवे ।
अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्
।
प्रत्यग्भवं
प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥
इन्द्रो
वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥
कुबेर
ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात् ।
रविः
शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ।
बुधो
बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥
कुबेर
ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात् ।
रविः
शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ।
बुधो
बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥
ऐरावतः
पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३
॥
पुष्पदन्तः
सार्वभौमः सुप्रतीकश्च दिग्गजाः ।
करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः
क्रमात् ॥ ४ ॥
ताम्रकर्णी
शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती ।
क्लीबाऽव्ययं
त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५ ॥
अभ्यन्तरं
त्वन्तरालं चक्रवालं तु मण्डलम् ।
अभ्रं
मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥
धाराधरो
जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
घनजीमूतमुदिरजलमुग्धूमयोनयः
॥ ७ ॥
कादम्बिनी
मेघमाला त्रिषु मेघभवेऽभ्रियम् ।
स्तनितं
गर्जितं मेघनिर्घोषे रसिताऽदि च ॥ ८ ॥
शम्पा
शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।
तडित्सौदामनी
विद्युच्चञ्चला चपला अपि ॥ ९ ॥
स्फूर्जथुर्वज्रनिर्घोषो
मेघज्योतिरिरंमदः ।
इन्द्रायुधं
शक्रधनुस्तदेव ऋजुरोहितम् ॥ १० ॥
वृष्टिवर्षं
तद्विघातेऽवग्राहाऽवग्रहौ समौ ।
धारासम्पात
आसारः शीकरोम्बुकणाः स्मृताः ॥ ११ ॥
वर्षोपलस्तु
करका मेघच्छन्नेऽह्नि दुर्दिनम् ।
अन्तर्धा
व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥
अपिधानतिरोधानपिधानाऽऽच्छादनानि
च ।
हिमांशुश्चन्द्रमाश्चन्द्र
इन्दुः कुमुदबान्धवः ॥ १३ ॥
विधुः
सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।
अब्जो
जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥
द्विजराजः
शशधरो नक्षत्रेशः क्षपाकरः ।
कला
तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥
भित्तं
शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके ।
चन्द्रिका
कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥
कलङ्काङ्कौ
लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।
सुषमा
परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥
अवश्यायस्तु
नीहारस्तुषारस्तुहिनं हिमम् ।
प्रालेयं
मिहिका चाऽथ हिमानी हिमसंहतिः ॥ १८ ॥
शीतं
गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।
तुषारः
शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः ॥ १९ ॥
ध्रुव
औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः ।
मैत्रावरुणिरस्यैव
लोपामुद्रा सधर्मिणी ॥ २० ॥
नक्षत्रमृक्षं
भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
दाक्षायिण्योऽश्विनीत्यादितारा
अश्वयुगश्विनी ॥ २१ ॥
राधाविशाखा
पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।
समा
धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥
मृगशीर्षं
मृगशिरस्तस्मिन्नेवाऽऽग्रहायणी ।
इल्वलास्तच्छिरोदेशे
तारका निवसन्ति याः ॥ २३ ॥
बृहस्पतिः
सुराचार्यो गीष्पतिर्धिषणो गुरुः ।
जीव
आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥
शुक्रो
दैत्यगुरुः काव्य उशना भार्गवः कविः ।
अङ्गारकः
कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥
रौहिणेयो
बुधः सौम्यः समौ सौरिशनैश्चरौ ।
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २६ ॥
सप्तर्षयो
मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।
राशीनामुदयो
लग्नं ते तु मेषवृषादयः ॥ २७ ॥
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः
॥ २८ ॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
॥ २९ ॥
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः
।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
॥ ३० ॥
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।
भानुर्हंसः
सहस्रांशुस्तपनः सविता रविः ।
पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
।
कर्मसाक्षी
जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ॥
प्रद्योतनो
दिनमणिः खद्योतो लोकबान्धवः ।
इनो
भगो धामनिधिश्चांऽशुमाल्यब्जिनीपतिः ॥
माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥ ३१ ॥
सूरसूतोऽरुणोऽनूरुः
काश्यपिर्गरुडाग्रजः ।
परिवेषस्तुपरिधिरुपसूर्यकमण्डले
॥ ३२ ॥
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः
।
भानुः
करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥
स्युः
प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।
रोचिः
शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥
कोष्णं
कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।
तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५ ॥
॥ इति दिग्वर्गः
॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें