चतुरः शृगालः
किञ्चन वनम् आसीत् । तत्र
कश्चन सिंहः निवसति स्म । सः अतीव क्रूरः आसीत् । सः प्रतिदिनम् एकं मृगं खादति
स्म ।
एकदा तत्र कश्चन
शृगालः आगतवान्। सः अतीव चतुरः आसीत् । यदा सः सिंहं दृष्टवान् तदा आरभ्य सः भीतः
आसीत् । यदा सिंहः शृगालं खादितुम् उद्युक्तः भवति स्म तदा सः रोदनं करोति स्म ।
सिंहः शृगालं
पृष्टवान् - "भवान् किमर्थं रोदनं करोति ?” शृगालः उक्तवान्
- "श्रीमन् !वने अन्यः एकः सिंहः
अस्ति। सः मम सर्वान् पुत्रान्खादितवान् । अतः अहं रोदनं करोमि। एतत् श्रुत्वा
सिंहः पृष्टवान् -"सः अन्यः सिंहः कुत्र
अस्ति ?" शृगालः उक्तवान्- "समीपे एव एकः कूपः
अस्ति । सः तत्र निवासं करोति।" सिंहः उक्तवान् -
"अहं तत्र गत्वा पश्यामि त च सिंह मारयिष्यामि।" शृगालः उक्तवान् -
"श्रीमन् आगच्छतु। अहं तं दर्शयिष्यामि।" सः सिंहं कूपस्य समीपं नीतवान्
। सः स्वस्य एव प्रतिबिम्बं जले दृष्टवान्। तत् दृष्ट्वा सः कोपेन गर्जनं कृतवान्।
तस्य एव गर्जनस्य प्रतिध्वनिः कूपात् भवति। "एषः अन्यः सिंहः'
इति सः चिन्तयति
कुपितः सिंहः कूपे कूर्दनं करोति। सः च तत्रैव मृतः जातः।
राष्ट्रियं पुष्पम्
कमलं किञ्चन
पुष्पम् । एतत् एव भारतस्य राष्ट्रियपुष्पम् अपि । 'नीलम्बियन्
न्यूसिफेरा' इति एतस्य वानस्पतिकं नाम । संस्कृते एतस्य बहूनि नामानि सन्ति - पदमम्
पङ्कजम्, सरसिजम, सरोजम् जलजम,
नीरजम् अम्बुजम् इत्यादीनि
। फारसीभाषायां कमलस्य नाम 'नीलोफर' इति भवति ।
आङ्ग्लभाषायां तु 'इण्डियन् लोटस्' अथवा 'सैक्रेड़ लोटस' इति ,चीनीभाषायां
च कमलस्य नाम 'वॉटर- लिली' इति भवति ।
कमलं प्रायः
संसारस्य सर्वेषु भागेषु उपलब्धं भवति। वर्णाकारदृशा एतस्य अनेकाः प्रजातयः भवन्ति
परं बाहुल्येन तु रक्त-श्वेत- नीलवर्णयुतानि कमलानि उपलभ्यन्ते । क्वचित् पीतं
कमलम अपि लभ्यते ।
पङ्के जातम् अपि
इदं पङ्कहीनं स्वच्छं च भवति । इदं सौन्दर्यस्य, कोमलतायाः,निर्मलतायाः, शान्तेः च
द्योतकं वर्तते। कमलसस्यानि जले भवन्ति चेत् अपि पत्रेषु जलं लिप्तं न भवति ।
कमलस्य प्रत्येकं
भागस्य प्रयोगः चिकित्सायै भवति । अथ विशेषरूपेण पूजायै, शृङ्गाराय च भवति।
पुराणेषु कमलपुष्पस्य महत् स्थानम् अस्ति । विभिन्नेषु धर्मेषु कमलस्य पवित्रता
अङ्गीकृता भवति । योगे एवं स्थापत्यकलायाम् अपि एतस्य प्रभूतं प्रयोगः वर्णितः ।
भारतीयपरम्परायां सृष्टिकर्तुः ब्रह्मणः उत्पत्तिः कमलात् स्वीकृता । तस्मात्
कमलपुष्पं राष्ट्रियपुष्पं सत् अस्माकं गौरवं वर्धयति ।
अनन्या गुरुभक्तिः
पुराकाले
गुरुकुलेषु एव शिक्षणं भवति स्म । तत्र शिष्याः वसन्ति स्म । शिक्षणं च
प्राप्नुवन्ति स्म। समाजस्य सर्वविधप्रकारकाः बालकाः शिष्यरूपेण भवन्ति स्म । तत्र
न कोऽपि धनिकः, न वा दरिद्रः । न तु बाह्मणः, न च शूद्रः सर्वेऽपि समानतया शिक्षणं
प्राप्नुवन्ति स्म । गुरुकुलस्य आजीविका तु कृषिमाध्यमेन प्रचलति स्म ।
एकदा सायङ्काले
महती वृष्टिः भवति स्म । तस्मात् गुरुः चिन्ताकुलः आसीत् । सः सर्वान् शिष्यान्
एकत्र आह्वयति, वदति च - "भो ! यदि एतत् वृष्टिजलम् अस्माकं कृषिक्षेत्रे
विनिर्मितेषु केदारेषु प्रविशति तर्हि सस्यानि नष्टानि भविष्यन्ति । अतः भवन्तः
सर्वे कृषिक्षेत्रं प्रति गच्छन्तु। एता समस्यां च निवारयन्तु ।”
सर्वे शिष्याः
कृषिक्षेत्रं प्रति गच्छन्ति ।वष्टिकारणात् तत्र महान् जलप्रवाहः आसीत्। सर्वेऽपि
यथाशक्ति केदाराणां रक्षणाय प्रयत्नं कृतवन्तः । रात्रिः जाता परं वृष्टिः इतोऽपि
प्रचलति स्म। सर्वेऽपि शिष्याः गुरुकुलं प्रति आगताः । परन्तु दृष्टिः पूर्णतया न
स्थगिता अतः आरुणिः नाम्ना कश्चन शिष्यः तत्रैव स्थितवान् । किञ्चित्कालानन्तरम्
एकस्य केदारस्य समीपे जलस्य वेगकारणात् कश्चन गर्तः जातः। आरुणिः बहुवार तस्मिन्
गर्ते मृत्तिकां स्थापितवान् तथापि सः गर्तः पूर्णः न भवति स्म । तदा जलप्रवाहस्य
स्थगनाय आरुणिः स्वयं केदारस्य समीपे शयनं कृतवान्। तेन जलस्य वेगः न्यूनः जातः ।
रात्रिः समाप्ता
। गुरुकुले प्रातः वन्दनार्थं सर्वे शिष्याः एकत्र सम्मिलन्ति। गुरु आरुणिं न
दृष्टवान्। अनन्तरं सर्वे ज्ञातवन्त यत् आरुणिः रात्रौ कृषिक्षेत्रात् नागतः एव ।
तदनन्तरम् अनुक्षणं सर्वैः शिष्यैः सहगुरुःकृषिक्षेत्रं गतवान् । तत्र दृष्टवान्
यत् आरुणिः केदारसमीपं शयानः अस्ति । सः आरुणिम्आलिङ्गितवान् उक्तवान् - 'भवान् आरात्रिकेदाररक्षणम्
एकाकी एव कृतवान् । भवादृशं शिष्यं सम्प्राप्य अहं धन्यः जातः ।”
मिथ्याप्रशंसा
कश्चन ग्रामः ।
तत्र कश्चन वटवृक्षः आसीत्। तस्मिन् वृक्षे कश्चन काकः वसति स्म । एकदा सः काकः
रोटिकायाः कञ्चित् खण्डं प्राप्नोति । सः उत्पत्य वृक्षस्य शाखायाम् उपविष्टवान् ।
तत्र च सः रोटिकां खादितुम् आरब्धवान् ।
"तदानीम् एव तत्र
शृगालः आगतः । सः रोटिकाखण्डं दृष्टवान् । शृगालः चिन्तितवान् यत् एतं रोटिकाखण्डं
कथम् अहं काकात् अपहर्तुंशक्नोमि? अनन्तरं सः एकम्
उपायम् अकरोत् । सः शृगालः काकम् उक्तवान्- "अहो भातः । त्वम् अतीव सुन्दरः असि तव वर्णः अपि मनोहरः अस्ति । अहं तव मधुरं स्वरं
श्रोतुम् इच्छामि।"
शृगालस्य वचनं
श्रुत्वा काकः अत्यन्तं प्रसन्नः जातः। सः चिन्तितवान् यत् सर्वे प्राणिनः मम
रूपस्य वाण्याः च प्रशंसा कुर्वन्ति । वस्तुतः मम वाणी मधुरा अस्ति । अहम् अवश्यम्
एव एकं गीतं गास्यामि इति एवं विचार्य काकः गातुम् आरब्धवान् । यदा काकःगीतं गातुं
मुखम् उद्घाटितवान् तदा एव तस्य मुखात् रोटिकाखण्डः अधः अपतत्। शृगालः शीघ्रमेव
रोटिकाखण्डं खादितवान् तदनन्तरंकाकःवदति "मम गीतं शृणोतु'
इति । शृगालः
उक्तवान् यत् सम्प्रति न तु तव रूपं मनोहर, नच तव वाणी मधुरा
अतः अहं गच्छामि ।
प्रतिदिनम्
उत्सवाचरणम्
कश्चन पुरुषः
साधुं पृच्छति – “हे साधो' उत्सवस्य
आचरणार्थं सर्वोत्तमं दिनं किं स्यात् ?" इति। तदा साधु
उक्तवान्- “वत्स । मृत्योः एकस्मात् दिनात् पूर्वं यद् दिनं भवति तस्मिन् दिने
उत्सवस्य आचरणं भवति चेत वरम् ।" इति।
सः पुरुषः पुनः
साधु पृष्टवान् - "भगवन! कस्य कदा मृत्युः भविष्यति इति कोऽपि वक्तुं न
शक्नोति । अतः अहं कथं ज्ञातुं शक्नोमि ?" इति।
एतदनन्तरं मन्दं
हसन् साधुः उक्तवान्- "वत्स । एतदर्थमेव जीवनस्य प्रत्येकं दिनम अन्तिमम एव
दिनम् इति मत्वा प्रतिदिनम् उत्सवस्य आचरणं करणीयम्। इति।
भीमैकादशी
पाण्डवाः श्रीकृष्णस्य
परमभक्ताः आसन् । श्रीकृष्णः भगवतः श्रीहरेः अवतारभूतः इति ते दृढ विश्वसितवन्तः
आसन्। ते प्रतिमासम् "श्रीहरेः दिनम' इति प्रसिद्धे
एकादशीदिने उपवासव्रतम् आचरन्ति स्म । तस्मिन् दिने कमपि आहारम् असेवमानाः
कृष्णध्याने निरताः भवन्ति स्म ।
भीमः आ बाल्यात्
अपि औदरिकः । कियतः अपि आहारस्य सेवनेन अपि सः तृप्तः न भवति स्म । अतः सः वृकोदरः
इत्येव प्रसिद्धः आसीत्। एवं सति आदिनम् उपवासकरणं तस्मै अत्यन्तं कष्टदायकम्
आसीत् । अतः स एकादशीदिनेयद्यपि भोजन न करोति , किन्तु फलानि तु खादति स्म । एतद्
ज्ञात्वा दुश्शासनादयः भीमस्य उपहासं कुर्वन्ति स्म - "कीदृशी भक्तिः एषा,
एकादशीदिनेऽपि
पूर्णोदरं फलानि खाद्यन्ते अनेन औदरिकेण इति ।
एते एवम्
उपहसन्ति इति वार्ता यदा श्रुता तदा भीमः अत्यन्तं खिन्नः अभवत् । तथापि
निराहारतया स्थातु तुं सः कथमपि न शक्नोति स्म । अतः किं करणीयम् इति सः न
ज्ञातवान् ।
अन्ते भीमः
पाण्डवानां पुरोहितस्य धौम्यमहर्षेः समीपं गत्वा तं प्रार्थितवान् - "भोः
गुरुवर्य! अहम्औदरिकः अस्मि इति तु सत्यमेव । तेन कारणेन एवं दुश्शासनादयः माम
उपहसन्ति। प्रतिमासम एकादशीदिने उपवासस्य आचरण महा महत कष्टदायक भवति । यत
एकादशीदिने एव मम जठराग्नि अत्यन्तम् अधिक सन् विजृम्भते । बुभुक्षा सोढुम् अहं न
शक्नोमि एव। अतः तस्मिन दिने अहं कन्दमूलानि फलानि वा खादामि। किन्तु एते दुश्शासनादय:
तद्विषये अपि मम उपहास कुर्वन्ति । अतः भवान् कृपया मां तादृशम् एकम् उपाय बोधयतु
येन मया वर्षे एकस्मिन् एव एकादशीदिने उपवासव्रतम् आचर्यते चेदपि सर्वेषु अपि
एकादशीदिनेषु उपवासाचरणस्य फलं लभ्येत इति ।
धौम्यमहर्षि
भीमस्य वचन श्रुत्वा स्मितं कृतवान् । अनन्तरं सर्वाणि अपि शास्त्राणिपरिशील्य
उक्तवान् - "वत्स भीम! एकः उपायः अस्ति । माघमासे शुक्लपक्षे एकादशीतिथौ
भवान् उपवासव्रतम् आचरतु । यत तस्मिन् दिने उपवासव्रतम् आचरितं चेत् वर्षे सर्वेषु
अपिएकादशीदिनेषु उपवासाचरणस्य यत् फलं तदेव फलं लभ्यते" इति ।
भीमस्य अत्यन्तं
सन्तोषः जातः "तथैव भवतु गुरुवर्य! अहं तदेव आचरिष्यामि” इति सः उक्तवान्।
तस्मिन् वर्षे सः माघमासस्य एकादशीदिने उषसि एव स्नानं कृत्वा एकाग्रबुद्धया दिने
करणीयानि सर्वाणि अपि अनुष्ठानानि कृतवान् । अनन्तरं हस्तिनापुरस्य उद्यानं गत्वा
तत्र सम्यक् नारिकेलजलं पीतवान् कानिचित् पनसफलानि खादितवान् अन्यान् कांश्चित्
इक्षुखण्डान् अपि खादितवान् भोजनम् अकृत्वा एव दिनं यापितवान् ।
ततः सः आरात्रि
जागरणं कृत्वा श्रद्धया कृष्णस्य पूजां कृतवान्। परेद्यवि द्वादशीदिने उषःकाले
पारणं कृत्वा उपवासव्रतं समापितवान् । श्रीकृष्णः अपि भीमस्य भक्त्या सम्प्रीतः
अभवत् ।
ततः आरभ्य
माघमासस्य शुक्लपक्षस्य एकादशीतिथिः भीमैकादशी इति नाम्ना एव प्रसिद्धा अस्ति ।
गुरुपूर्णिमा
गिरति अज्ञानम् इति गुरुः । गीर्यते स्तूयते इति वा गुरुः । तात्पर्यमिदं यत् यः अज्ञानं
नाशयति सः गुरुः भवति । सर्वे गुरवः पूज्याः भवन्ति । साधारणतः माता,
पिता,
अग्रजाः,
आत्मीयाः
ज्ञानज्येष्ठाः वयोज्येष्ठाः च गुरवः भवन्ति । किन्तु परमात्मस्वरूपं मोक्षं यः
बोधयति सः परमगुरुःभवति । सः एव सदगुरुः इति उच्यते । विवेकानन्दस्वामिना उक्तं
यत् लोके त्रिप्रकारकं दानं मनुष्याणाम् उपकारकं भवति। अन्नदानं,
विद्यादानं
ज्ञानदानं चेति । किन्तु एतेषु ज्ञानदानं श्रेष्ठतमं भवति। अन्नदानं कुर्वन्ति
माता, पिता, आत्मीयाश्च । विद्यादानम् इत्युक्ते लौकिकं
ज्ञानदानं कुर्वन्ति आचार्याः । परमात्मविषयकं ज्ञानं ददाति सद्गुरुः ।
अस्माकं
भारतीयसंस्कृतौ गुरु ईश्वरादपि श्रेष्ठं स्थानं लभते । तथापि स्तूयते -
"गुरुर्ब्रह्मा, गुरुर्विष्णु गुरुर्देवो महेश्वर ।
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ।।" इति। अर्थात् गुरु एव
स्रष्टा, भर्ता, हर्ता च भवति ।
यतो हि गुरु साक्षात् परमात्मा भवति तस्मात् तस्य एतानि सृष्टि आदीनि रूपाणि
सम्भवन्ति ।
गुरुसदृशः अन्यः
कोऽपि नास्ति । तस्मात् जगति तस्य दृष्टान्तः एव नास्ति । भगवत्पादैः शङ्कराचार्यै
उक्त यत् " दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरोर्ज्ञानदातु "
इति । तात्पर्यमिदं यत् यः सद्गुरुः ज्ञानदाता भवति तस्य दृष्टान्तः त्रिषु लोकेषु
न दृश्यते। स्पर्शमणिः स्पर्शमात्रेण आत्मादीनां, धातूनां च
सुवर्णत्वंसम्पादयति । किन्तु स्वसमानतां न ददाति । तात्पर्यमिदं यत स्पर्शमणित्वं
न ददाति। गुरुः एकःएव यः स्वसमानताः ददाति । स्वयं परमात्मा सन् शिष्याणाम् अपि
परमात्मता सम्पादयति । अतः गुरुसदृशः दयालुः नास्ति एव ।
इदानीं तिथिविषये
उच्यते । किमर्थम् आषाढपूर्णिमातिथौ गुरुपूजन क्रियते ? अस्मिन् दिवसे
बृहस्पते प्रभाव आधिक्येन भवति । बृहस्पति देवाना गुरुः भवति । तस्मात् अस्मिन्
दिवसे गुरुपूजा क्रियते चेत् गुरुकृपा अपि आधिक्येन लभ्यते इति विश्वासः अतः सर्वे
स्वं स्वं गुरु दिवसेऽस्मिन् पूजयन्ति । अस्मिन् दिवसे भगवान् बुद्धः पञ्च
शिष्यान् ज्ञान प्रोक्तवान् । तस्मात् बौद्धाः भगवन्तं बुद्ध पूजयन्ति ये सप्त
ऋषयः आसन्, तेभ्यः शिवः योगशास्त्रं प्रोक्तवान् ।
तस्मात् शैवा:
गुरुत्वेन शिवं पूजयन्ति । वेदोऽखिलधर्ममूलम् इति कथ्यते । तं श्रुतिरूपं वेद यः
विलिख्य चतुर्धा विभक्तवान् तस्य कृष्ण द्वैपायनस्य जन्मतिथिः भवति
आषाढपूर्णिमायाम्। अतः व्यासपूर्णिमा इति अपि उच्यते ।
इदानीं
प्राचीनान् गुरून् स्मरामि ये स्वशिष्यान जगद्गुरुत्वेन प्रतिष्ठापितवन्तः। यथा
श्रीरामस्य गुरुः आसीत् भगवान् वशिष्ठः श्रीकृष्णस्य गुरुः आसीत् महर्षि
सान्दीपनिः श्रीशिवाजिमहाराजस्य गुरुः आसीत् श्रीरामदासः रामकृष्णदेवस्य गुरुः
आसीत् श्रीतोतापुरी। स्वामिविवेकानन्दस्य गुरु आसीत् श्रीरामकृष्णदेवः ।
शङ्कराचार्यस्य गुरुः आसीत् गोविन्दाचार्यः। गोविन्दाचार्यस्य च गुरु आसीत्
गौडपादाचार्यः इति एवं प्राचीनान् गुरून् स्मारं स्मारं वयं धन्याः भवामः ।
वञ्चक:बकः
कश्चन सरोवरः आसीत्
। तत्र अनेके जलचराः आसन्। कश्चन बकः अपि तत्र निवसति स्म। वार्धक्यकारणतः सः बकः
मत्स्यान् ग्रहीतुम् असमर्थः जातः। सः स्वस्य आहारार्थम् एकम् उपायम् अकरोत् । सः
सरोवरस्य तटं गत्वा रोदनम् आरब्धवान्।
तदा कश्चन
कर्कटकः तस्य समीपम् आगत्य पृष्टवान् – “भोः भवान् किमर्थं रोदनं करोति?”
तदा बकः उक्तवान्
'अद्य अहम् एकां दुर्वार्ता ज्ञातवान् यत्
द्वादशवर्षपर्यन्तम् अत्रअनावृष्टिः भविष्यति । अस्माकं सरोवरे किञ्चिदेव जलम्
अस्ति । शीघ्रमेव तदपि शुष्कं भविष्यति । तदा मम बान्धवाः भवन्तः सर्वे अपि मृताः
भविष्यन्ति इति मम बहु दुःखम् अस्ति।"
एतादृशीं वार्तां
श्रुत्वा कर्कटकः अन्यान् सर्वान् अपि जलचरान् सूचितवान्। तेन सर्वे अपि भीताः
अभवन्। ते बकस्य समीपम् आगताः विनयपूर्वकं तं पृष्टवन्तः – “भोः अस्माकं
प्राणरक्षणार्थं कोऽपि उपायः अस्ति किम् ?" इति
तदा बकः उक्तवान्
- "अत्र समीपे एव अन्यःकश्चन सरोवरः अस्ति । तत्र अधिकं जलम् अस्ति।तत् कदापि
शुष्कं न भविष्यति । यदि भवन्तः ममपृष्ठस्य उपरि आरोहन्ति तर्हि अहं भवतः
सर्वान्अपि तत्र नेष्यामि' इति ।
तदा ते जलचराः
अतीव उत्साहेन तं बक परितः स्थिताः । बक तान् पृष्ठे आरोप्य ततः प्रस्थितः।
किञ्चिद्दूरे एव एका शिला आसीत् । तत्र तान् स्थापयित्वा खादितवान् एवमेव सः बहून्
जलचरान् खादितवान्। एकस्मिन् दिने कर्कटकःउक्तवान् - "भोः! अद्य मां नयतु
।" इति
'अस्तु,
भवान् मम पृष्ठम्
आरोहतु' इति बक: उक्तवान्। तं च पृष्ठे आरोप्य
प्रस्थितः बक मनसि चिन्तयति स्म यत् अद्य कर्कटकस्य मास खादिष्यामि कर्कटकः
दूरादेव शिलायाः समीप पतितानि अस्थीनि दृष्टवान् । तदनन्तरं बकस्य निन्दनं
कृतवान्। किञ्च सः स्वस्य दन्तद्वयेन बकस्य कण्ठ दृढतया गृहीतवान् । वेदनया रोदनं
कुर्वन् सः वञ्चकः बकः मृतः ।
विचिन्त्य व्यवहारःकरणीयः
कस्मिंश्चित
ग्रामे पिता, पुत्रः च वसति स्म। पुत्रः सामान्यतः चतुर्विंशतिवर्षीयः आसीत् । सः
बाल्यकालात् एव नेत्राभ्याम् अन्धः आसीत् पिता पुत्रस्य इमा व्यथा जीवनपर्यन्तं
द्रष्टुं न शक्तवान् । तदा सः नगरस्य एकस्मिन चिकित्सालये पुत्रस्य चिकित्सां
कारितवान् । तदनन्तर चिकित्सकः पुत्राय कस्यापि अपरस्य नेत्रे योजितवान् तेन पुत्रः
द्रष्टुं शक्तवान्। एवञ्च बहु प्रसन्नः अभवत् ।
यदा नगरात् पिता
स्वकीयं पुत्रं रेलयानेन ग्रामं प्रति यात्रां कारयति स्म तदा पुत्रः वातायनस्य
पार्श्वे उपवेष्टुं हठम् अकरोत्। यतो हि पिता वातायनस्य समीपे शायिकायाम् उपविष्टः
आसीत्। पिता प्रसन्नः सन् वातायनस्य समीपेशायिकायां पुत्रम् उपवेशितवान् एवञ्च सः
पार्श्वे एव उपविष्टवान् । रेलयाने तयोः पार्श्वे इतोऽपि यात्रिणः उपविष्टाः आसन्
। यदा रेलयान प्रस्थित तदा पुत्रः औत्सुक्येन सोत्साहं ध्वनिम् अकरोत् । किञ्च सः
पितरम् उद्दिश्य वदति - "पश्य पितः ! नद्यः, सेतवः,
वृक्षाः,
मेघाः इत्यादिकं
सर्वमपि पृष्ठतः गच्छति । यानं सर्वमपि परित्यज्य अग्रे गच्छति इति भासते ।"
पिता अपि तस्य प्रसन्नतायां स्वीयं समर्थनम् अपि ज्ञापयति स्म ।
तस्य एतादृशान्
क्रियाकलापान् दृष्ट्वा तत्र पार्श्वे उपविष्टाः यात्रिणः चिन्तितवन्तः । यत्
प्रायशः बालकः मानसिकरूपेण विक्षिप्तः स्यात् इति।
पुत्रः बहुकालं
यावत् एतादृशान् क्रियाकलापान् करोति स्म। तदा पार्श्वे उपविष्टः कश्चित् यात्री
पितरं उक्तवान् - भवान् स्वकीयं पुत्रं कस्मैचित् उत्तमाय वैद्याय किमर्थ न दर्शयति
? यतो हि तस्य क्रियाकलापाः सामान्याः न सन्ति, एवं स्यात्
यत् एषः मानसिकरूपेण विक्षिप्तः स्यात् तस्य यात्रिणः वार्तां श्रुत्वा पिता
उक्तवान्- आवाम् अधुना वैद्यस्य पार्श्वे एव गतवन्तौ आस्व । ततः एव आगच्छावः ।
तस्य वचनं श्रुत्वा सः यात्री आश्चर्यान्वितः जातः। पिता उक्तवान् यत् मम पुत्रः
जन्मना एव अन्धः आसीत्।कतिपय-दिनेभ्यः पूर्वम्एव नेत्रज्योतिः सम्प्राप्ता,
किञ्च जीवने
प्रथमवारम् एवं संसारं पश्यति । अयं तदर्थम् एतादृश क्रियाकलाप करोति यतो हि एतस्य
कृते एतानि सर्वाणि वस्तूनि सर्वथा नूतनानि विद्यन्ते। वस्तुतः तथैव यथा कस्यचित्
लघुबालकस्य कृते भवति । पितुः वार्ता श्रुत्वा पार्श्वे उपविष्टाः जनाः स्वस्य
दोषम् अवगतवन्तः किञ्च तस्मात् सकाशात् क्षमां याचितवन्तः ।
अधोगतिकःअहङ्कारः
कश्चन ग्रामः
तत्र मध्यमार्गे कश्चन कृष्णवर्णीयः गोलाकारक शिलाखण्ड कुतश्चित् आपतितः।
मार्गे जनाः गच्छन्ति स्म। परन्तु कस्यापि तत्र अवधानं न भवति स्म । कस्मिंश्चित्
दिने कश्चन सज्जनः तेन मार्गेण यदा गच्छति स्म तदा शिलाखण्डेन तस्य पादस्य घट्टनं
भवति । सः कष्टम् अनुभूतवान्। तदनन्तरं सः चिन्तितवान् यत् यथा एतेन मम पीडा जाता
तथैव अन्येषाम् अपि भवेत् । अतः सः तं शिलाखण्डं दूरे क्षिप्तवान्। संयोगवशात् सः
शिलाखण्डः अधः कस्यचित् वृक्षस्य मूले स्थितः भवति ।
तत्रत्याः
ग्रामीणाः तं शिलाखण्डं दृष्ट्वा चिन्तयन्ति यत् एषः तु भगवान् नारायणः शालिग्रामः
एव । अतः सर्वे ग्रामीणाः तस्य श्रद्धया पूजा कुर्वन्ति। घृत-शर्करा-नवनीतलेपन-पुरस्सरं
दुग्धेन ,जलेन च तस्य अभिषेकं कुर्वन्ति । तस्मै धूपनैवेद्यादीन् समर्पयन्ति। तेन
कारणेन तस्य कान्तिः दिनादुदिनं वर्धते। समीपस्थस्य वटवृक्षस्यापि सम्यक्तया
विकासः भवति । वटवृक्षम् अपि ग्रामीणाः “देववृक्षः” इत्येव चिन्तयन्ति अतः तस्य
कर्तनं कोऽपि न करोति । एतेन प्रकारेण उभयोरपि आनन्देन कालः व्यतीतः भवति।
कालान्तरे उभयोः
कलहः भवति । कलहस्य कारणं भवति – अहङ्कारः। वटवृक्षः वदति - "अरे
शिलाखण्डभवान् मम कारणेन पूज्यते । मम अनुपस्थितौ भवतः अस्तित्वं नासीत् एव । एतत्
कदापि मा विस्मरतु।” तदा शिलाखण्डः वदति - “भोः! भवान् एवं कथं वदति ?
एतावत् पर्यन्तं
भवतःकर्तनं न जातम्। किञ्च जनाः मह्यं यत् दुग्धजलादिकं समर्पयन्ति तत्सर्वं भवान्
एव भुङ्क्ते न तु अहम् । अहम् अस्मि अतः जनाः आयान्ति । एतस्मात् भवतः अपि रक्षणं
भवति इति ।"
सर्वदा कलहः भवति
अतः द्वौ निर्णयं कुरुतः यत् इतः परम् एकत्र न वसावः। अग्रिमे दिने सूर्योदयात्
पूर्वमेव शिलाखण्डः स्खलनं प्राप्य नदीतीरे स्थितः भवति । कश्चन चर्मकारः त ततः
स्वीकृत्य गच्छति । सः स्व-आपणम् आगत्य पादत्राणनिर्माणस्यआधाररूपेण तस्य
शिलाखण्डस्य उपयोगं करोति। तदनन्तरं जनाः तस्य उपरि पादत्राणं स्थापयन्ति ।
सूर्योदयात् परं जनाः
वृक्षस्य समीपं गच्छन्ति परन्तु देवं तत्र न पश्यन्ति । अनन्तरं ते चिन्तयन्ति यत्
देवं विना एषः देववृक्षः भवितुं नार्हति । एषः तु अशुभः वृक्षः । अतः एतस्य
वृक्षस्य छेदनं कुर्मः इति सर्वे वदन्ति । तदा वृक्षः बहु रोदिति परन्तु तस्य
वृक्षस्य रोदनं कोऽपि न शृणोति ।
बालसंस्कृतपत्रिकातः संग्रहीतः
पढ़ रही हूं। और भी कथाएं डालते रहिएगा।
जवाब देंहटाएं