किरातार्जुनीयम् (द्वितीयः सर्गः)

विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीं ।

उपपत्तिमदूर्जिताश्रयं नृपं ऊचे वचनं वृकोदरः ।। १ ।।

 

यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।

अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयं ।। २ ।।

 

विषमोऽपि विगाह्यते नयः कृततीर्थः पयसां इवाशयः ।

स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ।। ३ ।।

 

परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसां ।

अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ।। ४ ।।

 

इयं इष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।

ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ।। ५ ।।

 

चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता ।

कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ।। ६ ।।

 

विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् ।

अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ।। ७ ।।

 

द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।

न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ।। ८ ।।

 

अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।

क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ।। ९ ।।

 

अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।

अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ।। १० ।।

 

क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।

प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ।। ११ ।।

 

प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।

स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ।। १२ ।।

 

अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।

विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ।। १३ ।।

 

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।

नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ।। १४ ।।

 

तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।

निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ।। १५ ।।

 

अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना ।

धृतराष्ट्रसुतेन सुत्यज्याश्चिरमास्वाद्य नरेन्द्रसम्पदः ।। १६ ।।

 

द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।

जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ।। १७ ।।

 

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः ।

लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ।। १८ ।।

 

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।

अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ।। १९ ।।

 

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।

अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ।। २० ।।

 

किं अवेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।

प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ।। २१ ।।

 

कुरु तन्मतिं एव विक्रमे नृप निर्धूय तमः प्रमादजम् ।

ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ।। २२ ।।

 

द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः ।

प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ।। २३ ।।

 

ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि ।

विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ।। २४ ।।

 

इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् ।

उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टमिवोपचक्रमे ।। २५ ।।

 

अपवर्जितविप्लवे शुचय्हृदयग्राहिणि मङ्गलास्पदे ।

विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ।। २६ ।।

 

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।

रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ।। २७ ।।

 

उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।

इदमीदृगनीदृगाशयः प्रसभं वक्तुं उपक्रमेत कः ।। २८ ।।

 

अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।

अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ।। २९ ।।

 

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।। ३० ।।

 

अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।

स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ।। ३१ ।।

 

शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया ।

प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ।। ३२ ।।

 

मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।

सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ।। ३३ ।।

 

स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।

विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ।। ३४ ।।

 

शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् ।

विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ।। ३५ ।।

 

अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।

अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ।। ३६ ।।

 

बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।

क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ।। ३७ ।।

 

समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् ।

अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ।। ३८ ।।

 

क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।

शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ।। ३९ ।।

 

किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः ।

क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ।। ४० ।।

 

श्रुतमप्यधिगम्य ये रिपून्विनयन्ते स्म न शरीरजन्मनः ।

जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ।। ४१ ।।

 

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।

जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ।।४२ ।।

 

उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।

अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ।। ४३ ।।

 

प्रणतिप्रवणान्विहाय नः सहजस्नेहनिबद्धचेतसः ।

प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ।। ४४ ।।

 

सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये ।

विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ।। ४५ ।।

 

अभियोग इमान्महीभुजो भवता तस्य ततः कृतावधेः ।

प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ।। ४६ ।।

 

उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।

सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ।। ४७ ।।

 

असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।

प्रभवन्त्यभिमानशालिनां मदं उत्तम्भयितुं विभूतयः ।। ४८ ।।

 

मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।

अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ।। ४९ ।।

 

अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।

सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ।। ५० ।।

 

अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृतिप्रकोपजः ।

अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ।। ५१ ।।

 

मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।

सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ।। ५२ ।।

 

लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् ।

अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ।। ५३ ।।

 

अनुशासतं इत्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् ।

स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ।। ५४ ।।

 

मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः ।

परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ।। ५५ ।।

 

सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् ।

ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ।। ५६ ।।

 

अथोच्चकैरासनतः परार्ध्यादुद्यन्स धूतारुणवल्कलाग्रः ।

रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ।। ५७ ।।

 

अवहितहृदयो विधाय स अर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् ।

तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ।। ५८ ।।

 

व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।

तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ।। ५९ ।।

 

इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः

Share:

किरातार्जुनीयम् (प्रथमः सर्गः ) श्लोक 24 से 46 तक

 कथाप्रसंगेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः।

तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥24॥

 

पदच्छेदः-


 कथाप्रसङ्गेन, जनैः, उदाहृतात्, अनुस्मृताखण्डलसूनुविक्रमः, तव,अभिधानात्,व्यथते,नताननः, सः,दुःसहात्, 

मन्त्रपदात्, इव, उरगः ।

अन्वयः-

कथाप्रसंगेन जनैः उदाहृतात् दुःसहात् तव अभिधानात् मन्त्रपदात् अनुस्मृताखण्डलसूनुविक्रमः नताननः उरगः इव  नताननः (सन् ) व्यथते । 

संस्कृतव्याख्या – 

कथाप्रसङ्गेन = वार्ताप्रसङ्गेन जनैः= लोकै: (वान्यपक्षे) कथाप्रसङ्गेन जनैः = विषवैद्यप्रवरलोकैः । उदाहृतात् = उच्चारितात्, तव = भवतः, युधिष्ठिरादेरित्यर्थः। अभिधानात्=नाम्नः, (वान्यपक्षे ) तवाभिधात् = तार्क्ष्यवासुकिनामकवनात्, अनुस्मृताखण्डलसूनुविक्रमः= स्मृतार्जुनपराक्रमः, (वान्यपक्षे ) अनुस्मृताखण्डलसूनुविक्रमः = स्मृतविष्णुपक्षिपप्रवेगः, स्मृतगरुढवेग इत्यर्थः । नताननः = नम्रमुखः सः, दुर्योधन इति शेषः । सुदुःसहात् = अतिदुःश्रवात्, मन्त्रवदात् = विषदूरीकरणवाक्यविशेषात्, उरगः = सर्प, इव, व्यथते = दुःखायते ।

शब्दार्थः-

कथाप्रसंगः = वार्ता में जनैः इन जन अर्थात् श्रेष्ठ जनों ( लोगों) के द्वारा। उदाहृतात्  उच्चारित, उच्चारण किए हुए । दुःसहात् = असह्य, अत्यन्त कठोर । तवाभिधानात् = ताय ( त ) और वासुकि (व) के नाम से युक्त, ताय (गरुड) तथा वासुकि (नागराज) के नाम वाले। मन्त्रपदात् = (विष दूर करने वाले) मन्त्र के पद से । अनुस्मृताखण्डलसूनुविक्रमः = स्मरण कर लिया है इन्द्र (आखण्डल ) के अनुज ( सूनु = पुत्र अथवा अनुज) के पक्षी (वि = पक्षी) के पादविक्षेप (क्रम ) को जिसने ऐसे, इन्द्र के अनुज ( उपेन्द्र = विष्णु ) के पक्षी (वाहन भूत गरुड ) के पादविक्षेप (पादप्रहार आक्रमण ) का स्मरण कर लेने वाले । नताननः मुख (फण) को नीचे किए हुए । उरगः इव = सर्प की तरह, व्यथते = व्यथित होता है, दुःखी होता है।

हिन्दी नुवाद-

बातचीत के प्रसङ्ग में लोगों के द्वारा कहे गए अत्यन्त असह्य तुम्हारे नाम से इनके ( अर्जुन ) के पराक्रम को स्मरण करके वह ( दुर्योधन ) उसी प्रकार अधोमुख होकर (भय के कारण मुंह को नीचे किए हुए ) अत्यधिक दुःखी होता है जैसे विषवैद्यों में श्रेष्ठ लोगों के द्वारा उच्चारण किए हुए अत्यन्त असह्य ताय (गरुड ) और वासुकि ( नागराज ) के नाम से युक्त मन्त्र-पद (विष दूर करने वाले मन्त्र के पद) से इन्द्र के अनुज (विष्णु ) के पक्षी ( वाहनभूत गरुड) के पाद-प्रहार का स्मरण कर लेने वाले तथा मुख (फण ) को नीचे झुकाए हुए सर्प।  

संस्कृतभावार्थः-

'युधिष्ठिरः वनात् प्रतिनिवृत्तः स्वकीयं राज्यं ग्रहीष्यति दुर्योधनस्य अनिष्टं च करिष्यति' इति मनसि विचिन्तयन् दुर्योधनो महत् भयमनुभवति । 'गूढाकारेङ्गितस्य तस्य दुर्योधनस्य भयं त्वया कथं ज्ञातम्' इति प्रश्नस्योत्तरं ददाति गुप्तचरोऽस्मिन् श्लोके । यथा विषवैद्येन उच्चारितं तार्क्ष्यवासुकिनामसमन्वितं सोढुमशक्यं मन्त्रपदं श्रुत्वा स्मृतगरुडपादप्रहारः सर्पः भयाकुलः सन् स्वकीयफणां नतीकृत्य दुःखायते तथा परस्परालापप्रसङ्गे तत्रत्यैः जनैः उच्चारिते दुःसहनीयं तव (भवतः) नामधेयं श्रुत्वा स्मृतार्जुनपराक्रमः दुर्योधनः स्वपराजयाशङ्कया अवनतमुखः सन् दुःखायते । दुर्योधनस्य मुखाकृत्या मया ज्ञातं यत् सः पराजयाशङ्कया महद् भयमनुभवति । अत्युत्कटभयदोषादिविकारा दुर्वाराः । मुखाकृतिं दृष्ट्वैव हृदयस्था भावाः ज्ञातुं शक्यन्ते ।

मासः-

कथाप्रसंगेनजनैः-(उरगपक्षे ) कथाप्रसङ्गेषु (विषवैद्येषु ) इनाः (श्रेष्ठाः) इति कथाप्रसङ्गेनाः ( सप्तमी तत्पु०), कथाप्रसङ्गेनाः ते च जनाश्च इति कथाप्रसङ्गजनाः तैः कथाप्रसङ्गजनैः (कर्मधारय)। (दुर्योधनपक्षे) कथायाः प्रसङ्गः इति कथाप्रसङ्गः तेन कथाप्रसङ्गेन (षष्ठी तत्पु० )। दुःखेन सह्यते इति दुःसहम्, तस्मात् (षष्ठी तत्पु०)। तश्च वश्च तवौ ( तार्क्ष्यवासुकी) ( द्वन्द्व ), तवयोः, अभिधानं यस्मिन् तत् तवाभिधानं तस्मात् (बहु० ) । मन्त्रस्य पदं मन्त्रपदं तस्मात् (षष्ठी तत्पु०)। अनुस्मृताखण्डलसूनुविक्रमः ( उरगपक्षे ) आखण्डलस्य सूनुः (अनुजः) इति आखण्डलसूनुः (विष्णुः ) ( षष्ठी तत्पु० ), तस्य विः (पक्षी, गरुडः ) (षष्ठी तत्पु० ) तस्य क्रमः ( षष्ठी तत्पु० ), अनुस्मृतः आखण्डलसूनुविक्रमः येन सः अनुस्मृताखण्डलसूनुविक्रमः ( बहु० )। ( दुर्योधनपक्षे) आखण्डलस्य सूनुः इति आखण्डलसूनुः (षष्ठी तत्पु०), आखण्डलसूनोः विक्रमः इति आखण्डलसूनुविक्रमः (षष्ठी तत्पु० ), अनुस्मृतः आखण्डलसूनुविक्रमः येन सः अनुस्मृताखण्डलसूनुविक्रमः (बहु०) नतम् आननं यस्य सः नताननः ( बहु०)।

व्याकरणम् –

दुःसहात्-दुर् + सह् + खल् । उरगः-उरसा गच्छतीति उरगः । उर+गम् + ड । व्यथते-व्यथ् + लट्, अन्यपुरुष, एकवचन ।

टिप्पणी-

(१) 'नामैकदेशग्रहणे नाममात्रग्रहणम्' इस न्याय से '' से ताय और '' से वासुकि का ग्रहण होता है। जब विषवैद्य ताय (गरुड) और वासुकि (नागराज ) के नामों से समन्वित मन्त्रों का उच्चारण करके विष उतारते हैं तब सर्प को गरुड के पादप्रहार का स्मरण हो जाता है और वह भय के कारण अपने फण को नीचे झुका लेता है। उल्लेखनीय है कि गरुण बड़े चाव से सर्पों का भक्षण करता है। 

(२) पर्वतों के पक्षों को तोड़ने (खण्डित करने, काटने ) के कारण इन्द्र को आखण्डल कहा जाता है । सूनु के यही दो अर्थ हैं-अनुज और पुत्र । अतः (i) आखण्डलसूनु = इन्द्र का अनुज (विष्णु)। वामनावतार में विष्णु कश्यप और अदिति के लघु पुत्र थे और इन्द्र इनसे बड़े थे। इसीलिए विष्णु को उपेन्द्र तथा उपेन्द्रावरज आदि भी कहा जाता है । (ii) आखण्डलसूनु = इन्द्र का पुत्र ( अर्जुन)। 

(३) प्रस्तुत श्लोक से गुप्तचर किरात की सूक्ष्म दृष्टि और बुद्धिमत्ता का पता चलता है। १४ वें श्लोक में बतलाया जा चुका है कि दुर्योधन अपने स्वरूप को ऐसा बनाये रखता है कि आकृति से कोई यह नहीं समझ सकता है कि वह सशङ्क है। वह अपने हृदयस्थ भावों को इस प्रकार छिपाये रखता है कि कोई उन्हें भांप नहीं सकता है। किन्तु दुर्योधन की सावधानी और चालाकी गुप्तचर के सामने असफल हो गई। गुप्तचर ने यह बात भांप ली कि युधिष्ठिर का नाम सुनने पर दुर्योधन भावी पराजय की आशङ्का से अपने सिर को नीचे झुका लेता है । 

( ४ ) महाकवि ने इस तथ्य को प्रस्तुत किया है कि हृदयस्थ भय इत्यादि उत्कट भावों को दबाया नहीं जा सकता है । हृदय की बातों को मुख बतला देता है। हृदय में स्थित भावों के लिए मुख की आकृति दर्पण का कार्य करती है । दुर्योधन के मुख की आकृति को देखकर गुप्तचर ने उसके हृदयस्थ भावों को भलीभाँति समझ लिया। 

(५) गुप्तचर इस तथ्य की ओर संकेत कर रहा है कि सिंहासनारूढ और सर्वशक्तिसम्पन्न होने पर भी दुर्योधन को पराजित किया जा सकता है। उसका हृदयस्थ भय ही उसकी निर्बलता और आपकी सबलता को बतला रहा है । 

( ६ ) अर्जुन युधिष्ठिर का अनुज है । अतः अर्जुन के पराक्रम की प्रशंसा को सुनकर युधिष्ठिर को बड़ी प्रसन्नता हुई होगी। 

(७) राष्ट्र की रक्षा का भार गुप्तचरों पर ही होता है। जिस राष्ट्र के गुप्तचर किरात जैसे बुद्धिमान् और सावधान होंगे उस राष्ट्र का कोई भी बाल बांका नहीं कर सकता है । 

(८) श्लेषानुप्राणित पूर्णोपमा अलंकार । दुर्योधन उपमेय, उरग ( सर्प ) उपमान, इव उपमा-वाचक पद तथा अधोमुख होना, दुःखी होना इत्यादि साधारण धर्म हैं।

घण्टापथः-

कथेति । कथाप्रसङ्गेन गोष्ठीवचनेन जनैः । अन्यत्र कथाप्रसङ्गन विषवैद्येन । 'कथाप्रसङ्गो वार्तायां विषवैद्येपि वाच्यवत्' इति विश्वः । एकवचनस्यातन्त्रत्वाज्जनविशेषणम् । उदाहृतादुच्चारितात्तवाभिधानान्नामधेयात्स्मारकाद्धेतोः । 'हेतौ' इति पञ्चमी । 'आख्याह्व अभिधानं च नामधेयं च नाम च' इत्यमरः । अन्यत्र तवाभिधानात् । 'नामैकदेशग्रहणे नाममात्रग्रहणम्' इति न्यायात्तश्च वश्च तवौ तार्क्ष्यवासुकी तयोरभिधानं यस्मिन्पदे तस्मात् । यद्वा कथाप्रसङ्गे इनाश्च ते जनाश्चेत्येकं पदम् । अनुस्मृताखण्डलसूनुविक्रमः स्मृतार्जुनपराक्रमः सुदुःसहादतिदुःखसहान्मन्त्रपदान्मन्त्रशब्दात्स्मारकाद्धेतोः । आखण्डलसूनुरिन्द्रानुजः । उपेन्द्रो विष्णुरिति यावत् । 'सूनुः पुत्रेनुजे रवौ' इति विश्वः । तस्य विः पक्षी गरुड इत्यर्थः । तस्य क्रमः पादविक्षेपः । सोनुस्मृतो येन स तथोक्तः । स्मृतगरुडमहिमा । उरग इव नताननः सन् । व्यथते दुःखायते । 'पीडा बाधा व्यथा दुःखम्' इत्यमरः । अत्युत्कटभयदोषादिविकारा दुर्वाराइति भावः । 'सर्वतो जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्' इति न्यायादर्जुनोत्कर्षकथनं युधिष्ठिरस्य भूषणमेवेति सर्वमवदातम् ॥ 24॥

तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।

परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥ 25॥

पदच्छेदः     -

 तद्, आशु, कर्तुम्, त्वयि, जिह्मम्, उद्यते, विधीयताम्, तत्र, विधेयम्, उत्तरम्, परप्रणीतानि, वचांसि, चिन्वताम्, 

प्रवृत्तिसाराः, खलु, मादृशाम्, गिरः ।

अन्वयः-

तत् त्वयि जिह्यं कर्तुम् उद्यते तत्र विधेयम् उत्तरम् आशु विधीयताम् । परप्रणीतानि वचांसि चिन्वतां मादृशां गिरः प्रवृत्तिसाराः खलु।

संस्कृतव्याख्या – 

तत् = तस्मात्, त्वयि = भवति, जिह्मं = कपटं कर्तुम् विधातुं, उद्यते= प्रवृत्ते, तत्रतस्मिन्, दुर्योधने इत्यर्थः। विधेयं = कर्त्तव्यम्, उत्तरं = प्रतीकाः, आशु = शीघ्रं, विधीयतां = क्रियतां, अर्थाद्धर्मयुक्त्या भवन्तं जेतुमक्षमः कपटयुक्त्या जिगीयति । परप्रणीतानि = अन्योदितानि, वचांसि = वाक्यानि, चिन्वतीं- गवेषयतां, मादृशां =वनेचराणां, गिरः=वाचः प्रवृत्तिसारः= वृत्तान्तमात्रसाराः, खलु = एव ।

शब्दार्थः-

तत् = अतः, इसलिए । त्वयि = तुम्हारे (= युधिष्ठिर के ) विषय में, तुम्हारे प्रति । जिह्यं = कपट । कर्तुम् उद्यते = करने के लिए उद्यत (तत्पर, तैयार ) । तत्र = वहाँ, उस दुर्योधन के विषय में, उस दुर्योधन के प्रति । विधेयम् = करने योग्य, उचित । उत्तरम् = प्रतिक्रिया, प्रतीकार, उपाय । आशु = शीघ्र । विधीयताम् = करो, कीजिए । परप्रणीतानि = दूसरों के द्वारा कहे गए। वचांसि = वचनों को, कथनों को । चिन्वतां = संचित ( एकत्रित, इकट्ठा, चयन ) करने वाले। मादृशां = मुझ जैसे ( गुप्तचरों, संदेश हरण करने वालों) की । गिरः = वाणी, वचन, कथन । प्रवृत्तिसाराः = प्रवृत्ति (वार्ता, वृत्तान्त, समाचार ) ही है सार ( तत्त्व ) है। ( यहां यह पद गिरः - वाणी का विशेषण है)।

हिन्दी नुवाद-

इसलिए तुम्हारे प्रति कपट करने में तत्पर ( अर्थात् तुम्हारा विनाश करने में लगे हुए ) उस दुर्योधन के प्रति समुचित प्रतीकार शीघ्र कीजिए । दूसरे के द्वारा कहे गए वचनों ( कथनों) को संचित करने वाले मुझ जैसे ( गुप्तचरों) की वाणी तो समाचार देने तक ही सीमित होती है ( केवल समाचार देना हमारा कार्य है-अब क्या करना है यह निर्णय आप करें)।

संस्कृतभावार्थः-

स्वकीयसंदेशस्य अन्ते किरातः कथयति-अतीव कुटिलः सः कौरवेश्वरः दुर्योधनः कपटमाश्रित्य त्वां हन्तुमिच्छति । अतः तस्मिन् दुर्योधने करणीयः प्रतीकारः शीघ्र क्रियताम् । ननु कर्तव्यमपि त्वयैवोच्यतामिति चेत्तत्राहपरोक्तवचनसंग्राहकाणां अस्मद्विधानां वार्ताहारिणां गुप्तचराणां वचनानि तु केवलं समाचारज्ञापकान्येव भवन्ति । वार्तामात्रवादिनः वयं, न तु कर्तव्योपदेशसमर्थाः । अधुना किं कर्तव्यं कथं च कर्तव्यमिति वक्तुं न वयं समर्थाः । अतः भवता सुविचार्य समुचितं कर्म करणीयम् ।

मासः-

परैः प्रणीतानि इति परप्रणीतानि ( तत्पु० ) । प्रवृत्तिः सारः यासां ताः प्रवृत्तिसाराः (बहु० )।

व्याकरणम् –

पार-उद्यते-उत्+यम् + क्त, सप्तमी एकवचन । विधीयताम-वि+ धा+ लोट् ( कर्मणि ) । चिन्वताम्-चि+शतृ + षष्ठी, बहुवचन ।

टिप्पणी-

१) गुप्तचर किरात अपने पद की मर्यादा को भली-भाँति जानता है और वह अपनी मर्यादा का उल्लंघन नहीं करता है। गुप्तचर का काम तो केवल शत्रु-पक्ष का यथार्थ समाचार देना है। गुप्तचर का यह काम नहीं है कि वह राजा को यह बतलाये कि उन्हें क्या करना चाहिए । 'आप यह कीजिए' यह उपदेश देना गुप्तचर का काम नहीं है। युधिष्ठिर को अब क्या करना चाहिए और कैसे करना चाहिए-इसका निर्णय उन्हें स्वयं करना है। (२) सामान्य से विशेष का समर्थन होने से अर्थान्तरन्यास अलंकार ।

घण्टापथः-

तदिति । तत्तस्मात्त्वयि जिह्मं कपटं कर्त्तुमुद्यते । त्वां जिघांसावित्यर्थः । तत्र तस्मिन्दुर्योधने विधेयं कर्त्तव्यमुत्तरं प्रतिक्रियाशु विधीयतां क्रियताम् । ननु कर्त्तव्यमपि त्वयैवोच्यतामिति चेत्तत्राह-परेति । परप्रणीतानि परोक्तानि । वचांसि चिन्वतां गवेषयतां मादृशां वार्त्ताहारिणामित्यर्थः । गिरः प्रवृत्तिसाराः वार्तामात्रसाराः खलु । 'वार्त्ता प्रवृत्तिर्वृत्तान्तः इत्यमरः । वार्तामात्रवादिनो वयम्, न तु कर्त्तव्यार्थोपदेशसमर्थाः । अतस्त्वयैव निर्धार्य कार्यमिति भावः । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः ॥ 25 ॥

इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम्।

प्रविश्य कृष्णासदनं महीभुजां तदाचचक्षेऽनुजसन्निधौ वचः ॥26॥

पदच्छेदः -


इति, ईरयित्वा, गिरम्, आत्तसत्क्रिये, गते, अथ, पत्यौ, वनसन्निवासिनाम्, प्रविश्य, कृष्णासदनम्,महीभुजा, तद्, 

आचचक्षे, अनुजसन्निधौ, वचः ।

अन्वयः-

आत्तसत्क्रिये वनसन्निवासिनां पत्यौ इति गिरम् ईरयित्वा गते ( सति ) अथ महीभुजा कृष्णासदनं प्रविश्य अनुजसन्निधौ तत् वचः आचचक्षे।

संस्कृतव्याख्या – 

आत्तसत्क्रिये = गृहीतपारितोषिके, वनसन्निवासिनां = वनेचराणां, पत्यौ= स्वामिनि, सति ( तदा ) अथ = ततःइति-पूर्वोक्तां वाणीईरयित्वा = निवेद्य । गते = स्थानं प्रस्थिते, (तथा च) महीभुजा = राज्ञायुधिष्ठिरेणेति, शेषः । कृष्णासदनं = द्रौपदीभवनं, प्रविश्य = अन्तर्गत्वा, अनुजसन्निधौ = भीमसमक्षे, तत्-वने चरोक्तम्, व चः आचचक्षे उक्तं । वा महीभुजा सदनं = भवनं, प्रविश्य, अनुजसन्निधौ कृष्णा तद् वचः, आचचक्षे = आख्यातेति शेषः ।

शब्दार्थः-

आत्तसक्रिये =सत्कार ( पुरस्कारपारितोषिक ) प्राप्त कर । वनसन्निवासिनां = वनवासियों (वनचरों, वनेचरों, किरातों) के पत्यौ = स्वामी ( उस गुप्तचर किरात ) के । इति = इस प्रकार की। गिरम् = वाणी (वचन, संदेश ) को । ईरयित्वा = कह कर।  गते (अपने घर) चले जाने पर। अथ = उसके बाद, तदनन्तर । महीभुजा राजा ( युधिष्ठिर ) के द्वारा। कृष्णासदनं = द्रौपदी के भवन में। प्रविश्य = प्रवेश करके । अनुजसन्निधौ =(भीमादि) भाइयों के पास ( समक्ष , सम्मुख, सामने)। तत् वच:= ( वनेचर के द्वारा कहा गया) वह वचन ( संदेश, बातें)। आचचक्षे = कहा गया। (अथवा--महीभुजा सदनं प्रविश्य अनुजसन्निधौ तद् वचः कृष्णा आचचक्षे-राजा युधिष्ठिर के द्वारा भवन में प्रवेश करके भाइयों के समक्ष वह वचन द्रौपदी से कहा गया )।

हिन्दी नुवाद-

पारितोषिक द्वारा सत्कार प्राप्त कर वनवासियों के स्वामी ( उस गुप्तचर किरात) के इस प्रकार के वचन को कहकर अपने घर चले जाने के अनन्तर राजा युधिष्ठिर द्रौपदी के भवन में प्रवेश कर गये और वहाँ भीमादि भाइयों के सामने वह ( गुप्तचरप्रोक्त ) वचन द्रौपदी से कहा।

संस्कृतभावार्थः-

वनेचराणामधिपः सः गुप्तचरः किरातः दुर्योधनस्य सम्पूर्णवृत्तान्तमुक्त्वा युधिष्ठिरात् समुचितं पुरस्कारं च गृहीत्वा स्व गृहं गतः । तदनन्तर राजा युधिष्ठिरः द्रौपदीभवनं प्रविश्य भीमादीनां समक्षं वनेचरेणोक्तं तत् सर्व बत्तान्तमकथयत् (अथवा-राजा युधिष्ठिरः भवनं प्रविश्य भीमादीनां भ्रातृणां पुरतः द्रौपदी प्रति तत् सर्वं वृत्तान्तमकथयत् ) ।

मासः-

वने सन्निवसन्तीति वनसन्निवासिनः तेषां वनसन्निवासिनाम् ( उपपद समास )। आत्ता सत्क्रिया येन सः आत्तसत्क्रियः तस्मिन् आत्तसत्क्रिये (बहु०)। महीं भुङ्क्ते इति महीभुक् तेन महीभुजा ( उपपद समास)। कृष्णायाः सदनम् इति कृष्णासदनम् (तत्पु०)। अनु पश्चात् जायन्ते ये ते अनुजाः ( उपपद समास ), अनुजानां सन्निधिः अनुजसन्निधिः तस्मिन् अनुजसन्निधौ ( तत्पु०)।

व्याकरणम् –

ईरयित्वा-ईर् + णिच् + क्त्वा । आचचक्षे- आङ् + ख्या (चक्ष )+लिट्, अन्यपुरुष, एकवचन । 'पत्यौ गते' में 'यस्य च भावेन भावलक्षणम्' से सप्तमी है।

घण्टापथः-

इतीति । वनसन्निवासिनां पत्यौ वनेचराधिप इति गिरमीरयित्वोक्त्वात्तसक्रिये गृहीतपारितोषिके गते सति । 'तुष्टिदानमेव चाराणां हि वेतनम् । ते हि तल्लोभात्स्वामिकार्येष्वतीव त्वरयन्ते' इति नीतिवाक्यामृते । अथ महीभुजा राज्ञा कृष्णासदनं द्रौपदीभवनं प्रविश्यानुजसन्निधौ तद्वनेचरोक्तं वचो वाक्यमाचचक्ष आख्यातम् । अथवा कृष्णेति पदच्छेदः । सदनं प्रविश्यानुजसन्निधौ तद्वचः कृष्णाचचक्ष आख्याता । चक्षिङो दुहादेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ॥ 26 ॥

निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा।

नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥27॥

पदच्छेदः


निशम्य, सिद्धिम्, द्विषताम्, अपाकृतीः, ततः, ततस्त्याः, विनियन्तुम्, अक्षमा, नृपस्य,मन्युव्यवसायदीपिनीः, 

उदाजहार, द्रुपदात्मजा, गिरः ।

अन्वयः-

ततः द्रपदात्मजा द्विषतां सिद्धिं निशम्य ततस्त्याः अपाकृतीः विनियन्तुम् अक्षमा (सती) नरस्य मन्युव्यवसायदीपिनीः गिरः उदाजहार।

संस्कृतव्याख्या – 

ततः = युधिष्ठिरकथनानन्तरम्, द्रुपदात्मजा = द्रौपदी, द्रुपदपुत्रीति भावः । द्विषतां = शत्रूणां दुर्योधनप्रभृतीनां, सिद्धिं अदिष्टसिद्धिं राज्यलाभरूपामित्यर्थः । निशम्य = श्रुत्वा, स्वस्वामिमुखादित्यर्थः । ततस्त्याः = तत आगताः, अपाकृती:- अपकारान्, विकरान् इत्यर्थः । विनियन्तुम् = निरोद्धुम्, अक्षमा = असमर्था सती, नृपस्य युधिष्ठिरस्य, मन्युव्यवसायदीपिनी: = क्रोधोद्वौगोद्योतिनीः, गिर = वाचः, उदाजहार = उक्तवती । यथा प्रकृत्या शान्तचित्तस्य युधिष्ठिरस्य हृदये शत्रुप्रतीकारकरणार्थं बुद्धिस्तेजिता भवति, तथा जगादेत्यर्थः ।

शब्दार्थः-

ततः = तदनन्तर, उसके (युधिष्ठिर के कहने के ) बाद । द्विषतां= ( कौरवों) की। सिद्धिं = वृद्धि, समृद्धि, उन्नति, सफलता को । निशम्य सुनकर । द्रुपदात्मजा = ( राजा ) द्रुपद की पुत्री, द्रौपदी। ततस्त्याः = उनसे ( शत्रुओं से ) आए हुए (प्राप्त हुए, उत्पत्र ) । अपाकृती: = अपकारों को (अपकारों से उत्पन्न हुए ) मानसिक विकारों को। विनियन्तुम् = नियन्त्रित रखने के लिए, रोकने के लिए। अक्षमा (सती) = असमर्थ होती हुई। नृपस्य = राजा ( युधिष्ठिर ) के । मन्युव्यवसायदीपिनीः = क्रोध ( मन्यु ) और उद्योग ( व्यवसाय ) को बढ़ाने वाली। गिरः = वाणी को, वचनों को। उदाजहार = कहा।

हिन्दी नुवाद-

उसके बाद ( युधिष्ठिर के कथन के उपरान्त ) शत्रुओं की समृद्धि को सुनकर, उनसे ( शत्रुओं से ) प्राप्त हुए (अपमानों से उत्पन्न ) मानसिक विकारों को नियन्त्रित करने में असमर्थ होती हुई द्रौपदी ने राजा ( युधिष्ठिर ) के क्रोध और उत्साह को बढ़ाने वाली वाणी ( वचन ) कही।

संस्कृतभावार्थः-

युधिष्ठिरमुखात् शत्रूणां समृद्धि श्रुत्वा द्रौपदी अतीव क्रुद्धा जाता। द्विषद्भयः आगतान् अपमानजन्यविकारान् निरोद्धमसमर्था सा नृपस्य युधिष्ठिरस्य क्रोधोद्योगसंवद्धिनी वाणी कथितवती येन सः शत्रूणां विनाशाय प्रयतेत ।

मासः-

आत्मनः जायते या सा आत्मजा ( उपपद समास ), द्रुपदस्य आत्मजा द्रपदात्मजा (तत्पु०)। न क्षमा इति अक्षमा (नञ् समास)। मन्युश्च व्यवसायश्च मन्युव्यवसायौ ( द्वन्द्व समास ), मन्युव्यवसाययोः दीपिन्यः इति मन्युव्यवसायदीपिन्यः, ताः मन्युव्यवसायदीपिनीः ( तत्पु०)।

व्याकरणम् –

निशम्य-नि+शम्+क्त्वा-ल्यप् । ततस्त्या:-ततः आगताः इति ततस्त्याः ; ततः (तद् तसिल = ततस् )+ त्यप्+टाप्; तत इति अव्ययम्; 'अव्ययात् त्यप्' इति त्यप्प्रत्ययः। विनियन्तुम-वि+नि+यम् +तुमुन् । उदाजहार-उत्+आ+ ह+ लिट्, अन्यपुरुष, एकवचन ।

टिप्पणी -

(१) दुर्योधन की समृद्धि का वृत्तान्त सुनकर द्रौपदी की क्रोधाग्नि भड़क उठती है और उसे दुर्योधन के द्वारा किए गए अपमानों का स्मरण हो जाता है । वह शत्रु-विनाश के लिए युधिष्ठिर को प्रेरित करने लगती है। वह भली-भाँति जानती है कि युधिष्ठिर शान्त स्वभाव के व्यक्ति हैं और यदि उन्हें प्रेरित न किया गया तो वे शत्रु-विनाश के लिए कुछ करने वाले नहीं हैं । अत एव वह ऐसी बातें कहने लगी जिनसे युधिष्ठिर का क्रोध बढ़े और वे शत्रु-विनाश के लिए उद्योग करें । स्त्री प्रेरक शक्ति है-इसका सुन्दर निरूपण यहाँ किया जा रहा है । ( २ ) तकार की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास अलंकार ।

घण्टापथः-

निशम्येति । अथ द्रपदात्मजा द्रौपदी द्विषतां सिद्धिं वृद्धिरूपां निशम्य ततस्तदनन्तरम् । ततो द्विषद्भय आगतास्ततस्त्याः । 'अव्ययात्त्यप्' इति त्यप् । अपाकृतीर्विकारान्विनियन्तुं निरोद्धुमक्षमा सती नृपस्य युधिष्ठिरस्य मन्युव्यवसाययोः क्रोधोद्योगयोर्दीपिनीः संवर्धिनीर्गिरो वाक्यान्युदाजहार । जगादेत्यर्थः ॥ 27॥

भवादृशेषु प्रमदाजनोदितं भवत्यविक्षेप इवानुशासनम् ।

तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥28॥

पदच्छेदः - 

भवादृशेषु, प्रमदाजनोदितम्, भवति, अधिक्षेपः, इव, अनुशासनम्, तथा, अपि, वक्तुम्, व्यवसाययन्ति, माम्, निरस्तनारीसमयाः, दुराधयः ।

अन्वयः-

भवादृशेषु प्रमदाजनोदितम् अनुशासनम् अधिक्षेपः इव भवति । तथापि निरस्तनारीसमयाः दुराधयः मां वक्तुं व्यवसाययन्ति।

संस्कृतव्याख्या –

(यद्यपि) भवादृशेषु = भवद्विधेषु, प्रमदाजनोदितम् = स्त्रीजनकथितम्, अनुशासनम् =  उपदेशवचन, अधिक्षेप: = आक्षेपः, तिरस्कार इति वा, इव =  तद्वत्, भवति = स्यात् । तथापि, दुर्वचत्वेऽपि, निरस्तनारीसमया = ध्वस्तस्त्रीशीला, दुराधयः = दुर्मनोव्यथाः, मां = द्रौपदीम्, वक्तुम् = कथयितुम्, व्यवसाययन्ति= प्रेरयन्ति, न त्वहं प्रकृत्या अपितु भवत्कर्त्तृ कद्यूतपरित्यक्तस्त्रीसमुचितशालीनतया अगत्या वदामीति भावः ।

शब्दार्थः-

भवादृशेषु = आप ( युधिष्ठिर ) जैसे (विद्वानों, बुद्धिमानों) के प्रति । प्रमदाजनोदितम् = स्त्रियों (स्त्रीजनों) के द्वारा कहा गया। अनुशासनम् = उपदेश, निर्देश, आदेश । अधिक्षेपः इव = तिरस्कार अपमान ) के समान, तिरस्कार जैसा । भवति = होता है । तथापि = तथापि, फिर भी, विद्वानों के प्रति अनुशासन का तिरस्कार जैसा होने पर भी। निरस्तनारीसमयाः = छुड़ा दिया हैं ( समाप्त कर दिया है, दूर कर दिया है) नारीजनोचित ( स्त्रयों के अनुरूप) आचरण ( आचार, मर्यादा, समय) को जिन्होंने ( ऐसी), स्त्रियों की मर्यादा को छुड़ा देने वाली। दुराधयः = तीव्र मनोव्यथायें, दु:ख देने वाली मानसिक व्यथायें। मां = मझ ( द्रौपदी) को। वक्तुं = बोलने के लिए, कहने के लिए । व्यवसाययन्ति = प्रेरित कर रही हैं. बाध्य ( विवश) कर रही हैं।

हिन्दी नुवाद-

आप जैसे ( बुद्धिमानों, विद्वानों ) के प्रति स्त्रियों के द्वारा कहा गया उपदेश तिरस्कार के समान होता है । तथापि नारीजनोचित (स्त्रियों के अनुरूप) आचार ( मयोदा, शालीनता) को समाप्त कर देने वाली ( किया गया) उपदेश, मुझ ( द्रौपदी ) को कहने के लिए प्रेरित ( विवश ) कर रही हैं।

संस्कृतभावार्थः-

हे युधिष्ठिर ! अहं मन्ये यत् भवद्विधेषु विज्ञेषु विषये स्त्रीजनोक्तं उपदेशवचनं अपमानमेव भवति । अतः न युक्तं वक्तुम् । वक्तुमनुचितत्वेऽपि अहं किञ्चिद्वदिष्याम्येव । शत्रूणां समृद्धिं श्रुत्वा मम मनसि याः तीव्राः व्यथाः जाता: ताः मम नारीजनसुलभां शालीनतां विनाशयन्ति मां वक्तुं च प्रेरयन्ति । न किञ्चिदयुक्तं दुःखिनामिति भावः ।

मासः-

भवान् इव दृश्यन्ते ये ते भवादृशाः, तेषु भवादृशेषु (उपपद समास)। प्रमदा चासौ जनश्च प्रमदाजनः ( कर्मधारय), प्रमदाजनेन उदितं प्रमदाजनोदितम् (तत्पु०)। नारीणां समयः इति नारीसमयः (तत्पु०), निरस्तः नारीसमयः यैः ते निरस्तनारीसमयाः ( बहु०)। दुष्टाः आधयः इति दुराधयः (प्रादि समास) ।

व्याकरणम् –

अनुशासनम-कनु +आस् + ल्युट् । अधिक्षेप:-अधि+ क्षिप् + घञ् । व्यवसाययन्ति - वि+अव+ सो+णि+लट्, अन्य पुरुष, बहुवचन ।

 टिप्पणी –

(१) द्रौपदी यह जानती है कि युधिष्ठिर जैसे विद्वान् को यदि वह उपदेश करती है तो उससे युधिष्ठिर का अपमान ही होगा। किन्तु वह उपदेश किए बिना रह भी नहीं सकती। कौरवों के द्वारा अत्यधिक अपमानित होने के कारण वह मर्माहत हो गई है और अति तीव्र मनोव्यथा से पीड़ित है। यही कारण है कि नारीजनसुलभ शालीनता और लज्जा का परित्याग कर वह युधिष्ठिर को फटकार रही है। अत्यधिक अपमानित और दु:खी होने पर व्यक्ति अपना विवेक खो देता है । (२) उपमा तथा काव्यलिङ्ग अलंकारों की संसृष्टि ।

घण्टापथः-

भवादृशेष्विति । भवादृशो भवद्विधाः । पण्डिता इत्यर्थः । तेषु विषये। 'त्यदादिषु'─ इत्यादिना कञ् । 'आ सर्वनाम्नः' इत्याकारादेशः। प्रमदाजनोदितं स्त्रीजनोक्तम् । वदेः क्तः । 'वचिस्पपि' इत्यादिना सम्प्रसारणम् । अनुशासनं नियोगवचनमधिक्षेपस्तिरस्कार एव भवति । अतो न युक्तं वक्तुमित्यर्थः । तथापि वक्तुमनुचितत्वेपि निरस्तनारीसमयास्त्याजितशालीनतारूपस्त्रीसमाचाराः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । दुराधयः समयोल्लङ्घनहेतुत्वाद् दुष्टा मनोव्यथाः। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । मां वक्तुं व्यवसाययन्ति प्रेरयन्ति । न किञ्चिदयुक्तं दुःखितानामिति भावः ॥28॥

अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः।

त्वयात्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥29॥

पदच्छेदः -


अखण्डम्, आखण्डलतुल्यधमभिः, चिरम्, धृता, भूपतिभिः, स्ववंशजैः, त्वया, आत्महस्तेन, मही, 

मदच्युता,मतङ्गजेन, स्रग्, इव, अपवर्जिता ।

अन्वयः-

आखण्डलतुल्यधामभिः स्ववंशजैः भूपतिभिः चिरम् अखण्डं धृता मही त्वया मदच्युता मतङ्गजेन स्रक् इव आत्महस्तेन अपवर्जिता ।

संस्कृतव्याख्या – 

आखण्डलतुल्यधामभिः = इन्द्रसमतेजोभिः, स्ववंशजैः = निजपूर्वजैः, निजकुलजैरिति वा । भूपतिभिः = भूपैः, भरतादिभिरित्यर्थः । चिरं = दीर्घकालम्, अखण्डम्सम्पूर्णं, यथा स्यात्तथेति क्रियाविशेषम् । धृता-धारिता, निजाधीनकृतेति भावः । मही= पृथिवी, मदच्युता = दर्पजलस्राविणा, मतङ्गजेन =  मातङ्गेन, हस्तिनेति भावः । स्रक्= माल्यं, इव, त्वया   युधिष्ठिरेण, आत्महस्तेन = स्वकरेण; द्यूतविधाविति शेषः । अपवर्जिता: = त्यक्ता, स्वप्रमादजनितैवेयमापत्तिर्न हि देवकृतेति हेतोरात्मबलं सर्वथा कार्यं, न दैवस्याशया स्थातव्यमिति ।

शब्दार्थः-

आखण्डलतुल्यधामभिः = इन्द्र (आखण्डल ) के समान पराक्रम ( प्रभाव, तेज ) वाले । स्ववंशजैः = अपने कुल में उत्पन्न हुए। भूपतिभिः = राजाओं के द्वारा । चिरम् = बहुत काल (समय ) तक । अखण्डं = सम्पूर्ण रूप से । धृता = धारण की गई, अपने अधिकार में रखी गई, पालन की गई, रक्षित । मही = पृथ्वी। त्वया = आप (युधिष्ठिर ) के द्वारा । मदच्युता = मदस्रावी ( मद जल बहाने वाले)। मतङ्गजेन = हाथी के द्वारा । स्रक् इव = पुष्प-माला की तरह । आत्महस्तेन = अपने हाथ से, अपनी चपलता के कारण (हाथी के पक्ष में अपनी सूड से )। अपवर्जिता = छोड़ दी, त्याग दी, फेंक दी।

हिन्दी नुवाद-

इन्द्र के समान पराक्रम (प्रभाव, तेज ) वाले अपने कुल में उत्पन्न हुए (भरत इत्यादि) राजाओं के द्वारा बहुत काल तक सम्पूर्ण रूप से धारण की गई ( अपने अधिकार में रखी गई ) पृथ्वी आप ( युधिष्ठिर ) के द्वारा स्वयं अपने हाथ से छोड़ दी गई, जिस प्रकार मद जल बहाने वाले हाथी के द्वारा पुष्प-माला अपने सूढ़ से फेंक दी जाती है।

संस्कृतभावार्थः-

हे युधिष्ठिर ! इन्द्रसदृशपराक्रमशालिनः भवतः पूर्वजाः राजानः भरतादयः इमां पृथिवीं समग्ररूपेण बहुकालपर्यन्तं भुक्तवन्तः ( रक्षितवन्तः )। निजकूलोत्पन्नैः पूर्वजैः रक्षिता ( भुक्ता ) एषा पृथिवी भवता प्राणपणेनापि रक्षणीया। किन्तु भवता तु पृथिव्याः रक्षा न कृता। यथा मदमत्तः गजा स्वशिरसि धृतां पुष्पमालां स्वकीयनैव शुण्डेन अधः क्षिपति तथैव  भवतापि पूर्व पुरुषैः प्राप्ता एषा पृथिवी स्वकीयेन चापलेन परित्यक्ता। अहो विस्मयकरी भवतः मूढ़ता । भवतः प्रमादजनितैव एषा विपत्तिः न दैवकृता इति द्रौपद्याः अभिप्रायः ।

मासः-

आखण्डलेन ( इन्द्रेण) तुल्यं धाम येषां ते आखण्डलतुल्यधामानः तैः आखण्डलतुल्यधामभिः ( बहु० )। स्वस्य वंशः स्ववंशः ( तत्पु० ), स्ववंशे जायन्ते ये ते स्ववंशजा: तैः स्ववंशजैः ( उपपद समास ) । भुवः पतयः भूपतयः तैः भूपतिभिः ( तत्पु० )। नास्ति खण्डं यस्मिन् तद् यथा स्यात्तथा अखण्डम् (बहु० ) । अथवा न खण्डम् इति अखण्डम् ( नञ् समास )। मदं च्योततीति मदच्युत् तेन मदच्युता ( उपपद समास )। मतङ्गात् जायते इति मतङ्गजः, तेन मतङ्गजेन ( उपपद समास)। आत्मनः हस्तः इति आत्महस्तः तेन आत्महस्तेन (तत्पु० )।

व्याकरणम् –

'अखण्डम्' 'धृता' का क्रियाविशेषण है। अतः इसमें द्वितीया विभक्ति प्रयुक्त हुई। धृता-धृ+क्त+टाप् । अपवर्जितः-अप + वृज् + णिच् + क्त + टाप् ।

टिप्पणी –

 (१) पर्वतों के पक्षों को तोड़ने ( खण्ड-खण्ड करने ) के कारण इन्द्र का नाम आखण्डल है। 

(२) मतङ्ग ऋषि के शाप से चित्ररथ नामक गन्धर्व के पुत्र प्रियंवद को हाथी के रूप में जन्म लेना पड़ा था। अतः हाथी को 'मतङ्गज' कहा जाने लगा। 

(३) द्रौपदी युधिष्ठिर को फटकारती हुई कह रही है कि हम सब लोगों की विपत्ति के कारण आप ही हैं। कुलपरम्परा से प्राप्त राज्य का आपने जुआँ खेलकर परित्याग कर दिया। आपने राज्य खोया है, आप ही उसे प्राप्त कर सकते हैं । अतः आपको पुनः राज्य-प्राप्ति के लिए उद्योग करना चाहिए।

(४) उपमा अलंकार ।

घण्टापथः-

अखण्डमिति । आखण्डलतुल्यधामभिरिन्द्रतुल्यप्रभावैः । स्ववंशजैर्भूपतिभिर्भरतादिभिश्चिरमखण्डमविच्छिन्नं धृता मही । त्वया । मदं च्योततीति मदच्युत् क्विप् । तेन मदस्राविणा मतङ्गजेन स्रगिवात्महस्तेन स्वकरेण स्वचापलेनेत्यर्थः । अपवर्जिता परिहृता त्यक्ता । स्वदोषादेवायमनर्थागम इत्यर्थः ॥ 29 ॥

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।

प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥30॥

पदच्छेदः-


 व्रजन्ति, ते, मूढधियः, पराभवम्, भवन्ति, मायाविषु, ये, न, मायिनः, प्रविश्य, हि, घ्नन्ति, शठाः,तथाविधान्, 

असंवृताङ्गान्, निशिता, इव, इषवः ।

अन्वयः-

मूढधियः ते पराभवं व्रजन्ति ये मायाविषु मायिनः न भवन्ति । हि शठाः तथा विधान् असंवृताङ्गान् निशिताः इषवः इव प्रविश्य घ्नन्ति ।

संस्कृतव्याख्या – 

मूढधियः = मन्दबुद्धयःते= अमायिनः पराभवम् = अन्याक्रमणम्, व्रजन्ति =  यान्ति । ये-जनाःमायाविषु= कपटिषुमायिनः =  कपटिःन भवन्ति, हि= यतः, शठाः = मायिनः, तथाविधान् = तादृशान्, असंवृताङ्गान् =  कवचादिनाऽरक्षितदेहान्, निशिताः = तीक्ष्णीकृताः, इषवः = बाणा:, इव, प्रविश्य = अन्तः प्रविश्य, घ्नन्ति = मारयन्ति। अतो भवद्भिरीदृशै: सरलैर्न भाव्यमिति भावः ॥

शब्दार्थः-

मूढधियः = मन्द बुद्धि वाले, विवेकशून्य, अविवेकी। ते वे (लोग)। पराभवं = पराजय, अपमान, तिरस्कार । ब्रजन्ति =  प्राप्त होते हैं । ये = जो। मायावषु = मायावियों ( माया का व्यवहार करने वालों, छलकपट करने वालों, कपटियों, कपटाचारियों के प्रति । मायिनः = मायावी ( माया करने वाले, कपटी)। न भवन्ति = नहीं होते हैं। हि = क्योंकि । शठाः = धूर्त, दुष्ट, चालाक, कुटिल व्यक्ति । तथाविधान् = उस प्रकार के ( सरल एवं निष्कपट लोगों को)। असंवृताङ्गान् = अनाच्छादित शरीर वाले लोगों को, ( कवच इत्यादि से ) नहीं ढके हैं अङ्ग जिनके ऐसे लोगों को । निशिताः = तीखे, पैने, तीक्ष्ण, तेज । इषवः इव = बाणों की तरह । प्रविश्य = प्रविष्ट होकर, प्रवेश करके; आत्मीय बन कर, रहस्य को जानकर । ध्नन्ति =  मार डालते हैं, विनष्ट कर देते हैं ।

हिन्दी नुवाद-

मन्द बुद्धि वाले ( मूर्ख ) वे लोग ( सर्वदा ) पराजय (तिरस्कार) को प्राप्त करते हैं जो कपटाचारियों ( कपट करने वालों ) के प्रति कपटी ( कपट कार करने वाले) नहीं होते हैं । क्योंकि धूर्त लोग उस प्रकार के ( सरल निकट लोगों के रहस्य को जानकर (भीतरी सम्पूर्ण बातों को जानकर ) उन्हें उसी प्रकार विनष्ट कर देते हैं जिस प्रकार तेज बाण ( कवच इत्यादि से ) अनाच्छादित अङ्गों वाले लोगों के भीतर प्रविष्ट होकर उन्हें मार डालते हैं।

संस्कृतभावार्थः-

शठे शाठ्यं समाचरेद् इति प्रतिपादितमस्मिन् श्लोके । ये जना: कपाटयुक्तेषु कपटं न कुर्वन्ति ते मूखाः सर्वदा पराजयं प्राप्नुवन्ति । यथा तीक्ष्णाः वाणाः कवचादिभिः अनाच्छादिताङ्गानां पुरुषाणां शरीरं प्रविश्य तान् विनाशयन्ति, तथा कपटयुक्ताः जनाः सज्जनानां मनसि आत्मनः विश्वासमुत्पाद्य आत्मीयाः भूत्वा तान् सज्जनान् विनाशयन्ति । अत एव हि शठेन दुर्योधनेन सह शाट्यस्य व्यवहारः एव करणीयः इति द्रुपदात्मजायाः कथनस्याभिप्रायः ।

मासः-

मूढा धीः येषां ते मूढधियः ( बहु० )। तथा विधा येषां ते तथाविधाः ( बहु० )। न संवृतम् असंवृतम् ( नञ् समास ), असंवृतानि अङ्गानि येषां ते असंवृताङ्गाः तान् ( बहु०)।

व्याकरणम् –

 निशिताः-नि+शी + क्त । प्रविश्य-प्र + विश् + क्त्वा ल्यप् । ध्नन्ति-हन्+लट् लकार, अन्यपुरुष, एकवचन ।

टिप्पणी –

(१) इस श्लोक से हमें महाकवि के नीतिशास्त्र-विषयक गम्भीर ज्ञान का पता चलता है। नीति का शाश्वत रहस्य यहाँ प्रतिपादित किया गया हैं । 'शठे शाठ्यसमाचरेत्' 'आर्जवं हि कुटिलेषु न नीतिः' इत्यादि नीतिवाक्यों का निरूपण यहाँ सुन्दर ढंग से किया गया है।।

२) द्रौपदी को नीतिशास्त्र का अच्छा ज्ञान था (३) उपमा अलंकार तथा हेतुपूर्वक समर्थन होने से काव्यलिङ्ग अलंकार । दोनों के तिलतण्डुलवत् स्थित होने से संसृष्टि अलंकार । कुछ लोगों के मत में अर्थान्तर न्यास से अनुप्राणित उपमा अलंकार है।

घण्टापथः-

व्रजन्तीति । मूढधियो निर्विवेकबुद्धयस्ते पराभवं व्रजन्ति, ये मायाविषु मायावत्सु विषये । 'अस्मायामेधा' इत्यादिना विनिप्रत्ययः मायिनो मायावन्तः । व्रीह्यादित्वादिनिप्रत्ययः । न भवन्ति । अत्रैवार्थान्तरं न्यस्यतिप्रविश्येति । शठा अपकारिणो धूर्त्तास्तथाविधानकुटिलानसंवृत्ताङ्गानवर्मितशरीरान्निशिता इषवः इव प्रविश्य प्रवेशं कृत्वात्मीया भूत्वा ध्नन्ति हि । 'आर्जवं हि कुटिलेषु न नीतिः'रिति भावः ॥30॥

गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः।

परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥31॥

पदच्छेदः

गुणानुरक्ताम्, अनुरक्तसाधनः, कुलाभिमानी, कुलजाम्, नराधिपः, परैः, त्वदन्यः, कः, इव, अपहारयेत्, मनोरमाम्, आत्मवधूम्, इव, श्रियम् ।

अन्वयः-

अनुरक्तसाधनः कुलाभिमानी त्वत् अन्यः कः इव नराधिपः गुणानुरक्तां कुलजां मनोरमम् आत्मवधूम् इव (गुणानुरक्तां कुलजा मनोरमां ) श्रियं परैः अपहारयेत्।

संस्कृतव्याख्या – 

अनुरक्तसाधनः = अनुकुलसहायकः, कुलाभिमानी = निजवंशमर्यादाशीलः, नराधिपः= राजा । त्वदन्यः = त्वत्तोऽन्यः कः इव, (भवेत् ) यः, गुणानुक्तां = गुणैः सन्ध्यादिभिरनुरागवतीं, वा गुणै::= सौन्दर्यादिभिरनुरागिणीं, कुलजाम् = वंशक्रमागतां, वा कुलीनां, श्रियं = लक्ष्मीं, वा गृहलक्ष्मीं = गृहिणीं, मादृशीमिति । मनोरमां = मनोऽनुकूलां, आत्मवधूं‌=  स्वस्त्रियं, इव, अपहारयेत् = व्याजयेत् । अत्र त्वमिवान्यः कः, न कोऽप्यन्योऽस्ति, भवानेवेदृश एक इत्यर्थे, त्वमन्यः क इवे'ति पाठो युक्तः ।

शब्दार्थः-

अनुरक्तसाधनः = अनुकूल (अनुरागयुक्त) हैं सहायक जिसके चलत ऐसा, अनुकूल रहने वाले सेवकों से युक्त। कुलाभिमानी = अपने कुल की परम्परा पर अभिमान करने वाला, अपने कुल की मर्यादा का ध्यान रखने वाला । त्वत् अन्यः = तुम ( युधिष्ठिर ) से अन्य (दूसरा), तुमसे अतिरिक्त दूसरा । कः इव नराधिपः = कौन-सा राजा। गुणानरक्तां = गुणों के कारण अनुराग रखने वाली, (शौर्य, सौन्दर्य इत्यादि ) गुणों के कारण मुग्ध हुई (गुणमुग्धा)। कुलजां = कुलीना, अच्छे कुल में उत्पन्न । मनोरमाम् = सुन्दर, मन को अपनी ओर आकर्षित ( आकृष्ट) करने वाली, हृदय को आनन्द प्रदान करने वाली। आत्मवधूम् इव = अपनी पत्नी ( गृहलक्ष्मी) की तरह। ( लक्ष्मी के पक्ष में- गुणानुरक्तां = संधि-विग्रह इत्यादि गुणों के कारण अनुराग रखने वाली अर्थात् स्थायी रूप से रहने वाली । कुलजां = कुल-परम्परा ( वंश-परम्परा ) से प्राप्त हुई। मनोरमाम् = मन को प्रसन्न करने वाली ।) श्रियं = राज-लक्ष्मी को। परैः = दूसरों के द्वारा, शत्रुओं के द्वारा। अपहारयेत् = अपहरण करवायेगा।

हिन्दी नुवाद-

अनुकूल रहने वाले सेवकों से युक्त तथा अपने कुल का अभिमान करने वाला तुम ( युधिष्ठिर ) से दूसरा कौन राजा ( शौर्य, सौन्दर्य इत्यादि ) गुणों के कारण मुग्ध हुई, अच्छे कुल में उत्पन्न हुई और हृदय को आनन्द प्रदान करने वाली अपनी पत्नी की तरह संधि-विग्रह इत्यादि गुणों के कारण स्थायी रूप से रहने वाली, कुल-परम्परा से प्राप्त हुई और मन को प्रसन्न करने वाली राजलक्ष्मी का दूसरों के द्वारा अपहरण करवायेगा।

संस्कृतभावार्थः-

अस्मिन् श्लोके पत्न्या सह राजलक्ष्म्याः तुलना कृता । अत्र द्रौपदी कथयति-लोके यथा भार्यायाः परैः अपहरणं गर्हितं अकीर्तिकरं च भवति तथैव राज्ञां कृते स्वराजलक्ष्म्याः परैः अपहरणमपि गर्हितं अकीर्तिकरं प्रतिष्ठाविनाशकं च भवति । अनुकूलसहायवान् कुलीनत्वाभिमानी च भवदन्यः को गुणमुग्धां ( शौर्यसौन्दर्यादिभिः गुणैः अनुरागिणीं) कुलीनां ( सत्कुलोत्पन्नां) मनोहारिणीं निजभार्यामिव राजलक्ष्मीं परैः अपहारयेत् । भवता तु स्वपत्नी राजलक्ष्मी: च उभे परैः अपहारिते । अहो विस्मयकरी ते मूढता ।

मासः-

अनुरक्तं साधनं यस्य सः अनुरक्तसाधनः (बहु० )। कुलस्य अभिमानी ( तत्पु०) । नराणाम् अधिपः इति नराधिपः (तत्पु०) । गुणैः अनुरक्ता इति गुणानुरक्ता ताम् ( तृतीया तत्पु० ) अथवा गुणेषु अनुरक्ता इति गुणानुरक्ता ताम् ( सप्तमी तत्पु० )। कुले जायते इति कुलजा ताम् कुलजाम् ( उपपद समास ) । मनः रमयति इति मनोरमा ताम् मनोरमाम् ( उपपद समास ।। आत्मनः वधूः आत्मवधूः ताम् आत्मवधूम् ( षष्ठी तत्पु०)।

व्याकरणम् –

अपहारयेत्-अप+हृ+णिच् +विधिलिङ्, अन्यपुरुष, एकवचन ।।

टिप्पणी –

(१) श्लिष्ट पदों के अर्थ 'आत्मवधू' और 'श्रियम्' दोनों ओर सरलता से लग जाते हैं । (२) युधिष्ठिर ने अपने राज्य को, भाइयों सहित अपने को और द्रौपदी को जुए में दाँव पर लगाया था। इस कारण द्रौपदी मर्माहत है, मार्मिक मनोव्यथा से पीड़ित है, अपमानजन्य अग्नि उसके अन्दर धधक रही है। वह अपनी मार्मिक मनोव्यथा को अत्यन्त मार्मिक ढंग से अभिव्यक्त कर रही है। वह युधिष्ठिर के हृदय को तीखे वाग्बाणों से वेध रही है । वह युधिष्ठिर को यह बतलाना चाह रही है कि उन्होंने अपनी पत्नी का और अपनी राजलक्ष्मी का शत्रुओं के द्वारा अपहरण कराया। संसार में कोई भी व्यक्ति इस प्रकार का कुकृत्य नहीं कर सकता है। द्रौपदी यह भी संकेत कर रहा है कि चंचल होने पर भी लक्ष्मी युधिष्ठिर के पास स्थिरता से रह रही थी। लक्ष्मी युधिष्ठिर का परित्याग करके नहीं गई। युधिष्ठिर ने स्वयं लक्ष्मी का परित्याग किया है। अतः अब युधिष्ठिर का यह अनिवार्य कर्तव्य है कि वह गई हुई लक्ष्मी को पुनः प्राप्त करे। (३) श्लेषानुप्राणित पूर्णोपमा अलंकार।

घण्टापथः-

गुणेति । अनुरक्तसाधनोनुकूलसहायवान् । उक्तं च कामन्दकीये─ 'उद्योगादनिवृत्तस्य ससहायस्य धीमतः । छायेवानुगता तस्य नित्यं श्रीः सह चारिणी' इति । कुलाभिमानी क्षत्त्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोन्यः । 'अन्याराद्' इत्यादिना पञ्चमी। क इव नराधिपो गुणैः सन्ध्यादिभिः सौन्दर्यादिभिश्चानुरागिणीं कुलजां कुलक्रमादागतां कुलीनां च मनोरमां श्रियमात्मवधूमिव स्वभार्यामिव 'वधूर्जाया स्नुषा स्त्री च इत्यमरः । परः शत्रुभिरन्यैश्चापहारयेत् स्वयमेवापहारं कारयेदित्यर्थः । कलत्रापहारल्लक्ष्म्यपहारोपि राज्ञा मानहानिकरत्वादनुपेक्षणीय इति भावः ॥ 31 ॥

भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।

कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ 32 ॥

पदच्छेदः   


भवन्तम्, एतर्हि, मनस्विगर्हिते, विवर्तमानम्, नरदेव, वर्त्मनि, कथम्, न, मन्युः, ज्वलयति, इति,उदीरितः, शमीतरुम्, 

शुष्कम्, इव, अग्निः, उच्छिखः ।

अन्वयः-

नरदेव ! एतर्हि मनस्विगर्हिते वर्त्मनि विवर्तमानं भवन्तं उदीरितः मन्युः शुष्कं शमीतरुं उच्छिखः अग्निः इव कथं न ज्वलयति ।

संस्कृतव्याख्या –  

हे नरदेव ! =  मानवेन्द्र ! एतर्हि = अधुना, मनस्विगर्हिते = मानिजननिन्दिते, वर्त्मनि=मार्गे, विवर्त्तमानम्, = संस्थितम्, भवन्तम् = युधिष्ठिरं, उदीरितः = उन्नतः, सञ्जनित इति भावः । मन्युः क्रोधः, शत्र्वपमानजातमर्ष इति भावः । उच्छिखः = उज्ज्वलः, अग्निः = वैश्वानरः, शुष्कं अनार्द्रं, नीरसमिति यावत् । शमीतरुम्=शमीसंज्ञकवृक्षेन्धनं, कथं = कस्मात्, न ज्वलयति = न दहति । अर्थादवश्यमेव भवतां कोपः प्रज्वलयितुं योग्य इति । अमर्षोन्द्रमसम्भवे तदसम्भावादाश्चर्यमेतद् वृत्तम् ।

शब्दार्थः-

नरदेव  नरेन्द्र, नराधिप, राजन्, मनुष्यों के आराध्य देव । एतर्हि  = अब, इस समय में, इस आपत्ति काल में। मनस्विगर्हिते = मनस्वियों ( मनस्विजनों, शूरजनों, स्वाभिमानी मनुष्यों ) के द्वारा निन्दित ( गर्हित )। वर्त्मनि = मार्ग में । विवर्तमानं = चलते हुए, अवस्थित, स्थित, शत्रुकृत दुर्दशा का अनुभव करते हुए । भवन्तं = आप ( युधिष्ठिर ) को । उदीरितः = उद्दीपित, उद्दीप्त, बढ़ा हुआ । मन्युः = क्रोध, कोप । शुष्कं = सूखे हुए (नीरस) । शमीतरुं = शमी नामक वृक्ष को। उच्छिखः = ऊपर की ओर उठ रही हैं लपटे ( ज्वालाय, शिखायें ) जिसकी ऐसे, ऊँची उठी हुई लपटों वाले । अग्निः इव = अग्नि की तरह । कथं = क्यों, किस कारण से । न ज्वलयति = नहीं जलाता है, (जला देता, जला डालता, जला रहा है)।

हिन्दी नुवाद-

हे राजा ( युधिष्ठिर ) ! इस आपत्ति-काल में मनस्विजनों ( स्वाभिमानी मनुष्यों) के द्वारा निन्दित मार्ग में चलते हुए (शत्रुकृत दुर्दशा का अनुभव करते हुए ) आपको उद्दीप्त क्रोध उसी प्रकार क्यों नहीं जला डालता जिस प्रकार ऊँची उठी हुई लपटों वाली अग्नि सूखे हुए शमी-वृक्ष को जला डालती है।

संस्कृतभावार्थः-

शत्रुकृतेन अपमानेन व्यथिता दुर्दशामापन्ना च द्रौपदी प्रतीकाराय युधिष्ठिरस्य कोपं उद्भावयति । हे नरेन्द्र ! अस्मिन् आपत्काले यां शत्रुकृतां दशों भवान् सपरिवारः सम्प्राप्तः तां शूरजनाः निन्दन्ति । इमां दशामनुभवन्तं भवन्तं उद्दीतः क्रोधः तथा कथं न दहति यथा प्रज्वलितोऽग्निः शुष्कं शमीवृक्षं भस्मसात्रोति । शत्रुविनाशाय भवतः क्रोधः कथं न प्रवर्तते, प्रतीकारार्थं भवान् कथं न प्रयतते ।

मासः-

नराणां देवः नरदेवः (षष्ठी तत्पु०) अथवा नरेषु देवः नरदेवः ( सप्तमी तत्पु० ) अथवा नरः देवः इव नरदेवः (उपमित कर्मधा०) । सम्बोधने हे नरदेव । मनस्विभिः गर्हितं मनस्विर्हितं तस्मिन् मनस्विर्हितं (तृ० तत्पु० )। शमी चासौ तरुश्च इति शमीतरुः तं शमीतरुम् । कर्मधा० ।। उद्गता शिखा यस्य सः उच्छिखः ( बहु० )।

व्याकरणम् –

एतर्हि-इदम् + हिल् ( स्वार्थं ) 'इदमोर्हिल' सूत्र से हिल् प्रत्यय हुआ । 'एतेतौ रथोः' सूत्र से इदम् को एत आदेश हुआ। विवर्तमानं-वि+ वृत् + शानच् । उदीरितः-उत् + ईर्+णिच् +क्त। शुष्क-शुष्+क्त। ज्वलयति-ज्वल्-णिच्+लट् लकार, अन्यपुरुष, एकवचन । 'मितां ह्रस्वः सूत्र से ज्वालयति के आ को अ होकर ज्वलयति बनता है।

टिप्पणी –

(१) द्रौपदी इस बात से बहुत पीड़ित और आश्चर्यचकित है कि शत्रुओं के द्वारा इतना अपमान मिलने पर भी युधिष्ठिर हाथ पर हाथ रखकर ( अर्थात् निष्क्रिय ) बैठे हैं। द्रौपदी की समझ में नहीं आता कि युधिष्ठिर को शत्रुओं पर क्रोध क्यों नहीं आता, वह शत्रुओं से अपना राज्य प्राप्त करने का प्रयत्न क्यों नहीं करता।

(२) शत्रुओं को अपना राज्य देकर वन में ठोकरें खाते हुए घूमना, भाँति-भाँति के कष्टों को सहना, शत्रुओं से बदला लेने के लिए कोई प्रयत्न न करना-इस प्रकार का जीवन बिताना स्वाभिमानी मनुष्य नहीं चाहते । इस प्रकार का जीवन निन्दित है, प्रतिष्ठाविनाशक है, अशोभनीय है।

(३) उपमा अलंकार तथा तकार और नकार की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास अलंकार ।

घण्टापथः-

भवन्तमिति । नरदेव ! हे नरेन्द्र ! एतर्हीदानीम्, अस्मिन्नापत्कालेपीत्यर्थः । 'एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा' इत्यमरः । 'इदमोर्हिल् इति हिल्प्रत्ययः । एतेतौ रथोः' इत्येतादेशः । आपदमेवाहमनस्विगर्हिते शूरजनजुगुप्सिते वर्त्मनि मार्गे विवर्त्तमानम्, शत्रुकृतां दुर्दशामनुभवन्तमित्यर्थः । भवन्तं त्वामुदीरित उद्दीपितो मन्युः क्रोधः । शुष्कं नीरसम् । 'शुषः कः' इति निष्छातकारस्य ककारः । शमी चासौ तरुश्चेति विशेषणसमासः । तम् । शमीग्रहणं शीघ्रज्वलनस्वभावात्कृतम् । उच्छिख उद्गतज्वालः । घृणिज्वाले अपि शिखे' इत्यमरः । वह्निरिव। कथं न ज्वलयति । ज्वलयितुमुचितमित्यर्थः । 'मितां ह्रस्वः' ॥32॥

 अबन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।

अमर्षशून्येन जनस्य जन्तुना न जातहार्दैन न विद्विषादरः ।।33।।

पदच्छेदः – 

अवन्ध्यकोपस्य, विहन्तुः, आपदाम्, भवन्ति, वश्याः, स्वयम्, एव, देहिनः, अमर्षशून्येन, जनस्य, जन्तुना,, जातहार्देन,, विद्विषा, दरः ।

अन्वयः-

अवन्ध्यकोपस्य आपदा विहन्तुः देहिनः स्वयम् वश्याः भवन्ति । अमर्षशून्येन जन्तुना जातहार्दैन ( सता ) जनस्य आदरः न, विद्विषा ( सता) दरः न।

संस्कृतव्याख्या – 

अवन्ध्यकोपस्य = अमोघामर्षस्य, आपदां = विपदां, विहन्तुः = संहारकस्य, देहिनः =प्राणिनः; स्वयमेव = आत्मैव, वश्याः = अधीनाः भवन्ति = जायन्ते, अथ च, अमर्षशून्येन=क्रोघहीनेन, जन्तुना-जनेन, जातहार्देन = प्राप्तप्रेम्णाऽपि, सता आदरः =सम्मानः, न हि (भवति) । तथा च तादृशेन जनेन, विद्विषा- विरोधिनाऽपि समं दर:=भयं, ने (भवति) । अर्थात् दुर्योधनस्तु क्रोधावसरे च हर्ष करोति तेन, तस्यावशा अपि वशीभूताः । भवान् वैराग्यं भजन् वसन्मुनिरिव क्रोधामर्षहिवहनोऽस्ति कदाचिच्चेत्क्रोधोऽपि जायते, तदा क्षणमेव विलीनो भवति, क्रोघहेतुमति क्रोधफलं न पातयति, शान्तचित्तत्वात्, अतो ये दुर्योधनादयः पूर्वं वशेऽतिष्ठन्, तेऽपि स्वतन्त्राः प्रत्युत भवन्तं वशिनमेव वशं कुर्वन्तीति नोचितं, क्षत्रियकुलेऽवतीर्य, स्वकुलोचितां प्रकृतिं भजन्नेव जनौ राजते ।

शब्दार्थः-

अवन्ध्यकोपस्य = अव्यर्थ ( सफल, अमोघ ) क्रोध वाले, व्यर्थ ( निष्फल ) नहीं होता है क्रोध जिसका। आपदां विहन्तुः = आपत्तियों ( विपत्तियों, क्लेशों) का विनाश करने वाले ( विनाशक, निवारक, दूर करने वाले ) के । देहिनः = शरीरधारी, प्राणी । स्वयमेव = स्वयं ( स्वतः, अपने आप ) ही। वश्याः भवन्ति = वश में ( वशीभूत अधीन, अधिकार में ) हो जाते हैं । अमर्षशून्येन = क्रोधरहित । जन्तुना = प्राणी से, पुरुष से । जातहार्दैन = मित्रता होने पर, स्नेह ( हार्द = स्नेह ) होने पर, अनुराग से युक्त होने पर। जनस्य = लोगों का । आदरः = सम्मान, सत्कार । = नहीं ( होता है ) । विद्विषा = शत्रु होने पर, शत्रुता ( विरोध ) होने पर। दरः = भय । = नहीं ( होता है)।

हिन्दी नुवाद-

प्राणी स्वयं ही उस व्यक्ति के वश में हो जाते हैं, जिसका क्रोध व्यर्थ (निष्फल ) नहीं होता है और जो आपत्तियों का विनाश करता है । क्रोधरहित व्यक्ति के स्नेह ( अनुराग ) से युक्त होने पर लोगों के द्वारा उसका आदर नहीं होता और शत्रुता से युक्त होने पर लोगों को उसका भय भी नहीं होता (क्रोधहीन व्यक्ति के मित्र उसका सम्मान नहीं करते और शत्रु उससे डरते नही)।

संस्कृतभावार्थः-

हे धर्मराज युधिष्ठिर! राज्ञा यथाकालं पात्रानुरूपमवस्थानुरूपं च कोपः कार्यः । निग्रहानुग्रहसमर्थस्य विपत्विनाशकस्य च पुरुषस्य वशे सर्वे प्राणिनः स्वयमेव भवन्ति । अस्मिन् संसारे दृश्यते यत् क्रोधशून्यः पुरुषः मित्रैः सम्मानं प्राप्नोति शत्रवश्च तस्मान्न न बिभ्यति । भवत्सदृशः यः पुरुषः यथाकालं क्रुध्यति सः प्रसन्नः भवतु अप्रसन्नः वा भवतु तं कोऽपि न गणयति । अतः भवता शत्रुषु क्रोध: कार्यः।

मासः-

न बन्ध्यः अबन्ध्यः (नञ् समास ), अबन्ध्यः कोपः यस्य सः अबन्ध्यकोपः तस्य अबन्ध्यकोपस्य (बहु०)। न मर्षः अमर्षः (नञ् समास ), अमर्षेण शून्यः अमर्षशून्यः तेन (तृ० तत्पु०) । जातं हार्दं यस्य सः जातहार्दः (जातस्नेहः) तेन जातहार्देन (बहु०)।

व्याकरणम् –

विहन्तुः-वि + हन् + तृच् + षष्ठी, एकवचन । वश्या:-वशं गच्छन्ति ये ते; वश+यत् । हृदयस्य कर्म हार्दम् , हृदय + अण्।।

टिप्पणी –

 (१) जिसका क्रोध व्यर्थ नहीं होता = जो क्रोध आने पर शत्रुओं को दण्ड दे सकता है (२) सभी प्राणी उस व्यक्ति के वश में हो जाते हैं जो ( क ) क्रोध आने पर शत्रुओं को दण्डित करने में समर्थ होता है और जो ( ख ) अपनी और दूसरों की विपत्तियों को दूर करने में समर्थ होता है।

(३) जो क्रोध के समय भी क्रोध नहीं करता उसके मित्र उसका सम्मान नहीं करते और शत्रु उससे डरते नहीं । ऐसा व्यक्ति मित्र हो अथवा शत्रु होइसका कोई महत्त्व नहीं है।

[४] नकार और जकार की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास।

घण्टापथः-

अबन्ध्येति । अवन्ध्यः कोपो यस्य तस्यावन्ध्यकोपस्यात एवापदां विहन्तुर्निग्रहानुग्रहसमर्थस्येत्यर्थः । पुंस इति शेषः । देहिनो जन्तवः स्वयमेव वश्या वंशगता भवन्ति । 'वशं गतः' इति यत्प्रत्ययः । अतस्त्वया कोपिना भवितव्यमित्यर्थः । व्यतिरेके त्वनिष्टमाचष्टे─ अमर्षशून्येन निष्कोपेन जन्तुना । कन्यया शोक इतिवत् हेतौ' इति तृतीया। हृदयस्य कर्म हार्दं स्नेहः । 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहः' इत्यमरः । युवादित्वादण् । 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशः । जातहार्देन जातस्नेहेन सता जनस्यादरो न । विद्विषा द्विषता च सतादरो न। अमर्षहीनस्य रागद्वेषावकिञ्चित्करत्वादगण्यावित्यर्थः । अथवा विद्विषां सतादरो भयं न । 'दरोस्त्रियां भये श्वभ्रे' इत्यमरः । एतस्मिन्नेव प्रयोगे सन्धिवशाद् द्विधा पदच्छेदः । पुंवाक्येषु न दोषः । अतः स्थाने कोपः कार्यस्त्याज्यस्त्वस्थाने कोप इति भावः ॥ 33 ॥ 

परिभ्रमँल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः।

महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥34॥

पदच्छेदः

परिभ्रमन्, लोहितचन्दनोचितः, पदातिः, अन्तर्गिरि, रेणुरूषितः, महारथः, सत्यधनस्य, मानसम्, दुनोति, नो,कच्चिद्, अयम्, वृकोदरः।

अन्वयः-

(प्राक्) लोहितचन्दनोचितः महारथः अयं वृकोदरः (सम्प्रति) रेणुरूषितः (सन् ) पदातिः अन्तर्गिरि परिभ्रमन् सत्यधनस्य (ते) मानसं नो दुनोति कच्चित्।

संस्कृतव्याख्या – 

लोहितचन्दनोचितः= रक्तचन्दनचर्चितः, महारथः = अतिरथः, यः प्रागासीदिति शेषः । सोऽधुना, अयं = पुरःस्थः, वृकोदरः = कोकजठरः भीम इत्यर्थः । रेणुरूषितः = धूलिधूसरितः, पदातिः = चरणचारी, अन्तर्गिरि = पर्वतगुहान्तरे परिभ्रमन = पर्यटन्, सत्यधनस्य = सर्वसत्यात्मकस्य नवेत्यर्थः । मानसं - मनः, कच्चित् = किम्, नो = नहि, दुनोति = परितापयति, अवश्यमयं परितापयोग्यो विषयः । तथाऽपि ते चित्तं निश्चिन्तमिव लक्ष्यते, अतो भवन्मनः कठोरतममिति ।

शब्दार्थः-

लोहितचन्दनोचितः = रक्त (लाल, लोहित, केशरयुक्त ) चन्दन के योग्य, लाल चन्दन के लेप का अम्यासी, लाल रंग का चन्दन लगाने में अभ्स्त । महारथः= विशाल (बड़े, महान् ) रथ पर पलने वाला, दस हजार धनुर्धारियों के साथ अकेला युद्ध करने वाला। अयं = यह । वृकोदरः = भीमसेन । रेणुरूषितः (सन् ) = धूलि से भरा हुआ, धूलि से धूसरित हुआ। पदातिः = पैदल । अन्तर्गिरि पर्वतों में, पर्वतों के अन्दर । परिभ्रमन् = | घूमता हुमा, भटकता हुवा । सत्यधनस्य (ते) = सत्य को ही धन मानने वाले (आपके), सत्यवती ( सत्यवादी) (आपके)। मानसं = मन (चित्त, हृदय ) को। नो =   नहीं । दुनोति कच्चित् = दु:खित (दु:खीसंतप्त) करता (बनाता) है क्या

हिन्दी नुवाद-

 (पहले, आपके शासन-काल में) (शरीर में) लाल चन्दन के लेप का अभ्यासी और विशाल रथ में बैठकर चलने वाला यह भीमसेन (अब) धूलि से भरा हुआ, पैदल पर्वतों में इधर-उधर घूमता (भटकता) हुआ सत्यवादी आपके मन को दुःखित नहीं करता है क्या?

संस्कृतभावार्थः-

अत्र भीमसेनस्य दयनीयामवस्थामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं कर्तुमिच्छति । अभ्यस्तरक्तचन्दनः यः भीमः पुरा विशालरथमारुह्या परिभ्रमति स्म सः एव सम्प्रति धूलिव्याप्तशरीरः पादाभ्यामेव पर्वतेषु परिभ्रमति । अनेनापि सत्यवादिनः भवतः चेतसि पीडा न भवति किम् ? अपूर्वा खलु ते सत्यवादिता (सत्यप्रियता)! अद्यापि सत्यमेव रक्ष्यते न तु भ्रातरः ।

मासः-

लोहिलं चन्दनं लोहितचन्दनम् (कर्मघा०), उचितं लोहितचन्दनं यस्य सः मोहितचन्दनोचितः (बहु.)। 'वाहिताग्न्यादिषु' से उचित पद का प्रयोग अन्त में हुआ। महान् रथः यस्य सः महारथः (बहु०)। वृकस्य उदरमिव उदरं यस्य सः वृकोदरः (बहु०)। रेणुभिः रूषितः रेणुरूषितः (तृ तत्पु.)। पादाभ्यामति इति पदातिः (उपपद समास)। गिरिषु अन्तः इति अन्तर्गिरि (अव्ययीभाव समास)। सत्यं धनं यस्य सः सत्यधनः तस्य सत्यधनस्य (बहु.)।

व्याकरणम् –

परिभ्रमन्-परि+भ्रम् + शतृ, प्रथमा एकवचन । दुनोति दु + लट् लकार, प्रथम पुरुष, एकवचन। 

टिप्पणी –

(१) 'सत्यधनस्य' पद का प्रयोग व्यंग्यपूर्ण है। इस व्यंग्योक्ति के द्वारा द्रौपदी कहना चाहती है कि आपने सत्य के चक्कर में पड़कर अपनी और हम सब लोगों की यह दुर्दशा कर डाली है। घोर आश्चर्य तथा दुःख की बात तो यह है कि अब भी आप उस अनिष्टकारी सत्य के ही पीछे पड़े हुए है। सत्य की ही रक्षा कर रहे हैं, हम लोगों की नहीं । 

(२) इस श्लोक में भीम की पूर्व दशा और वर्तमान दशा में वैषम्य का निरूपण सुन्दर ढ़ंग से किया गया है। शरीर में लाल चन्दन लगाने वाला तथा विशाल रथ में बैठकर चलने वाला भीम अब धूलि से व्याप्त होकर पैदल पर्वतों में भटक रहा है। वृकोदर (भेडिए के पेट के समान पेट वाला-भेडिए के समान बहुत भक्षण करने वाला) पद का प्रयोग करके द्रौपदी युधिष्ठिर को यह बतलाना चाहती है कि अब भीम को भर पेट (पेटभर) खाना भी नहीं मिल रहा है। इससे अधिक दुर्दशा और क्या हो सकती है

(३) 'लोहित' शब्द का अर्थ रुधिर (रक्त, खून) भी होता है और 'महारथ' का अर्थ 'दस हजार धनुर्धारियों के साथ अकेला युद्ध करने वाला' भी होता है । 'लोहितचन्दनोचितः और 'महारथः' पदों का प्रयोग करके द्रौपदी युधिष्ठिर का ध्यान इस ओर आकर्षित करना चाहती कि शत्रुओं का वध करके उनके रुधिर से जिसका शरीर रंजित होने योग्य है; जो अकेला ही दस हजार धनुर्धारियों के साथ युद्ध कर सकता है वह भीम आपके कारण (आपकी कृपा से, आपकी मूढ़ता ) से धूलि-धूसरित होकर पर्वतों में इधर-उधर भटक रहा है । आप हाथ पर हाथ रखे बैठे हैं, सत्य की रक्षा कर रहे हैं।

घण्टापथ-

परिभ्रमन्निति । लोहितचन्दनोचित उचितलोहितचन्दनः । 'वाहिताग्न्यादिषु' इति साधुः । अभ्यस्तरक्तचन्दन इत्यर्थः । 'अभ्यस्तेप्युचितं न्यान्यम्' इति यादवः । महारथो रथचारी। उभयत्रापि प्रागिति शेषः । अद्य तु रेणुरूषितो धूलिच्छुरितः । पादाभ्यामतति गच्छतीति पदातिः पादचारी 'अज्यतिभ्यां च' इत्यनुवृत्तौ 'पादे च' इत्यौणादिक इण्प्रत्ययः । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । अन्तर्गिरि गिरिष्वन्तः। विभक्त्यर्थेव्ययीभावः । 'गिरेश्च सेनकस्य' इति विकल्पात्समासान्ताभावः । परिभ्रमन्नयं वृकोदरो भीमः । सत्यधनस्येति सोल्लुण्ठवचनम् । अद्यापि त्वया सत्यमेव रक्ष्यते, न तु भ्रातर इति भावः । तवेति शेषः । मानसं नो दुनोति कच्चिन्न परितापयति किम्। 'कच्चित्कामप्रवेदने' इत्यमरः । स्वाभिप्रायाविष्करणं कामप्रवेदनम् ॥ 34 ॥

विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः।

स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ।। 35 ।।

पदच्छेदः -

विजित्य, यः, प्राज्यम्, अयच्छत्, उत्तरान्, कुरून्, अकुप्यम्, वसु, वासवोपमः, सः, वल्कवासांसि, तव,अधुना, आहरन्, करोति, मन्युम्, न, कथम्, धनञ्जयः ।

अन्वयः-

वासवोपमः यः उत्तरान् कुरून् विजित्य प्राज्यम् अकुप्यं वसु अयच्छत्, सः धनञ्जयः अधुना वल्कवासांसि आहरन् तव मन्युं कथं न करोति ।

संस्कृतव्याख्या – 

वासवोपमः = इन्द्रतुल्यः । इन्द्रपुत्रत्वात्पितृसदृशत्वमुचितमेवेति । उत्तरान् = सिद्धपुरान्तिकवर्तिनः, कुरून् = एतदाख्यदेशान्, विजित्य = स्वायत्तीकृत्य, प्राज्यम् = प्रचुरम्, बहुलमित्यर्थः । अकुप्यं = कुप्यभित्रम्, वसु = धनं, (भवते) अयच्छत् = दत्तवान्, सः उत्तरकुरुविजयी, धनञ्जयः = अर्जुनः, मध्यमपाण्डव इत्यर्थः । सन्, तव= युधिष्ठिरस्य, सर्वभ्रातृसुखदुःखानुभवशीलस्येत्यर्थः । मन्युम् = क्रोधम्, वा दुःखं, कथं = कस्मात्, न करोति = नोत्पादयति, स्वपालनीयानुजक्लेशमवलोक्य कस्मान्न शत्रौ दुःखदातरि क्रोध उत्पद्यते इति महदाश्चर्यम् ।

शब्दार्थः-

वासवोपमः = इन्द्र के समान । यः = जो (अर्जुन), जिस (अर्जुन) ने। उत्तरान् कुरून् = उत्तर कुरु देश (जनपद) को, मेरु पर्वत के उत्तर में स्थित कुरु नामक देश (जनपद) को। विजित्य जीतकर, करने अधिकार में करके । प्राज्यम् = विपुल, प्रचुर, प्रभूत । अकुप्यं = सुवर्ण रजतादि । वसु = धन को। अयच्छत् = दिया था, प्रदान किया था, प्रदान करता था। सः धनञ्जयः = बहु धन को जीतने वाला वह अर्जुन । अधुना =अब, इस समय । वल्कवासांसि = वल्कल रूप वस्त्रों को, वल्कल (वृक्षों की त्वचा -छाल) वस्त्रों को। आहरन् = (वृक्षों से) लाता हुआ, जुटाता हुआ । तव मन्युं - (शत्रु के प्रति ) तुम्हारे क्रोध को। कथं न करोति = क्यों उत्पन्न नहीं करता है।

हिन्दी नुवाद-

इन्द्र के तुल्य ( पराक्रमी)जो (अर्जुन) उत्तर कुरु देश को जीतकर प्रचुर सुवर्ण रजतादि धन (आप को) दिया करता था वही (धन को जीतने वाला) अर्जुन इस समय वल्लक वस्त्रों को जुटाता हुवा (वृक्षों से लाता हुआ) आप के शत्रु के प्रति ) कोप को क्यों नहीं उत्पन्न करता है।

संस्कृतभावार्थः-

अत्र अर्नजुस्य दयनीयामवस्थामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं कर्तुमिच्छति । इन्द्रतुल्यः यः अर्जुनः पुरा उत्तरान् कुरुप्रदेशान् विजित्य प्रचुरं सुवर्णरजतात्मकं धनं तुभ्यं दत्तवान् सः एव धनञ्जयः सम्प्रति वस्त्र निर्माणार्थ वृक्षेभ्यः वल्कलवस्त्राणि आनयति । अर्जुनस्य एषा दीनदया कस्मात् कारणात् तव चेतसि शत्रून् प्रति कोपं नोत्पादयति । अर्जुनस्य दीनदशामवलोक्य भवता कोपिना भवितव्यमित्यर्थः ।

मासः-

वासवः उपमा (उपमानम्) यस्य सः वासबोपमः (बहु०)। न कुप्यम् अकुप्यम् (नञ् समास)। धनंजयतीति धनञ्जयः (उपपद समास)। वल्कानि एव वासांसि इति वल्कवासांसि (कर्मधा)।

व्याकरणम् –

विजित्य-वि+जि+क्त्वा-ल्यप् । अयच्छत्-दा+लङ् लकार, अन्यपुरुष, एकवचन । आहरन्-आ+हृ+शतृ + प्रथमा, एकवचन ।

टिप्पणी –

इस श्लोक में अर्जुन की पूर्व दशा और वर्तमान दशा में वैषम्य का निरूपण सुन्दर ढंग से किया गया है। शत्रुओं को पराजित करके अर्जुन उनके धन को लाकर युधिष्ठिर को देता था। अब वही अर्जुन वृक्षों से वल्कलों (छालों) को लाकर युधिष्ठिर को देता है। इन्द्र के समान पराक्रमी अर्जुन की शक्ति का कितना दुरुपयोग हो रहा है। इससे अर्जुन को तथा अर्जुन से स्नेह करने वाले व्यक्तियों का कितना कष्ट हो रहा होगा।

घण्टापथ-

विजित्येति । वासवः इन्द्र उपमा उपमानं यस्य स वासयोपम इन्दतुल्यो यो धनञ्जयः, उत्तरान्कुरून्मेरोरुत्तरान्मानुषान्देशविशेषान्विजित्य प्राज्यं प्रभूतम् । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । कुप्यादन्यदकुप्यं हेमरूप्यात्मकम् । 'स्यात्कोशश्च हिरण्यं च हेमरूप्यं कृताकृते । ताभ्यां यदन्यत्तत्कृप्यम्' इत्यमरः । वसु धनमयच्छद् दत्तवान् । 'पाघ्राइत्यादिना दाणो यच्छादेशः । स धनं जयतीति धनञ्जयोर्जुनः । 'संज्ञायां भृतृवृजि इत्यादिना खच्प्रत्ययः । 'अरुर्द्विषद्' इत्यादिना मुमागमः । अधुनास्मिन्काले । अधुना इति निपातनात्साधुः । तव वल्कवासांस्याहरन्कथं तव मन्युंं क्रोधं दुःखं वा न करोति ॥ 35 ॥

वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ।

कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ।। 36 ।।

पदच्छेदः -

वनान्तशय्याकठिनीकृताकृती, कचाचितौ, विष्वक्, इव, अगजौ, गजौ, कथम्, त्वम्, एतौ, धृतिसंयमौ,

अन्वयः-

वनान्तशय्याकठिनीकृताकृती विष्वक् कचाचितौ अगजौ गजौ इव एतौ यमौ विलोकयन् त्वं धृतिसंयमौ बाधितुं कथं न उत्सहसे।

संस्कृतव्याख्या – 

वनान्तशय्याकठिनीकृताकृती = विपिनमध्याशयनकठोरशरभूमौ, विष्वक् = परितः, सर्वतः इत्यर्थः । कचाचितौ = केशव्याप्तौ, अगजौ = पर्वतीयौ, गजौ = हस्तिनौ, इव, एतौ = इमौ, पुरःस्थावित्यर्थः । यमौ = यमलौ; सहयायावित्यर्थः । विलोकयन् = पश्यन्, त्वं =  युधिष्ठिरः, कथम् = कस्मात् कारणात्, धृतिसंयमौ = धैर्यनियमौ; बाधितुम्=निरोद्धुम्, न उत्सहसेन = न प्रवर्त्तसे।

शब्दार्थः-

वनान्तशय्याकठिनीकृताकृती = वन-भूमि (वन-प्रदेश, वनान्त) रूपी शय्या (पर सोने से) कठिन (कठोर, रूक्ष) हो गए है शरीर (देह, आकृति) जिनके ऐसे। विष्वक् = सभी (चारों) ओर (तरफ) से । कचाचितौ = केशों (बालों) से भरे हुए, (अर्थात् जिनके केश बढ़कर शरीर के चारों पोर लटक रहे हैं)। अगजौ = पर्वत (अग) में  उत्पन्न हुए, पर्वतीय, पहाड़ी। गजौ इव = दो हाथियों की तरह । एतौ = इन दो। यमौ = यमलों, युगलों, जुड़वा, एक साथ उत्पन्न हुए (माद्री के पुत्र नकुल और सहदेव) को। विलोकयन् = देखते हुए। त्वं = तुम (युधिष्ठिर)। धृतिसंयमौ - धैर्य (धीरज, संतोष) और संयम ( निग्रह, नियम) को। बाधितुं  त्यागने (छोड़ने, परित्याग करने ) के लिए । कथं न = क्यों (किस कारण से) नहीं। उत्सहसे - प्रवृत्त (तैयार) होते हो।

हिन्दी नुवाद-

वन-भूमि (वन-प्रदेश) रूपी शय्या (पर सोने के कारण) कठोर हुए शरीर वाले, चारों ओर केशों (बालों) से व्याप्त (भरे हुए), (अतएव ) दो पहाड़ी हाथियों की तरह (दिखलाई पड़ते हुए) इन दो जुड़वां भाइयों ( नकुल धौर सहदेव) को देखकर ( देखते हुए ) आप अपने धैर्य और संयम को छोड़ने के लिए तैयार (प्रवृत्त ) क्यों नहीं होते?

संस्कृतभावार्थः-

नकुलसहदेवयोः दयनीयामवस्थामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं करोति । पुरा भवतः शासनकाले ययोः नकुलसहदेवयोः सुकोमलायां शय्यायां शयनं भवति स्म तौ अधुना वनभूमौ शयनं कुरुतः । वनभूमिरेव तयोः  कृते शय्या । अनेन तयोः शरीरे कठोरतरे संजाते। पुरा ययोः सुन्दरस्य केशकलापस्य यथाकालं संस्कारं भवति स्म तयोः केशाः अधुना संस्काराभावात् सर्वतः व्याप्ताः । अनेन इमौ नकुलसहदेवौ पर्वतीयौ गजौ इव प्रतीयेते । अनयोः ईदृशीं दुर्दशां दृष्ट्वापि भवान् कस्मात् कारणात् सन्तोषनियमौ न जहाति । भवान् कथं स्वस्थचित्तः प्रतीकाररहितश्च । अहो भवतः महत् धैर्यमिति भावः।

मासः-

वनस्य अन्तः वनान्तः (षष्ठीतत्पु०), वनान्तः एव शय्या वनान्तशय्या ( कर्मधा०), अकठिना कठिना कृता इति कठिनीकृता (गति समास), वनान्तशय्यया कठिनीकता वनान्तशय्याकठिनीकृता (तृतीया त०), वनान्तशय्याकठिनीकृता आकृतिः ययोः तौ वनान्तशय्याकठिनीकृताकृती (बहु.)। कचैः आचितौ कचाचितौ (तृ० तत्पु.)। न गच्छतीति अगः [ पक्षे नगः ], अगे जायेते इति अगजौ [ उपपद समास]। धृतिः च संयमश्च इति धृतिसंयमौ [द्वन्द्व]

व्याकरणम् –

कठिनीकृत-कठिन + च्वि+ कृ+क्त। विष्वक्-अव्यय । आचित-आ + चि+क्त। अगज-अग+जन्+ड। विलोकयन्-वि+ लोक-+-शतृ+प्रथमा एकवचन । बाधितुं-बाध्+तुमुन् । उत्सहसे-उत् + सह्+लट्, अन्यपुरूष, एकवचन ।

टिप्पणी –

(१) द्रौपदी के कथन का तात्पर्य यह है-नकुल और सहदेव की दुर्दशा को देखकर भी युधिष्ठिर शान्त और प्रतीकाररहित है-यह आश्चर्य और दुःख की बात है। धैर्य और संयम की भी कोई सीमा होती है। युधिष्ठिर के लिए यह नितान्त स्वाभाविक था कि भाइयों की इस दुर्दशा को देखकर वे अपने धैर्य और संयम को तिलाञ्जलि देकर शत्रु-विनाश के लिए तत्पर हो जाते । (२) अनुप्रास, यमक और उपमा की संसृष्टि।

घण्टापथ-

वनान्तेति । वनान्तो वनभूमिरेव शय्या तथा कठिनीकृताकृती कठिनीकृतदेहौ । 'आकारो देह आकृतिः' इति वैजयन्ती । विष्वक्समन्तात्। 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । कचाचितौ कचव्याप्तौ । विशीर्णकेशावित्यर्थः । अत एवागजौ गिरिसम्भवौ गजाविव स्थितावेतौ यमौ युग्मजातौ, माद्रीपुत्रावित्यर्थः । 'यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेपि च' इति विश्वः। विलोकयंस्त्वं कथं धृतिसंयमौ सन्तोषनियमौ । धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः । बाधितुं नोत्सहते न प्रवर्त्तसे । 'शकधृ इत्यादिना तुमुन् । अहो ते महद्धैर्यमिति भावः ॥ 36॥

इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः।

विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥37॥

पदच्छेदः –

इमाम्, अहम्, वेद, , तावकीम्, धियम्, विचित्ररूपाः, खलु, चित्तवृत्तयः, विचिन्तयन्त्याः, भवदापदम्, पराम्, रुजन्ति, चेतः, प्रसभम्, मम, आधयः ।

अन्वयः-

अहम् इमां तावकीं धियं न वेद । चित्तवृत्तयः विचित्ररूपाः खलु । परां भवदापदं विचिन्तयन्त्याः मम चेतः आधयः प्रसभं रुजन्ति ।

संस्कृतव्याख्या – 

अहम् = द्रौपदीं, इमाम् = ईदृशीम्, तावकीम् = त्वदीयाम्, धियम् = बुद्धिम्, न वेद=न जानामि, चित्तवृत्तयः = मनोव्यापाराः, विचित्ररूपाः = भिन्नभिन्नप्रकाराः, खलु = किल भवन्तीति शेषः । पराम् = अत्यधिकाम्, भवदापदम् = भवद्विपत्तिम्, भवतामधोदशां दुर्दशामित्यर्थः । विचिन्तयन्त्याः = विचारयन्त्या, मम= द्रौपद्या, आधयः = मनोव्यथाः, प्रसभं = बलात्कारेण, सहसेत्यर्थः । चेत् = चित्तम्, रुजन्ति = मञ्जन्ति इति भवतां दुर्दशामनुभवन्ती अहमपि दुःखेन परिभूये, भवांस्तु निर्विकार इव वर्तते इति सहृदयत्वं न सूचयति ।

शब्दार्थः-

अहम् = मैं (द्रौपदी)। इमां = इस । तावकीं = तुम्हारी, आप (युधिष्ठिर ) की। धियं = बुद्धि (मति, चित्तवृत्ति) को । वेद = नहीं जानती हूं (नहीं जान पा रही हूँ), नहीं समझ पाती (नहीं समाप्त पा रही )। चित्तवृत्तयः = चित्तवृत्तियाँ (मनोवृत्तियाँ), अन्तःकरण (मन, चित्त) की प्रवृत्तियाँ (वृत्तियाँ, व्यापार)। विचित्ररूपाः = अनेक रूप वाली, विभिन्न ( भिन्न-भिन्न, विविध प्रकार की। खलु = निश्चय ही। पराम् - बड़ी, प्रबल, महती। भवदापदं = आपकी विपत्ति (आपत्ति) को। विचिन्तयन्त्याः = सोचती हुई, विचार करती हुई। मम = मेरे, मुझ (दौपदी) के। चेतः = चित्त ( मन, हृदय) को। आधयः = मनोव्यथायें, मानसिक व्यथायें । प्रसभंं बलपूर्वक, अत्यधिक रूप में । रुजन्ति = पीड़ित ( व्यथित, व्याकुल, नष्ट) कर रही है।

हिन्दी नुवाद-

मैं (द्रौपदी) आपकी इस प्रकार की बुद्धि को समझ नहीं पा रही हूँ। निश्चय ही ( लोगों की) चित्तवृत्तियाँ (मनोवृत्तियाँ) विभिन्न प्रकार की होती है। (किन्तु ) आपकी महती विपत्ति का चिन्तन करती हुई मेरे मन को मानसिक व्यवस्थायें अत्यधिक व्यथित कर रही है।

संस्कृतभावार्थः-

राज्ञः युधिष्ठिरस्य दुर्दशां दर्शयितुं द्रौपदी उपोद्घातरूपेण कथयति-स्व अनुजानां दुर्दशां पश्यन्नपि स्वयं अत्यधिकं दुःखम् अनुभयन्नपि च भवान् स्वस्थचित्तः प्रतीकाररहितश्च । कस्मात् कारणात् एतत् सर्वं भवता क्रियते-एतादृशीं भवतः बुद्धिमहं न जानामि । महदाश्चर्यं विद्यते यत् मम द्रौपद्याः कृतेऽपि भवतः बुद्धिः अगम्या जाता। अस्मिन् संसारे जनानां मनोवृत्तयः विविधप्रकाराः भवन्ति । किन्तु भवतः महतीं विपत्तिं दृष्ट्वा मम चित्तं मनोव्यथा: बलपूर्वकं विदारयन्ति । पश्यतामपि दुःसहा दुःख जननी भवद्विपत्तिरनुभवितारं भवन्तं न विकरोति इति महच्चित्रमित्यर्थः।

मासः-

चित्तस्य वृत्तयः चित्तवृत्तयः (पष्ठी तत्पु.)। विचित्रं रूपं यासां ताः विचित्ररूपाः (बहु०)। भवतः आपद् इति भवदापद् तां भवदापदम् । (प० तत्पु०)।

व्याकरणम् –

तावकीं-युष्मद् +अण् + डीप् । विचिन्तयन्त्याः -वि+ चिन्त्+णिच् +शतृ+ङीप् ; षष्ठी एकवचन । रुजन्ति-रुज्+लट्, अन्यपुरुष, एकवचन।

टिप्पणी –

द्रौपदी यह कहना चाहती है-आप स्वयं असह्य कष्ट सह रहे हैं। आपके अनुज अत्यन्त दीन-हीन अवस्था में अपने दिनों को काट रहे है और तब भी आप अपने राज्य को प्राप्त करने के लिए प्रयत्न नहीं कर रहे हैं । आपकी बुद्धि को क्या हो गया है-यह मैं नहीं समझ पा रही हूँ। हाँ, एक बात तो मैं जानती हूं कि आपकी यह दुर्दशा देखकर मेरा हृदय विदीर्ण हो रहा है-फट रहा है।

घण्टापथ-

इमामिति । इमां वर्त्तमानाम् । तवेमां तावकीं त्वदीयाम् । 'तस्येदम्' इत्यण्प्रत्ययः । 'तवकममकावेकवचने' इति तवकादेशः। धियं त्वदापद्विषयां चित्तवृत्तिमहं न वेद कीदृशी वा न वेद्मि । परबुद्धेरप्रत्यक्षत्वादिति भावः । 'विदो लटो वा' इति लटो णलादेशः । न चात्मदृष्टान्तेनापन्नत्वाद् दुःखित्वमनुमातुं शक्यते । धीरादिष्वनेकान्तिकत्वादित्याशयेनाह─ चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकाराः खलु । किन्तु परामुत्कृष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतश्चित्तम् । आधयो मनोव्यथाः । 'उपसर्गे घोः किः' इति किप्रत्ययः । प्रसभं प्रसह्य रुजन्ति भञ्जन्ति । 'रुजो भङ्गे' इति धातोर्लट् । पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिरनुभवितारं त्वां न विकरोतीति महच्चित्रमित्यर्थः । चेत इति । 'रुजार्थानां भाववचनानामज्वरेः' । इति षष्ठी न भवति। तत्र शेषाधिकाराच्छेषत्वस्य विवक्षित्वादिति ॥ 37 ॥

पुराधिरुढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।

अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥३८॥

पदच्छेदः

पुरा, अधिरूढः, शयनम्, महाधनम्, विबोध्यसे, यः, स्तुतिगीतिमङ्गलैः, अदभ्रदर्भाम्, अधिशय्य, सः, स्थलीम्, जहासि, निद्राम्, अशिवैः, शिवारुतैः ।

अन्वयः-

पुरा महाधनं शयनम् अधिरूढः यः स्तुतिगीतिमङ्गलैः विबोध्यसे सः अदभ्रदर्भां स्थलीम् अधिशय्य अशिवैः शिवारुतैः निद्रां जहासि।

संस्कृतव्याख्या – 

पुरा = पूर्वसमये, राज्यारोहणावसरे वा । यः = महाराजो भवन्, त्वम्युधिष्ठिरः, महाधनम् = बहुमूल्यम्, शयनम् =पर्यङ्कम्, अधिरूढः= आरूढ़:, शयितः सन्नित्यर्थः । स्तुतिगीतिमंगलै: = स्तोत्रगानादिमगलै:, शब्दैर्वाद्यैरिति शेषः । विबोध्यसे=विनिद्रो भाव्यसे; वैतालिकैरिति शेषः । स एवाधुना, त्वं = वनचरो भूत्वा, अदभ्रदर्भाम् = बहुकुशाम्, कुशकण्टकव्यापृतामित्यर्थः । स्थलीम् = प्राकृतभूमिम्, अपरिष्कृतामित्यर्थः, अधिशय्य = शयित्वा, निद्रीतो भूत्वा इत्यर्थः । अशिवः=अमंगलैः, शिवास्तैः = शृगालीरवै:, शिवाया आर्त्तनादैरित्यर्थः । निद्राम् = शयनम्, जहासि ।

शब्दार्थः-

पुरा = पहले, पूर्वकाल में, अपने शासन-काल में। महाधनं = बहुमूल्य । शयनम् = शय्या (पर्यङ्क) पर । अधिरूढः = आरूढ हुए, शयन करते हुए, सोये हुए। यः = गो (आप युधिष्ठिर)। स्तुतिगीतिमङ्गलै: - स्तुति (प्रशंसापरक वर्णन) तथा गीति (गायन) रूप माङ्गलिक शब्दों (मङ्गल-ध्वनियों) से अथवा स्तोत्रगान (स्तुतिगान ) रूप माङ्गलिक शब्दों से। विबोध्यसे = जगाये जाते थे। सः = यही (आप)। अभ्रदर्भां = बहुत (प्रचुर, अदभ्र ) कुशों ( दर्भ ) वाली, बहुत कुशों से परिव्याप्त ( भरी हुई)। स्थलीम् = अपरिष्कृत भूमि पर । अधिशय्य = सोकर, शयन करके। अशिवैः = अशुभ, अमङ्गलसूचक, अकल्याणकर, अभद्र । शिवारुतैः = शृंगालियों (सियारिनियों) के शब्दों (बोलियों) के द्वारा । निद्रां  =  नींद को  जहासि = त्यागते (तोड़ते ) हो। 

हिन्दी नुवाद-

पहले (अपने शासन-काल में) बहुमूल्य शय्या पर सोये हुए जो आप युधिष्ठिर) स्तुतिपरक गान रूपी माङ्गलिक शब्दों से जगाये जाते थे, वही (आप) अब प्रचुर कुशों से परिव्याप्त (भरी हुई) अपरिष्कृत भूमि पर शयन करके शृगालियों के अशुभ (अमङ्गलसूचक ) शब्दों (बोलियों) के द्वारा नींद छोड़ते हैं (जागते हैं)।

संस्कृतभावार्थः-

अस्मिन् लोके युधिष्ठिरस्य दुर्दशामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं कर्तुमिच्छति । हे राजन् । पूर्वस्मिन् काले यदा भवान् राज्यसिंहासनारुढः आसीत् तदा निशायां बहुमूल्यशय्यायां शयान! भवान् प्रातः स्तुतिगायनरूपैः मङ्गलशब्दैः निद्रां परित्यजति स्म। किन्तु अधुना कुशबहुलायां अपरिष्कृतायां वनभूमौ सुप्तः भवान् प्रातः अशुभैः शृगालीशब्दैः निद्रां परित्यजति । एतादृशीं विपत्तिमनुभवन्नपि भवान् प्रतीकाररहितः इति महदाश्चर्यम् । वयं तु भवतः क्लेशेन अत्यन्तं व्यथिताः भवामः ।

मासः-

महत् धनं (मूल्यं) यस्य तत् महाधनम् (बहु०)। स्तुतयश्च गीतयश्च इति स्तुतिगीतयः (इन्द) (अथवा-स्तुतीनां गीतयः इति स्तुतिगीतयः-(षष्ठी तत्पु०), स्तुतिगीतयः एव मङ्गलानि इति स्तुतिगीतिमङ्गलानि तैः स्तुतिगीतिमङ्गलैः ( कर्मधा.)। अदभ्राः दर्भाः यस्याः सा अदभ्रदर्भा ताम् अदभ्रदर्भाम् ( बहु.)। न शिवानि अशिवानि तैः अशिवैः (नञ् समास)। शिवानां रुतानि शिवारुतानि तैः शिवारुतैः (षष्ठी तत्पु०)।

व्याकरणम् –

अधिरूढः-अधि+रूह+क्त। शयनम्-(आसनम्, आस्तरणम् ) शी+ल्युट् । विबोध्यसे-वि+बुध+णिच् + लट्, मध्यमपुरुष, एकवचन, भूत अर्थ में लट् । अधिशय्य-अधि+शी+क्त्वा-ल्यप्, 'अधिशीङ्स्थासां कर्म' सूत्र से अधि उपसर्ग के योग में 'शी' धातु के अधिकरण 'स्थली' को कर्म संज्ञा हुई और द्वितीया विभक्ति का प्रयोग हुआ। जहाति-हा + लट्, मध्यमपुरुष, एकवचन ।

टिप्पणी –

वृत्त्यनुप्रास, क्षेकानुप्रास, विषम  अलंकार ।

घण्टापथ-

पुरेति । यस्त्वं महाधनं बहुमूल्यं श्रेष्ठम् । 'महाधनं महामूल्ये इति विश्वः । शयनं शय्यामधिरूढः सन् स्तुतयो गीतयश्च ता एव मङ्गलानि तैः करणभूतैः पुरा विबोध्यसे वैतालिकैरिति शेषः । पूर्वं बोधित इत्यर्थः । 'पुरि लङ् चास्मे' इति भूतार्थे लट् । स त्वमदभ्रदर्भांं बहुकुशाम् 'अस्त्री कुशं कुशो दर्भः इति । 'अद्रभ्रं' बहुलं बहु' इति चामरः । स्थलीमकृत्रिमभूमिम् । 'जानपदइत्यादिना कृत्रिमार्थे ङीष् । एतेन दुःसहस्पर्शत्वमुक्तम् । 'अधिशीङ्स्थासां कर्म' इति कर्मत्वम् । अधिशय्य शयित्वा । 'अयङ् यि क्ङिति' इत्ययङादेशः । अशिवैरमङ्गलैः शिवारुतैः क्रोष्टुयासितैः । 'शिवा हरीतकी क्रोष्ट्री शमी नद्यामलक्युभे' इति वैजयन्ती । निद्रां जहासि । अद्येति शेषः ॥ 38 ॥

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा।

तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥३९||

पदच्छेदः

पुरा, उपनीतम्, नृप, रामणीयकम्, द्विजातिशेषेण, यद्, एतद्, अन्धसा, तद्, अद्य, ते, वन्यफलाशिनः, परम्, परैति, कार्श्यम्, यशसा, समम्, वपुः ।

अन्वयः-

नृप ! यत् एतत् (ते वपुः) पुरा द्विजातिशेषेण अन्धसा रामणीयकम् उपनीतम् अद्य वन्यफलाशिनः ते तद् वपुः यशसा समं परं कार्श्यम् परैति ।

संस्कृतव्याख्या – 

हे नृप = राजन् ! पुरा = सिंहासनारूढदशाया । यत्, एतत् = पुरोवर्त्तमानम्, वपुरिति शेषः । द्विजातिशेषेण = ब्राह्मणभोजनावशेषेण, अन्धसा = अन्नेन, रामायणीयकम् = दर्शनीयसाम्, उपनीतम् = प्रापितम्, तत्, अद्य = वनवाससमये, वन्यगलाशिनः= विपिनजातशलमूलभोजिनः, ते = तव; भवतो युधिष्ठिरस्येत्यर्थः । वपुः = शरीरम्, यशसा = कीर्त्या, समम् = सह; परम् = अत्यधिकम्, कार्श्यम्= धिन्नत्वम्; परैति = प्राप्नोति ।

शब्दार्थः-

नृप = हे राजन् (युधिष्ठिर)। यत् एतत् = जो यह (आपका शरीर)। पुरा = पहले, पूर्व काल में, अपने शासनकाल में । द्विजातिशेषेण = ब्राह्मणों के द्वारा भोजन करने के पश्चात् शेष बचे हुए, ब्राह्मण-भोजन के बाद अवशिष्ट । अन्धसा = अन्न से। रामणीयकम् = रमणीयता (मनोहरता, सन्दरता) को । उपनीतम् = प्राप्त हुआ था । अद्य = आज । वन्यफलाशिनः वन में उत्पन्न होने वाले फलों को खाने वाले । ते = आपका । तद् वपुः = वह शरीर। यशसा समं = यश के साथ । परं कार्श्यम् =अत्यधिक दुर्बलता को । परैति = प्राप्त हो रहा है।

हिन्दी नुवाद-

हे महाराज! (आपका) जो यह (शरीर) पहले ब्राह्मणों के द्वारा भोजन करने के पश्चात् शेष बचे हुए अन्न से रमणीयता को प्राप्त हुआ था (अत्यन्त रमणीय प्रतीत होता था), वन में उत्पन्न होने वाले फलों खाने वाले आपका वही शरीर आज कीति के साथ-साथ अत्यधिक कृशता को प्राप्त हो रहा है। अर्थात् अत्यधिक दुर्बल हो रहा है।

संस्कृतभावार्थः-

युधिष्ठिरस्य शरीरस्य दुर्दशामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं कर्तुमिच्छति । हे राजन् ! पूर्वस्मिन् काले यदा भवान् राज्यसिंहासनारुढः आसीत् तदा ब्राह्मणभुक्तावशिष्टान्नभक्षणेन तव शरीरं रमणीयमासीत्। अधुना वन्यानि फलान्यश्नतः भवतः तदेव शरीरं क्षीणातां प्राप्नोति । पुरा दानादिना भवतः यशः यथा प्रवृद्धमासीत् तथैव भवतः शरीरमपि पवित्रान्नभक्षणेन रमणीयमासीत् । इदानीं तु राज्यनाशात् दानाभावे कीर्तिनाशः भवति, पवित्रभोजनाभावे च शरीरं कृशं भवति ।

मासः-

द्वे जाते (जन्मनी) येषां ते द्विजातयः (बहु०). द्विजातीनां शेषं (शेषः वा) इति द्विजातिशेषम् तेन द्विजातिशेषेण (प० तत्पु०) वने भवं वन्यम् । वन्यानि फलानि इति वन्यफलानिः (कर्मधा०), वन्यानि फलानि अश्नाति इति वन्यफलाशिन् (वन्यफलाशी) तस्य वन्यफलाशिनः (उपपद समास)।

व्याकरणम् –

रमणीयस्य भावः रामणीयकम् ; रमणीय + वुञ् (अक्)। कृषस्य भावः कार्ष्ययम् ; कृश + ष्यञ् । परैति-परा+इ+लट्, अन्यपुरुष, एकवचन ।

टिप्पणी –

(१) दुर्योधन ने कपट का आश्रय लेकर युधिष्ठिर के राज्य को अपने अधीन कर लिया। आज युधिष्ठिर वन में इधर-उधर भटक रहा है । इधर-उधर भटकते रहने से तथा यथेष्ट भोजन के अभाव में युधिष्ठिर का शरीर अत्यन्त दुर्बल हो गया है। दानादि के अभाव में युधिष्ठिर का यश भी पर्याप्त क्षीण हो गया है। जब युधिष्ठिर राजा थे तब अनेक ब्राह्मण उनके यहाँ भोजन करते थे। इससे उन्हें यश मिलता था। आज तो उनके लिए अपना पेट भरना भी कठिन है। अतः दानादि के अभाव में उन्हें अब यश नहीं मिलता। द्रौपदी युधिष्ठिर को बतलाना चाहती है कि उनका शरीर भी क्षीण हो गया है और यश भी। शरीर और यश का क्षीण होना अत्यन्त अहितकर है । शरीर और यश की रक्षा के लिए शत्रु से राज्य पुनः प्राप्त करना अत्यन्त आवश्यक है। (२) दो वस्तुओं का एक साथ कथन होने से यहाँ होक्ति अलंकार है।

घण्टापथ-

पुरेति । हे नृप ! यदेतत्पुरोवर्त्ति वपुः पुरा द्विजातिशेषेण द्विजभुक्तावशिष्टेनान्धसान्नेन । 'भिस्सा स्त्री भक्तमन्धोन्नम' इत्यमरः । रमणीयस्य भावो रामणीयकं मनोहरत्वमुपनीतं प्रापितम् । नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् इति वचनात् । अद्य वन्यफलाशिनस्ते तव तद्वपुर्यशसा समं परमतिमात्रं कार्श्यं परैति प्राप्नोति । उभयमपि क्षीयत इत्यर्थः । अत्र सहोक्तिरलंकारः । तदुक्तं काव्यप्रकाशे'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् इति ॥ 39 ॥

अनारतं यौ मणिपीठशायिनावरजयद्राजशिरःस्रजो रजः।

निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ।।40।।

पदच्छेदः

अनारतम्, यौ, मणिपीठशायिनौ, अरञ्जयद्, राजशिरःस्रजाम्, रजः, निषीदतः, तौ, चरणौ, वनेषु, ते, मृगद्विजालूनशिखेषु, बर्हिषाम् ।

अन्वयः-

अनारतं मणिपीठशायिनौ यौ (ते चरणौ) (पुरा) राजशिरःस्रजां रजः अरञ्जयत् तौ ते चरणौ मृगद्विजालूनशिखेषु बर्हिषां वनेषु निषोदतः।

संस्कृतव्याख्या – 

राजशिरः स्रजां = प्रणमन्महीपमौलिमाल्यानाम्, रजः = परागः (कर्त्ता) अनारतम् = सततम्, मणिपीठशायिनी = रत्नमयपादपीठस्थायिनौ, यो = (चरणौ) अरञ्जयत् = रञ्जितवत्, तौ = पूर्वशोभितौ, ते = तव चरणौ = पादौ, मृगद्विजालूनशिखेषु = हरिणविप्रलुञ्चिताग्रेषु, बर्हिषाम् = कुशानाम्, वनेषु = विपिनेषु, निषीदतः = तिष्ठतः ।

शब्दार्थः-

अनारतं = निरन्तर । मणिपीठशायिनौ = मणिमय (रत्नजटित), पादपीठ पर अवस्थित (स्थित, विद्यमान) रहने वाले । यौ (ते चरणौ) (आप के) जिन चरणों को। राजशिरः स्रजां = राजाओं के शिर पर स्थित पुष्प-मालाओं का । रजः = पराग । अरञ्जयत् = रंग देता था (अलंकृत करता था)। तौ ते चरणौ = वही तुम्हारे (आप के) चरण । मृगद्विजालूनशिखेषु = हरिणों (मृगों ) और ब्राह्मणों ( ऋषियों, तपस्विजनों) के द्वारा तोड़ लिए गए हैं अग्रभाग (शिखायें ) जिनकी, हरिणों और ब्राह्मणों के द्वारा तोडे गये अग्रभाग वाले । बर्हिषां कुशाओं (कुशों) के। वनेषु =वनों  में, (कुश-काननों में, कुश-समूहों में)। निषीदतः = पड़ते हैं, स्थित रहते है, भटकते रहते है।

हिन्दी नुवाद-

निरन्तर मणिमय (रत्नजटित)पाद-पीठ पर विद्यमान रहने वाले (आप के) जिन (चरणों) को (प्रणाम करने के लिए आने वाले राजाओं के सिर पर स्थित पुष्प-मालाओं का पराग रंग देता था, आप के चरण (अब ) उन कुश-काननों (कुश-वनों, कुशसमूहों) में रखे जाते है ( भटकते रहते है) जिनके अग्रभाग हरिणों (मृगों) और ब्राह्मणों (ऋषियों) के द्वारा तोड़ लिए गए है।

संस्कृतभावार्थः-

अस्मिन् श्लोके युधिष्ठिरस्य दुर्दशामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं कर्तुमिच्छति । हे राजन् । पूर्वस्मिन् काले यदा भवान् राज्यसिंहासनासीनः आसीत् तदा भवतः चरणौ निरन्तरं रत्ननिर्मितपादपीठे विराजमानौ आस्ताम् । प्रणमतां सामन्तनृपाणां मुकुटस्थितपुष्पमालानां परागः भवच्चरणौ अरञ्जयत् । अधुना वनवासकाले तु इतस्ततः संचरतः भवतः तौ एव चरणी हरिणतपस्विजनच्छिन्नाग्रभागेषु कुशानां काननेषु तिष्ठतः । छिन्नाग्रत्वात् कुशानां स्पर्शं दुःसहः वर्तते । तत्र चरणन्यासेन महान् क्लेशः जायते । इयं भवतः दुर्दशा जातेत्यर्थः।

मासः-

न आरतम् अनारतम् (नज समास)। मणीनां पीठम् इति मणिपीठम् (पष्ठी उत्सु०) (अथवा मणिमयं पीठम् इति मणिपीठम्- मध्यमपदलोपी कर्मधा०), मणिपीठे शयाते इति मणिपीठशायिनी ( उपपद समास)। राज्ञां शिरांसि इति राजशिरांसि (षष्ठी तत्पु०), राजशिरसां स्रजः इति राजशिरःस्रजः तासां राजशिरःस्रजाम् ( षष्ठी तत्पु.)। मृगाश्च द्विजाश्च इति मृगद्विजाः (द्वन्द), मृगद्विजैः आलूनाः इति मृगद्विजालूना: (तु तत्पु.), मृगद्विजालूनाः शिखाः येषां तेषु मृगद्विजालूनशिखेषु (बहु०)।

व्याकरणम् –

अरब्जयत्-रञ्ज + णिच्+ लङ् , अन्यपुरुष, एकवचन । निषीदतः-नि+सद्+लट् , अन्यपुरुष, द्विवचन ।

टिप्पणी –

(१)जब युधिष्ठिर राजा थे तब उनके यहाँ सामन्त राजाओं की भीड़ लगी रहती थी। प्रतिदिन प्रणाम के लिए आने वाले राजा उनके चरणों में झुके रहते थे। राजाओं के शिरों की पुष्प-मालाओं के पराग से युधिष्ठिर के चरण रंग जाते थे। वे ही चरण आज उन कुश-समूहों में रखे जाते है जिनके अग्रभाग हरिणों के द्वारा खा लिए गए हैं और तपस्विजनों के द्वारा यागादि के लिए काट लिए गए हैं। ऐसे कुश-समूहों पर पड़ने से युधिष्ठिर के परण क्षत-विक्षत हो गये है। युधिष्ठिर की यह दुर्दशा द्रौपदी के हृदय को विदीर्ण कर रही है।

(२) वृत्त्यनुप्रास।

घण्टापथ-

अनारतमिति । अनारतमजस्त्रम् मणिपीठशायिनौ मणिमयपादपीठशायिनौ यौ चरणौ राजशिरःस्रजां नमद्भूपालमौलिस्रजां रजः परागोरञ्जयत्, तौ ते चरणौ मृगैर्द्विजैश्च तपस्विभिरालूनशिखेषु छिन्नाग्रेषु बर्हिषां कुशानाम् । 'बर्हिः कुशहुताशयोः' इति विश्वः । वनेषु निषोदतस्तिष्ठतः ॥ 40 ॥

द्विषन्निमित्ता यदियं दशा ततः समलमुन्मूलयतीव मे मनः।

परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥41॥

पदच्छेदः – 

द्विषन्निमित्ता, यद्, इयम्, दशा, ततः, समूलम्, उन्मूलयति, इव, मे, मनः, परैः अपर्यासितवीर्यसम्पदाम्,  पराभवः, अपि, उत्सवः, एव, मानिनाम् ।

अन्वयः-

यत् इयं दशा द्विषन्निमित्ता ततः मे मनः समूलम् उन्मूलयति इव। परैः अपर्यासितवीर्यसम्पदां मानिनां पराभवः अपि उत्सवः एव (भवति)।

संस्कृतव्याख्या – 

यत् = यस्मात्कारणात्, इयम् = वर्त्तमाना, वनवासरूपेति शेषः = दशा = अवस्था, द्विषन्निमित्ता= शत्रुहैतुकी, तव युधिष्ठिरस्य वर्त्तते, ततः = तस्मात्, समूलं साश्रयम्, मे = मम, द्रौपद्या इति शेषः। मनः = चित्तम्, उन्मूलयति = उत्पाटयति, इव । परैः = शत्रुभिः, अपर्यासितवीर्यसम्पदाम् = अपर्यावर्तितपौरुषसम्पत्तीनाम्, अनवरुद्धविक्रमाणामित्यर्थः । मानिनाम् = मनस्विनाम्, पराभवः = पराजयः । अपि, उत्सवः = उद्धवः, हर्षोदयः एव भवति ।

शब्दार्थः-

यत् = यतः, क्योंकि । इयं दशा = यह दशा (दुर्दशा) द्विषन्निमित्ता = शत्रु ( कौरव ) हैं निमित्त ( कारण ) जिसके ऐसी, शत्रुओं के कारण उत्पन्न हुई, शत्रुकृत, शत्रुजन्य है । ततः = अतः, इसलिए। मे मनः मेरे मन को । समूलम् = जड़ सहित, जड़ से, पूर्ण रूप से । उन्मूलयति इव उखाड़ सी रही है, उखाड जैसे रही है, मानो उखाड़ रही है। परैः = शत्रुओं के द्वारा । अपर्यासितवीर्यसम्पदां = नष्ट ( समाप्त ) नहीं की गई है पराक्रम रूपी सम्पत्ति (अथवा पराक्रम और सम्पत्ति) जिनकी ऐसे । मानिनां = मनस्विजनों का, स्वाभिमानी पुरुषों का । पराभवः अपि = पराजय, तिरस्कार, विपत्ति भी। उत्सवः एव उत्सव (सुखप्रद, हर्ष का हेतु) ही है।

हिन्दी नुवाद-

यतः (क्योंकि ) ( आप और हम सब लोगों की) यह दशा ( दुर्दशा ) शत्रुओं ( कौरवों ) के कारण है, अतः ( यह दुर्दशा ) मेरे मन को जडसहित (समूल, पूर्ण रूप से) उखाड़ सी रही है (अर्थात् मुझे अत्यधिक व्यथित कर रही है)। जिन मनस्विजनों (स्वाभिमानी पुरुषों) की पराक्रम रूपी सम्पत्ति (पराक्रम और सम्पत्ति) शत्रुओं द्वारा नष्ट नहीं होती। उनके लिए पराजय (विपत्ति ) भी उत्सव (हर्ष का हेतु ) ही है।

संस्कृतभावार्थः-

मनस्विजनानां कृते मानहानिः दुःसहा भवति इति उक्त्वा द्रौपदी युधिष्ठिंर प्रतीकाराय प्रेरयति । हे राजन् ! यतो हि भवतः अस्माकं च इयं दुर्दशा शत्रुकृताऽस्ति अत एव मम मनसि महान् विषादः वर्तते । शत्रुकृता ईदृशी दुर्दशा मनस्विनां कृते अपमानजनिका भवति । शत्रुभिः अनिष्टवलसम्पदां मनस्विनां कृते पराजयोऽपि हर्षहेतुः भवति। भाग्यशादागता विपत् सोढुं शक्यते किन्तु मानहानिस्तु दु:सहा भवति । अत एव भवता प्रतीकारः विधेयः इत्यर्थः।

मासः-

द्विषन्तः निमित्तं यस्याः सा द्विषनिमित्ता (बहु०)। न पर्यासिता अपर्यासिता (नञ् समास), वीर्यञ्च सम्पच्च इति वीर्यसम्पदी (द्वन्द्व), अपर्यासिते वीर्यसम्पदौ येषां ते अपर्यासितवीर्यसम्पदः तेषाम् अपार्यासितवीर्यसम्पदाम् (बहु०); अथवा वीर्यमेव सम्पत् इति वीर्यसम्पत् (कर्मधा०) अपर्यासिता वीर्यसम्पद् येषां ते अपर्यासितवीर्यसम्पद् (बहु.) तेषाम् अपर्यासितवीर्यसम्पदाम्

व्याकरणम् –

उन्मूलयति-उन्+मूल् + णिच्+लट्, अन्यपुरुष, एकवचन ।

टिप्पणी –

(१) जैसे आंधी वृक्ष को जड़ से उखाड़ देती है और वह वृक्ष फल नहीं उत्पन्न कर सकता, उसी प्रकार वर्तमान दुर्दशा ने द्रौपदी के मन को अत्यधिक व्यथित कर दिया है और वह किर्तव्यविमूढ हो गई है। उसका धैर्य समाप्तप्राय है। (२) उत्प्रेक्षा, अर्थान्तरन्यास, वृत्त्यनुप्रास-इन अलंकारों की संसृष्टि।

घण्टापथ-

द्विषदिति । यद्यतः कारणादियं दशावस्था । 'दशा वर्त्ताववस्थायाम्' इति विश्वः । द्विषन्तो निमित्तं यस्याः सा । 'द्विषोमित्रे' इति शतृप्रत्ययः । अतो मे मनः समूलं साशयमुन्मूलयतीवोत्पाटयतीव । दैविकी त्वापन्न दुःखायेत्याह─ परैरिति । परः शत्रुभिरपर्यासितापर्यावर्त्तिता वीर्यसंपद्येषां तेषां मानिना मानहानिर्दुःसहा, न त्वापदिति भावः ।।41।।

विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् ।

व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ।।42।।

पदच्छेदः  

विहाय, शान्तिम्, नृप, धाम, तद्, पुनः, प्रसीद, संधेहि, वधाय, विद्विषाम्, व्रजन्ति, शत्रून्, अवधूय, निःस्पृहाः, शमेन, सिद्धिम्, मुनयः, न, भूभृतः ।

अन्वयः-

(हे) नृप ! शान्तिं विहाय विद्विषां वधाय तत् धाम पुनः सन्धेहि प्रसीद । निःस्पृहाः मुनयः शत्रून् अवधूय शमेन सिद्धिं  व्रजन्ति भूभृतः न ।

संस्कृतव्याख्या – 

हे नृप = हे युधिष्ठिर ! शान्तिम् = सकलापमानदुःखसहनशीलरूपामित्यर्थः, विहाय = त्यक्त्वा, विद्विषाम् = वैरिणाम्, दुर्योधनादीनामित्यर्थः । वधाय= नाशाय, पुनः = भूयः, तत् = स्वकीयं पौर्विकमित्यर्थ: : । धाम = तेजः, सन्धेहि = अङ्गीकुरु, प्रसीद । यतो न हि शान्त्या शत्रून् विजित्य सिद्धिं लभते, कश्चिदित्याव निःस्पृहाः = अकामा इति यावत् । मुनयः = संयमिनः, शत्रुन् = कामादीन्, अवधूय= तिरस्कृत्य, दूरीकृत्य, शमेन = शान्त्या, सिद्धिं व्रजन्तीति भूभृतः राजा, न ।

शब्दार्थः-

(हे) नृप = हे राजन् । शान्तिं = शान्ति को। विहाय = छोड़कर, त्याग कर । विद्विषां = शत्रुओं के । वधाय = वध ( संहारविनाश) के लिए । तत् = उस (प्रसिद्ध )। धाम =(क्षात्र, क्षत्रियोचित ) तेज को ।  पुनः = फिर से । सन्धेहि = धारण कीजिए। प्रसीद = प्रसन्न होइये । निःस्पृहाः = निष्काम, कामना (इच्छा) से रहित, जिन्हें किसी प्रकार की इच्छा नहीं वे। मुनयः = मुनि लोग, तपस्वी लोग । शत्रून् = ( काम, क्रोध इत्यादि छः प्रकार के अन्तः) शत्रुओं को । अवधूय = तिरस्कृत (जीत) करके । शमेन = शान्ति के द्वारा । सिद्धिं = सिद्धि को, सफलता को। व्रजन्ति = प्राप्त करते हैं । भूभृतः न = राजा लोग नहीं।

हिन्दी नुवाद-

हे राजन् ! शान्ति को छोड़ कर शत्रुओं के विनाश के लिए उस (प्रसिद्ध क्षात्र) तेज को पुनः धारण कीजिए। प्रसन्न होइये । मुनि लोग ही (काम, क्रोध इत्यादि छः प्रकार के (अन्तः) शत्रुओं को जीतकर शान्ति के द्वारा (मोक्षरूपी) सिद्धि को प्राप्त करते हैं, राजा लोग ( राज्यप्राप्ति रूपी सिद्धि को शान्ति के द्वारा प्राप्त ) नहीं (करते )।

संस्कृतभावार्थः-

कर्तव्योपदेशं कुर्वती द्रौपदी युधिष्ठिरं शत्रूणां वधाय प्रेरयति । हे राजन् ! शान्तिं परित्यज । शत्रूणां वधाय तत् क्षत्रियजनोचितं तेजः पुनः धारय । प्रसन्नः भव । दीनतां परित्यज्य उत्साहसम्पन्नः भव । शमेन कार्यसिद्धौ किं क्रोधेन-ईदृशः विचारः तव मनसि न भवतु । आकाङ्क्षा विहीनः एव कामक्रोधादिषड्रिपून् विजित्य शमेन मोक्षरूपां सिद्धिं प्राप्नुवन्ति। राज्यप्राप्तिरूपा सिद्धिस्तु कथमपि शमेन न भवति । राज्ञां सिद्धिस्तु बलायत्तैव वर्तते । कैवल्यकार्यवत् राजकार्यं न शान्तिसाध्यमित्यर्थः ।

मासः-

निर्गता स्पृहा येषां ते निःस्पृहाः ( बहु०)। भुवं बिभर्ति ये ते  भूभृतः ।  ( उपपद समास )।

व्याकरणम् –

विहाय-वि+ हा + क्त्वा-ल्यप् । सन्धेहि-सम् +धा+लोट् , एकवचन । प्रसाद लाट, मध्यमपुरुष, एकवचन।

अवधूय-अव+धू+क्त्वा-ल्यप् ।

टिप्पणी –

(१)-द्रौपदी ने अब तक युधिष्ठिर पर आक्षेप किये है । उसके हृदय को वाणी रूपी बाणों से वेधा है और उसे अपने कर्तव्य के प्रति सजग (जागरूक) किया है। इस श्लोक से अनुशासन प्रारम्म होता है । वर्तमान परिस्थिति में युधिष्ठिर को क्या करना चाहिए-इसका उपदेश वह कर रही है। 

(२) सांसारिक विषयों की ओर दौड़ने वाले अन्तःकरण की सांसारिक विषयों में अरुचि उत्पन्न करके उसे ब्रह्म-ज्ञान के साक्षात्कार के साधनभूत श्रवण, मनन इत्यादि की ओर लगाने वाली मन की एक वृत्ति को शम कहते है। संसार से विरक्त मुनि लोग शम के द्वारा मोक्षरूपी सिद्धि प्राप्त करते हैं। राजा लोग राज्यप्राप्ति रूपी सिद्धि को शम के द्वारा प्राप्त नहीं कर सकते हैं। राज्य की प्राप्ति के लिए बल और उत्साह की आवश्यकता है। 

(३) नकार की अनेक बार आवृत्ति होने से वृत्यनुप्रास अलंकार।

घण्टापथ-

विहायेति । हे नृप ! शान्तिं विहाय तत्प्रसिद्धं धाम तेजो विद्विषां वधाय पुनः सन्धेह्यङ्गीकुरु प्रसीद। प्रार्थनायां लोट्। ननु शमेन कार्यसिद्धौ किं क्रोधेनेत्यत्राहव्रजन्तीति । निस्पृहाः मुनयः शत्रूनवधूय निर्जित्य शमेन क्रोधवर्जनेन सिद्धिं व्रजन्ति । भूभृतस्तु न । कैवल्यकार्यवद्राजकार्यं न शान्तिसाध्यमित्थंः ॥ 42 ॥

पुरःसरा धामवतां यशोधनाः सुदुः सहं प्राप्य निकारमीदृशम् ।

भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ।। 43 ॥

पदच्छेदः  

पुरस्सराः, धामवताम्, यशोधनाः, सुदुस्सहम्, प्राप्य, निकारम्, ईदृशम्, भवादृशाः, चेत्, अधिकुर्वते, रतिम्, निराश्रया, हन्त, हता, मनस्विता।

अन्वयः-

धामवतां पुरःसराः यशोधनाः भवादृशाः ईदृशं सुदुःसहं निकारं प्राप्य रतिम् अधिकुर्वते चेत् हन्त मनस्विता निराश्रया (सती) हता।

संस्कृतव्याख्या – 

धामवताम् = तेजोवताम्, तेजस्विनामिति भावः । पुरःसराः = अग्रगण्याः, यशोधना: = कीर्त्तिवेत्ताः, भवादृशाः = त्वादृशाः, युधिष्ठिरोपमा महामहिमवन्तो राजान इति शेषः । सुदुःसहम् = अतिदुःसहम्, ईदृशम् = एवंविधम्, निराकारम् = शत्रुकृततिरस्कारमिति भावः । प्राप्य = लब्ध्वा, रति = तुष्टिम्, अधिकुर्वते = अङ्गीकुर्वन्ति, तदा = अङ्गीकारे कृतेचेद् = यदिहन्त ! = खेदे, मनस्विता = स्वतन्त्रता, निराधारा, सती, हता = मृतेति मनस्विजनाभावात्कुत्र तिष्ठतु वराकी आश्रयाभावादिवङ्गतेति भावः ।

शब्दार्थः-

धामयतां = तेजस्वी (जनों) में, तेजस्वियों में। पुरःसराः= अग्रणी, अग्रेसर, प्रमुख । यशोधनाः = यश (कीर्ति) को ही धन समझने (मानने) वाले, यश ही है धन जिनका ऐसे, यश रूपी धन वाले । भवादृशा=आप ( युधिष्ठिर) जैसे व्यक्ति, आपके सदृश व्यक्ति। ईदृशं = ऐसे, इस प्रकार के। सुदुःसहं = अत्यन्त असह्य (असहनीय), जिसका सहन करना अत्यन्त कठिन है। निकारं = अपमान ( तिरस्कार, अनादर) को । प्राप्य = प्राप्त करके, पाकर। रतिम् = सन्तोष को, धैर्य को। अधिकुर्वते = स्वीकार कर लेते हैं, धारण कर लेते हैं। चेत् = यदि । हन्त = खेद है, दुःख है। मनस्विता = स्वाभिमानता, अभिमानशालिता। निराश्रया = आश्रयविहीन (होकर ), शरणरहित (होकर)। हता = मर गई (मर जायेगी), विनष्ट हो गई ।

हिन्दी नुवाद-

तेजस्वियों (तेजस्विजनों) में अग्रणी (प्रमुख) और यश (कीर्ति) को ही धन समझने वाले आप (युधिष्ठिर ) जैसे व्यक्ति भी यदि इस प्रकार के अत्यन्त असहनीय अपमान को प्राप्त करके सन्तोष कर लें तो बड़े दुःख की बात है कि स्वाभिमानता आश्रयविहीन (शरणरहित) होकर विनष्ट हो जायेगी।

संस्कृतभावार्थः-

पराक्रमः एवोचितः न सन्तोषः इत्युक्त्या द्रौपदी युधिष्ठिरं प्रतीकाराय प्रेरयति । हे धर्मराज युधिष्ठिर ! तेजस्विजनानां मध्ये अग्रेसराःयशः एव धनं मन्यमानाः भवत्समाः महापुरुषाः अपि यदि एतादृशमसह्यं पराभवं (तिरस्कारं) प्राप्य सन्तोषं स्वीकुर्वते तदा मनस्विजनैकशरणा मनस्विता कुत्र स्थास्यति । शरणाभावे सा तु विनष्टैव भविष्यतीति विचिन्त्य मे मनसि महान् विषाद: विद्यते । अतः पराक्रमितव्यमिति भावः।

मासः-

पुरा सरन्ति येते पुरःसराः ( उपपद समास)। यशः एव धनं येषां ते यशोधनाः (बहु.)। भवान् इव दृश्यन्ते ये ते भवादृशाः ( उपपद समास)। अतिशयेन दुःसहम् सुदुःसहम्  (प्रादि तत्पु०)। निर् (निर्गतः अथवा नास्ति) आश्रयः यस्याः सा निराश्र या (बहु०)।

व्याकरणम् –

सुदुःसहम्-सु-दुर्+सह्+खल्। निकारम-नि+कृ+ घञ्। प्राप्य -प्र+आप् +क्त्वा, ल्यप् । रतिम्-रम् + क्तिन् । अधिकुर्वते- अधि+ कृ+लट्, अन्यपुरुष, बहुवचन । हता-हन्+क्त।

टिप्पणी –

(१) दुर्योधन आदि कौरवों ने युधिष्ठिर आदि पाण्डवों के साथ अनेक प्रकार के अन्यायपूर्ण कार्य किए हैं। कपट-छल का आश्रय लेकर अनेक बार पाण्डवों की जीवन-लीता को समाप्त करने के कुचक्र रचे। द्यूतक्रीडा के छल से उनके राज्य का अपहरण करके उन्हें राज्यभ्रष्ट किया, भरी सभा में द्रौपदी का चीरहरण किया, द्रौपदी सहित उन्हें बनवासी बना दिया और इधर युधिष्ठिर है जो सभी अपमानों को सहते जा रहे है। उनके धैर्य का अन्त होता दिखलाई नहीं पड़ रहा है। धैर्य की भी कोई सीमा होती है। इस प्रकार सभी अपमानों को सह लेना और कोई प्रतीकार न करना कोई अच्छी बात नहीं है। अन्याय करना जितना बुरा है उतना ही बुरा अन्याय को सहन करना। जो लोग निर्बल है और जिन्हें अपनी प्रतिष्ठा का कोई ध्यान नहीं है वे इस प्रकार के अपमानों को सहकर चुप रहें तो कोई विशेष बात नहीं है किन्तु युधिष्ठिर जैसे तेजस्वी और यश को ही सब कुछ मानने वाले महापुरुष भी इस प्रकार के अपमानों को यदि चुपचाप सहन करेंगे तब तो बड़ा अनर्थ हो जायेगा। इसका परिणाम यह होगा कि स्वाभिमान नाम की कोई वस्तु ही नहीं रहेगी। द्रौपदी के कथन का अभिप्राय यह है कि स्वाभिमान और सम्मान की रक्षा के लिए युधिष्ठिर को शत्रुओं का विनाश करके अपने राज्य को प्राप्त करना चाहिए और यह पराक्रम को द्वारा ही सम्भव है । (२) युधिष्ठिर को प्रतीकार के लिए प्रेरित करने के लिए प्रौपदी ने जो तर्क दिये हैं वे अत्यन्त उच्च कोटि के हैं। द्रौपदी की वाक्पटुता अत्यन्त प्रशंसनीय है।

घण्टापथ-

पुर इति । किं च धामवतां तेजस्विनाम् । परनिकारासहिष्णूनामित्यर्थः । पुर: सरन्तीति पुरः सरा अग्रेसराः । पुरोग्रतोग्रेषु सर्वेः' इति टप्रत्ययः । यशोधना भवादृशाः । सुदुःसहमतिदुःसहमीदृदृशमुक्तप्रकारं निकारं पराभवं प्राप्य रतिं सन्तोषमधिकुर्वते चेत्तर्हि हन्त इति वेदे । मनस्विताभिमानिता निराश्रया सती हता । तेजस्विजनैकशरणत्वान्मनस्विताया इत्यर्थः । अतः पराक्रमितव्यमिति भावः । यद्यप्यत्र प्रसहनस्यासङ्गतेरधिपूर्वात्करोते: 'अधेः प्रसहने' इत्यात्मनेपदं न भवति 'प्रसहनं परिभवः' इति काशिका, तथाप्यस्याः कर्त्रभिप्रायविवक्षायामेव प्रयोजकत्वात्कर्त्रभिप्राये 'स्वरितञितः '-इत्यात्मनेपदं प्रसिद्धम् ॥ 43 ॥

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।

विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ।।४४।।

पदच्छेदः –

अथ, क्षमाम्, एव, निरस्तविक्रमः, चिराय, पर्येषि, सुखस्य, साधनम्, विहाय, लक्ष्मीपतिलक्ष्म, कार्मुकम्, जटाधरः, सन्, जुहुधि, इह, पावकम् ।

अन्वयः-

अथ निरस्तविक्रमः चिराय क्षमाम् एव सुखस्य साधनम् | पर्येषि (तर्हि) लक्ष्मीपतिलक्ष्म कार्मुकं विहाय जटाधरः सन् इह पावकं जुहुधि।

संस्कृतव्याख्या – 

अथ = यदि, निरस्तविक्रमः = उत्साहहीनः, त्वम्, चिराय = चिरकालम्, सुखस्य = आनन्दस्य, साधनम् = सहायकम्, क्षमाम् = शान्तिम्, एव = निश्चयेन, पर्येषि = अवगच्छसि, जानासीति भावः । तदा, लक्ष्मीपतिलक्ष्म = राजचिह्नम्, कार्मुकम् = धनुः, विहाय = परित्यज्य, जटाघरः = केशधारी सन्, इह = वने, पावकम् = अग्निम्, जुहुधि = होमं, क्रुरु, तव कार्यविरुद्धं देहलक्षणमस्ति । लक्षणन्तु राजार्हम् कार्यन्तु योगियोग्यम् ।

शब्दार्थः-

अथ = यदि । निरस्तविक्रमः = पराक्रम का परित्याग कर देने वाले, उत्साहरहित होकर। चिराय= चिरकाल के लिए, सदा के लिए। क्षमाम् एव = क्षमा को ही, शान्ति को ही। सुखस्य साधनम् = सुख (आनन्द,) का साधन (उपाय)। पर्येषि = मानते हो, समझते हो । (तर्हि = तो)। लक्ष्मीपतिलक्ष्म = राजा (लक्ष्मीपति = राज्यलक्ष्मी के पति) के चिह्न (लक्षण ), राजचिह्न। कार्मुकं= धनुष को। विहाय = त्यागकर, छोड़कर, परित्याग करके । जटाधरः सन् = जटाधारी होकर, सिर पर जटाओं को धारण करके । इह = यहाँ, इस द्वैत नामक वन में । पावकं जुहूधि = अग्नि को हवनीय द्रव्य से तृप्त कीजिए, अग्नि में हवन कीजिये।

हिन्दी नुवाद-

यदि पराक्रम का परित्याग करके चिरकाल के लिए आप क्षमा (शान्ति) को ही सुख (कल्याण) का साधन मानते है तो राजा (राज्यलक्ष्मी के पति) के चिह्न धनुष को छोड़कर एवं सिर पर जटाओं को धारण करके यहाँ (इस द्वैत नामक वन में) अग्नि में हवन कीजिये।

संस्कृतभावार्थः-

शान्तिमार्गमाक्षिपन्ती द्रौपदी व्यङ्गयरूपेण युधिष्ठिरं प्रतीकाराय प्रेरयति । हे राजन् ! यदि पराक्रमं परित्यज्य एवं चिरकालपर्यन्तं शान्तिमेव कल्याणस्य साधनमवगच्छति तर्हि राजचिह्नानेन धनुषा किं प्रयोजनम्। विरक्तस्य किं धनुषेत्यर्थः । अतः राजचिह्नमेतत् धनुः परित्यज्य शिरसि जटां धारयन् च अस्मिन्नेव वने मुनिर्भूत्वा अग्नौ हवनं कुरु ।  'मुञच धनुः' इति रूपेण धनुर्धारणं प्रेरयति द्रौपदी अस्मिन् श्लोके।

मासः-

निरस्तः विक्रमः येन सः निरस्तविक्रमः (बहु०) । लक्ष्म्याः पतिः लक्ष्मीपतिः (षष्ठी तत्पु०), लक्ष्मीपतेः लक्ष्म लक्ष्मीपतिलक्ष्म (षष्ठी तत्पु)। जटायाः परः जटाधरः (षष्ठी तत्पु०)। -

व्याकरणम् –

साध्यते अनेन इति साधनम्-साध् + ल्युट् । पर्येषि-परि +इ+लट्, मध्यमपुरुष, एकवचन । विहाय-वि+हा +क्त्वा-त्यप् । जुहुधि-हु+लोट्, मध्यमपुरुष, एकवचन।

टिप्पणी –

(१) अनेक प्रकार के अपमानों को सहकर भी जब प्रतीकार के हेतु शत्रु पर हथियार उठाना ही नहीं, जब शान्तिपूर्ण जीवन ही बिताना है तब धनुष धारण करने की आवश्यकता ही क्या है। अतः धनुष का परित्याग करके अग्नि में हवन करते हुए तपोवन में रहना उचित है । वस्तुतः 'धनुष का परित्याग करो' यह कहकर द्रौपदी व्यङ्गपूर्वक युधिष्ठिर को शत्रु के विनाश के लिए धनुष धारण करने के लिए प्रेरित कर रही है।

(२) द्रौपदी की वाक्पटुता की जितनी भी प्रशंसा की जाये वह थोड़ी ही है (२) क्षेकानुप्रास ।

घण्टापथ-

अथेति । अथ पक्षान्तरे निरस्तविक्रमः सन् । चिराय चिरकालेनापि क्षमां क्षान्तिमेव । 'क्षितिक्षान्त्योः शमा' इत्यमरः । सुखस्य साधनं पर्येष्यवगच्छसि तर्हि लक्ष्मीपतिलक्ष्म राजचिह्नं कार्मुकं विहाय । धरतीति धरः । पचाद्यच्  । जटानां धरो जटाधरः सन्निह वने पावकं जुहुधि । पावके होमं कुर्वित्यर्थः । अधिकरणे कर्मत्वोपचारः । विरक्तस्य किं धनुषेत्यर्थः । 'हुझल्भ्यो हेर्धिः ॥44॥

न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः।

अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥45॥

पदच्छेदः -

, समयपरिरक्षणम्, क्षमम्, ते, निकृतिपरेषु, परेषु, भूरिधाम्नः, अरिषु, हि, विजयार्थिनः, क्षितीशाः, विदधति, सोपधि, सन्धिदूषणानि ।

अन्वयः-

परेषु निकृतिपरेषु (सत्सु ) भूरिधाम्नः ते समयपरिरक्षणं न क्षमम् । हि विजयार्थिनः क्षितीशाः अरिषु सोपधि सन्धिदूषणानि विदधति।

संस्कृतव्याख्या – 

निकृतिपरेषु, = निराकरणतत्परेषु, अपकारकेष्वित्यर्थः । परेषु = शत्रुषु, भूरिधाम्नः = बहुतेजसः; ते = तव; युधिष्ठिरस्येत्यर्थः । समयपरिरक्षणं = = कालप्रतीक्षाकरणम्; त्रयोदशवर्षाणि वने वत्स्यामीत्येवंरूपमित्यर्थः । न = नहि; क्षमम् = युक्तम्; नोचितमित्यर्थः । हि = तत; यस्मात्; विजयार्थिनः = शत्रुपराजयकामुका:; क्षितीशाः मेदिनीपतयः; राजान इत्यर्थः । अरिषु = शत्रुषु, सोपधि = सव्याजम्; छलेन सहितमिति यावत्, सन्धिदूषाणानि = मैत्रीच्छिद्राणि, विदधति= कुर्वन्ति, केनापि कपटेन सन्धि भेदयन्तीति भावः।

शब्दार्थः-

परेषु निकृतिपरेषु (सत्सु) = शत्रुओं (दुर्योधन इत्यादि कौरबों) के (तुम्हारे ) अपकार में लगे रहने पर । भूरिधाम्ना =अत्यन्त तेजस्वी  (शत्रुओं का विनाश करने में समर्थ )' ते = तुम्हारा, आपका । समयपरिरक्षणं ( तेरह वर्ष वन में रहने की) प्रतिज्ञा ( सन्धि, समय ) का पालन करना। न क्षमम् - युक्त (उचित) नहीं है। हि = क्योंकि । विजयार्थिनः = विजय की इच्छा (कामना) करने वाले । क्षितीशाः = भूपति, राजा लोग। अरिषु = शत्रुओं पर । सोपधि - कपट से, छल से, बहाने से । सन्धिदूपणानि = संधिविच्छेदों को, पूर्व में की गई सन्धियों में दोषों को। विधति = करते है, उत्पन्न करते है।

हिन्दी नुवाद-

शत्रुओं ( दुर्योधन इत्यादि कौरवों) के ( तुम्हारे) अपकार में तत्पर रहने पर (अर्थात् जब मात्र अपकार करने में लगे हुए हैं तब) अत्यन्त तेजस्वी होते हुए तुम्हारा ("तेरह वर्ष वन में रहूँगा' इस) प्रतिज्ञा का पालन करना युक्त नहीं है। विजय की अभिलाषा करने वाले राजा लोग शत्रुओं के साथ की गई सन्धियों में छलपूर्वक दोष उत्पन्न कर देते है (अपने अनुकूल समय आते ही शत्रुओं पर दोष लगाकर सन्धि को भङ्ग कर देते हैं)।

संस्कृतभावार्थः-

'पुनः राज्यप्राप्त्यर्थं प्रतिज्ञामनादृत्य भवता प्रतीकारः करणीयः' इतिरूपेण युधिष्ठिरं प्रेरयति द्वौपदी। हे राजन् ! यदा दुर्योधनादयः  शत्रवः निरन्तरमपकारतत्पराः वर्तन्ते तदा महाशक्तिशालिनः प्रतीकारक्षमस्य भवतः त्रयोदशसंवत्सरान् वने वत्स्यामीत्येवंरूपायाः प्रतिज्ञायाः पालनं न युक्तम् । यतो हि विजयाभिलाषिणी राजानः केनचिद्व्याजेन दोषमापाद्य सन्धिं दूषयन्ति । शक्तस्य हि विजिगीषोः सर्वथा कार्यसाधनं प्रधानम् अन्यत् समयरक्षणादिकम् अशक्तस्येति भावः । अत एव भवत्सदृशानां सबलानां कृते प्रतिज्ञापालनं न शोभनं न च कल्याणकरं वर्तते।

मासः-

निकृतिः (शाठयं) परं (प्रधानं ) येषु तेषु निकृतिपरेषु (बहु०)। भूरि धाम यस्य सः भूरिधामा तस्य भूरिधाम्नः (बहु०)। समयस्य परिरक्षणं समयपरिरक्षणम् (षष्ठी तत्पु०)। विजयम् अर्थर्यन्ते ये ते विजयार्थिनः (उपपद समास) क्षितेः ईशा: क्षितीशाः (षष्ठी तत्पु)। उपधिना (कपटेन) सह इति सोपधि (बहु०)। सन्धः दूषणानि सन्धिदूषणानि ( षष्ठी तत्पु०)।

व्याकरणम् –

सोपधि-विदधति का क्रियाविशेषण है-उप + धा+कि। विदधति-वि+धा+लट्, अन्यपुरुष, एकवचन।

टिप्पणी –

 (१) युधिष्ठिर धर्मराज है, सत्यवादी हैं। उन्होंने कौरवों के साथ यह संधि की थी कि वे पत्नी और भाइयों के सहित तेरह वर्ष वन में निवास करेंगे। किसी भी परिस्थिति में वे अपनी प्रतिज्ञा भंग नहीं करना चाहते । इस तथ्य को जानती हुई द्रौपदी कह रही है कि राजनीति में ये बातें महत्व नहीं रखती है। शत्रु निरन्तर अपकार करने में लगे हुए है। अतः उनके साथ कपट करना अयुक्त नहीं है। 'शठे शाठ्यं समारेत्' नीति का पालन करना युक्त है। प्रयोजन की सिद्धि पराक्रमी व्यक्तियों का लक्ष्य होता है। निर्वल और असमर्थ व्यक्ति ही प्रतिज्ञा का पालन करते है। अतः प्रतिज्ञा का ध्यान न करके राज्य-प्राप्ति के लिए आपको प्रतीकार अवश्य ही करना चाहिए । 

(२) अर्थान्तरन्यास तथा यमक अलंकार । 

(३) सर्ग के अन्तिम दो या तीन पद्य भिन्न छन्दों में रचे जाने चाहिए-इस नियम के निर्वाह के लिए यहाँ पुष्पिताग्रा छन्द है। इसका लक्षण यह है- अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा। पुष्पिताग्रा के विषम (प्रथम और तृतीय) चरणों में दो नगण, एक रगण, और एक यगण होता है तथा सम (द्वितीय और चतुर्थ) चरणों में एक नगण, दो जगण, एक गुरु होता है।

घण्टापथ-

नेति । परेषु शत्रुषु । निकृतिः परं प्रधानं येषु तेषु । तथोक्तेष्वपकारतत्परेषु सत्सु भूरिधाम्नोः महौजसः प्रतीकारक्षमस्य ते तव समयस्त्रयोदशसंवत्सरान्वने वत्स्यामीत्येवंरूपा संवित् । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । तस्य परिरक्षणं प्रतीक्षणं न क्षमं न युक्तम् । 'युक्ते क्षमं शक्ते हिते त्रिषु' इत्यमरः । हि यस्माद्विजयार्थिनो विजिगीषवः । क्षितीशा अरिषु विषये सोपधि सकपटं यथा तथा । 'कपटोस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । सन्धिदूषणानि विदधति केनचिद्व्याजेन दोषमापाद्य सन्धिं दूषयन्ति । विघटयन्तीत्यर्थः । शक्तस्य हि विजिगीषोः सर्वथा कार्यसाधनं प्रधानमन्यत्समयरक्षणादिकमशक्तस्येति भावः । अर्थान्तरन्यासोलङ्कारः। पुष्पिताग्रावृत्तम् ॥45॥

विधिसमयनियोगाद्दीप्तिसंहारजिह्मं

शिथिलवसुमगाधे मग्नमापत्पयोधौ।

रिपुतिमिरमुदस्योदीयमानं दिनादौ

दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ।। ४६ ।।

पदच्छेदः

विधिसमयनियोगात्, दीप्तिसंहारजिह्मम्, शिथिलवसुम्, अगाधे, मग्नम्, आपत्पयोधौ, रिपुतिमिरम्, उदस्य, उदीयमानम्, दिनादौ, दिनकृतम्, इव, लक्ष्मीः, त्वाम्, समभ्येतु, भूयः ।

अन्वयः-

विधिसमयनियोगात् अगाधे आपत्पयोधौ मग्नं दीप्तिसंहारजिह्मं शिथिलवसुं रिपुतिमिरम् उदस्य दिनादौ उदीयमानं दिनकृतम् इव 

(विधिसमयनियोगात् अगाधे आपत्पयोधौ मग्नं दीप्तिसंहारजिह्मं शिथिलवसुं रिपुतिमिरम् उदस्य दिनादौ उदीयमानं ) त्वां लक्ष्मी: पुनः समभ्येतु।

संस्कृतव्याख्या – 

विधिसमयनियोगात् = दैवकालानुरोधात्; दुर्भाग्यदुःसमयप्रभावादित्यर्थः । वा दैवसमयानतिक्रमणात, दीप्तिसंहारजिह्मम् = कान्तिहानिखिन्नं, पक्षान्तरे तेजोविनाशशिथिलम् । शिथिलवसुम् = मन्दतेजसम् । पक्षान्तरे क्षीणधनम्, अगाधे = अतलस्पर्शे, दुस्तरे इत्यर्थः । पक्षान्तरे अपरिमेये; आपत्पयाधौ = विपत्समुद्रे, पक्षान्तले विपद्रुपकेऽनवे, मग्नम् = निमज्जमानम् दिनादौ = प्रभाते, पक्षान्तरे शुभसमयसमागमे, रिपूतिमिरम् = वैरिरूपान्धकारम्, उदस्य = निरस्य, संहृत्येत्यर्थः । उदीयमानम् = उद्यन्यम्, पक्षान्तरे उन्नत्यभिमुथगमनशीलम्, दिनकृतं = सूर्यम्, इव त्वां = भवन्तं, युधिष्ठिरम्लक्ष्मीः =राजलक्ष्मीः पक्षतातेजःश्रीः भूयः = पुनः, समध्येतु = भजतु, गच्छतु इति भावः ।

शब्दार्थः-

(सूर्य-पक्ष में) विधिसमयनियोगात् = विधाता और समय के नियम के अनुसार । अगाधे = गहरे, अथाह, दुस्तर । आपत्पयोधौ = विपत्ति रूप समुद्र में, विपत्तिबहुल पश्चिमी समुद्र में। मग्नं = डूबे हुए। दीप्तिसंहारजिह्मं = प्रकाश के नष्ट हो जाने से मलिन (आभारहित)। शिथिलवसुं =शिथिल (संकुचित) हो गई है किरण (वसु) जिसके ऐसे शिथिल किरणों वाले । रिपुतिमिरम् = शत्रु रूप अन्धकार को। उदस्य = हटाकर के। दिनादौ = दिन के आदि (प्रारम्भ) में, प्रातःकाल। उदीयमानं = (उदित) होते हुए, उदय को प्राप्त होते हुए। दिनकृतम् इव = दिनकर (सूर्य)  की तरह। 

(युधिष्ठिर-पक्ष में) विधिसमयनियोगात् = भाग्य और समय के नियम के अनुसार। अगाधे = गम्भीर । आपत्पयोधौ = आपत्ति के समुद्र में, समुद्र की भांति गम्भीर आपत्ति में। मग्नं = पड़े हुए, डूबे हुए। दीप्तिसंहारजिह्मं = प्रताप (प्रभाव, पराक्रम) के विनाश होने से मलिन ( दुःखित, अप्रसन्न)। शिथिलवसुं = नष्ट हुए धन वाले, धनहीन, निर्धन, शिथिल (कम, विनष्ट ) हो गया है धन (वसु) जिसका ऐसे। रिपुतिमिरम् = अन्धकार के समान भीषण शत्रुओं को। उदस्य = नष्ट करके । दिनादौ = शुभ समय पाने पर। उदीयमानं = अभ्युदय ( उन्नति) को प्राप्त करते हुए। त्वां = तुमको, आप (युधिष्ठिर ) को। लक्ष्मीः = राज्यलक्ष्मी, सम्पत्ति,  पुनः = फिर। समभ्येतु = प्राप्त होवे, प्राप्त करे।

हिन्दी नुवाद-

विधाता और समय के अनुसार अत्यधिक गहरे विपत्तिरूप पश्चिमी समुद्र में डूबे (गिरे हुए, प्रकाश के विनष्ट हो जाने के कारण शिथिल (संकुचित) हुई किरणों वाले, शत्रु रूप अन्धकार को हटाकर (दूर करके) प्रभातकाल में उदित होते हुए सूर्य की तरह भाग्य और समय के नियम के कारण अपार विपत्ति-सागर (विपत्ति के समुह) में पड़े (डूबे) हुए, प्रताप (प्रभाव) के विनष्ट होने से दुःखित (अप्रसन्न), धनहीन (विनष्ट हुए धन वाले), अन्धकार के सदृश भीषण शत्रु-समूह को नष्ट करके शुभ समय के आ जाने पर अभ्युदय (उन्नति) को प्राप्त करते हुए आप ( युधिष्ठिर ) को राज्यलक्ष्मी पुनः प्राप्त करे।

संस्कृतभावार्थः-

प्रथमसर्गस्य अन्तिमेऽस्मिन् श्लोके द्रौपदी युधिष्ठिरस्य समृद्ध्यर्थं मङ्गलं कामयते । सा कथयति-विधिनिर्मितनियमवशात् सायंकाले अगाधे विपत्तिस्वरूपे पश्चिमे समुद्रे निमग्नं, रश्मिसंकोचेन प्रकाशहीनं, शत्रुभूतमन्धकारं दूरीकृत्य अन्येद्युः प्रात:काले उद्यन्तं दिनकरं यथा दिवसशोभा (दिवसलक्ष्मीः) पुनः अलंकरोति तथैव भाग्यवैपरीत्यात् कालप्रभावाच्च गम्भीरे विपत्समुद्रे निमज्जमानं, धनहीनं, शत्रून् विनाश्य पुनरात्मनः राज्यप्राप्यर्थमुद्योगं कुर्वन्तं च त्वां युधिष्ठिरमपि राज्यलक्ष्मीः पुनः समाश्रयतु ।

मासः-

विधिश्च समयश्च इति विधिसमयो (द्वन्द्व), तयोः नियोगः इति विधिसमयनियोगः, तस्मात् (षष्ठी तत्पु.)। न गाधः अगाधः तस्मिन् (नञ् समास) । आपत् पयोधिः इव इति आपत्पयोधिः तस्मिन् (उपमित कर्मधारय)। दीप्तेः संहारः इति दीप्तिसंहारः (षष्ठी तत्पु.), तेन जिह्मा इति दीप्तिमहारजिह्मा, तम् (तृतीया तत्पु०)। शिथिलवसुम्-(सूर्यपक्षे) शिथिलाः वसवः ( रश्मयः ) सः शिथिलवसुः, तम् (बहु.); (युधिष्ठिरपक्षे) शिथिलं वसु (धनं) यस्य सः शिथिलवसुः, तम् (बहु०)। रिपुः तिमिरम् इव इति रिपुतिमिरम् (उपमित कर्मधारय)। दिनस्य आदिः दिनादिः तस्मिन् (षष्ठी तत्पु.)। दिनं करोतीति दिनकृत् तम् (उपपद समास)।

व्याकरणम् –

विधिसम्यनियोगात्' में हेतो पञ्चमी। उदस्य-उत् + अस् + क्त्वा-ल्यप् । उदीयमानं-उत् +ई+शानच् । समभ्येतु-सम् + अभि +इ +लोट्, अन्यपुरुष, एकवचन ।

टिप्पणी –

 (१) महाकवि भारवि ने सर्ग के प्रथम श्लोक में मङ्गलवाचक श्री (श्रियः) शब्द का और सर्ग के अन्तिम श्लोक में मंगलवाचक 'लक्ष्मी' शब्द का प्रयोग किया है । 

(२) अपने भाषण का उपसंहार करती हुई द्रौपदी ने इस अन्तिम श्लोक में युधिष्ठिर के प्रति अपनी शुभकामना व्यक्त की है। 

(३) श्लेषानुप्राणित पूर्णोपमा अलंकार । यहाँ त्वाम्' (युधिष्ठिर ) उपमेय, 'दिनकृतम्' (सूर्य) उपमान, 'इव' उपमावाचक और दीप्तिसंहार, वसु का शिथिल होना, विपत्तिसमुद्र में डूबना, पुन: उदित होना इत्यादि युधिष्ठिर और सूर्य दोनों के साधारण धर्म हैं। श्लिष्ट पदों के प्रयोग के कारण अर्थ युधिष्ठिर और सूर्य दोनों पर लगता है। 

(४) सर्ग के अन्तिम दो या तीन पद्य भिन्न छन्द में रचे जाने चाहिए-इस नियम के निर्वाह के लिए यहाँ मालिनी छन्द है। इसका लक्षण यह है-ननमयययुतयं मालिनी भोगिलोकैः। इससे ज्ञात होता है कि इसमें दो नगण, एक मगण और दो यगण होते हैं । इसके चारों चरण सम (१५-१५ अक्षरों के ) होते हैं।

घण्टापथ-

विधीति । विधिर्दैवम् । विधिर्विधाने दैवे च' इत्यमरः । समयः कालस्तयोर्नियोगाग्नियमनाद्धेतोः । तयोर्दुरतिक्रमत्वादिति भावः। अगाधे दस्तरे। आपत्पयोधिरिवेत्युपमितसमासः । दिनकृतमिवेति वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ मग्नम् । सूर्योपि सायं सागरे मज्जति परेद्युरुन्मज्जती'त्यागमः । दीप्तिः प्रताप आतपश्च तस्याः संहारेण जिह्ममप्रसन्नम्। शिथिलवसुं शिथिलधनमन्यत्र शिथिलरश्मिम् । 'वसुर्देवेग्नौ रश्मौ च वसु तोये धने मणौ' इति वैजयन्ती । "शिथिलबलमिति पाठे तूभयत्रापि शिथिलशक्तिकमित्यर्थः । रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । 'इङ् गतौ इति धातोर्दिवादिकात्कर्तरिशानच् । त्यवां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः समभ्येतु भजतु । 'आशीषि लिङ्लोटौ' इति लोट् । चमत्कारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः । यथाह भगवान्भाष्यकार:-'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति । पूर्णोपमेयम् । मालिनीवृतम् । सर्गान्तत्वाद् वृत्तभेदः । यथाह दण्डी-'सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम्' इति।

अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति- इतीत्यादि । इतिशब्दः परिसमाप्तौ। भारविकृताविति कविनामकथनम् । महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता। किरातार्जुनीय इति काव्यवर्णनीययोः कथनम् । प्रथमः सर्गः समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् । किरातार्जुनावधिकृत्य कृतो ग्रन्थः किरातार्जुनीयम् 'शिशुक्रन्दयमसभद्वन्द्वेजननादिभ्यश्च' इति द्वन्द्वाच्छप्रत्ययः । राघवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः । किरातस्तु तदुत्कर्षाय प्रतिभटतया वर्णितः । यथाहदण्डी-'वंशवीर्यप्रतापादि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं च धिनोति नः इति । अथायं सङ्ग्रहः- 'नेता मध्यमपाण्डवो भगवतो नारायणस्यांशजस्तस्योत्कर्षकृते त्ववर्ण्यततरां दिव्यः किरात: पुनः ।  श्रृङ्गारादिरसोङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम् इति ॥४६॥ । 

इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्तः ।


Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)