अनेकधर्मात्मकः संसारः । नानाभावात्मकं वस्तु । प्रतिपिण्डम् अनन्तगुणाः । प्रतिखण्डं नैके पर्यायाः । तथापि अखण्डा वस्तुनः अभिव्यक्तिः । विवक्षा सापेक्षिकी। विधिप्रतिषेधविकल्पतले वचनविन्यासो भङ्गीप्रियः । विवक्षितपदार्थो न सर्वात्मना गौणो न वा प्रधानः । ह्रासविकासयोः प्रवाहप्रसरे हि धारा परिणामिनी । ईश्वरनश्वरयोरन्तरतमचेतनामूले प्रीतिप्राणता अत्र सम्यक् रूपता । शुद्धिप्रकरणे इयमेव स्वाधिष्ठानमृत्तिका विनिमयतादात्म्ये साक्षात् शशिरेखा..... ।
अस्फुटमुहूर्तस्य परदृश्ये इच्छायाः चित्रकला जीवनस्य
लावण्यं मथ्नाति । कामनाया आणविक प्रतिरूपमेव क्षणद्वयस्य सम्बन्धः संजायते । श्रेष्ठायते
दृश्यानां समारोहः। क्षणपाते प्रणिपातं परिणमयति तर्पणप्रणवः । अग्निना प्रज्वलिता
रज्जुः अग्निरिव आभाति ।
वह्नीयति अहमिका । प्रकाशात्मना सा कायाकारतां परिपोषयति ।
तादात्म्येन सैव विशेषायते । तदनु अपृथक्सिद्धिः । न काया, न वा अहमिका केवलः कश्चित् व्यक्तिविशेषः । नामधारी कश्चित् आकृतिमान् ।
अभिमान सर्वस्वः कश्चित् ममकारपरिपोषकः । ममकारता तु साक्षान् मोहपर्युषिता छाया।
जीवनाय अनय़ा सह स्पर्धते जीवः । स्पर्धा विपरिणमते। संघर्षस्य अवसानं भवति । छाया
तु तथैव तिष्ठति । अनुभवे स्वीकरणीयो भवति पराजयः । शून्यमेयं च सकलपाथेयम्....।
मोनप्रतिबिम्बे अन्ततः आत्मानं प्रकाशयति प्रकाशः । रजनी
चकिता भवति । अपसरति झञ्झाया आतङकः। दिशा निर्मला भवति । स्वमहिम्ना स एव
प्रतिष्ठितो भवति । मौनवेदीमाश्रयते प्रणवः... ।
अभ्रपदः चिन्ताकुलः । अन्तिमवारं हि लिप्सा तस्य विवाहप्रस्तावं
प्रत्याख्यातवती । अतः स नितरां विक्षुब्धः। अतिशयेन च विचलितः । परन्तु
किमपि कर्तुं न प्रभवति । निजमर्यादां ळंघयितुं
शक्नोति । अहङ्कारमवनमयितुमपि न पारयति । पुनश्च विरक्तो भवति । कुपितो भवति ।
मनसा तां भर्त्सयति । इतस्ततो विचिन्त्य कलहायितुं सत्रध्दो भवति । प्रतिशोधपरायणो भवति । किन्तु कथमपि क्रोधं बिहरानेतुं
न पारयति । अहङ्कारस्तस्य इतस्ततः प्रकाशयते । भावनया स विक्षिप्तो दृश्यते ।
अस्थिरतया च चिन्तयति-अहं मर्यादासम्पन्नः । अहम् अभिजातः । अहं समाजस्य प्रतिभूः ।
अहमनुष्ठानस्य मुख्यः । अहं मनुष्येषु अग्रगण्यः ।
अत्र संघर्षो भवति ।
परं न जीवनाय, न वा जीवनधारणाय । संघर्षस्य मूलबिन्दुस्तु अहङ्कारः । अहमिकया
संघर्षः प्रसूयते, प्रसूयते च। परिपुष्यते संघर्षः तया एव । अन्ततः
संघर्षः भवति अहङ्कारेण सह। तदनु आत्मनियन्त्रणं परिह्रियते । सन्तुलनस्य का कथा ? कुतो विचारस्य भूमिः? कुत्र वा अनुचिन्तनस्य अवकाशः? पर्युषितश्रमदर्पणे विकृतप्रतिबिम्बमेव दर्शनीयं भवति ।
अमितसोपाने कालारोहः प्रपञ्चशीलः ।
प्रतीचीप्रभाले विहगविहारं परिक्षयति लिप्सा । दूरदिग्वलये
मेघाश्लेष ऐकिकः।वृक्षशिखरे अरुगानुरागः साक्षात्कारविमुखः सम्मुखे समुज्ज्वलस्तु
दिवसस्य तादात्म्यप्रत्याहारः ।
लिप्सा सामान्यं न्यश्वसत् । अभ्यस्तरीत्या अञ्चलं
सज्जीकृत्य पुनर्दपणमपश्यत् । प्रतिबिम्बस्य लावण्यं पूर्ववत् प्रत्यग्रम् । सा उत्फुल्लिता
। निमग्नतया परितश्च परिच्छिन्ना । अहमिकाया आकृतिः
दृढमङकिता तस्या मनसि । अभिरूपाया
आत्मश्लाघा तां कवलीकृतवती । पैतृकप्राचुर्ये सा आत्मचरितं प्रकीर्णीकृत्य
पूर्ववत् भ्रमणाय बहिरागता ।
गर्भस्य इह अहमर्थः ।
सेवको न्यवेदयत्।
— श्रीमन्.. ! आदिशतु...।
अभ्रपदः पश्चाद् विवर्त्यं अपश्यत् । वृद्धसेवको विनम्रः । मुखे तस्य
प्रश्नवचनं निरुद्धम् । किन्तु नयने जिज्ञासा सात्विकी । करमुद्रायां सेवापाटवशैली
पारम्परिकी । अभ्रपदः शान्तभावेन अभाषत।
—पितृव्य... !
—कथयतु श्रीमान् ।
—कः समाचार इदानीम् ?
—समाचारः किम् ? यथा भवते रोचेत तथा भवेत् ।
—लिप्सा तु प्रस्तावं प्रत्याख्यातवती ।
—भवतु नाम । अन्या किं न मिलेत् ?
—कुत्र ?
—वस्तुतो भवतः अभिलाषः
किम्? कथं च रुचिः?
—स्वभावसरला
काचित् दीनकन्या..
—भवान् अभिजातः खळु ?
—तेन किम्.. ? यदि काचित् दीनकन्या गुणवती तर्हि सैव योग्या मत्कृते
।
—सम्यक विचारयतु भवान् ।
—एतन्मया स्थिरीकृतम्। अन्वेषणम्...।
—मम कर्म इति जानामि ।
—तर्हि, आरभ्यताम्...। प्राप्तिसमनन्तरं साक्षात्कारः ।
दिनमणिः आजीवनमत्रः सेवकः। समवयस्को ज्येष्ठप्रभुः बहुदिनतो
दिवगतः । तस्यैव वचनं शिरसि निधाय दिनमणिः तत्पुत्रस्य सेवां निजीकृत्य अब वृद्धः
संजातः । इदानीमपि स तस्मिन् प्रसरे व्रती । परं सेवकेषु स ज्येष्ठ इति तस्य कश्चिदधिकारो
वर्तते । कनिष्ठप्रभुः सप्रत्यपि तस्य वचने गुरुत्वमारोपयति ।
दिनमणि: अभ्रपदस्य रुचिविषये निष्णातः । तस्य विचारधारायां
च अभ्यस्तः । एतदर्थं प्रभोः प्रत्येककर्मणि स शङ्काकुलः । प्रतिवचनं स सन्देहापन्नः । आदेशमात्रं क्रोधस्य
विषये स सचेतनः । पादपातमात्रं कुशलाकुशलविषये च सावधानः ।
दिनमणिः बाल्यादारभ्य इदानीमपि कनिष्ठप्रभोः पाश्र्वचरः ।
सदैव स समयं समीक्ष्य हिताहितं निवेदयति । किन्तु अभ्रपदस्य अहंकारनिकटे फलं तु
यथा तथा । दिनमणि व्यथितो भवति । ज्येष्ठप्रभोः हि कतिपयनीतिचयी तस्य कर्ममार्गं
नियमयति । स व्याकुलो भवति — इयान् धनराशिः, इयति च सम्पत्तिः तथापि कनिष्ठप्रभोः कार्पण्यं न न्यूनीभवति । न वा लोभ
उपशममाश्रयते । सर्वदा एकैव कथा — धनम् धनानि ।
उत्सवः शीतार्त्तः ।
पुलकपल्लविनी छाया । स्पर्शनिष्ठुरः पवनः पेयविधुरा
सलिलधारा । धूलिदासः परिवेशः अरण्यहृदये हिमपातस्य गोपनीयलिपिमाला लाञ्छनधर्मिणी ।
आकृतिविकारे स्वभावपच्या शुष्कताया उपस्थानश्रेणी ।
अलिन्दे उपविष्टा कातरप्रतिमा । इयं सा वृद्धा मेदिनी । श्रमे
व्यतीतं वयः । प्रतीक्षायां जीणों विश्वासः । औदासीन्ये अभिलाषो मलिनः । नयनाग्रे समयस्य वितानचित्रमपि
पर्युषितम्। चेतनायां तथापि प्रकाशते काचित् आवश्यकता । अपेक्ष्यते उत्साहो मनाक्...
केवलं जीवनाय..जीवनधारणाय... । प्रार्थनायां भिक्षास्थानमळं करोति किंचित् सामर्थ्र्यंम्...मनाक्
शक्तिः श्रमायः जीवधर्माय.. ।
पुष्करिणीतो जलमानीय गतानुगतिकरीत्या
गृहदेहलीमतिकान्तवती श्रावणी । मेदिनी किंचित् विवर्त्य पुनर्मुखं यथास्थानमानीय
चिन्तामग्ना संजाता । श्रावणी तस्याः श्रमसारा सम्पत्तिः । एकैव कन्या । वाल्यवयसि
वराकी जनकं हारितवती । तदनु मातृश्रमं निजीकृत्य प्रवर्त्तते । जीवने सहायो नाम
श्रम एव। अद्यत्वे सा प्राप्तयौवना
। एतदर्थं सावधानस्य रीतिः प्रगुणिता । वृद्धायाः कश्चित् श्रमभागः केवलं कन्यायाः
तत्त्वावधाने व्यत्येति ।
श्रावणी मातृमनोभावं सम्यक् आकलयति । निजस्थितिं विचारयति ।
दैन्यपरम्परां च निपुणतरं विमृशति । परमुपायो नास्ति । स्वाभिमानं विहाय किमन्यद्
वा वर्त्तते ? यावत् सञ्चितं तत् सर्व विक्रीतम्। यद्
वर्त्तते ? तदिदानीं विक्रेतु न शक्यते। भाग्यमादृत्य
भीतिसंकुलरजनीं यापयति श्रावणी ।
प्रतिदिनं निवेदनं पुष्कलम् । आवाहनस्य इङ्गितमपि प्रचुरम् । निमन्त्रणं च तथैव । सर्वमेतत् चमत्कृतिं जनयति
श्रावणीह्रदये... मनसि शरीरे च । किन्तु सा किंचिदपि निजीकर्तुं न प्रभवति ।
निजीकरणस्य आभोगे दण्डायमानो भवति सामाजिकतायाः स्वरूप धर्मः । अपवादस्य कश्चिन्मार्गः
तामेव स्पर्शपरिसरे आबध्दं दीर्घायते । वस्त्रहरणाय अकालः कश्चित् तस्या एव
दौर्भाग्यमनुसन्धत्ते ।
मनसि विपुला तथ्यकान्तिः ।
वस्तुतान्त्रिकजीवनेऽस्मिन् किवा आवश्यकम् ? मेदिनी मय्यते व्यथते अपि । परं मातृहृदये तस्याः स्नेहलेपो भंगुरः ।
समाधानविधुरा स्वाभिमाने पत्थाः परिपन्थी । तथापि तस्या वात्सल्ये बिम्बविस्तारं
स्फुरयति कन्याचरणस्य लाक्षा गुल्फवलयस्य मृदुमधुरमनुरणनम् ---। आवश्यकतायां पुनश्च माधुरीं तनोति कन्याकरे कश्चन स्वर्णवलयः
ग्रीवाबन्धे च कमनीयोहारः । तस्या एव सीमन्तसिन्दूरे मेदिनीप्रतीक्षा पूर्णाहूतिं
कामयते ।
पर्णशिखरे स्नेहविकला पीताभप्रतीतिः । पल्लीपीठे वातविक्षिप्ता
सस्यशोभा। सरोवरदर्पणे जलदस्य शुभ्रसम्मोहनं उदासपिशुनम् । क्षोभचपलतरङ्गधारे रौप्यरागः
साक्षात् महाकालस्य चरितलाञ्छनम् ।
ऋतुप्रभा पर्यायपालिता ।
परिवेशेऽत्र सम्मोहनस्य मधुच्छन्दः । परिपार्श्वे वातावरणं
नीतिनिष्ठम् । क्षोभसिक्ताऽपि जीवनधारा अत्र तादात्म्यविनिमये मधुरा
प्राकृतिकसम्पदा च उत्सप्रचुरा । अद्य तु न कश्चित् तादृशो दिवसः । किन्तु
कोलाहलमुखरो दृश्यते ग्रामः ।
श्रीमुखो हि समागतः ।
ग्रामीणानां वचने विस्मयधारा - कथं श्रीमुखः प्रत्यागतः? पिता दिवंगतः । स नागतः माताऽपि स्वर्गता । तथापि नागतः ।
इदानीं किमस्ति ? केवलो
भग्नावशेषः आवासः ।
श्रीमुखविषये नाना वार्त्ताः । केचित् वदन्ति — स बाल्यात्
अपहृतः । अपरे वदन्ति — पितुः क्रोधं विरुध्य स गृहं परित्यक्तवान् अन्ये कथयन्ति —
न...न...,तस्य जननी कस्मैचित् सन्न्यासिने तं समर्पयति स्म । पुनरपरे जल्पन्ति —
तस्य जननी तु विमाता आसीत् । अतः तामसह्यमानः स गृहात् पलायितः।परमिदानीं कि
संवृत्तम् ?
श्रीमुखः प्रसन्नः, गम्भीरोऽपि । तस्य
चतुर्पार्श्वे अनेके जनाः । नानाविधप्रश्नचयेन स सततं शरव्यो भवति । किन्तु कौशलेन
प्रत्येकं तुष्णीं स्थापयति । अहंकारे तस्य प्रतिभासते प्रवचनस्य नैपुण्यम् । प्रवचने
स्फुटं प्रतीयते ज्ञानच्छलना- अहं ज्ञानी अंह तत्त्वनिष्णातः अहं विमर्शसिद्धः अहं
च सर्वेषामुपरिस्थः कश्चित् उत्तमपुरुषः - पापपुण्यविचारत ऊर्ध्वस्थः कश्चित्
विकारविहीनो देवप्रतिनिधिः इत्येवं चिन्तापन्नः श्रीमुखो वाग्गम्भीरः ।
जनसमागमे श्रावणी स्थिरनयना ।
शीतार्त्तबिम्बोष्ठे तस्याः स्मितस्य लोभनीयस्वाक्षरम् ।
श्रीमुखो हि तस्या बाल्यसहचरः। बहुदिनानन्तरं सम्प्रति तस्य साक्षात्कारः । तस्यैव
दर्शननिमित्तं श्रावणी प्रतीक्षते । एकस्य गृहस्य अलिन्दे सा स्तम्भमालम्ब्य
दण्डायमाना । दरिद्रपरिच्छदे सा तथापि अमलिना । लज्जानिरीहविलोकने तस्या हृदयं
विमुक्तम्। यौवनस्य निसर्गविलासे सा चपलाऽपि विरुद्धता । अहंकारस्य निष्पिष्टशिखरे
शिशुचापल्यमेव तस्याः परिचयपरिधिं तरङ्गयति ।
समावेशः क्रमशो विरलोऽभवत् । श्रीमुखः श्रावणीसमीपमागतः ।
श्रावणी मनाक् पुलकिता। श्रीमुखश्च तरलितः । स अवनमितवाचा अपृच्छत् ।
— कथं वत्तंसे ?
अल्पं विहस्य श्रावणी उदतरत् ।
— सम्यक् ।
— माता कथमस्ति ?
— समीचीना ।
— अन्यत् सर्वं कुशलं नु?
शिरश्चालनेन कुशलमुद्रां प्रादर्शयत् श्रावणी । सावेगं च अपृच्छत्
।
— कियत्कालमत्र स्थास्यति भवान्?
सरलतया श्रीमुखो व्याहरत् ।
— वक्तुं न शक्नोमि । परम् इदानीमस्ति ।
— तर्हि, सकृद् अस्मद्गृहमागच्छत् ।
— नूनं गमिष्यामि ।
श्रीमुखो विवर्त्त्य अपरदिशा गन्तुमुत्कान्तः । श्रावणी
पश्यति-बाल्यबन्धुरयं सम्प्रति कियान्न गम्भीरः? तथापि न स योगी, न वा सन्न्यासी । साधारणः कश्चित् व्यवहितः प्रवासी । परिचितोऽपि अपरिचितः ।
अनासक्तोऽपि आसक्तः । परित्यक्तोऽपि न विविक्तः।
श्रीमुखो निजवासमुपगतः । आवासस्तु केवलो भग्नांशः.......... आभिजात्यस्य अवशेषः ...... परिणामस्य सारांशः.......... व्यवधानस्य विकलनिर्यास । गुल्मवैविध्ये अरण्यायते आभोगः । विहगानां परित्यक्तवसतिषु भयंकरमन्तः पुरशिखरम् । भित्तिविवरे निर्मोकं सपोयते । प्रकोष्ठकोणेषु ऊर्णनाभस्य जालराशिः क्षणसंकलने मग्नः प्रतीयते । वल्मीकाग्रे पुनश्च परिणामं कामयते मृतसरीसृपस्य अस्थिशेषः । शोभनीयगह्वरे तत्र उष्मतामाहरति अपरः सरीसृपो वास्तव्यः । पीतशुष्कपर्णनिवहे प्रच्छन्नो दृश्यते सकलोऽपि मार्गः ।
श्रीमुखः नमस्कृतवान् ।
सहसा प्रतिध्वनिता मातुः सम्बोधनशब्दाली । मनसि प्रतिबिम्बिता तस्या आकृतिः । पुनश्च लालित्यमतनोत् तस्या एव वात्सल्यनिविडमश्रु । खट्खट्ध्वनिताले यष्टिसंचारस्य कश्चन आभिजात्यभंगी-विशेषः पितृदेवस्य चलनप्रकारं व्यद्योतयत स्मृतिकेन्द्रो । उदासीनपिता वंशपरम्परां स्मारं स्मारं दिवंगतः। यदिदानीं सम्मुखमलकरोति तत्तु तस्यैव श्रमसंचितं शेषधनम् ।
वाष्पकवले श्रीमुखो विमथ्यते । सपदि पश्चात् कश्चित् तस्य
स्कन्धोपरि करं विन्यस्तवान् । श्रीमुखः चकितः । विवर्त्य च अपश्यत् । बाल्यात्
परिचितः सोऽयम् अभिधानेन पितृव्य..... नाम्ना रघुपतिः.... लिप्सायाः पिता । वाग्विधुरः श्रीमुखः
। दृष्टितो विस्मयमपसार्य स प्रणतवान् । रघुपतिः तमुदतोलयत् ।
वेदनार्ता वलिवेदी स्निग्धा ।
शुभाशुभसंलापेषु गन्तव्यं संक्षिप्तम् । रघुपतेः गृहं प्रापितः श्रीमुखः ।
किन्तु सहसा श्मश्रुधरस्य प्रवेशमालक्ष्य गृहेऽस्मिन् सर्वे चकितः । श्रीमुखोऽपि आश्चर्यान्वितः । परं तस्य अहमिकानिकटे
गृहवास्तव्यानां भोगनिविष्ट-पापिष्ठपरिधिः साक्षात् नरकस्य पार्श्ववर्ती आसीत् ।
अतिथिप्रकोष्टस्य द्वारमुन्मोचितवान् रघुपतिः। प्रवेशप्रार्थनापुरःसरं उपवेशनस्थानं
स निरदिशत् । स्नेहेन आत्मनः पुनरागमनमाश्वस्य अन्तःपुर प्राविशत् ।
अभिनिविष्टः श्रीमुखः । आत्मना च गम्भीरः । मनसाऽपि विक्लिन्नः । प्रस्तुतिमूले
तस्य अभिनयस्य पूर्वरंगः दृष्टिकोणे स्नेहसिक्तसरलता । अधरे स्मितचातुरी ।
निश्चेष्टमुद्राबन्धे प्रसन्ना शैली। किन्तु प्रतीक्षायां चपलायते लिप्सा ।
स्पन्दनताले प्रतीयते तस्या कल्पिता प्रतिकृतिः । बाल्यतः सांप्रतिककालपर्यन्तं
तस्या आकृतेः अस्फुटविलासः सम्मुखमावृणोति । व्यवधानविललितो विश्वासः। आशायां
तथापि स्नानं रचयति मिमिलिषा-अभिभवस्य प्रक्रियायां सामर्थ्यं वर्धयति लिप्सा नूनमागमिष्यति।
स्वागतवेलायां नूनं सा चमत्कृता भवेत् ।
मन्थरपादपातस्य क्षीणध्वनिः क्रमशः श्रुतिपथमागतः ।
श्रीमुखः पुलकितः । अभिमानस्य सारल्यं स प्रत्यग्रीकृतवान् । चिन्ताविमुक्त इव च
स्थानापन्नः संजातः । अवगुण्ठनवती उपाहारपात्रेण सह जलपात्रं यथास्थानं स्थापितवती
। शीर्णकरद्वयस्य कम्पनप्रसारम् आलक्ष्य विचलितः श्रीमुखः । विस्मितभावेन स तां
निरैक्षत । अवगुण्ठनं किञ्चित् अपसार्य वृद्धाऽपि व्यलोकयत् ।
— त्वं श्रीमुखः, पुत्र !
श्रीमुखः हतवाक् सञ्जातः । ततः प्रकृतिस्थो भूत्वा अवदत् ।
— हँ...,हाँ...।
— अहो...., बहुपरिवर्त्तितः । कथं वा परिचेतुं शक्नुयाम् ? श्रावणी त्वद्विषये उक्तवती । श्रावणी मम कन्या, जानासि नु ?
— जाने...।
— तव साक्षात्काराय मनो व्याकुलमासीत् । दिष्टया साक्षात्कारः संजातः । परिचेतुं
शक्नोषि नु ?
— सम्यक् परिचिनोमि ।
— तव वा कथं ज्ञानं स्यात् ?
पिता ते गतः । माताऽपि
गता । तदनु को वा मां पृच्छेत् ?
भाग्यमादृत्य अत्र कर्मं
करोमि । वराकी श्रावणी मे गृहे एकाकिनी । न जाने, कदा तस्या भाग्योदयो
भवेत् ?
समयेऽस्मिन् सपरिवारो रघुपतिः तत्र उपस्थितः । वृद्धा मेदिनी
मनाक् पश्चाद्गता । श्रीमुखो दण्डायमानो भूत्वा अभिवादनं न्यवेदयत् । रघुपतिः श्रीमुखस्य परिचयमकारयत् । लिप्साया नयने जुगुप्सा। लिप्साजननी भवानी च विमुखा ।
रघुपतिस्तु वत्सलः । भ्रुकुञ्चन स्फुटीकृत्य भवानी कर्मच्छलेन आलापमाभवारयत् ।
लिप्सां च गृहीत्वा अभिजात्यव्याजं प्रदर्शयन्ती प्रस्थिता। आनुगत्यं दृढीकुर्वांणा
मेदिनी तामन्वसरत् । प्रसंग वक्रीकृत्य रघुपतिः श्रीमुखेन सह आलापमारभत ।
अतिथिप्रकोष्ठे कियत्कालं स्थातुं स निरदिशत् । तत्र सर्वविधं सौविध्यं च प्रत्यशृणोत्
।
पल्लीपल्वले शशिरेखा आत्मीया ।
शीतकातरशरीरं मलिनवसनेन सयत्नमाच्छाद्य कलसीं कटिदेशे
संस्थाप्य मन्थरगत्या पल्वतः प्रत्यागच्छति श्रावणी । पथि मिलितः श्रीमुखः।
रोमाञ्चचञ्चला श्रावणी विरता । श्रीमुखोऽपि पुलकितः । श्रावणी किञ्चिदभिमानेन
उक्तवती ।
— भवान् महान् संजातः। अस्मान् वा किमर्थं पृच्छेत् ? श्रीमुखः सरलभावेन अवादीत् ।
— नहि, श्रावणि! तथा किमपि नास्ति । मात्रा सह साक्षात्कारः संजातः। नूनं ते गृहं
गमिष्यामि ।
— दरिद्रस्य गृहं? को वा पृच्छति ?
— न न, तथा न.......। मत्कृते सर्वं साधारणम् ।
— तथापि ....।
— नूनं गमिष्यामि ।
— पुनरपि मम
निमन्त्रणम् ।
— भवतु, स्वीकरोमि ।
श्रावणी स्मितेन मनोगतं प्रकटीकृत्य प्रस्थिता । सौजन्यं
गम्भीरीकृत्य श्रीमुखः पल्वलाभिमुखमागतः । तस्मिन्नेव मार्गे आगच्छतिस्म सेवको
दिनमणिः । श्रीमुखस्य आगमनविषये स श्रुतवान् । परमधुना सम्मुखे दृष्ट्वा स हृष्टः ।
दूरतः अञ्जलिं विधाय स प्रणतिं न्यवेदयत् ।
— नमो नमः, कनिष्ठप्रभो!
— पितृव्य! केन प्रकारेण
मां परिचितवान् ?
— कथं न परिचिनोमि? कालो गतः किं कथा गता?
— सम्प्रति कुत्र?
— अभ्रपदसमीपे
अस्मि । भवान् तु बाल्यात्...।
— तिष्ठतु तावत् ।
— इत्थं कियदिनं
यावत् भ्रमेत्?
— यावत् सम्भवेत् ।
— तथा न करोतु । गृहसंसारं
करोतु । भवदर्थं किं कन्याया अभावो भवेत्?
— अन्वेषयतु नु...
मुग्धप्रहरः प्राज्ञः।
रघुपतिः मग्नः । कन्यापिता कियान्न व्याकुलः? कियान्न शङ्कित? कन्याया: प्रकृतिं प्रवृत्तिं च विमृश्य
तदनुगुणवरविनिश्चये कियान्न सचेतनः ? परपुत्रस्य निजीकरणे कियान्न
श्रद्धान्वितः? परमत्र कश्चित् प्रतिबन्धः तादात्म्यं प्रतिरुणद्धि । प्रतिबन्धोऽयं
भेदनिष्ठः । भेदश्च धनमूलः । पुनश्च धने आभिजात्यं नाम अहंकारः । अहंकारे मोहो
जन्मगतः... वंशगतः.... जीविकाभित्तिकः..... दैशिकः.... कालानुपातिकः ।
संकीर्णमानवात्मा निष्पीडितः। समाधानप्रसरे समस्यासृष्टिः
तस्य मोहजड़ा दूरदृष्टिः । ईर्ष्याफूत्कारः तस्य कर्मणः प्रारम्भिकसीत्कारः ।
परस्खलनं च तस्य कृतेः परिभाषा । जुगुप्सा गतेः परिनिष्ठितदशा । किं परिणामः .... ? कोऽयं शीर्षबिन्दुः .... ? क्व वा अवनमनस्य आत्मपीठम् .....?
प्रकृतिस्थो रघुपतिः विवशः ।
आशा महती । विश्वासो द्रढीयान् । अनकूलः उत्साहः । पत्नीं मृदुसम्बोध्य
सः अपृच्छत् ।
— यदि लिप्साकृते श्रीमुखः...।
अर्धोक्तिं वारयन्ती भवानी अगर्जत् ।
— तन्न कथयतु । कन्या मे किं भिक्षुणी भवेत् ?
— अयि ! तथा न... । स वराकः कुत्र गमिष्यति ?
— अत्रैव स्थित्वा... ।
— अत्र किं करिष्यति ?
— अत्र नाम तस्य भूसम्पत्तिः वत्तते । यदि स किमपि कर्म करिष्यति तर्हि अल्पदिनाभ्यन्तरे
पुनः प्रतिष्ठितो भवेत् । तेन सह अस्मत्कन्या... ।
— तिष्ठतु...। एतावति स्थागयतु । य इतस्ततो भ्रमणेन कालं नयति स पुनः किं कर्म
करिष्यति ? यायावराणामुपरि को विश्वासः ।
— अयि ! तव वचनेन सह न कस्यापि विरोधः । किन्तु अस्मत्कन्याविषये चिन्तय । यथा
तस्याः प्रकृतिः तथा तु योग्यः कश्चित् न मिलति । एवं कति प्रस्तावाः गताः । सा किं
अनूढा तिष्ठेत् ?
— किमर्थम् अनूढा तिष्ठेत् ?
सा किम् असुन्दरी ? अथवा अस्मन्निकटे धनं नास्ति ?
— न तथाऽत्र विषयः। अस्माभिः तथा कश्चित् अन्वेष्टव्यो यः कन्यायाः प्रकृतिं
सहेत अन्यथा सदा कलहः।
— भवतु नाम । किमनेन यः कोऽपि अधमः मम कन्यायाः पतिः भवेत् ?
— कथमेतत् ? अयोग्यस्य प्रसङ्ग इह नास्ति । प्रस्तावोऽत्र
समर्थस्य... ।
— कथमयं समर्थः ?
— व्यवहारतः प्रतीयते ।
— एवमधमा अपि व्यवहारकुशलाः सन्ति।
— नहि । अधमाः चाटुकुशलाः
। न तु व्यवहारनिपुणाः ।
— इदानीं तु सर्वे चाटुकाराः ।
— तथा न वक्तव्यम् । सर्वे कथमेतादृशा भवेयुः ? ये स्वार्थकातराः तेषु चाटुकारिता
दृश्यते ।
— जनो नाम स्वार्थकातरः । कथमयं न तथा ?
— न...न... । नाऽयं स्वत
इह आगतः । मया स श्रद्धया निमन्त्रितः ।
भवानी नीरवा । रघुपतिः मनाक् आश्वस्तः । किन्तु चिन्तापन्नः । येन केन प्रकारेण लिप्सायाः पाणिग्रहणं कारयितव्यम् । अन्यथा न शान्तिः ।
न वा कर्मणः परिपूर्णता । भाविचिन्तया किमस्ति ? भाग्यायत्तः
परिणामः । पितरस्तु जन्महेतवः ।
वचनस्य पदे पदे आकाङ्क्षा । शब्दोऽपि प्रतीतिशरणः । अर्थश्च
साकाङ्क्षः । इङ्गितमात्रं भानप्रतीक्षा । भानं च विकल्पमूलम् ।
विकल्पे नानार्थता । अतो बोधो विक्लवः । उद्देश्यं स्फुटं चेत् विधेयं स्पष्टं भवति ।
परमिदानीं निगूढमुद्देश्यम् । अतः प्रकरणग्लानिः । तात्पर्यं च अवधानं न स्पृशति।
एवं विमथ्यते दिनमणिः ।
दिनमणिः प्रवयस्कोऽपि सेवकः । ज्येष्ठोऽपि स भृत्यः । अतो
बलात् किमपि वक्तुं न प्रभवति । अपृष्टः स किमपि उपदेष्टुं न शक्नोति । मनसि तस्य
कोलाहलः । सम्मुखे प्रभोः मृदुविषादः । एकदा सः अपृच्छत् ।
— किमर्थं विषीदति भवान् ? स्पष्टं कथयतु ।
को वा अभावः...?
चिन्ताकुलः अभ्रपदः अपृच्छत् ।
— किम्.... 'अन्वेषणं समाप्तम् ?
— समाप्तम् .... ।
— तर्हि, का सा गृहेऽस्मिन् वधूः भवेत् ?
— मन्ये, मेदिनीं भवान् जानाति ।
— केयम्...?
— सा दीना... वृद्धा...।
— जानामि...। तस्या अत्र कः सम्पर्कः ?
— तस्याः कन्या श्रावणी ।
अभ्रपद: उच्चैरहसत् ।
— पितृव्य! भवान् दासमनोवृत्या मम
विवाहं चिन्तयति नु ? दिनमणिः भीत्या अवदत् ।
— न.... नहि....., श्रीमन् !
— किं भवन्नयने दासीं दीनां वा विहाय नान्या काचित् प्रतिभाति?
— या आसीत् सा तु भवन्तं
प्रत्याख्यातवती।
सहसा अभ्रपदः सावधानः संजातः । अहंकारः तस्य उदग्रोऽभूत् ।
स प्रतिशोधपरायणतया अगर्जत् — नूनं तस्याः
कृते किंचित् दर्शयितव्यम् ।
दिनमणिः शान्तभावेन अबोधयत् । प्रकृतिस्थतया चिन्तयतु ।
— नहि...। दासी भवतु वा दीना भवतु । विवाहः करणीय एव।
— स्थिरमनसा चिन्तयतु । भवतः पदमर्यादा अस्ति । वंशस्य परम्परा याश्च आभिजात्यं
वर्त्तते । सम्यक् विचार्य किमपि निश्चयं करोतु ।
— विचारे पुनः को लाभः ? भवान् गच्छतु ।
तत्रैव सम्बन्धं विधाय प्रत्यागच्छतु ।
— किमेतत् ?
— निष्कारणं न विलम्ब्यताम् ।
दिनमणिः न किमपि प्रत्यवदत् । शनैः मस्तकनमनेन प्रभुवचनं स्वीकृत्य
बहिरागच्छत् ।
बोधो निराकाङक्षः ।
पत्नी सहमता इति रघुपतिः निश्चिन्तः । इदानीं स कन्यां बोधयितुं प्रवृत्तः ।
कन्यायाः प्रकोष्ठद्वारमुपगम्य मृदुतया स समबोधयत् ।
— जाते--! जाते...! लिप्से...!
द्वारमुन्मोचितम् । परमुन्मोचने सम्प्रति अलसस्पर्शः आमन्त्रणे दुराग्रहः ।
वचनविनिमये कुण्ठा। अभिमानपिशुनं लिप्साया लपनम् । मृदुव्यथितो रघुपतिः अपृच्छत् ।
— कथं विषादः ? किमर्थं कुण्ठा ? किमयं विवाहो न रोचते ? लिप्सा साभिमानमुक्तवती ।
— न... हि... । न मे रोचते
।
— तर्हि, का ते इच्छा?
— नाऽहं विवाहं करिष्ये ।
— किमर्थम् ... ?
— न कस्यचित् पुरुषस्य
प्रभुत्वे जीवनं नेतुमिच्छामि । रघुपतिरहसत् ।
— अरे ! विवाहानन्तरं गृहे प्रभुत्वमुभयस्य । कर्मदृष्टया कदाचित् पुरुषः प्रभुः संजायते, कदाचिच्च स्त्री महीयसी
भवति ।
— नहि...। न कस्यचित् आदेशेन निर्देशन वा अहं कर्म निभालयितुं शक्नोमि ।
— त्वमनभिज्ञा, जाते! सम्यक् बोध्दुं न प्रभवसि । इदानीं समयः । यदि न विचारयसि तर्हि पश्चात्
अनुतापं करिष्यसि। पश्य जाते ! अतिदूरात् सर्वमपि वस्तु मूल्यहीनं प्रतीयते । निकटे
मुल्यहीनमपि दुर्मूल्यायते ।
— कन्याया अधिकारं कथं न समर्थयति भवान् ?
— अधिकारनाम्ना अनभिज्ञवचनं कथं वा स्वीकुर्याम् ? परिणामदृष्टिस्ते संकीर्णा । अनुभवोऽपि अपरिपक्वः । कथमेतन् न बुध्यसि ? यदहं वच्मि करोमि वा, किं तत् सर्वं ते अहिताय......?
लिप्सा निरुत्तरा....।
रघुपतिः पितृत्वं स्वस्थीकृत्य पुनरबोधयत् ।
— जाते.... ! मार्गपरिष्कृतये पादपानामुच्छेदो न सर्वथा आवश्यकः । छत्रमस्तीति किं वृक्षच्छाया अनावश्यकी ? सर्वदा कालो न समानः । सम्यक् चिन्तय ।
रघुपतिः प्रस्थितः । अपरमार्गे भवानी कन्याप्रकोष्ठं प्रविष्टा। कन्याया
विषण्णमुखमवलोक्य सा किञ्चिद् विचलिता । व्यग्रतया च अपृच्छत् ।
— किमभूत् ? पिता किमपि उक्तवान् वा ? जाने, स तादृशो जनः।
किमपि अज्ञात्वा भर्त्सयितुं प्रवर्तते । लिप्सा प्रत्यवदत् ।
— न... न .... । तादृशं किमपि ।
— तर्हि कथं विषीदसि ?
— पिता तु विवाहविषये........
— अरे.......! हाँ । अहमेतत् विस्मृतवती। किं तस्मिन् विषये त्वम् ....
— अहं तु किमपि नोक्तवती ।
— कथं नोक्तवती ? पिता यदिच्छति तत् किं बलात् करिष्यति ?
लिप्सा किञ्चित् चतुरतया अपृच्छत् ।
— किं तव पिता त्वद्विवाहविषये बलात् त्वां न प्रवर्त्तितवान् ?
— तदानीं समयो भिन्न आसीत् । इदानीं युगः परिवर्तितः।
— युगः परिवर्तित इति किं मनुष्यप्रकृतिः परिवर्त्तिता ?
— ओ ? त्वामहं बोधयितुं न प्रभवामि कदाचित् पितुः पक्षमाश्रित्य वदसि चेत् कदाचित् मत्पक्षमवलम्ब्य। न जाने, कथं ते प्रवृत्तिः ? त्वद्विषयं त्वमेव निभालय ।
लिप्सा अहसत् ।
विरत्या भवानी प्रस्थिता । लिप्सा तु चिन्तामग्ना। माता एव प्रथमशिक्षयित्री । जीवनस्य प्रारम्भतः तस्याः प्रत्येकस्पर्शः यात्रां नियमयति । भाषा निःसरति तस्या एव मुखतः प्रथमतः । तस्या इङ्गितमर्थरूपेण आहरति शब्दः । तस्याश्च चिन्तनप्रकारः हस्तांतरी भवति । पदक्षेपमात्रं तस्या दृष्टिः सम्बन्धरचनायां प्रतिफलति । किन्तु नियन्त्रणक्षेत्रे प्रभावं तनोति पिता । उभयस्य व्यवहारसमन्वये सन्ततेः मनोभूमिः निर्मीयते इत्थं चिन्तनवलये पितुः वार्धक्येन सह कलहायितुं नेच्छत लिप्सा ।
आधार: चिन्मयः ।
अदूरे दृश्यते मार्गाणां संयुक्तशीर्षरेखा । दिग्वलये कुज्झटिकास्पर्शो
मृदुतरः । शीततल्पे विलोक्यते वसन्तस्य उत्सवभूमिः । धूसरशरीरे स्वेद: प्रारम्भिकः
। काकस्य अविच्छिन्न विरुतितले पिकस्य खण्डितकूजनं मन्थनमलिनम् ।
श्रीमुख उपविष्टः ।
सम्प्रति लिप्सया सह विवाहमनुकल्पयन् स गम्भीरः ।
व्याजान्धा तस्य अहमिका । सम्मुखे कश्चन दानाय उत्सुकः । अपरभागे अन्य
परिग्रहनिमित्त प्रतीक्षितः । एकत्र याचकीयकातरता । अन्यत्र आत्मगौरवस्य परिपाटी ।
मध्ये अहङ्कारस्य अस्पृश्यभूमिः । पुनश्च अभिमानस्य कश्चित् निषिद्धप्रदेशः ।
श्रीमुखः कुण्ठाव्याजं गम्भीरीकृत्य रघुपतेः अनुरोधं स्वीकृतवान् ।
प्रणम्य पुरुष इव मुद्राबद्धः श्रीमुखः । दीर्घश्वासे तस्य पार्वत्यतटिनी इव
वक्ररीतिं विस्तारयति श्रावणी । तरङ्गस्य फेनचूड़ा इव प्रतीयते तस्या हास्यावली ।
नयने मायामयी कौमाररचना... आद्यवारिपाते श्रावणी साक्षात् मृत्तिकायाः प्रसन्नसुरभिः ।
सहसा मार्गे आविर्भूतो दिनमणिः । किमपि अभिलक्ष्य स त्वरते । अपरपार्श्वतः श्रीमुखः किंचिदुत्सुकतया शब्दापितवान् । किन्तु दिनमणि, नाशृणोत् । पुनः श्रीमुखः समबोधयत् । परं दिनमणिः त्वरया मार्गान्तरं प्राप्तः । वृक्षान्तराले च अन्तर्हितः ।
दिनमणेः भृत्याभिमाने सम्प्रति प्रभोः शुभकामना बलवत्तरा । येन केन प्रकारेण उपायेन च प्रभोः मङ्गलं विधातव्यमिति स दृढं चिन्तयन् मेदिनीगृहाभिमुखम् उपसर्पति। दूरतः तं विलोक्य मेदिनी कृतकृत्या अभवत् । साग्रहं च अपृच्छत् ।
— भ्रातः ! दीनगृहे कथमद्य समागमः ? सप्रसन्नमनो दिनमणि: व्यसदयत् ।
— इदं मम सौभाग्यं यदहं तव गृहे प्रार्थी ।
विस्मिता मोदिनी ।
- प्रार्थी.....?
— हाँ... हाँ... याचकः । त्वन्निकटे सौभाग्यं याचितुमागतः ।
— किमर्थं विडम्बयसि ?
— नेयं विडम्बना । अनेन तव मङ्गलम् ।
— मम वा किमस्ति मङ्गलेन ? मनसा चिन्तयतु ।
— हाँ... हाँ...। न केवलं मङ्गलम्। तस्यास्तु महत्सौभाग्यम् ।
— भवतु भवादृशानां स्वस्तिवचनानि सदैव सन्तु ।
— वचनेन किम् ? साक्षान् मङ्गलमानीय उपस्थितः । वद, ग्रहीतुं शक्नोषि ? मदर्थं किं ते पारितोषिकम् ?
मेदिनी तु चिन्ताकुला । जीवने प्राप्तस्यापि सर्वथा ग्रहणं सम्भवति । सत्यपि
अभिलाषे न वा सर्वं दातुं शक्यते । दीनहृदये तस्याः कति स्पदनानि उद्भूय तिरोभूतानि । सा नीरवतया भावनायां निमग्ना वर्तते ।
दिनमणिः आवेदयत् ।
— आगच्छ....., मया सह ।
— कुत्र... ?
— मत्प्रभोः समीपम् ।
— तत्र....!
— तत्र किम् ? मम प्रभुः तव कन्यायाः पाणिग्रहणमिच्छति ।
— किमेतत् ? स तु महाजनः । वयं पुनः....।
— एतेन किम् ? स तु तव कन्यानिमित्तं बलवदनुरागी । अतो विवाहमिच्छति
। अनेन कन्या ते मम प्रभुपत्नी भविष्यति । त्वमपि तत्र स्थास्यसि ।
मेदिनी तु कुण्ठिता ।
दिनमणिः विबोधयति ।
— अयि ! प्रस्तावः अङ्गीकरणीयः । अनेन कन्या ते सुखिनी स्यात् । त्वमपि तत्र सुखेन शेषजीवनं निभालयिष्यसि । का हानिः ?
— हानि: -- ? हानिः... ? हानि:.... ?
इत्थमात्मगुञ्जने सा विमथ्यते ।
दिनमणिस्तु उत्सुकतया वदति ।
— कथम् अमङ्गलमनुशोचयसि ? वृद्धा संजाता । इतः परं वा किमस्ति जीवने ? भुक्त्वा सुप्त्वा च दिनं नेष्यसि इति कथं न चिन्तयसि ?
मेदिनी तथापि कुण्ठिता । न सा प्रस्तावं स्वीकत्तुं शक्नोति, न वा प्रत्याख्यातुं प्रभवति । न पुनः दृढ़तया अधिकाररूपेण प्रस्तावान्तरं विन्यस्तुं समर्था भवति । सा तु
अविमर्शव्याकुला ।
दिनमणिः श्रावणीं दूरतो विलोक्य किञ्चित् चञ्चतोऽभवत् ।
मेदिनीमभिलक्ष्य अवदत् ।
— तव मौनता नाम
प्रस्तावेऽस्मिन् सहमतिः । अतः शीघ्रतया विवाहस्य आयोजनं करिष्यामि ।
मेदिनी वाग्विधुरा ।
श्रावणी जलकुम्भं कटिदेशतः शनैः अवतारयन्ती गृहं प्राविशत् । त्वरया च आगम्य दिनमणिमपृच्छत्
।
— पितृव्य ! किं वा कर्म अस्मन्निकटे ?
दिनमणिः सरलतया उक्तवान् ।
— माता ते वदिष्यति । इदानीं व्यापृतोऽस्मि । आगच्छामि....
मेदिनी तथैव विलोकयन्ती स्थिरा । दिनमणिदृष्टितः अन्तर्हितः । सन्ध्यामभिवन्दितं श्रावणी पूर्ववत् कर्मतत्परा संजाता। मेदिनी तु दिनमणेः वचनस्य याथार्थ्यमाकलयितुं न शक्नोति । सा विक्लवमनसा सन्ध्यादीपं प्रणतवती। ततः शनैः श्रावणीमाकारितवती। आगम्य पार्श्वे उपाविशत् श्रावणी । शङ्कितवचनेन मेदिनी दिनमणेः आलापस्य सारांशमुपस्थापितवती । सहसा चमत्कृता श्रावणी । कश्चन अहेतुकपुलकतरङ्गः समचरत् तस्या मनसि शरीरे च । सा विमूढ़ा इव किमपि वक्तुं न प्राभवत्। न वा घटनायाः सम्भाव्य कल्पयितुमशकत् । केवलमस्थिरा चञ्चला च भूत्वा अलिन्दपार्श्वस्थ -गृहाङ्गणे इतस्ततो व्यहरत् । मेदिनी कन्यायाः चाञ्चल्यमालक्ष्य शनैरुत्थाय पाकप्रकोष्ठं प्राविशत् ।
पवनस्पर्शो वासन्तिकः ।
श्रावणी मुग्धा । दूरे किमपि न दृश्यते। पर तत्र तमो नास्ति । अदूरेऽपि किमपि न
विलोक्यते। अत्र च प्रकाशप्रतिबन्धको नास्ति। सर्वमत्र प्रतीतिधूसरम् । सर्वमिह आवेशपाण्डुरम्। सर्वं च
बोधविलोलम् । अधीरा श्रावणी आकाशमपश्यत्। तत्र लावण्यनिविडः चन्द्र। । परितः शशिरेखा... ।
सैव रजनीदिवसयोः गहनाऽभिज्ञाने यौगपद्यभूमिका । स्मिताधरयो कवोष्णमिश्ररागे सा तु साक्षात् आश्लेषहृदयस्य अयत्नस्मारिका । सकलाभिनये सैव
नाट्यनाभिः । जीवनस्य कान्तिविनिमये सा पुनरेका शान्तिपताका ।
विमलज्योत्स्नाधारे आद्यमलयं सेवमाना श्रावणी नयनं न्यमीलत् । कर्णपथे तस्या
वृद्धपिप्पलस्य पर्णशृङ्गारः। पर्याकुलकेशेषु पवनः सङ्गप्रियः । शिथिलाञ्चलस्य
तन्तुराशिषु विक्रीडति तुलसी-चूड़ा। म्लानमन्दारस्य विकलसंकोचने रजनी क्रमश घनीभवति । यजनप्रकरण पृथुलम् ।
यजनमिह सङ्गतिकरणम् । सङ्गतिरपि यज्ञः। अतो दाम्पत्ये यज्ञस्य स्वरूपसामर्थ्यम् ।
इन्द्रियतर्पणं नात्र तात्पर्यम्। अपितु समर्पणम् । समर्पणमत्र कश्चित् ज्ञानकल्पः । ज्ञानमेव भोगः । अप्राप्तिदशायां हि प्राप्तिज्ञानेन
कश्चन अभिमानी भवति धनमस्तीति प्रतीतिमात्रेण स धनीति अभिजानाति । प्रणयं कल्पयन् से
प्रणयी संजायते। ज्ञानमात्रेणैव भोगः प्रारभ्यते। नेदृक्, न तादृक् इति नेतिज्ञाने सम्प्रति श्रावणी भोगनिगूढ़ा ।
अभिधेयविवर्त्ते सूर्यो नवीयान् ।
स्वरूपसामर्थ्ये अभ्रपद उग्रः । विशेषाधिकारे तस्य निजसाक्षिता बलीयसी ।
इच्छेव तस्य कृते प्रमाणस्य अभिधानम्। विरक्तिमयवातावरणे अभ्रपदः प्रतीक्षते।
दिनमणिः न्यवेदयत् ।
— विवाहदिनं निश्चितम् ।
— विवर्त्य अपश्यत् अभ्रपदः ।
— तर्हि, किमपेक्ष्यते ?
— उत्सवस्य प्रकारः कथं स्यात् ?
— यद् भवेत् सर्वमस्मिन् प्रासादे एव ।
— तर्हि, कन्या----''
— अत्रोपस्थापयितव्या सा । तदर्थं प्राधान्येन प्रासादस्य केचन प्रकोष्ठाः सज्जीकर्त्तव्याः।
दिनमणिः प्रस्थितः ।
अकारणकरुणातले मेदिनी आत्मधन्या । श्रावणी तु अनागतस्य दासी । परिस्थितिं प्रतीक्षते श्रीमुखः । सहसा अभ्रपदेन सह श्रावणीविवाहं निशम्य स विचलितः । परं निरुपायः । अपरस्य छदितले स्थित्वा कथमन्यस्मै वा आश्रयं दातु स प्रभवेत् ? तस्य सकलः सहानुभवः क्षणाय आविर्भूय तिरोऽभवत्। कर्मव्याजेन स रघुपतिगृहतो निर्गतः।
ग्रामोपान्ते मेदिनीकुटीरं पूर्ववत् दृष्टिविधुरम्। श्रीमुखः पुरः सृतः। सम्मुखे
स्नेहलाञ्छितगृहे दैन्यस्य पृथुलसन्दर्भः ।
द्वारं पिहितम्। अङ्गने कति विहगाः काकलिमुखराः । आलिन्दे कुक्कुर आश्वस्त्या
निद्राति । श्रीमुखः घटनां सम्यक् आकलितवान् । मौनतया च प्रतिनिवृत्तः ।
अलसविलासे कालो निमीलनललितः ।
दिनमणिः विलोकयति । चिह्नमात्रशरणा विवाहवेदी । भित्तिषु अभिधेयनिष्ठुरा
मङ्गललेखाः। विवर्णा निमन्त्रणस्य विशदप्रस्थाः। अभिप्रकाशस्य दीपाली अप्रकाशनिगूढ़ा। स्मृतिमात्रविषयो विवाहस्य पूर्वरङ्गः। । दोषदृष्टितले सम्प्रति विलुलित रङ्गस्य
माहात्म्यम्। पार्थक्यस्वभावे परिच्छिन्नः अधिकारस्य परिसरः । एकात्म्यवलये
पुनरंकुरितः अहंकारस्य विमूढविन्दुः । नक्षत्रायते व्यामोहकन्दली ।
मृदुसम्बोधनं निशम्य दिनमणिः प्रकृतिस्थः संजातः । स इतस्ततः अपश्यत् । पुनश्च
सम्बोधनं मृदुतरम् ।
— पितृव्य ---!
पश्चात् श्रावणीं विलोक्य कृतकृत्योऽभवत् दिनमणिः । श्रावणी इदानीं कूलवधूः .... अभिजातस्य पत्नी... प्रभोः गृहिणी ... । दिनमणिः विमग्नः - वृक्षमारोपयति जनः । किन्तु वृक्षो यदा महाद्रुमो भवति तदानीं स तमेव प्रणमति । कदाचिदपि विशादसमये तन्निकटे मनो निवेदनं करोति । तस्य गौरवं गाम्भीर्यं च आकलयन् मुग्धो भवति ।
श्रावणी अत्र नवीना । अभिजातव्यवहारेण सह अपरिचिता । गृहस्य पारम्परिका ।
— रीतिविषये च अनभिज्ञा । अत प्रतिपद भीतिप्राणा । किन्तु दिनमणिः स्वयं सकलविषये तया सह परामृशति । उपदिशति अपि । इदानीं तथैव कस्मिंश्चित् विषये विमर्ष्टुमुपगता श्रावणी। विनम्रो दिनमणिः अपृच्छत् ।
— जाते ! किमस्ति कर्म?
— उपरि आगच्छतु । माताकिंचित् वक्तुमिच्छति ।
— भवतु, अनुपदमागच्छामि ।
कातरतया तूष्णीमास्ते मेदिनी । नूतनपरिवेशेऽस्मिन् श्रावणी किमपि सम्यक् प्रतिश्रोतुं न प्रभवति । न वा निश्चिम्तया मेदिनी तत्र निवसितुं शक्नोति । माताकन्ययोः सम्पर्के क्रमशो दूरता वर्धते । परस्परसुखकामनया उभयस्य मनो भीतिसंकुलम् ।
उपस्थितो दिनमणिः ।
साक्षात् पार्श्वे तं विलोक्य मेदिनी वाष्पगद्गदा अभूत् । सरलतया च अवदत् ।
— भ्रातः ! तव कृपया मम कन्याया
भाग्य परिवर्तितम्। किमधिकं वा कामयिष्ये ? इतो मे गृहं
प्रस्थातुमिच्छामि ।
दिनमणिः अबोधयत् ।
— भगिनि किमिदं ते गृहं न ? तत्र किमस्ति ? इतः प्रभृति अत्रैव जीवनं निभालय ।
— न ... भ्रातः ! विशालगृहेऽस्मिन् अस्माकं स्थानं कुतः ? अत्र स्थित्वा भीतिर्मे वर्धते। पुनश्च अहमत्र किमपि कर्म न कृत्वा ----
— अत्र किं वा ते कर्म ? त्वं प्रभुपत्नी माता । तव मर्यादा अत्र भिन्ना। कर्मनिमित्तं परिचारकाः सन्ति । तव चिन्ता मास्तु।
— किन्तु मनो मे सदैव
लघुकुटीरं प्रधावति ।
— एवं भवेत् । त्वमत्र चलने
अनभ्यस्ता। कियत् क्षणाभ्यन्तरे
सर्वं समञ्जसं भवेत् । चिन्तया अलम् ।
— किमहं करवाणि ?
— कन्यापार्श्वे निवसति खलु
? सा तु सर्वेसर्वा । तस्या यत्र रुचिः तत् कुरु ।
परं मेदिनी नात्मस्थिति, न वा कन्यायाः प्रभुत्वपरिसरमाकलयितुं प्रभवति।
केवलं संकोचमास्थाय सा यथा कथंचित् दिनमतिवाहयितुं यतते।
श्रावणीमुखे स्मितम् । हृदये तु भीतेः स्पन्दनम् । पति-स्वभावं सा सम्यक् जानाति । तस्य च उग्रप्रकृतेः स्वरूपं विचिन्त्य व्याकुला भवति । परं भाग्यस्य निर्देशमनुमोदयन्तीव सा न कदाचित पत्युः अभिमुखमागच्छति । न पुनः कस्मिन् प्रसंगे विवादमुत्थापयितु साहसं करोति । पतिः तन्निकटे प्रभुः …. उग्रः कश्चित् ईश्वरः । तस्य इच्छाया न कोऽपि अंकुशो वर्त्तते न वा प्रवृत्तेः बाधकं किमस्ति । सर्वत्र तस्य इच्छा बलीयसी । अवसीदति श्रावणी । तस्या अवसादस्तु जरज्जननीकृते…..तस्याश्च संकुचितस्थितिकृते….. पुनश्च परिचितलघुकुटीकृते.....।
लिप्साया अभिमानमुपहसन् विचरति अभ्रपदः । गम्भीरमुख- मण्डले जुगप्सा श्रीमती दिनमणिः सरलतया व्यज्ञापयत् ।
— श्रीमन् !
अद्य समाधानम् ।
विवत्यं अपृच्छत् अनपदः ।
— कस्य - ? किम् ?
— भवतो विवाहः संजातः लिप्साया अपि....
— लिप्सायाः ? अद्य ?
— अद्यैव विवाहः ।
चमत्कृतः अभ्रपदः ।
— विवाहः -- !! कोऽयं वरः ?
— श्रीमुखः ....
।
दृढ़ महसत् अभ्रपदः ।
किं स शठयायावर: ? सम्यक् ..... सम्यक् । समीचीनसंयोगः । अभिमानिनीकृते समुचितोऽयं दण्डः ।
वृद्धो दिनमणिः विनम्रः । विकृतमुपहस्य अभ्रपदः प्रस्थितः । प्रस्थानरीति निर्निमेषं पश्यति दिनमणिः । दूरतः श्रूयते लिप्साश्रीमुखयोः विवाहवाद्यध्वनिः । नयने नृत्यति अहङ्कारस्य पृथक्भूमिः। आवृत्तमनुभूयते किमपि अव्यक्तम्। वक्तव्ये च अनुबन्धायते किमपि आवरणम् तदिह प्रतिबन्धकम् ।
पश्चादुपगम्य श्रावणी सम्बोधयत् ।
— पितृव्य ...!
भावनातो विरम्य दिनमणिः अपश्यत् । श्रावणीमुखे तु
विषादमिश्रितं कुतुहलम्। दृष्टिधारे काचित् जिज्ञासा दिनमणिः अपृच्छत् ।
— किमपि कर्म विद्यते ?
— नहि । श्रुतमद्य ?
— किं श्रुतम्
—
अद्य श्रीमुखस्य विवाहः ?
दिनमणिः
मनसा सावधानः संजातः । तस्या मनोभारं शिथिलीकत्तु स सामान्यभङ्गया अवदत् ।
—
हाँ । ते तु सर्वे अभिजाताः । अभिजातस्य अभिजातेन सह संबंधो भवति,
जाते -------!
— अहं तु गृहेऽस्मिन् किमपि
ज्ञातुं न शक्नोमि।
—
कथं वा तत् सम्भवेत् ?
गृहस्य कार्यपरिसरो विशालः । अन निमज्ज्य अन्यत्र निमज्जनाय कुतः ?
पुनश्च अन्यस्मिन् विषये केवलं ज्ञात्वा किं भवेत् ? यदि तत्र करणीयमस्ति तहि चिन्तया लाभः । अन्यथा तत्तु दुःखाय एव ।
—
कथंचित् तत्र वयं गन्तुं न शक्नुमः ?
दिनमणिः
दीर्घतर न्यश्वसत् ।
—
तन्न सम्भवति, जाते !
श्रावणी
निरुत्तरा ।
दिनमणिः
बोधयति ।
—
जाते ... ! निवासार्थं प्रथमतो जनो व्याकुलो भवति परम् अयमेव निवासः
अनन्तरं तमेव व्याकुलीकरोति । तस्य च मर्यादां निर्धारयति ।
अवनता
श्रावणी शनैः विवर्त्तिता । मन्थरगमने तस्या अभिलाषावरोधं निरीक्षते दिनमणिः ।
तस्याः कुलवधूच्छटायां अभिजातस्य संकीर्णवलयो राजसिकः । सीमन्तिनीगाम्भीर्ये
स्वभावस्तु प्रसन्नचपलः ।
अविश्वासवाणिज्ये
विवाहः सम्पन्नः ।
श्रीमुखः
श्रीमण्डितः । लिप्साया अभिमाने रङ्गी विकसितः । रूप- विधाने नवीकृतो वेशः । परिचय
इदानीं दाम्पत्य विषये सौजन्यात्मकः । गाम्भीर्यम् अपूर्वम् प्रीतिप्रत्यये अमिका
नवीना । स्मिते अप्राकृतच्छटा । विलासे आत्माश्लाघा तु प्रकृतिपीड़िता । व्यवहारे
तथापि ग्लानिः अभिलापप्रकाशे आत्मदैन्यं च विमलम्।
यायावरश्रीमुख
इदानीं गृहस्थः। विवाहगौरवे सोऽपि गम्भीरतरः । लिप्साश्रीमुखयोः आनुष्ठानिकं समर्पणं
तु विवाह- नाम्ना सर्वे: प्रसादी कृतम् इदानीमुभी एकस्मिन् प्रकोष्ठे परमा-
मन्त्रणाय परस्परमवरुणद्धि कश्चन दुराग्रहः । आत्मना एको जनः श्रेष्ठ इति
अभिजानाति । अपरोऽपि तथैव आत्मानं मनुते उभयत्र आत्मनि आमन्त्रणप्रतीक्षा । मनसि
तु विकल्पस्य संघर्षः । अहंकारस्य अवनमनं न भवति इतस्ततः प्रकोष्ठे पादसंचारं
करोति श्रीमुखः । लिप्साऽपि पर्यके जानूपरि चिबुकं निधाय चिन्तन प्राणा ।
मधुयामिनी
क्लिन्ना।
बहुधा
विचिन्त्य श्रीमुखः अभिमुखमुपगतः । उपविश्य लिप्सा मुखम- पश्यत् । लिप्सा तु
निम्नदृष्ट्या अवनतमुखी । श्रीमुखः करं प्रासार- यत् । लिप्सा उदासीनतया किंचित
अपसृता । श्रीमुखः शङ्कितः । तथापि चिवुकस्पर्शाय पार्श्ववर्त्ती अभवत् । लिप्सा
तस्य करमवारयत् । श्रीमुखः स्तब्धः । करसङ्कोचनपुरःसरं स पर्यङ्कस्य एकस्मिन्
पार्श्वे उपाविशत् । व्याकुलतया इतस्ततः अचिन्तयत । तथापि लिप्साया मनोभावं ज्ञातु
न प्राभवत् ।
किन्तु
अहमास्पद भूमिकायां संलग्नः कश्चित् निजस्व विषादः । श्रीमुखो विचलितः । स
बोधयितुं प्रवृत्तः ।
—
लिप्से ! यदि इत्थं ते मनसि ते आसीत तहि पूर्वं कथं न प्रतीकारं
कृतवती ? इदानीं प्रतिकूलतायां को वा लाभः ?
लिप्सा
तथैव आसीना। मधुप्रहरः स्खलनश्रीमान् । हृदये दाहः । मनसि द्रोहः अभिमाने
आभिजात्यस्य अन्धमोहः । नयनाग्रे स एव निसङ्गप्रवाहः । परिकल्पनायां दासत्वस्य
अनङ्गीकृतिः .... द्वैतीभावस्य भीतिः एककजीवनवृत्तये निर्भीका ज्ञप्तिः । किन्तु
सा किमर्थमग्रे आगतवती ? कथं न प्रत्यवदत् ?
सर्वस्मिन् समये प्रतिवादः फलभाग् न भवति । यथार्थवचनस्य न सर्वदा स्पृहास्पदता
। न वा सदा सामर्थ्यस्य स्वीकृतिः । परिस्थितिः हि वक्रस्पन्दा ।
इदानीं
तु लिप्सा पितरं भर्त्सयितुं न प्रभवति । पितृदाये सा हि प्रथमस्नेहसरणिः । सैव हि
मातुरभिमानस्य अधिकारिणी। वात्सल्यस्य विशेषविषये सा पुनरेका अभिगमधरणी । अधुना सा
आत्मानमनुकूलयितुं न शक्नोति । श्रेष्ठास्पदो हि कश्चिन् मनोवृत्ति- विशेषः
प्रतिपदं तां प्रतिरुणद्धि। पुनश्व श्रीमुखः तन्निकटे हि आत्मानं समर्पयितुं
नेच्छति । एतदर्थं लिप्सा अनुभवति, समान्तररेखाद्वयं
न कुत्राऽपि मिलितुं प्रभवेत् । अपरंच, जीवनं कलहव्यापृतमेव
भवेत् । विवाहविधिस्तु सम्पन्नः । सामाजिकापवादस्य अवसरोऽपि लेशतरः । न पित्रोः
दोष इदानीम् । यः कोऽपि प्रमाद आत्मन एव । निजदुःख- स्वीकारे दुःखं वा कुतः ?
सहनाय आत्मबलो हि न न्यूनतमः । अयं तु यथा आगतः तथा प्रयास्यति ।
मनोऽनुकूलः कश्चित् नूनमेकदा आगमिष्यति ।
प्रतीक्षाधूसर
: प्रत्यूषप्रहरः ।
श्रीमुखः
कोपाविष्टः । विवशतया स पुनरनुनेतुमुपगतः । लिप्सा तथापि प्रतीपा । श्रीमखः करं
प्रासारयत् । लिप्सा मनाक् अपश्यत् । मुखे तस्या जुगुप्साबोधः स्पष्टतरः।
नेत्रकोणे चण्डायते हीनभावना सा निर्वाक्तया नेत्रं व्यवर्त्तयत् । तस्या मनोभावं
सम्यक् आकलितवान् । स शनैः करं समकोचयत् ।
श्रीमुखः
पर्यङ्कत उत्थाय द्वारसमीपम् आगतवान् । वितृष्णतया सकृत् लिप्सामपश्यत् । सकृच्च
प्रकोष्ठस्य अन्तर्देशमवालोकयत् साधारणभावेन द्वारम् उन्मोचितवान् । परिवेशः
अस्पष्टः । आभोगे रात्रिस्पर्शः शीतलः । तमोविलुलितो मार्गः । श्रीमुखो दूरं निरैक्षत।
दिग्भाग उज्ज्वलः । पूर्वाकाशे तमःप्रकाशयोः मिश्ररागो विकृतिपाण्डुरः । विहगस्य
प्राथमिकरावः संकल्पनिर्भरः ।
श्रीमुखः
शनैः निर्गतः । लिप्सा चकिता । उत्थाय सा द्वारदेशमुपगता । सम्यक् अपश्यत् । सम्मुखे
अपसरति अप्रियः कश्चित् आत्मीयः । सा तं निरोद्धुमैच्छत् । किन्तु स दूरस्थ आसीत्
सा आकारयितुमचिन्तयत् । परं तस्य नामोच्चारणे कश्चित् दुराग्रहः तस्या
कण्ठमवारुणत् । सा अनुसर्तुमभ्यलपत् । किन्तु तस्या अहंकारे श्रीमुखो न्यूनः
प्रातीयत ।
लिप्सादृष्टितः
क्रमशः श्रीमुखः अपसृतः । लिप्साया मृदु-विषादः कोपरूपमधरत सा अन्तरागम्य द्वारं
पिहितवती । आगम्य च मुखमुपाधाने निवेश्य आलुण्ठिता । कोपशोकयोः मध्यप्रस्थे सा
व्यथिता आसीत् ।
अप्रियसमागमः
कदाचित् शुभाय भवतीति आकलयितुं न प्रभवति जनः । जीवने इत्थमवसर आयाति यदा
प्रियाप्रियविचारे जनो न विवेकवान् भवितुं शक्नोति । तस्मिन्नेव समये अप्रियरूपमादाय
ईप्सितमपैति । अभिलषितं च अतिक्रमते । लक्ष्यं विपरिवर्तते। प्रियविरहो व्यथैव।
अप्रियागमनं तु व्यथाप्रपञ्चस्य आर्द्रेन्धनम्। परमिह अन्तर्निहितं तथ्यं
गुरुत्वमावहति । तत् साक्षादाकलयितुं न शक्यते न वा निजसात्कर्तुं पार्यते।
नियतपरिधिबद्धा
मेदिनी ।
सा
शीर्यते वयसा मनसा अपि । कन्या इदानीं कूलवधूः । निवासः सम्यक् भोजनादिविषयः
समीचीनः । सर्वं पर्याप्तमनुभूयते । तथापि पराधीनं मनः । सा हि सर्वथा
श्रावणीविषये व्याकुला । श्रावणी मूलतः सरला । न कुत्र प्रतिवादमुत्थापयति । न वा
सा विवादे भागं गृह्णाति । अदोषेऽपि दोषं स्वीकृत्य निवर्त्तते । इदानीमपि तथा
स्थितिः । जामाता तु प्रतिहोरं चण्डायते । निष्कारणं भर्त्सयितुं प्रवर्त्तते ।
यावद् वहिः तिष्ठति तावत् शान्तिः । यदा गृहं प्रविशति तदैव असुखम्। यदा कदाचित्
वराकी किमपि वदति तदानीं स क्रुध्यति यथेच्छं भर्त्सयति । मातृहृदयं तु दूयते ।
मेदिनी एकाकिनी उपविश्य रोदिति । कन्याया मङ्गलं कामयमाना पुनः अश्रु अपसारयति ।
कन्यां च बोधयति । अदृष्टमाहत्य कर्मणि आत्मानं व्यापारयति ।
श्रावणी
अनुभवति - सात पुत्तलिका । यथा गृहप्रभोरादेशः तथा तस्याः कर्म । यथा
प्रभोरभिरुचिः तथाऽत्र व्यवस्था । यथा वा प्रवृत्तिः तथा परिचालना । श्रावणी
भयविवशा । तस्या इच्छाया
एकदा मेदिनीसमीपे
उपविश्य श्रावणी जल्पति । दुःखं च उपस्थाप्य विषीदति आत्मनो भीतिविधुर स्थिति च
वर्णयति । निःसहायस्वरूपं च निवेदयति ।
सहसा उपगतः
अभ्रपदः ।
दर्शनमात्रं सः
अकुप्यत् ।
— किमत्र भवति ?
श्रावणी निरुत्तरा
?
अभ्रपदः अगर्जत् ।
वृद्धेयं किमर्थं
सदा उपविशति ? गच्छतु सा कर्मं करोतु । कर्म
विना को वा भोजनं दद्यात् ?
श्रावणी
प्रत्यवदत् ।
— सा किं
करिष्यति ?
— परिचारिका अत्र
किं कुर्वन्ति ?
— कथं भवान्
मातरं परिचारिकया सह तुलयति ?
— अहो ? सा कि महिषी आसीत् ? सा परिचारिका इति सदैव तस्याः
तादृशी वृत्तिः स्यात् ।
— सा मम जननीरूपेण अत्र आगता । न तु
परिचारिका रूपेण । तह, किमभूत ? मम
विवाहस्तु त्वया सह, न तु ।
— विवाहेन किम् ?
या मम माता सा भवतोऽपि। अन्यथा कथमहं भवत्परिजनगुरुजनानां सम्मानं
करोमि ?
— अहो, आस्पर्धा ? त्वमद्य किं वा संजाता ? दासीपुत्री त्वमत्र सदैव दासीरूपेण स्थास्यसि, अन्यथा
....?
— अन्यथा किं भवेत् ? अहं
पत्नी इति कि मे कोऽपि अधिकारो नास्ति ?
— पत्नी .... ? अधिकारः ?
कदा प्रभृति भाषेयं ते मुखमागता ? यथा वच्मि
तथा कुरु अन्यथा जिह्वाच्छेदो भविष्यति । हे, ...हे ...
वृद्धे ! श्वः प्रभृति यथा त्वां पाकशालायां पश्येयं तथा करणीयम् अन्यथा माता
कन्ययोः समदशा भवेत्।
अभ्रपदः
प्रस्थितः । मेदिनी श्रावणीमुपगम्य निजाञ्चलेन तस्या अश्रूणि निजीकृतवती । मुखं च
परिष्कृत्य आश्वासयत ।
— जाते ! किमर्थं मत्कृते कलहं करोषि ? कियद्दिनमहं जीविष्यामि ? मदर्थं सुखं दुःखं दुःखं
वा किम् ? तव सुखे ममैव सुखम् । युवयोः सौमनस्यं मम काम्यम् ।
अहं तु कर्म विहाय इदानीमकर्मण्या । यदि मामाता इच्छति तर्हि पाकशालायां किमपि
करिष्यामि । अत्र का चिन्ता ? स यथा चिन्तयति तथा भवतु।
किमर्थं विवादः ? मम अभियोगो नास्ति । पतिः परमप्रभुः । तेन
सह कलहो न कर्त्तव्यः । स चेत् अमुखी सर्वं ते असुखं स्यात्। विवादं परिहर ।
सुखिनी भव ।
श्रावणीनयने
अश्रु । सा आत्मानं निन्दति । भाग्यं च धिक्करोति । मातुः दशां विचिन्त्य हृदयेन
सा विदीर्णा भवति। परं निरुपाया । न सा मातरं कदाचित् अपमानतः त्रातुं शक्नोति। न
वा गृहात् वहिष्कर्त्तुं प्रभवति । न पुनः इच्छानुसारं तां तत्र स्थापयितुं समर्था
भवति । सा अनुभवति-गृहं परिवर्तितम् । वासः परिवर्तितः । वेशो नवीकृत:;
किन्तु दशा यथा तथा । अनुभवे किमपि अभिनवं नास्ति । सहनिवास
सहवासयोः विनिमयसूत्रे आत्मीयता तु क्षीणा प्रतीयते परितः सैव जान्तवी क्षुधा ।
एकदा एतदर्थ सा दैन्यमङ्गीकृतवती । इदानीं तु सैव दासत्वस्य परिधिं रचयति ।
श्रावणी व्याकुला
उदरवलयमतिक्रान्तुं
कुतो वा सामर्थ्यम् ? केचन उदरस्य ऊर्ध्वसत्तामाकलयितुं
प्रभवन्ति ? ये सन्ति ते तु कीर्त्तिकेन्द्रस्थाः ।
कीर्त्तये तेषां स्वार्थपरिहारः ..... मधुव्यवहारः .... अनपेक्षितश्च आदरः। कीर्तिमुखानाम्
एतादृशव्यवहारे आदरो नाम अपरः कश्चन अधिकारः । दयाभावतले अयमेव तेषामहङ्कारः
परिचयभूमेः आकारः ।
अनुभवे
अर्धशताब्दी स्थविरा ।
दिनमणिः पूर्ववत्
वहिर्दीपालीं प्रदीपयति । प्रदीपे स्थविरस्पर्शः उत्कण्ठाविहीनः ।
शिथिलनमोमुद्रायां आवेगो मन्थरः । अचपलपादविक्षेपे गतिः गम्भीरा ।
अपरपार्श्वे
सतृष्णतया विलोकयति श्रावणी । कृतज्ञकटाक्षे तस्याः काचित् आत्मीयता ....
मनोनिवेदनस्य च आशासिक्तः प्रसरः । किन्तु शरीरे भयस्य वेपथुपथः दासत्वस्य
निर्दिष्टभूमिवलयं पुनः पुनः संस्पृश्य हृदयमालोडयति । श्रावणी अन्तःपुरं
प्रत्यावर्त्तते।
अहंकारस्य
निमग्नपरिपुष्टिषु रात्रिः व्यतीयते। श्रीमुखो देशात् देशान्तरं परिव्रजति । मनसि
ग्लानिः । तथापि आत्मनि अहमास्पदः स एव विमूढप्रत्ययः .....अहं प्रभुः अहमभिजात:
... अहमुत्तमः । किन्तु उदरे क्षुधा । शरीरे शैथिल्यम् । भोजनं दाननिर्भरम् । शयनं
स्थाननिष्ठुरम् ।
इत्थं
दिवसा व्यतीताः । श्रीमुखः क्लान्तोऽभवत् । जीवनधारणं तत्कृते कष्टकरमिदानीम्
कुत्रचित् जनपदे सेवावृत्तिमवलम्ब्य जीवनं वाहयिष्यतीति स निरचिनोत् । अतः
कार्यालयतः कार्यालयान्तरं स गतवान् । जीविकामन्विष्टवान् । परमन्वभवत् - सर्वत्र
तादृशा जनाः । सकलकार्यमूले सर्वेषाम् एकैव अहमिका । सर्वत्र दासत्वस्य
अलंघ्यपरिभाषा । सर्वे तं दासत्वमङ्गीकत्तुं प्रेरयन्ति । कार्यालये पदस्थानं नाम
अहमिकाया आसनम् ।
पादपथस्य
एकस्मिन् वृक्षतले आसीनः श्रीमुखः । मनसि तस्य परिहृतदिवसानां विमृष्टस्वप्नाली ।
विक्षिप्तचिन्तायां क्लान्तो विमर्शः - किमर्थं कश्चित् वचनमात्रविनिमये कुण्ठितो
भवति ?
कथं वा उत्तरदाने कश्चन वहुमन्यः संजायते ? इदानीं
स यत्र गच्छति तत्र नेतिवाणी । यत्र सम्भाषते तत्र कुण्ठा । यत्र उपविशति तत्र
कश्चित् सन्दिह्यति । यत्र च दण्डायमानो भवति तत्र कश्चित् अभियुङ्क्ते । यदा
किमपि वदति नूनं तदा कश्चन प्रतिवदति । प्रतिवादसमयेऽपि स उग्रो लक्ष्यते ।
परिगणिता एवं उदासीनतया किमपि कथयन्ति । मुष्टिमेयाश्च अनुनयानन्तरं किंचिदुक्त्वा
अपसरन्ति । परिमिताश्च उपेक्षया किंचित् श्रोतुं आग्रहं प्रकटयन्ति। दुखायते चेतः।
विगल्यते प्रवृत्तिः । श्वासोच्चये निमज्य तथापि विमृशति श्रीमुख :- कथमेतत् सर्वं
भवति ?
सर्वत्र
लीलायते अहमिका । देशाऽहमिका .... कालाऽहमिका .... भाषाऽहमिका .... जीविकाऽहमिका ....
पदाऽहमिका .... ज्ञानाऽहमिका ....सर्वोपरि सत्त्वाऽहमिका ....। एवमन्याश्च
अहमिकाधाराः । अन्ततः श्रीमुखः अनुभवति - सोऽपि अहमिकायाः कश्चन आधारपुरुषः ।
स्वयं स स्पर्धाक्षेत्रे दण्डायमानः । यत्न प्राप्तिर्नास्ति,
परिहर्त्तव्यमपि नास्ति, तत्र का स्पर्धा ?
किन्तु अपरिलक्षितसम्मोहे स स्पर्धालुः । मोहनिरुद्धकल्पनापरिसरे
यत् किमपि स्पर्धाक्षेत्रं भवति । यः कोऽपि च प्रतिस्पर्धिरूपेण अभिमुखीभवति ।
अत्र विशदीभवति आत्मनो बहुमन्यता । अत्र च विवरणं प्रस्तौति आत्मपरिच्छिन्नता । पार्थक्यसर्वस्वो
भावविशेषः अत्र एकान्तः ।
श्रीमुखो व्याकुलः।
अनुतप्तमनस्तत्त्वे
चिन्ता तस्य साक्षात् ऊर्णनाभस्य जालराशिः । व्यथातले पर्याकुलः विवशसंस्कारः । ये
समाजे सौविध्येन निवसन्ति अवश्यं ते उत्तमचिन्तकाः । अवश्यं तेषां कर्मप्रवृत्तिषु
स्वस्तितत्त्वं सन्निहितमिति कल्पना श्रीमुखमानसतः क्रमशः अपसरति । सम्मुखे नवायते
स एव अहंकारस्य आभोगः ....सैव परिच्छिन्नता .... सैव यदिष्टसाधनस्य केन्द्रभूमिः ....।
क्लान्तप्रहरः
प्रधूसरः ।
पाकशाला द्वारत
उत्थाय मेदिनि कन्याया अन्तःपुरमागच्छति । चरणे मन्थरः क्षेपशैली । आनतो मुखभागः ।
कटिदेशे करं निधाय सा इतस्ततः सञ्चरति । जामातुनिर्देशेन सा कदाचित् पाकशालायां
कर्म करोति । कदाचिच्च कन्यायाः प्रकोष्ठे श्रद्धाकर्माणि निभालयति । यदि कदाचित्
समयं प्राप्नोति तदा सावधानतया बहिरागच्छति । दिनमणिमुपगम्य जल्पति । सुखानि
दुःखानि स्मारयति अपि ।
दिनमणिः इदानीं
मनसा सुखी । मेदिनी हि कर्मणि लग्ना । साहि परिश्राम्यति । एकः कष्टायते इति अपरः
सुखमनुभवति । इदमेव अहङ्कारिकं तत्त्वम् । एको दुःखी,
अपरोऽपि तथा इति समता साधारणसान्त्वना । तथापि अहं न सुखी इति
काचित् चेतना ग्लानिमानयति । अत्र कदाचित् कारणं विमृशति जनः । अनुकूल्यते स्मृतिः
। उपस्थिता भवति संस्कारसन्निहिता घटना । दिनमणिः विमग्नः-
अन्धकारस्य
घटनायां सम्मुखीभवति मृता पत्नी पार्वती । साक्षात् सा रणचण्डी । यथा आकृतिः तथा
स्वभावः । यथा वेश: तथा व्यवहारः यथा मतिः तथा च प्रवृत्तिः । यदा प्रभृति सा
गृहिणी संजाता तदारभ्य प्रतिक्षेत्रं तस्या अधिकारः । अनीप्सितमपि तस्या अभीष्टम्
। सा गृहिणी इति सर्वत्र अधिकर्त्री । यत्र कुत्राऽपि तस्याः प्रवेशः । एतदर्थं न
कस्य अनुमतेरपेक्षा । न कस्य वा उपदेशाय प्रतीक्षा । यथा रुचिः तथा कर्म । बलात्कारेण
सा यत् किमपि आत्मसात्कर्त्तुं प्रभवति । एतन्निमित्तं यं कमपि सा भर्त्सयितुं
सन्नद्धा । न निन्दां प्रति भ्रूक्षेपः । न वा प्रशंसावचनस्य आशा । स्वैराचारे सा
अहमिकाया निविड़प्रतिमा । कर्मसिद्धये यं कमपि सा उपगन्तुं समर्था ।
परं
सर्वमेतद् दिनमणिकृते असह्यमासीत् । स तथापि सर्वदा बोधयति स्म । किन्तु पार्वती
निजनिष्पत्तिषु अचला आसीत् अतः प्रतिदिनं गृहे कलहः । सदैव च अशान्तिः । एवं
क्रमेण पार्वती अतीव विमूढ़ा संजाता । तस्या अत्याचारः अवर्धत । दिनमणिरपि क्रमशो
निष्ठुरः अभवत् । कलहः संघर्षे परिणतः । ततः अहङ्कारस्य विस्फोटः अभवत् । विस्फोटे
आहतो दिनमणिः । हता च पार्वती । आत्मघातस्य परिभाषया पार्वती चिराय अन्तहिता ।
तदाप्रभृति
दिनमणिः एकाकी चिन्तायां नेदानीं पार्वती श्रद्धां तनोति । न वा आग्रहं वर्धयति । केवलं
तस्या आकृतिः नृत्यति । तिक्तस्मृतिरूपेण सा आविर्भवति । तिरोभवति च तथैव ।
सम्मुखे तु कातरा मेदिनी अनुभूतं किंचिद् उद्बोधयति । सैव पुनः अनुभव्यं किमपि
परिकल्पयितुं प्रेरयति ।
दिनमणेः
ओष्ठप्रान्ते स्मितस्य वक्रता । मुखमण्डले उदासीन भावनिर्यासः । पुरुषाकारे
वार्धक्यस्य अलंकृतिः । आत्मप्रत्यये अनागताय स्नेहः । चिन्तायां समयव्ययस्य
नव्यप्रपञ्चः । कर्मधूसरः तस्य अवसरः । दिनमणिः दृश्यविमग्नः-
सम्मुखे
मेदिनी । सा अद्य चञ्चला लक्ष्यते । उत्फुल्ला च प्रतीयते गतेषु एतावद्दिनेषु न
कदाचित सा इत्थमासीत् । अद्य तु अभिनवा विलोक्यते । किं जामाता मनोऽनुकूलं किंचित्
विहितवान्? अथवा सा तथैव किंचित्
प्राप्तवती ? किं वा कारणम् ? दूरतो दिनमणि:
आकारितवान् ।
— भगिनि - ! इत
इतः.....
मेदिनी
तं विलोक्य अहसत ।
दिनमणिः
चमत्कृतः तस्य कौतुहलम् अवर्धत स सावेगमपृच्छत । भगिनि ! किमद्य संजातम् ?
को वा विशेषः ?
— मेदिनी
निरुत्तरा।
— अयि ! कथय नु ?
त्वमतीव प्रसन्ना प्रतीयसे किं जामाता किंचित् उपहृतवान् ?
— हैं, तथैव किंचित् ।
— किं तत् ?
धनम् ....? अथवा गृहम् ....?
— न तादृशं
किमपि ।
— तर्हि, किमन्यत्
?
मेदिनी
शनैरुपाविशत् । स्खलदञ्चलं सज्जीकृतवती । सहर्षमारभत ।
— भगवान् मम
वचनमशृणोत् ।
— अरे! का ते
कथा ?
— कन्याया उदरे
सम्प्रति सन्ततिलक्षणम् ।
— अहो! धन्या
त्वं मेदिनी । तव व्यथा अपगता । किन्तु व्यापृतिरवर्धत ।
— सत्यम् ....।
भगवान् मङ्गलं विदधातु । कन्या मे पुत्रप्रसविनी भवतु । दिनमणिः अहसत् ।
— भगिनि ! इत्थं
तु अस्माकं अभिलाषः प्रचुरः । फलं कुतः ? संकल्पनिचयं मनसि
संपाद्य अहमपि एकदा आशाविपुल आसम् । किन्तु -------।
— सत्यम् ।
वक्रस्तु नियतेः पन्थाः ।
— यद् भवतु,
कन्या ते कुलं प्रापिता इति महती आश्वस्तिः ।
— हाँ ....
दीर्घतरं न्यश्वसत्
मेदिनी ।
दिनमणिस्तु
प्रभुचरित मनस्यन् विभक्तहृदयः । प्रभुवचनतालानुगुणं स्वकीयं वचनम् । तस्य
इच्छानुसारिणी च आत्मनः कर्मसंगतिः । प्रभुचरिते तु पर्वतस्य निकृष्टस्वरूपं
स्पष्टम् । उपरि पाषाणमयो विलासः । अभ्यन्तरे च तथैव शिलाजडभावराशिः । दिनमणिः
खिन्नः । तस्य चिन्तायां हि कठोरतायाः प्रतिध्वनिः । विचारमात्रं च काठिन्यम् ।
भावस्य सरलप्रतिफलनमपि सामञ्जस्य निष्ठुरम् ।
इदानीं गर्भमन्दिरे विन्दुः मन्त्रमयः नाश्लेषस्य युग्मलिपि:
सुविन्यस्तः । अभिघातो विशुद्धः । नेतिकारः साकारः । आनन्दः अपरिच्छिन्नः ।
अभिनिवेश एकाग्रः । अतो भोगवेदी आत्मीया प्रतीयते । रमणीया च प्रतिभाति श्रावणी । अभ्रपदस्य
अहमिकायां सम्प्रति नाना वर्णाली । किन्तु गर्वपर्वते तथैव स कश्चित् दुरधिगम्यः
शृङ्गः ।
स इदानीं हसति । स हि विजयी । तस्य वचनोपरि न कुत्रापि प्रतिवादः । न
वा पार्श्वे तादृशी काचित् आत्मीया लिप्सा इव मुखरा । श्रावणीमुखं निरुद्धम् ।
मेदिनीनिकटे जडदृष्टिं विहाय नान्यत् किमपि अस्ति । दिनमणिस्तु भृत्यपरिपाटीमादृत्य
शान्तः । अन्ये तु प्राचुर्यमालोक्य स्तब्धाः । अपरे अवशिष्टाः तस्य दुष्टप्रवृत्तिं
परामृश्य म्लानाः । मार्गप्रतिरोधाय श्रीमुख इव न तादृशः कश्चित् प्रतिस्पर्धी
विद्यते । अयमेव प्रकृष्टसमयः सिद्धये अभिलाषस्य ..... विलासस्य .....।
आत्ममुक्तमहसत, अभ्रपदः ।
पार्श्वे
उपविष्टा श्रावणी सहसा चकिता । सा शनैरपृच्छत् ।
— किमभूत ?
— विषयो
गहनः । अत्र तव वा किमस्ति ?
— तर्हि, कुत्र विद्यते ?
— मम
विषये तव चिन्ता मास्तु ।
— किमर्थम् ?
— मम तु
सम्पत्तिः महती । कर्मकरा अनेके । समस्याऽपि तथाविधा नाना ।
— किं
भवतः समस्या न मम समस्या ?
पुनरहसत
अभ्रपदः ।
— तत् कथं भवेत् ? त्वं तु
दासीपुत्री । दीनकुटीरे परिवर्धिता । मम समस्याविषये तव वा मतिः कथं प्रसरेत् ? पुनश्च अहम्, अभिजातः कुलीनः परम्परासम्पन्नः ।
तव कुत एतादृशः संस्कारः ? दासीपुत्रीरूपेण त्वं
सेवां जानासि, तदेव आचार। तादृशकर्मणि च आत्मानं
व्यापारय ।
श्रावणीमुखमण्डलम्
अरुणायितम्
नासाग्रे कोपः तीव्रः । दृष्टिपुरतो जुगुप्साया जालराशिः तथापि आत्मानं संयम्य सा प्रत्यवदत् ।
— किमर्थमेतत्
सर्वं वदति भवान् ? सर्वं ज्ञात्वा एव भवान् विवाहं कृतवान् । इयद्दिनानि व्यतीतानि । किमहं
तथापि न पत्नी ? कि पत्नीरूपेण भवान् मां ग्रहीतुं न प्रभवति ?
विकृतमहसत
अभ्रपदः ।
— पत्नी .... ? सर्वासामपि नारीणामेकैव संज्ञा- 'दासी' । त्वमत्र दासी । पुनश्च दासीपुत्री ।
— किम् एतादृशकथनेन
अहमधिकतया दासी वा दासीपुत्री वा भवेयम् ?
— अयमेव ते परिचयः ।
— किम् एतन्न जानाति भवान् ?
— सम्यक् जाने .... ।
— जानाति
चेत् पुनः कस्य निकटे परिचयं ददाति ?
— त्वामेव
स्मारयामि ।
— को
लाभः ?
— अनेन निजाधिकारविषये त्वं सावधाना भविष्यसि ।
— अहो कौशल भवतः ? आत्मग्लानिषु स्वयं निमज्य मदुपरि पौरुषं न्यस्यति भवान् ?
— आत्मग्लानिः ....? कस्य ... ? मम .....?? प्रभोः सामर्थ्यमाकलयितुं दासीकुलस्य वा कुतो मतिः ?
— कर्मकराणां कृते भवान् प्रभुः । मदयं तु तदुत्तरः कश्चिद् भिन्नः पुरुषः ।
अभ्रपदः
अगर्जत् ।
— श्रावणि!
प्रतिवादाय महान् साहसः सञ्चितः त्वया । परमेतन्न विस्मर्त्तव्यं यदहं गृहस्य प्रभुः
। अहम् अभिजातः ....। अहमस्य जनपदस्य मान्यः, गण्यश्च कश्चित् अन्यतमः कुलीनः । सर्वदा जिह्वां संयम्य वार्तालापः
कर्त्तव्यः । अन्यथा जिह्वाच्छेदो भविष्यति ।
कोपेन
अभ्रपदः निष्क्रान्तः । दीर्घश्वासमगृह्णात् श्रावणी । अश्रु च अपासारयत् ।
विषादग्रस्तं मनः । विक्लिन्नं हृदयम् । सा आत्मानमवदत- को वा एनं बोधयितुं
प्रभवेत् ? इयान् अयम् अहंकारविमूढः ? इयान् कृपणः ? इयान् च स्वार्थपरः ? यस्य सम्मुखे सदपि असत् प्रतिभाति । उत्तममपि निकृष्टं प्रतीयते । हितवचनं
च अहिताय कल्पते । यत् सुखं तत् हेयं मनुते । केवलं यत् स स्वयं वदति तत् सम्यक् ।
अन्येषां सर्वमपि वचनम् असमीचीनम् केयं मतिः ?
श्रावणी
नितरां व्यथते। आत्मानं धिक्करोति । गंभीरतरं च अनुतपति - किमर्थं सा प्रतिवदति ? एवं नैकानि अघटनानि सा पश्यति ।
दुष्कृतानि च सहते । प्रतिवादे न कोऽपि लाभो भवति । अपरं तु वैमनस्य वर्धते । अत्र परिणामो भयङ्करो भवेत् । इतः प्रभृति सा निश्चिनोति न कदाचिदपि प्रतिवदिष्यति ।
अरुचिकरं विलोक्याऽपि सा मौनम् आचरिष्यति । दुराचारकृते च नेत्रं निमीलिष्यति । उपेक्षानीति
निजीकृत्य संयमेन नयनतः अश्रुविन्दुद्वयम् अधरीकृतवती श्रावणी ।
आकाशे
अस्वस्थचन्द्रः खण्डमण्डनः । प्रकाशलेखा निष्प्राणा। नीलतल्पे तारका आभासमात्रप्रणयिनी ।
मेघमाला धावनचञ्चला । अशान्तो वातः । प्रासादस्य मुक्तप्रकोष्ठे आसीना लिप्सा । चिन्तोपहतं लपनम् । पर्याकुलः केशराशिः। अयत्नविनिहितं वसनम्। दृष्टिस्तस्याः संलग्ना वर्त्तते
तमोलीनपादपचूडासु ।
इतः
अपरप्रकोष्ठे रुग्णपिता श्वासकष्टमनुभूय विचलितो भवति । दुःखेन आकारयति ।
— भवानि ....! भवानि ....!
भवानी
उपस्थिता भवति । दृढकण्ठेन च वारयति ।
— कथं
भवान् इतस्ततः चिन्तयति ?
— अयि !
श्रीमुखमन्वेपयितुं कश्चिद् गतो वा ? किमर्थं गमिष्यति ? स किं बालः ?
— अयि .... !
तथा न सः अभिमानेन गृहान्निर्गतः ।
— तर्हि, किमभूत् ? किम् एकाकी सः अभिमानी ? अन्येषां किम्
अभिमानं नास्ति ?
— अभिमानमस्ति
इति तु कन्या ते सीदति । कथं न तो बोधयसि ?
— अपदार्थं गृहमानीय कन्याया जीवनं भवान् नाशितवान् ।
— अहो
दम्भः ?
— दम्भः
किम् ? कन्याया मनोवृत्तिं भवान् कथं जानीयात् ? भवतः अविचारनिमित्तं सा इदानीं सीदति ।
आजीवनमपि
तथैव सन्तापदग्धा भविष्यति ।
— अरे ....!
अत्र को वा दोषो मम ? विवाहानन्तरं दायित्वं तु तस्या एव । सा पुनः किमर्थं तमुपेक्षितवती ?
— किं वा
अकरिष्यत्
— कथं कन्यापक्षमाश्रित्य वदसि ? मम दौर्बल्यात् त्वम् उद्धता । त्वामनुकृत्य सा च उद्धततरा । को मे वचनं शृणोति ?
— वचनश्रवणेन इयं दशा कन्यायाः ।
— दशा
तु कन्यायाः त्रुटिनिमित्तम् । पुनश्च सम्प्रति या अस्वास्थ्यकरी परिस्थितिः साऽपि
त्वदर्थमेव । सदैव कन्याया यथेच्छवृत्तिं त्वमेव प्रोत्साहयसि ।
— किं कन्या मे दासो भवेत् ?
— न ... न ..., ईश्वरी भवेत् । त्वमत्र यथा साऽपि तथा
भवेत् । केयम् आकाङ्क्षा ?
मैवं
वदतु । कन्या मे यथा आसीत् तथैव अत्र तिष्ठेत् । न कदाचित् सा यायावरसमीपं
गमिष्यति । यदि वा स यायावरसमीपं गमिष्यति । यदि वा स यायावरः अत्र आगच्छेत् तहि पादाघातेन तं बहिष्करिष्यामि । हँ....., शृणोतु, यदि भवान् पुनः कदाचित् तस्य विषये
वदेत् तर्हि परिस्थितिः भयकरी भवेत् ।
इत्थं सावधानीकृत्य भवानी अन्तः प्राविशत् । वृद्धः रघुपतिः भाग्यं विनिन्द्य न्यश्वसत् ।
— अहो ... अहो ....अहमिका .... ।
कोलाहलं
निशम्य पितृप्रकोष्ठम् आगतवती लिप्सा । शनैश्च पर्यंकपार्श्वे उपाविशत् । पितृमुखे
विकृतिमालक्ष्य सा आकारयत्
— पितः ....!
रघुपतिः
सचेतनः संजातः ।
लिप्सा
अवदत् ।
— किमर्थं
भवान् मदर्थं इयान् व्यस्तः ?
रघुपतिः
नीरवः ।
लिप्सा
दृढवचसा आश्वसयत् ।
— भवान् न कदाचित् विचलितो भवतु। मम विषये च चिन्तां परित्यजतु । अहमात्मानं निभालयितुं समर्था।
रघुपतिस्तु विवशः। स व्यबोधयत् ।
— पुत्रि ! कालो न समानः । सर्वस्मिन् समये च स्थितिरपि नानुकूला। अद्य यत् सुखमिति
प्रतीयते श्वः तत् अनुतापाय भवेत् । अद्य यत् अमृतोपमं तद् अपरेद्युः विषायेत ।
सम्यक् विचारय, पुत्रि । सम्यक् चिन्तय । उपयुक्तसमये यदि यथायोग्यं नाद्रियसे तर्हि कालान्तरे स्वयमनादृता भविष्यसि ।
इदानीमपि तथा किमपि न संघटितम् । कृते यत्ने सर्वं
पुनरपि समीचीनं भवेत् । मतिः स्थिरीकृत्य पतिपथम् अनुसर । सुखं मिलिष्यति । इदानीमेव
श्रीमुखमन्वेष्टुं जनं प्रेषय । तव अनुकूलमनोभावं विज्ञाय स नूनं निवर्त्तिष्यते ।
लिप्सा
तु विमनस्का । निरुत्तरा सती कियत्कालदण्डायमाना अभवत् । दुःखेन रघुपतिः आदिशत् ।
— याहि ...। याहि ..., पुत्रि ! यथाशीघ्रं विधेयं समापय ।
शनैरपसृता
लिप्सा । मनसि विलापः । कण्ठे वाष्पः । दुर्बलहृदये
आनुपातिकी व्यथा । दृष्टिपुरतः स्वप्नायते श्रीमुखः ।
आकाशे
जलदोवे पृथुमान् ।
श्रीमुख
क्लान्तः । भ्रमणे नाद्य स्पृहा । नवा विचरणे कुत्रचित् मधुप्राप्तेः आशा । सर्वत्र
अहङ्कारस्य विक्लवविवादः । अतिक्रमणस्य च स्पर्धा । गन्तव्यं तु अनिश्चितम्। पाथेयं तमोनिविडम् । दृष्टिपातमात्रं चमत्कारवह्निः । तत्र पतङ्गायते प्रवृत्तिः ।
अहमिकासर्वस्वमानवः प्रौढिप्रख्यापने तत्रैव निमग्नः ।
सम्प्रति
श्रीमुखो ग्लानिपीडितः । अहङ्कारस्य अभिभवम् अनुभूय स धीरायितुमुपक्रमते । चिन्तायां
तस्य नेदानीं अहमिकानुबन्धिनी स्पर्धा । न वा अतिक्रमणाय अहङ्कारस्य अपरा काचित्
परिनिष्ठिता सत्ता । अनुभवे
तिक्तायते एतादृशी छाया परिपाटी । आत्ममन्यतायां क्रमशो घनीभवति विरक्तिः ।
बहुमन्यविलासे अशान्तिरेव परिवर्धते । अहमिकास्वरूपे सम्प्रति आधाराधेयभावः
कश्चित् अपूर्वानुभवं पुरस्करोति- भस्मनो वह्नेश्च ऐकात्म्ये पार्थक्यं क्रमशः
स्पष्टीभवति । आधारोऽत्र भस्मकल्पः । आधेयं च वह्निरूपम् ।
प्रज्वलनं किमपि अन्यत् प्रतीयते । रज्वाकृतिः अधिष्ठानम् । अत्र तादात्म्यं तनोति
वह्निरूपम् । अतो रज्जुरिव आभाति । वह्निमती इयमहमिका । इयमेव स्वाधिष्ठानं
मनोऽधिकरणम् ऐकात्म्येन निजीकरोति । ततः अहमिका आकारनिष्ठा भवति । वस्तु च
तदाकारपरिसङ्गतया प्रतीयते । जीवश्च अहमिकायाः परिणतस्वरूपविशेषः संजायते ।
श्रीमुखो
विमुग्धः ।
अन्तर्भूमिस्तु रज्जुरूपतो नातिरिच्यते । अधिकरणनाम्ना तदेव उपादानम् । तत्पुनः अग्निसंयोगे न दीप्यते । अपितु भस्मीभवति । भस्म वा कयत्कालं वह्निमङ्गीकर्तुं प्रभवेत् ? न उपादानायितं भस्मरूपं, न वा रक्ताभवह्निरूपम् अत्र तत्वम्। आधाराधेयसम्बन्धबोधे तत्त्वं नाम प्रज्वलनम् । इदमत्र इष्टम् । इदं च लक्ष्यम् । न भस्मीभाव: ....न वा वह्नेः चमत्कारिता ....पाथेयीभवने सामर्थ्यमावहति ।
श्रीमुखः
आत्मना अवनतः । म्लानमनसि तस्य अतीत घटनायाः स्फुटविम्बम् । सः अनुतप्तः ।
अनुतापधारे नेदानीं लिप्सा प्रतिभाति । अपितु प्रतिपदं स्नेहं वितनुते चिरलुप्ता
जननी । सैव पुनः पुनः आविर्भवति ..... हृदयं दुर्बलीकरोति । तस्याः आकृतिः सम्प्रति
नेत्रपेया लावण्यधारा संजायते । श्रीमुखो मनसा क्लिन्नः । वचसा च धीरो .... मन्थरः । परं स किमपि
अन्विष्य इतस्ततः संचरति । वेशो धूसरः । जीवनयापनपरिपाटी उन्मत्तस्य
स्थितिमनुकरोति । तथापि तस्य अन्वेषणपुरोभागे लक्ष्यायते किमपि लावण्यम् .... तदेव अधिगन्तव्यम् .....सन्तापस्य निवृत्तये ... स्नेहस्य अनुवृत्तये .... अपरिग्रहस्य सम्पूर्त्तये .....सत्यस्य विवृत्तये ....आत्मनः शान्तये ... सद्गतये ।
परं
भ्रमणनेपथ्यमिदानीम् अनुभवे कोलाहलं रचयति । तत्र न केवलमहमिका स्फीतिमयी, अपितु कर्मणो विसङ्गतिःअन्धमार्गं निर्माति ।
मुक्तिविप्लवो नष्टः । विचारो भ्रष्टः । कर्तव्यबोधः स्वार्थविलीनः । स्वतन्त्रमानवः दुर्नीतिप्रतिष्ठाने गर्भदासो भावदासो वा । सर्वत्र
दुर्विपाकः समभावस्य ... समानुभवस्य गुणपरिग्रहस्य ...सामूहिकविग्रहस्य ...। कोऽयं मार्गः निष्कृतये? क्रान्तिः आत्मानं दहति । दुर्नीतिश्च परिपाश्वं धूमयति । भ्रष्टाचारकण्टकैः विध्यते पादतलभूमिः । सम्मुखे अन्यायस्रोतसि
बुद्बुदाः सहस्रायन्ते । किन्तु तदेव स्रोतो मार्गायते । अन्यथा जीवनधारणं न
सम्भवेत् ।
विदह्यते
श्रीमुखः ।
शान्तिचिन्ता
विपर्यस्ता भवति । लक्ष्य धूमनिविडं प्रतीयते । वटवृक्षतले मस्तके करं निधाय श्रीमुख आसीनः । दृष्टिपुरतः प्रतिष्ठन्ते कति जनाः । सर्वे कलह प्रसरे गतानुगतिकाः । क्रमेण उपगतः कश्चित् वृद्धः ।
वेशः साधारणः । मस्तके केशाः पलिताः । मुखे तथापि मालिन्यं नास्ति । क्लान्तः स वटवक्षतले
उपाविशत्। क्लान्तिश्वासं दीर्घीकृत्य गम्भीरः संजातः ।
श्रीमुखः
केवलं तं पश्यति । युवकस्य सतृष्णदृष्टेः तात्पर्यं ज्ञातुमैच्छत् वृद्धः ।
— युवक
! कुत्र गमिष्यसि ?
— इममेव
जनपदम्।
— तत्र
किं करोषि ?
— प्रथमवारम्
आगच्छामि ।
— किं
कार्यम् ?
— कार्यनिमित्तमेव
आगतः ।
— किं वा
कर्म करिष्यसि ?
— यथा
मिलेत् ।
— गृहकार्यम् ?
— भवतु
नाम ।
— मया सह आगन्तु शक्नोषि ?
— भवतः
परिचयः ....?
— अहं नाम्ना इन्दुकेतनः । अस्मिन् जनपदे निवसामि ।
— तव परिचयः ?
— अहं श्रीमुखः । गृहं तु बहुदूरे। इदानीं कर्मार्थं यत्र कुत्रापि निवसामि ।
— कियद् वेतनं तव ?
— कार्यं दृष्ट्वा भवान् विचारविष्यति ।
— साधु ...साधु ...। तर्हि आगच्छ ।
श्रीमुखः अन्वभवत्- वृद्धस्य
शान्तगम्भीरवचने अहमिका सुप्ता । मुखे अन्वेषणशैली स्पर्धाविहीना । नेत्रे श्रद्धा शान्तिप्रिया । श्रीमुखस्य
तदुपरि विश्वासः समजनि । स तत्क्षणमुत्थितः । अनुसरणाय प्रस्तुतः । इन्दुकेतनः
अग्रसृतः । पार्श्वमागम्य श्रीमुखः अपृच्छत् ।
— गृहे
अपरे के सन्ति?
इन्दुकेतनः
अहसत् ।
— के वा स्युः? आगच्छ .... द्रक्ष्यसि ।
श्रीमुखः नीरवः संजातः । आवेगवैपुल्येन स केवलं तमन्वसरत् ।
पुरतो भाति निशब्दनिलयः ।
विवर्णोऽयं प्रौढः । इतस्ततः स्वस्थीकरणस्य चिह्नानि स्पष्टानि । कुत्रचिदपि
अस्वस्थता स्फुटतरा । अत्र गृहोद्याने वृक्षा अपि वृद्धाः प्रतीयन्ते । निसर्गगुल्मराशि: निलयस्य विरलत्वं द्रढयति । मार्गः कृशतरः । इन्दुकेतनः अग्रे पश्चात्
श्रीमुखः ।
श्रीमुखः
अपश्यत् । चन्द्रशालातः अपरः कश्चित् वृद्धः त्वरया अवातरत् । ततः स आगम्य द्वारम्
उन्मोचितवान् । इन्दुकेतनः परिचयमकारयत्
— अयं श्रीमुखः । वराकः कर्मनिमित्तमागतः । ही..., अयं मम अनुजः चन्द्रमणिः ।
चन्द्रमणिः
व्यग्रतया अवदत् ।
— नाऽहं
तथा। अहं सेवकः अनुगतः ।
श्रीमुखः
तथापि प्रणामं न्यवेदयत् । चन्द्रमणिः सादरं तं प्रावेशयत् । प्रभुसेवानिमित्तं
सर्वं तेन यथापूर्वं सज्जीकृतम् । इदानीं तन्निर्दिश्य अतिथिप्रकोष्ठस्य
द्वारमुन्मोचितवान् । तत्र च निवस्तुं स श्रीमुखमावेदयत् ।
श्रीमुखः
प्राविशत् ।
अतिथिप्रकोष्ठे
सर्वमपि उपकरणं प्राचीनम् । उपकरणानां निर्माणशैली इन्दुकेतनस्य वंशाभिजात्यं सूचयति
। श्रीमुखः मुग्धतया पश्यति । किमपि अपूर्वमनुभवति । मनसा क्रमशो द्रवीभवति । सहसा
नेत्रपथमागता एका अस्पष्टा प्रतिकृतिः । चित्रमिदं ललनायाः । बहुपूर्वम् ।
अङ्कितम् । अतः अस्फुटं प्रतीयते श्रीमुख स्तब्धः । बाल्यस्मृतिः उद्भासिता ।
प्रतिमेयं साक्षात् मातुः प्रतिकृतिः । सहसा तस्याः सम्बोधनशब्दाली अनुरणनमरचयत् मनसि
। श्रीमुखः नेत्रं न्यमीलत् । अश्रुविन्दुद्वयं न्यगलत् कपोले ।
जलमानीय
उपगत: चन्द्रमणिः । सहसा अश्रुक्लिन्नमण्डलं विलोक्य सः अपृच्छत् ।
— किमभूत् ? कथं खेदः
श्रीमुखो मनोगतं निह्नुतवान् ।
— न ...न ...। न तथा किमपि ।
चन्द्रमणिः
आपादमस्तकं तं निरैक्षत । स तु पुरातनो जनः । अतः अस्य मनोभावम् आकलयितुं स अधिकं समयं न नीतवान् । ततः स निरोचिनोत् । नायं कश्चित साधारणकर्मकरः । वा कश्चित्
दुष्कुलीनः किङ्करः । अस्य किमपि गौरवपूर्णमतीतमस्ति । किमपि च वंशाभिजात्यमस्ति सः
अपृच्छत् ।
— किमन्यत् आवश्यकम् ?
नम्रः श्रीमुखो न्यवेदयत् ।
— नान्यत्
किमपि केवलं जलम् ।
अपसृतः
चन्द्रमणिः ।
प्रकटिता निःशब्दसंध्यायाः निःसङ्गशैली । संक्षिप्तप्रकाशे तारका श्रीमती अभूत् । आश्वस्तिमभिषिच्य चन्द्रो दर्शनीयः संजातः । पूर्ववत् चन्द्रमणिः चन्द्रशालाया आभोगं परिष्कृतवान् । आसनं च सज्ज्यकरोत् । यथाविधि यथाऽवश्यकं च द्रव्य तत्र निहितवान् । तदनु आगम्य इन्दुकेतनं व्यज्ञापयत् । इन्दुकेतनः उपरि आगतः । आसने च उपाविशत् ।
आकाशे चन्द्रप्रभा मण्डलं विस्तारयति । इन्दुकेतन एकाग्रतया तमभिलक्ष्य उपविष्टः । पूर्ववत् लक्ष्ये स एव लावण्यनिधिः । चिन्तातले आह्लादस्य सोपानमाला । विचारे पावनायते तदेव लावण्यम् । नेदानीं द्वैधीभावस्य लेशावसरः । दृढनिश्चये लावण्यसम्प्रीतिः शान्तिमती । अत्र विनिमये तादात्म्यं वहन्ति नामानि । तानि एवं नानायन्ते । सहस्रनामस्तवके च पुष्पायते लावण्यस्य स्तरारोहः । फलायते आह्लादः । विनिमयविधाने अयमेव निर्यासः । परं विनिमयस्य किमवलम्बम् ? किमिदानीं वा आत्मीयता परिपुष्णाति ? इन्दुकेतनो विलीनः— स्थिरमनस्तटे तस्य समारोहं रचयति लावण्यपातः । विनिमयस्य अधिष्ठाने अवलम्बनाय आविर्भवति केवलमेकं नाम ....शशिरेखा
नम्रभावेन
चन्द्रमणिः व्यज्ञापयत् ।
— श्रीमन् ..... ! तरुणः बहिर्गन्तुमिच्छति ।
इन्दुकेतन आदिशत्
— तमत्र आनय ।
इन्दुकेतनो गम्भीयभावेन आसीनः । चन्द्रमणिः श्रीमुखं तत्र निवेश्य स्वकर्मणि लग्नः । इन्दुकेतनः सरलतया निरदिशत् ।
— अत्र उपविश ।
श्रीमुखः
कृतकृत्यः संजातः ।
इन्दुकेतनः
अवदत्
— इदानीं गृहं दृष्टम् । परिवारसदस्या अपि परिचिताः । वद, किमत्र कर्त्तुमिच्छसि ?
— यथा भवत आदेश तथा मे कर्म भविष्यति । आदिशतु ....।
— बहुदिनेभ्यः पूर्वं कानिचन अनुष्ठानानि मया निर्मापितानि । वार्धक्यवशात् इदानीं पर्यवेक्षणाय तत्र गन्तुं न शक्नोमि । तत्रत्यस्थितिविषये ज्ञातुं बलवती मे इच्छा । तत्र गत्वा सम्यक् परिदृश्य च किमपि प्रतिवेदय ।
— अनुष्ठानानां
संकेत: ।
— सत्यम् ....। सर्वस्य संकेत: चन्द्रमणिनिकटे विद्यते । तत्सर्वं संगृह्य गच्छ। हँ .....यथावश्यकं धनमपि नय ।
— यथानिर्देशं करिष्यामि ।
इन्दुकेतनः
चन्द्रमणिं समाकारितवान् । चन्द्रमणिः उपस्थितः । इन्दुकेतनो निरदिशत् ।
— अयं
श्रीमुखः । अस्य भोजनादिव्यवस्था अद्यप्रभृति त्वयि न्यस्ता ।। पुनश्च, स श्वः
प्रातः अनुष्ठानानां पर्यवेक्षणाय इतो निर्गमिष्यति । तदर्थं संकेतादिकम् आवश्यकम्
। तत्सर्वं प्रयच्छ याहि .....तरुण । श्वः प्रभृति कर्मणि आत्मानं व्यापारय ।
श्रीमुखस्य मार्गं निर्दिश्य चन्द्रमणिचन्द्रशालातः अवातरत् । श्रीमुखः तमन्वसरत् ।
एकाकी इन्दुकेतनो निमग्नः । विभामयी विभावरी। सन्ध्याया अस्तभाष्ये आत्मानं गम्भीरयति तमसा । रात्रे उत्तरक्रान्तिं नीरवयति परिवेशस्य सुप्तिश्वासः ।
मौनतायां
दीर्घता अपरिमेया ।
व्याहतप्रार्थनासु अवसीदति श्रावणी । मुखमण्डले तस्या मौनलेखा । शीर्णाभिलाषे वर्तमानं म्लानम् । अश्रुजले क्लिन्नं भविष्यम् । सा हि सम्प्रति कन्याया जननी । एतदर्थं पतिः विक्षुब्धा । पुनश्च उग्रतरः । प्रतिक्षणं स भत्संयति । ताडयितुं च प्रवर्तते । किन्तु प्रतिपदं सम्मुखे दण्डायमाना भवति माता मेदिनी । सा मुखमवनस्य दोषं स्वीकरोति । क्षमां याचते । त्रुटिसकलमात्मसात्कृत्य श्रावणीं मोचयति । श्रावणी तु विलपति। निजभाग्यं विनिन्दति । आत्मघाताय निश्चयं करोति । परमेकपार्श्वे वृद्धा माता। अपरपाश्वे सद्यो जाता पुत्री । सा केवलं मातुः वक्षसि मुखं निह्नूय विलपति । पुनरपि मौनं पाथेयीकरोति ।
मातृहृदये
तस्या अंकुरिता भवति ममता । वात्सल्यस्य अपूर्वभूमिः तस्या मानसोपद्रवम उपशमयति ।
सा आत्मानं बोधयितुं प्रवर्त्तते । सकल चिन्तायां शुभं निर्दिशति वृद्धा माता मेदिनी
। सा संप्रति मातामही इति तस्या आनन्दः । पुत्रो भवतु वा कन्या भवतु, परिणामे
उभयस्य गुरुत्वमस्तीति विबोध्य सा नप्त्रीसेवायां संलग्ना ।
अभ्रपदस्तु
असन्तुष्टः । कन्या जाता इति तस्य महान् कोपः । अतः स जन्मोत्सवस्य सकलमपि औपचारिकं न्यषेधत् । नामकरणसंस्कारं विहाय नान्यत्, किमपि अन्वमोदयत् ।
स्वयमात्मना
स्पर्धते अभ्रपदः । न स कन्यायाः पितृत्वं स्वीकर्त्तुं प्रभवति । न वा कन्यायाः
विसर्जननिमित्तम् आत्मानं प्रस्तौति । इदानीं प्रथमतया स आत्मनः पराजयमनुचिन्तयति ।
नितरां च पीडयते - यदि पुत्रोऽभविष्यत् तर्हि तस्य सम्पत्तिः बहुगुणिता अभविष्यत् ।
कन्याजनने तु सम्पत्तेः क्षयः । किन्तु यया कयापि रीत्या सम्पत्तिः वर्धनीया । धनं च
बहुगुणयितव्यम् । अनेन वंशस्य अभिजात्यं सुरक्षितं भवेत् । मर्यादाऽपि वर्धत ।
उपायसंधाने विमथ्यते अभ्रपदः । चिन्तने वैचित्र्यमातनोति धनाहरणस्य प्रपञ्चः । स निमग्नः । कन्याऽपि पुष्कलतया धनमुपार्जयितुं शक्नोति । तदर्थं प्रशिक्षणमावश्यकम् । मूलतो तया एक दिशा सा प्रचोदयितव्या । सा चेत् विशिष्टा नर्त्तकी भविष्यति तर्हि धनागमस्य मार्गः सरलः स्यात् ।
अभ्रपदः
किंचिद्भारमुक्तः ।
समयेऽस्मिन् धात्री व्यज्ञापयत् ।
— आदेशानुसारं कन्याया नामकरणसंस्कारः संजातः ।
अभ्रपदः साग्रहमपृच्छत् ।
कन्यायाः श्रद्धानाम किम् ?
ऊर्वी.....।
अभ्रपदः
प्रसन्नः संजातः ।
— भवतु । प्रभुपत्नीं वद, अहमदनुपदम् आगच्छामि।
धात्री प्रस्थिता ।
अन्तराले
मङ्गलवाद्यध्वनिः समयस्य प्रतिध्वनिम् अनुसन्धते । अभ्रपदः चन्द्रशालामागम्य
चिन्तामग्नः । सम्मुखे धूसरावगुण्ठने विराजते ग्रामः । मृत्तिकागौरवं प्रथयति
उद्भिद्हरितिमा । शैवाललिप्त इव प्रतीयते दिग्भागः । दूरदृश्य तु अस्पष्टम् ।
सर्वत्र
अस्फुटप्रतीतिः ।
भावरोन्मन्थे लिप्सा गम्भीरा । विवाहतः कियन्ति वर्षाणि व्यतीतानि । समाजसम्मुखे सा सीमन्तिनी ।
अन्तःकरणे तु पुष्कलग्नानिः । पतिपत्न्योः पुनर्मेलनमभिलष्य पिता रघुपतिः दिवङ्गतः ।
श्रीमुख इति नामश्रवणमात्रं माता भवानी तु खड्गहस्ता। निजाऽभिजात्ये इदानीमपि सा
अहङ्कारस्य पर्यायमनुसर्तुं कन्यामुपदिशति । कस्यांचिदपि परिस्थितौ अवनमनं तत्कृते
मरणमिव । पलितकेशेषु तस्याः समयस्य कुञ्चनप्रपञ्चः । चर्मणि रेखायते क्षयविभा । नेत्रकोटरे तथापि
कज्जलायते सम्मोहनस्य कुटिलपर्व । हृदये मनसि च कामनाकीटानां सङ्गमः रङ्गप्रियः ।
वस्तुतः को वा कस्य मनोगतं निजीकुर्यात् ? सर्वे हि अहमिका परिधिवद्धाः । केचन सन्ति तादृशा ये अहमिकापरिधिमतिक्रम्य चिन्तयेयुः ? सर्वोऽपि विचारः अहमास्पदे पुष्यति । फलति इतरभूमौ ।
लिप्सा
तु जाले पतिता इति स्वयम् अनुभवति । नात्र स्थातुं शक्नोति न वा निष्कान्तुं प्रभवति । निष्क्रमणस्य समयो व्यतीतः । अतिक्रमणस्य सामर्थ्यमपि विनष्टम् । इदानीं
कृष्णकेशेषु केचन पलिताः केशा
आविष्क्रियन्ते । शरीरे अनाकलितव्यथा अनुभूयते । मनसि क्रमश औदासीन्यं दृढीभवति ।
एकपार्श्वे माता भवानी अहमिकाम् उद्दीपयति । अपरपार्श्वे भावाकाशे संयुज्यते
अशेषशून्यता..... नीलशोभा ...... पुनश्च शीर्णसम्बन्धस्य विकीर्णविलासः । कवरीतः कियन्ति
चम्पकानि गलितानि । तथापि तत्र प्रतिदिनं चम्पकमेकं स्थापयति लिप्सा ।
चम्पकवृक्षसमीपे
मन्दिरं मनोहरम् ।
इदं सङ्केतस्थलम् इन्दुकेतनस्य । अत्र समागतः श्रीमुखः। कुक्कुटस्य रावे अत्र निद्राऽपसरति । छाया द्योतयति समयस्य गतिम् । रात्रि: प्रतीयते शृगालवक्कने । अयं ग्रामः । परितः परिच्छिन्नः । सस्यक्षेत्रैः परिवेष्टितः । ग्रामस्य उपान्ते मन्दिरमिदं पुण्यक्षेत्रम् । परमयं देवालयो भग्नांश एव । अत्र जना आगच्छन्ति । प्रणम्य प्रतिष्ठन्ते । देवस्तु सदा दुःखी प्रतीयते । श्रीमुखः प्रदक्षिणीकृत्य सर्व व्यलोकयत् । दीर्घतरं निश्वस्य उपाविशत् । मनसा स व्याकुल:- गतानुगतिकोऽत्र लोकः । न कश्चित् मन्दिरस्य पुनरुद्धारनिमित्तम् यत्नं करोति । न वा कश्चित् जीर्णता निमित्तम् अनुशोचति । श्रीमुखः पूजकमुपगतः । तम् अपृच्छत् ।
— भवान् अत्र पूजकः ?
— हँ ... ।
कथयतु ... किमावश्यकम् ?
— क इदं निर्मितवान् ?
— कश्चित्
पुण्यात्मा ।
— किं नाम तस्य ?
— वक्तुं न शक्नोमि ।
— भग्नप्रायमिदम् । भवत्सु न कोऽपि पुननिर्माणाय यत्नं करोति ?
— कः करिष्यति ? सर्वेऽत्र उदरविकलाः । येषां धनमस्ति ते यथा आचरन्ति तथैव निर्धना आचरन्ति । अपरं तु सर्वेऽत्र अहं गरिष्ठः ..... अहं वरिष्ठ' इति वचोभिः कलहायन्ते । अत्र च आगम्य धननिमित्तमेव देवं प्रार्थयन्ति । अन्यत्र संचितधनेन संघर्षमारभन्ते । एषा स्थितिः । अत्र धनविनियोगेन को वा लाभः तेषाम् ?
— तर्हि भवान् किमत्र करोति ?
— किं
वा करिष्ये ? वृत्तिरेषा
कुटुम्बपोषणाय ....।
— भवान् किमर्थमस्य पुनरुद्वाराय न यतते ?
— यत्नं करोमि । किन्तु किमपि न सिद्ध्यति । तथापि कश्चित् पुण्यात्मा
पुनरागमिष्यतीति प्रतीक्षे ।
श्रीमुखो निरुत्तरः संजातः । मनसि तस्य व्यथा - काऽत्र कीर्तिः ? को वा यशः ? का वा प्राप्तिः ? किमुपलब्धिः ? निर्मातुः किमुद्देश्यमासीत् ? किमत्र फलति ? प्रतिनिर्माणम् उद्देश्यं महत् । परं केचन तदुत्तरपुरुषा एतदाकलयितुं प्रभवन्ति ? को वा दायत्वेन तत स्वीकृत्य महदुद्देश्यं पुनरग्रे सारयितुं यतते ? अहो वैचित्र्यम् ! निर्मातुर्नामाऽपि विस्मर्यते ।
श्रीमुखो
विचलितः ।
समुखे
उदभासत इन्दुकेतनस्य शान्तिमूर्त्तिः .....चन्द्रशालाया आभोगः .... सेवको वराकः चन्द्रमणिः
। श्रीमुखः अपरस्थानस्य संकेतं मनस्यन् ततः उत्थितः । न कोऽपि तस्य गतिरोधमकरोत् । न
वा कश्चित् तदीयगन्तव्यविषये अपृच्छत् । स एकाकी ....पथिकः .... ।
प्रदेशोऽयं लघुजनपदः । इन्दुकेतनस्य अपरप्रियस्थानमिदम् । अत्र इन्दुकेतनस्य पूर्वपुरुषा आसन् ।
अत्रैव ते वाणिज्यमारब्धवन्तः । अत्र च इन्दुकेतनः तेषां सरणिमन्वसरत् ।
तदानीमिन्दुकेतनः शिक्षाया अभावमन्वभवत् । अतः प्रथमतया स्थानेऽस्मिन् स विद्यालय
मेकमारभत ।
सोऽयं विद्यालय इदानीं श्रीमुखस्य सम्मुखे विराजते । विद्यालयस्य चतुर्पार्श्व कियन्तो वृक्षा वृद्धाः प्रतीयन्ते । विद्यालयस्य भित्तयोऽपि तथैव जीर्णाः । प्रतिप्रकोष्ठ निष्कपाटद्वारम् । अर्धभग्नवातायनम् । गुल्मगहने विद्यालयोऽयं साक्षात् अरण्यनिवासः ।
श्रीमुख उपगतः । परित्यक्त विद्यालयेऽस्मिन् कियत्कालं स्थितः । तत्र प्रथमतः स जनद्वयम् अपश्यत् । एको भिक्षुः । अपर उन्मत्तः। भिक्षुः पचति । उन्मत्तः अपरपार्श्व उपविश्य भर्त्सनायां मग्नः । श्रीमुखः पुरः सृतः । एकस्मिन् प्रकोष्ठे व्याधिग्रस्ता भिक्षुणी शय्याशायिनी । अन्यपार्श्वे कुष्ठव्याधिपीड़ितो वृद्धः स्वव्रणतो मक्षिकां निवारयति । श्रीमुखस्तु किमपि आकलयितुं न शक्नोति । इतस्ततः पश्यति । चिन्तयति । सहसा तत्र कलहः श्रुतः । श्रीमुखः किंचित् अग्रेसृतः । तत्र जनद्वयम् अपश्यत् । कलहं च श्रुतवान् । अयं कलहो मद्यपद्वयस्य । कलहजल्पने संगतिर्नास्ति । अतः अत्र किमपि कारणं स्पष्टं न भवति । श्रीमुखो निर्वाक्तया उभयं पश्यति । कलमुपशमयितुं किंचित् अग्रेसरो भवति । सहसा पश्चात् कश्चित् शब्दापितवान् ।
— न
गच्छतु .... न गच्छतु ...।
श्रीमुखो विवर्तितः । अपश्यत्, स एव पाकलग्नभिक्षुः शब्दापयति ।
— न गच्छतु इमे मद्यपाः ।
सदाऽत्र आगम्य कलहायन्ते । पुनश्च अस्मान् अत्र शातयन्ति ... ताडयन्ति ।तेषां किमपि ज्ञानं
नास्ति ।
श्रीमुखो
दृढतया अवदत् ।
— त्वमत्र
किं करोषि ?
— अयं
मे निवासः ।
— कदाप्रभृति ?
— अनेकदिनतः
।
— भिक्षा ते जीविका नु ?
— अकर्मण्य
संजातः । किमन्यत् करिष्यामि ?
भवतु, अल्पदिनाभ्यन्तरे सर्वेषाम् इतो बहिष्करणं भवेत् ।
— किमर्थम् ?
— किं युष्माकं पितर इमं निर्मितवन्तः
—तव पिता कृतवान् वा?
— भिक्षो
! सावधानतया वद ।
— कथम् ? इयद्दिनेभ्यो निवसामि । न कोऽपि वदति । कस्त्वमागतः मामितो वहिष्कर्त्तुम् ? यो यत्र तिष्ठति स
तत्र प्रभुरिति सर्वकारस्य नियमः । अहमत्र प्रभुः । गच्छ ...। यथेच्छं कुरु । अहो, अयं साधुरिति मया चिन्तितम् । वस्तुतः अयमपरो मद्यपः । अद्य किंचितं अधिकं पीत्वा
शयनार्थमागतः । धिक् ... धिक् ... । गच्छ ...। अन्यं पश्य । अत्र तु स्थानं न मिलिष्यति।
श्रीमुखो
विस्मितः ।
समयेऽस्मिन् अपरभिक्षुद्वयं विद्यालयमागतम् । एकः अन्धः । अपरो वधिरः । उभयं साक्षीकृत्य श्रीमुखं च दर्शयित्वा स भिक्षुः गर्जति ।
— पश्य, भो ! एष मद्यपः अस्मान् बहिष्कर्त्तुमागतः ।
वधिर उक्तवान् ।
— किमुक्तम् ? वाद्यम् ...? अद्य कस्य विवाहः ?
— अरे ! वाद्य नहि... । मद्यपः ...।
— पादपः ? किमभूत् ?
— धिक् ....मूर्खः ... वधिरः
— खदिरेण किम् ? ताम्बुलं कुत्र ?
अन्धो
वारणपुरःसरं कुपितः ।
विरम ...।
स जनविषये कथयति ।
— भोजन विषये ....? कुत्र ?
वधिरः
प्रहृष्यति ।
भिक्षूणामालापावसरे श्रीमुखः प्रस्थितः । मनसि तस्य कोलाहलं स्फुरयति अहमिकाया नेपथ्यभूमिः । कलहप्रसरे अहङ्कारं एवं ध्वजधृक् संजायते । मार्गान्तरं प्राप्य श्रीमुखः पुरो गच्छति । अनुभवस्तु मनो मथ्नाति । स आत्मसमीक्षां कुरुते । ....एषु एव परित्यक्तस्थानेषु को वा तस्य मोहः ? किं वा प्रभुत्वम् ? किमर्थमत्र सः अधिकारं विन्यस्य वदति ? पर्यवेक्षणनाम्ना स्वयमत्र किं करोति ? यत् स करोति तत् सर्वं सीमापरिसरे अन्तर्भवति ? नूनमिह आत्मनः कश्चित् लोलुपमनोरथो वर्तते । प्रवृत्तौ च निजीकरणस्य कश्चन मोहः श्रीमान् भवति । अयं लाभलोभः, अयं च सम्मोहः, पुनरपि अधिकाराय अनुचितोऽयम् आग्रह :- एते सर्वे अहङ्कारस्य केचन पर्यायाः ।
एकस्मिन् सरलमार्गे श्रीमुख उपस्थितः । दृष्टिपुरतः निकटायितं अन्यदेकं संकेतस्थानम् । स प्रसन्नः । मनसि तु मन्थनस्य भ्रमि: — किम् अहमिकाकवतो मुक्तिः नास्ति ? अत्र जयस्य आशा यथा न उन्मादयति तथा पीडयति पराजयस्य आशङ्का । कथमेतद् भवति ? कथं च आत्मग्लानिः प्रतिमुहूर्त्तं संघटते ? किमर्थं च संकोचबोध: ? कथमुद्वेगः ? किमर्थं च अभावस्य विन्यासप्रपञ्चः ? किमेतत् सर्वम् अहङ्कारस्य पारिपार्श्विकं तत्त्वम् ?
चिन्ताविक्लवः
श्रीमुखः क्लान्तः ।
अग्रे
तु सौन्दर्यं तनोति ग्रामः । अत्र इन्दुकेतनस्य दातव्यचिकित्सालयः । स्थानेऽस्मिन्
विश्रान्तुं श्रीमुखः निश्चितवान् । तदर्थं मार्गे स कति जनान् तत्स्थानस्य निर्दिष्टसंकेतं अपृच्छत् । इत ...इत... इति निदिश्य कश्चित् ग्रामीणः अग्रे सृतः । श्रीमुखः तम् अन्वसरत् ।
चिकित्सालयस्य अलिन्दे श्रीमुख प्रापितः । ग्रामीणो निरदिशत् — अयं चिकित्सालयः । श्रीमुख आश्चर्यान्वितः । इतस्ततः अपश्यत् । अलिन्दपार्श्वे काश्चन गावो बद्धाः । चिकित्सालयस्य पार्श्वमेकं भग्नम्। अपरपाश्वे एकस्य प्रकोष्ठस्य द्वारं पिहितम् । अपरप्रकोष्ठस्य द्वारे कपाटं नास्ति । किन्तु तत्र प्रतिमाया आस्थानं विराजते । श्रीमुखो चिन्तिततया अपृच्छत् ।
— अयं
चिकित्सालयो नु ? अत्र वैद्यः
कः ?
ग्रामीणो विहस्य अवदत् ।
— नाम्नाऽयं चिकित्सालयः । किन्तु नाऽत्र वैद्य आगच्छति, न वा चिकित्सा भवति ।
— तर्हि, कथं चिकित्सालयः
— अत्र विषयः प्राचीनः ।
— कथय
नु
— कश्चित्
श्रेष्ठी एवं निर्मितवान् । तदानीं स वैद्यं नियुक्तवान् । औषधादिकं सर्वमपि तत्र आसीत्।
परं ग्रामेऽस्मिन् निवस्तु वैद्यस्य
— तर्हि,
तदा प्रभृति अस्मिन् प्रकोष्ठे द्वारं पिहितम् ?
— न ... न ... । अयं प्रकोष्ठो ग्रामयुवकानाम् । अत्र तेषां संघकार्यं प्रचलति । अपरप्रकोष्ठे अस्माकं ग्रामस्य देवपूजादिकं प्रचलति । ग्रामसभा भवति । मङ्गलकार्यमपि भवति ।
— को वा अस्य
इतिहासः ?
— कदाचित् कश्चित्
श्रेष्ठी कार्यवशात् अत्र आगतः । तेन सह तस्य पत्नी आसीत् । कतिचन ग्रामललनाः
शिशूनां चिकित्सानिमित्तं तस्य पत्नीम् अन्वनयन् । तत्क्षणं सा अङ्गीकृतवती । सर्वा
अपि व्यवस्था तया एव कृता । यदा सर्वं सम्पन्नं तदा जनाः चिकित्सालयस्य नामकरणं
चिन्तितवन्तः । यदा तस्या नाम्ना चिकित्सालयं नामायितुं जना अवदन् तदानीं सा
न्यषेधत् । सा उक्तवती- भवतां ग्रामदेवस्य नाम्ना चिकित्सालयस्य नाम कारयतु । ततः
प्रभृति एवं प्रचलति ।
— किं नाम आसीत्
तस्या: ?
— शशिरेखा.....।
श्रीमुखः चमत्कृतः । कियत्कालं च चिन्तामग्नः संजातः ।
ग्रामीणः अपृच्छत् ।
— किं भवान् तदीयो
जनः ?
— असौविध्यमनुभूयाऽपि
श्रीमुख उदतरत्
— हाँ ....।
— किमत्र
पुनर्निर्माणार्थमागत: ?
— अहो,
भाग्यम् ।
स
जनद्वयमाकारयितुं प्रवृत्तः । श्रीमुखः अवारयत् । ग्रामीणः अपृच्छत् ।
— किं भवान् अद्य
प्रस्थानं करिष्यति ?
— कुत्र वा
स्थास्यामि ?
— अस्मिन्
युवसंघप्रकोष्ठे ।
श्रीमुखो नीरवः । ग्रामीणः आश्वस्तिमददात् ।
— न किमपि चिन्तयतु । ग्रामस्य मङ्गलनिमित्तं
भवान् आगतः । भवान् अतिथिः । अहं सर्वविधं सहायं करिष्यामि । न काचित् असुविधा
भवेत् । अत्र भवान् तिष्ठतु । अनुपदमेव प्रकोष्ठद्वारकुञ्चिकामानीय आगच्छामि ।
ग्रामीण
प्रस्थितः । श्रीमुखः सकृत् तस्य मार्गमपश्यत् । सकृच्च अर्धभग्नचिकित्सालयं निरैक्षत । पुनश्च ग्रामवृक्षाणामुपरि दृष्टिं समचारयत् । ततः स निविष्टः । अभिनिवेशे अभासत
वृक्षस्य आदिकथा । संसारेऽस्मिन्
केचन वृक्षमारोपयन्ति । केचन वृक्षम् उत्पाटयन्ति । तृतीयपक्षाः केचन सन्ति ये
नारोपयितु न वा उत्पाटयितुं प्रभवन्ति । ते केवलं पश्यन्ति । तेषु केचन मुग्धा
भवन्ति । केचन वृक्षं निजीकृत्य अभिमानिनः संजायन्ते । केचन असहिष्णुतया वृक्षच्छेदने
निमज्जन्ति । केचन वृक्षं परकीयं मत्वा उदासीना भवन्ति । पुनः केचन निष्कारणं
वृक्षस्थितिं विरुध्य इतस्ततो जल्पन्ति । इयं धारा । अत्र तृतीयपक्षजनानां बाहुल्यं दृश्यते । अस्मिन्नेव पक्षे स्वयं श्रीमुखः अन्तर्भवतीति अनुभवति । वक्षं पश्यति ।
वृक्षच्छेदनमपि विलोकयति । तथापि कस्मिंश्चित् निजसात्प्रकरणे स आत्मानं आविष्करोति
। तत्रैव स अभिमानी भवति ।
अभिमानमिदम् अहमास्पदता । इयं तु साक्षात् बुद्बुदस्फीतिमा । अदृष्टस्य अभिघाते बुद्बुदः समुत्पन्नः । पवनसंसर्गात् तस्य स्फीतिः । जलस्य लघुतमविकारे च तस्य स्थितिः । जलगतौ तस्य गतिः । तथापि बुद्बुदे कियन्न प्रतिबिम्बनम् ? प्रतिबिम्बकतिपयम् आत्मनि प्रतिफलयन् कियान्न स्वार्थसर्वस्वो बुद्बुदः ? परमन्ततः कः परिणामः ?
दीर्घतंर
न्यश्वसत् श्रीमुखः ।
क्व पन्थाः ? किम् अवलम्बनम् ? सर्वत्र तु बन्धायते अवलयस्य वलयः । अवरोधस्य च प्राकार सीमायते । सर्वमपि वैविध्यं अविमुक्तं प्रतीयते । शेषायते अवसादस्य बिन्दुः । समापननाम्ना वीजायते पुनश्च प्रारम्भः । जालायते आवरणस्य विलासः । प्रतीतिः प्रतिपत्तिं न स्पृशति । बोधवैधुर्ये विमथ्यते मनः । किम् अनावरणम् ? क्व वा अस्य भूमिः ? विषयस्य कुत्र उपरतिः ? क्व पुनः ज्ञानस्य समाप्तिः ?
समयेऽस्मिन्
उपगतो ग्रामीणः। युवसंघप्रकोष्ठस्य द्वारमुन्मोच्य अवदत् ।
— अत्र रात्रिं यापयतु । सायंकाले
केचन ग्रामवृद्धाः युवकाश्च आगमिष्यन्ति । चिकित्सालयविषये चर्चां करिष्यन्ति ।
श्रीमुख
आश्वस्तः ।
ग्रामीणो व्यवृणोत् ।
— जलादिकम् आवश्यकं चेत् अग्रे कूपो विद्यते । अत्रत्यपात्रं गृहीत्वा तत्र गच्छतु । सायंकाले आगमिष्यामि ।
— भवतु ।
ग्रामीणः प्रस्थितः । श्रीमुखः प्रकोष्ठं प्राविशत् । आश्वस्त्या वसनं पर्यवर्त्तयत । आत्मानं
शिथिलीकृत्य अलिन्दे उपाविशत् । व्यापृतिमन्थरः अपराह्नस्य ग्राम्यपरिवेशः ।
दृश्यमत्र ग्रामललानां वेशसज्जाप्रकरणम् । उपभोग्यमिह लज्जानम्रजल्पनम्। साधारणव्यवहारे प्रस्फुटतीह ग्रामस्य परिच्छिन्नपरम्परा । श्रीमुखः कूपमभिलक्ष्य
चिन्तामग्नः । दृष्टिधारे श्रियमातनोति लललानां मेला । अत्र काचित् 'लिप्सा' अभिमानं प्रदर्श्य उत्फुल्ला भवति । काचिदपि 'श्रावणी' अश्रुम्लाना प्रतीयते। पुनरपि काचित् वृद्धा दुःखं विशदीकृत्य 'मेदिनी' संजायते। विवादविवशः श्रीमुखः मुखं न्यवर्त्तयत् ।
वृत्तपत्रस्य
शीर्षाक्षराणीव पश्चिमाकाशं भूषयन्ति मेघमालाः । छलनायाः छद्मवेशं प्रसारयति अस्तशोभा । मृगयामुहूर्तस्य शेषरागं समुद्धरति ताम्रगोधूलिः । सांध्यसामग्रीं स्नेहयति कुलवधूचरणशिञ्जिनिः । दूरस्यदेवालयतः घण्टानाद
रात्रिरहस्यम् अनुरणयति ।
निमग्नः
श्रीमुखः उपविष्टः ।
समागता ग्रामीणाः । ते चर्चा प्रावर्त्तयन् । चिकित्सालयस्य पुनरूद्धारनिमित्तं योजनाः प्रस्तुताः । साहाय्यनिमित्तं प्रतिभूतिमददात् श्रीमुखः । ग्रामीणाः हृष्टाः । श्रीमुख अपरगन्तव्यस्थानविषये अपृच्छत् ।
— इतः
कियद्दूरे यज्ञपुरम् ?
कश्चित्
ग्रामीण उदतरत् ।
— अल्पदूरे
-- किं कर्म तत्र ?
— गवां
चरणनिमित्तं तत्र वृहत्प्रान्तरमेकमस्ति खलु
— वृहत्प्रान्तरम्
--??
— तत्र ग्राममेला आयोज्यते । तत्र च गवामपि कदाचित् सम्मेलनं भवति ।
सर्वे अहसन् ।
श्रीमुखो
विस्मितः ।
— किमभूत् ? हास्ये किं कारणम् ?
कश्चित्
वृद्धः अवर्णयत् ।
— महाभाग
! नेदानीं तत्र प्रान्तरमस्ति । न वा काचित् मेला भवति । सम्प्रति प्रान्तरनिमित्तं ग्रामे सर्वेषां मध्ये कलहः । प्रान्तरतः कमपि भागं यथाकथंचित् गृहीत्वा निजक्षेत्रं निर्मातुं सर्वे इच्छन्ति । यः प्रभवति स तत्र बलात् यथेच्छं स्थानमधिकरोति। क्षेत्रं च निर्माति । एवं
समग्रमपि प्रान्तरं क्षेत्रं संजातम् । तथापि कलहस्य समाप्तिः न भवति ।
— वस्तुतः इयद् वृहत् प्रान्तरं किमर्थ क्षेत्रविहीनमासीत् ?
वृद्धो भावविह्वलः ।
— कथेयं महती । पुरातनी अपि । एकदा कश्चन महात्मा मार्गेऽस्मिन् प्रस्थितः । परमस्मिन् स्थाने तस्य शकटः सहसा विरतः । बलीवर्द: पीडित आसीत् । शकटं पुरोनेतुं तस्य सामर्थ्यं नासीत् । बलीवर्दः शकटभारतो विमुक्तः । वराकः कियत्क्षणान्तरे तत्रैव मृतः । परमदयालुः महात्मा तत्रैव गोशालामेकां निर्मातुं निश्चित्य प्रस्थितः ।
— ततः ?
कियद्दिनाभ्यन्तरे स महात्मा तत्सलग्नं समग्रमपि क्षेत्रं क्रीतवान् । समग्रभूमिः गोचरभूमिरिति घोषितम् । तत्र गोशालाऽपि निर्मिता ।
— तत्र किमुद्देश्यमासीत् ?
— उद्देश्यं महत् । यदा गोबलीवर्दा वृद्धा भविष्यन्ति तदा तेषां निवासः अत्रैव भविष्यति । ते अत्रैव स्थित्वा स्वेच्छया सविरामं कालं यापयिष्यन्तीति तस्य उद्देश्यं स्पष्टमासीत् ।
— ततः ?
— ततः किम् ? ग्रामवासिनां करे दायित्वं
समर्प्य महात्मा प्रस्थितः । इदानीं न तत्र गोचरभूमिः, न
वा गोशाला अस्ति । केवलः संघर्ष मुखरो ग्रामः ।
श्रीमुखो
ग्लानिक्लिन्नः ।
प्रष्टव्यम् उपरतम् । जिज्ञासा व्यवहिता । शृगालस्य दीर्घतरवृक्कने रात्रिः गम्भीरा अभूत् । ग्रामीणाः प्रस्थिताः । श्रीमुखोऽपि सौप्रस्थानिकं न्यवेदयत् ।
श्वासे तस्य ग्लानिं भरति अतीतरात्रीणां स्मृतिः ....यत्प्राप्तं तत् परिहारितम् । यदपगतं तदर्थं पुनरन्वेषणम्। अन्वेषणमूले न जिज्ञासा अपितु प्रवृत्तिः बलवतो । आशारूढा इयं प्रवृत्तिः । प्रवृत्तिः पुनः किंचित्प्राप्तये । इयमेव आसक्तिः ... आसक्तिश्च अहङ्कारस्य गुप्तपरिभाषा ।
ग्लानिः किमर्थम् ? आत्मानमपृच्छत् श्रीमुखः । किमर्थं वा हीनमन्यता ? यत् सम्मुखे महत् प्रतीयते तदात्मसात्कर्तुं मनः प्रवर्तते । एतदपि सर्वदा न सम्भवति । पुनश्च, कदाचित् । आत्मतुलनया मनः प्रफुल्लति । कदाचित् अवसीदति । परं कथमेतत्सर्वं भवति ? यावत् वस्तुतत्वं नाकलितमं, यावच्च पदार्थस्य सीमाभागो न ज्ञातः, कोलाहलो मनसि, किन्तु कथं तत्वमेतद् न ज्ञायते ? मार्गः सरलः सम्मुखे हि विद्यमानं वस्तु । स्पष्टा च वस्तुसत्ता । स्फुटतरोऽपि सीमाभागः । अवबोधं तू अवरुणद्धि अहङ्कारः । पुनश्च तदाकारपरिणता चित्तवत्तिः आत्मानं कवलीकरोति । परिच्छिद्यते आत्मा। संकीर्णव्याप्तितले स एव दुर्बलो भवति । आत्मदर्पणे वस्तु प्रतिबिम्बमातनोति । तदेव सर्वस्वायते । प्रतिविम्बमयदर्पणे वस्तुनः सीमाभागो न विलोक्यते । अत एव उपद्रव .... कोलाहल ..... अशान्तिः ।
सीमावकलने
प्रवृत्तिः नियमिता भवति । सकलमपि कर्म नियन्त्रणे तिष्ठति । अहंकारस्य उग्रशिखा आधारे रतिं वितनुते । कोलाहल उपशम्यते ।
अलक्ष्ये श्रीमुखहृदये विजृम्भितम् आश्वस्तिवचनम्...... ॐ शान्तिः... शान्तिः.... शान्तिः ।
अतन्द्रनयने
रात्रिरपसृता ।
प्रातः
कर्म समाप्य श्रीमुखो निर्गतः । लक्ष्ये पुनरेकं गन्तव्यम् । ग्रामोऽयम् अभया पल्ली
। अत्र अस्ति कश्चित् विद्यालयः । विद्यालयोऽय बालानामेव । अत्र परिदर्शनं समाप्य स
निवर्त्तिष्यते । अतः स त्वरते ।
अनुभवे तस्य क्रमशो विगलति अन्वेषणस्य आह्निकम् । नवीभवति च चिन्ताया परिसरः । दृष्टिभङ्गी विपरिवर्तते । अनुभवस्तरे एवं कश्चित् आयुःक्रम आगच्छति यदा जनः आत्मनः अस्तित्वं विहाय नान्यत् किमपि स्वीकर्त्तुमिच्छति । अत्रैव स तावत् गुरुत्वमारोपयति येन यावच्च सर्वमन्यत् न्यूनतरायते । परमिदानीं श्रीमुखः आत्मनः अस्तित्वविषये शङ्काकुलः । चिन्तने वैचित्र्यं तनोति अस्मिता । क्लेशप्रसरे सैव चिरतरव्यापारा प्रतीयते । अन्ततः पुरोगतिषु अज्ञता प्रमाणीभवति । तथापि प्रार्थनायां संप्रति किचिदभिनवमात्मानम् उद्वेलयति । तदाकलने व्रती भवितुमुत्सहते मनः । तत्..... यन्निरपेक्षम्..... मंदितरसुलभम् ...... निरस्मितासन्ततितले सार्वदिकं किमपि तत्त्वम् .... अनहम् ।
अभयापल्ली
श्रीहीना । न तत्र वृक्षाः सन्ति, न वा काचित् नदी दृष्टिपथमागच्छति । मरुमयप्रदेशेऽस्मिन् जीवनधारणम् एकैव
समस्या ।
श्रीमुखः तत्र उपस्थितः । जनैः सह मिलितः । विद्यालयविषये च कश्चित् तं विद्यालयसमीपं नीतवान् ।
श्रीमुखः चकितः । विद्यालयस्तु क्षयावशेष एव । अर्धभग्नभित्तयः इतस्ततः श्रृङ्गायन्ते
। तत्र आरुह्य कतिचन छागा गुल्मानि चर्वन्ति । कुक्कटा विहरन्ति ।
मेषा रोमन्थयन्ति । काकश्च विरौति । तृणमयः अधः प्रदेशः । तत्राऽपि वत्सतराणां समावेशो मनोहरः । श्रीमुखस्य वचनं नास्फुरत । स निवृत्तः । ग्रामीणः अपृच्छत् ।
— किं
भवान् शिक्षकः ?
श्रीमुखः
तस्य मुखमपश्यत् । सहासं च अवदत् ।
— केन प्रकारेण ज्ञातवान् ?
— को वा
अन्यः विद्यालयविषये जानाति ?
— अहो! इदमनुमानं भवतः ।
ग्रामीणो दृढस्वरेण 'हँ-कार' मभरत ।
श्रीमुखः
अपृच्छत् ।
— इदानीमत्र
विद्यालयो न चलति ?
— न .....न .....। गृहं भग्नम् । कुत्र चलिष्यति ?
— तर्हि, शिशवः कुत्र पठन्ति ?
— को वा पठति ? विद्यालय: अपरग्रामं स्थानान्तरितः । ते शक्तिशालिनः । तेषामेव ग्रामे विद्यालयः प्रचलति । इद्दूरमस्ति । अतः बाला न गच्छन्ति ।
— अत्र कथं न व्यवस्था क्रियते ?
— व्यवस्था आसीत् । कस्यचन महात्मनः कृपया अत्र विद्यालयः स्थापितः । तेन एकः पण्डितोऽपि नियुक्तः ।
— पण्डितः
— हाँ ....।
तस्य आवासभोजनादिव्यवस्था तेनैव महात्मना विहिता । अत्राऽपि पण्डितस्य गृहमस्ति ।
— पण्डितस्य
गृहम् ?
— हाँ ....। विद्यालयस्य गृहं प्रचण्डझञ्झाद्वारा भग्नम् । अतःपरं पण्डितस्य गृहे विद्यालयः परिचालितः ।
— किमिदानीं पण्डितमहोदयेन सह साक्षात्कारो भवेत् ?
— स तु
नास्ति ।
— कुत्र
गतः ?
— वराको
वृद्ध आसीत् । अल्पीयसा कालेन दिवंगतः ।
— ततः ?
— ततः किम् ? विद्यालयः पिहितः ।
— विद्यालयः पिहितः ... ? तर्हि, पण्डितमहोदयस्य गृहं गमिष्यामः ?
— गृहं
कुत्र ? तत्तु भग्नम् ।
— भवतु, किञ्चिद् दृष्ट्वा आगमिष्यामः ।
— आगच्छतु .....।
श्रीमुखः
पुनश्चकितः । यथा विद्यालयस्य दशा तथा पण्डितगृहस्य दशा । भग्नगृहसमीपे अर्धभग्नमन्दिरं केवलं ग्रामस्य जीवद् व्यवस्थां द्योतयति । मन्दिरे शिवः शिलायते ।
तदुपरि कति मन्दारपुष्पाणि शोभामाहरन्ति । तत्र प्रणम्य श्रीमुख उद्वेगं शीतली
कृतवान् । नम्रतया ग्रामीणः निर्गमनस्य मार्गमदर्शयत्। श्रीमुखः निजपथं निरचिनोत् ।
श्रीमुखः
चलति । मनसि स्मृतेः प्रतिक्रिया। हृदये अज्ञातस्य परिस्पन्दः । सम्मुखे
शून्यमार्गो निसङ्गः । नयनाग्रे कियन्ति पादचिह्नानि । श्रवणे रतिमङ्कुरयति महोत्सवस्य
संगीतम् । महोत्सवोऽयं विवाहस्य । दूरग्रामतः तदीयवेतारमूर्च्छनां प्रसारयति पवनः । मूर्च्छनेयं माङ्गलिकी । सेयं शुभतिथेः उद्बोधिका संजायते । भावस्फीतिं अग्रे सारयति लिप्सा । अतीतघटनाक्रममुद्धरति तस्याः चित्रप्रकारः । तत् सर्वं मनस्यन् श्रीमुखो
विषीदति-चित्रचरितयोः मध्ये कियती न दूरता ?
दूरतायां
दीर्घायते व्यथा ।
आत्मजल्पतो रङ्गमाहरति नीरवता । आत्मानुगुणस्य प्रतीक्षा प्रतीपायते । शेषायते मन्यनवेपथुः । सम्मुखे हि
ईप्सिततिथिः प्लवकवलितः । समयश्च आकारविधुरः ।
श्रावणीनेत्रे तु अश्रुमहोत्सवः ।
जिजीविषाया विश्वस्तभूमि विनष्टा । मौनचीत्कारे विलुलिता ममताया धारा। विसर्जनस्य नम्रतायां विधूसरो वासरः । मेदिनी हि दिवङ्गता । वराकी सामान्यज्वरेण पीडिता आसीत् । शयनच्छलेन वृद्धा चिराय सुप्ता । कियन्ति दिनानि व्यतीतानि । तथापि तस्या आकृतिः श्रावणीमनसि प्रत्यग्रा । को वा तथाऽन्यः मातृवत् सन्ततेः दोषसहस्रं निजीकृत्य अवनमेत् ? तथापि मातृमर्यादां परिपातुं केचन प्रभवन्ति ?
श्रावणीमनसि क्षोभः — इदानीं हि पत्युरभिमाने तस्या माता दासी । सा च दासीपुत्री । माता मृता नाम एका दासी मृता। तदर्थं खेदलवमपि न प्रकटयति। शोकस्य का कथा ? तस्या उपकारमपि नाङ्गीकरोति । अधमर्णताया वा प्रश्नः कुतः ? यदा स्वयं सा कर्मणि अस्मिन् प्रतिवदति तदा पतिः तां ताडयितुमपि न विस्मरति । कन्यायामपि न तादृशः स्नेहः। केवलो जनक इति तदर्थं किंचित् कर्त्तव्यमनुमन्यते । नोचेत् उपेक्षा । वचनमात्रं परस्य अनिष्टचिन्ता । व्यवहारमात्रं कार्पण्यम् । यत्र कुत्रापि आत्मसात्करणाय महान् लोभः । प्राप्तिमात्रं प्रचण्डमोहः । श्रावणी नम्ररीत्या बहुवारं बोधयितुमचेष्टत । किन्तु तस्य उपहासे सर्वं निष्फलमेव ।
कन्या
वर्धते । साऽपि पुत्रवत् धनमुपार्जयेत् इति मूलतः तस्या नर्त्तनाभ्यासं कारयति
अभ्रपदः । किन्तु कार्येऽस्मिन् श्रावण्या मनागपि रुचिर्नास्ति । सा वारं वारं प्रतिवादमुत्थापयति । फलरूपेण केवलं भर्त्सनां शृणोति । ताडनं निजीकृत्य विलपति ।
तथापि कन्याया बाल्यनृत्ये सा वात्सल्यविह्वला भवति । ततः सर्वं विस्मरति ।
मौनतायां कालो गलति ।
प्रतिकूलप्रतीक्षायां
वयो जीर्यते ।
सीमन्ते
पलितकेशकतिपयमाविष्कृत्य चकित भवति लिप्सा । दर्पणे देहमेव दर्शं दर्शं पुनश्च अभिमानम्
आपूरयति सा । परं म्लानचम्पकेषु क्रमशः संकीर्णो भवति आशाया परिसरः । विषयेषु च कृशतरीभवति स्पृहा ।
अन्तराले अनुतापस्य अंकुर उद्गमप्रियः ।
माता
भवानी कियद्दिनेभ्यो रुग्णा । तस्या दर्शनार्थं भातृणां समयो नास्ति । भ्रातृजायास्तु
तथैव । लिप्सा सेवते । विरक्ता भवति । गालीं ददाति । परं भवानी तथैव अभिजात्ये निमग्ना विद्यते । कन्या लिप्सा तामेव अनुकरोतु इति तस्या मतिः । एतदर्थमुभयोः विवादः ।
जीवनस्य अपुष्पविकसनं प्रतिरुध्य लिप्सा द्रोहमपस्थापयति । जीवनस्य निष्फलतानिमित्तं मातरमेव कारणत्वेन विचार्य कलहं करोति । किन्तु भवानी श्रीमुखनामस्मरणमात्रं गर्जति
।
सुखदुःखयोः
पेटिकामध्ये अन्ततः निजकृतिमिदानीं समीक्षते लिप्सा । अनुभवे अहङ्कारस्य
निःसङ्गपरिपाटी क्रमशो मलिनायते । अभिमानस्य परिच्छदे रङ्गो न ज्योतिष्मान् । तथापि
वेशं नवीकृत्य आत्मानं दर्शयति। दर्शका नाम परिवारे केचन भृत्याः । पुनश्च केचन
प्रतिवेशिनः । परं प्रकृतिपरिचितेः परं न तेषां नेत्रे चमत्कृतिः न वा विस्मयस्य कुञ्चितरेखा । सर्वमिदानीं गतानुगतिकम् .... अभ्यासपरम् ... । अत्र तु लिप्साया न सन्तोषः । सा तमेव
अन्वेषयति यः तस्याः प्रकृतिपरिपाटीं समादृत्य प्रशंसां प्रकटयेत् । अन्तत आत्मानं समर्प्य तस्या एव जयगानं कुर्यात् । किन्तु विगलित वयः कन्दरे इदानीमन्धकारो भयङ्करः । न
तत्र कोऽपि प्रवेष्टुं शक्नोति इति लिप्सा अनुभवति । अतो नम्रदृष्टितले श्रीमुख इव
केचन गुरुभाराः प्रतीयन्ते । लिप्सा अनुतापस्य लेशं संगृह्य तेषु किञ्चित्
अन्वेषयति ।
क्लान्तिसारा
मृगया ।
सकलविवरणं संगृह्य उपस्थितः श्रीमुखः । चन्द्रमणिः अभिवादनपुरःसरं तं गृहे प्रापयत् । प्रभोः
विषये जिज्ञासां प्रकटितवान् श्रीमुखः । स्वस्तिवचसा चन्द्रमणिः कुशलं व्यज्ञापयत्
।
शरत्सुन्दर:
परिवेशः । मेघमुक्तगगने धवलजलदानां स्थिरसंचारः श्रांगरिकः । अभिसारिका इव
प्रतीयते उद्यानश्रीः । गुल्ममण्डितः आभोगः भावप्रवणः। प्रसारपाथेया वृक्षविभा ।
विभुप्रणये हरितिमा पवनस्य वेगं मथ्नाति । नीरवरोमन्थं गम्भीरयति विहागानां
विरुतिविलासः ।
शान्त इन्दुकेतन उपविष्टः । मुखे प्रत्यूषस्य शोभा । अभिनिवेशे शरन्नभसो नैर्मल्यम् ....दृष्टिपुरतः मृत्तिकायां मेघस्य ममता .....ऋतुनाभौ हरिद्वेपथुः .... निमग्नरोमन्थे शशिरेखा ..... पूर्णिमायाः सङ्गतिकला ....।
सङ्गमः अभिनवस्य भूमिः । अत्र अनुभव एकान्तः । पाथेयं पर्याप्तम् । व्यवधानं तात्पर्यविहीनम् । भेदो निरंशः। अयमेव निर्माणस्य आद्यंशः । परिणामस्य च अवतंसः ।
वत्सतरीहम्मने
वात्सल्यं शिशिरयति सन्ध्या ।
चन्द्रमणिः चन्द्रशालायामास्तरं प्रसारितवान् । पूर्ववत् इन्दुकेतनः तत्र गत्वा उपविष्टः । सविनयमुपगतः श्रीमुखः सहासमपृच्छत् इन्दुकेतनः ।
— किं
सर्वमपि स्थानं दृष्टम् ?
— हँ....।
—विवरणं संगृहीतं वा ?
खिन्नतया
श्रीमुख उदतरत् ।
— विवरणं
नाम मनोनुकूलं किमपि नास्ति ।
— तर्हि
--
— सर्वं नष्टप्रायम् ।
इन्दुकेतनः अहसत् ।
— तर्हि, किं चिन्तयसि ?
श्रीमुखो विरक्त्या अवदत् ।
पुनरुद्धारस्तु सर्वथा न सम्भवेत् ।
पुनश्च अहसत् इन्दुकेतनः ।
— किमन्यत् ....?
दीर्घश्वासमुखेन श्रीमुखः अवदत् ।
— नवीनतया निर्माणं कर्त्तव्यम्
इन्दुकेतन गम्भीररीत्या अपृच्छत् ।
— कः
करिष्यति ?
श्रीमुख इन्दुकेतनस्य मुखमपश्यत् । ततः अवनम्य अवदत् ।
— यथा भवतो निर्देशः स्यात् ।
दीर्घतरं
न्यश्वत् इन्दुकेतनः ।
— समयः
अतिक्रान्तः ।
साश्चर्यं न्यवेदयत् श्रीमुखः ।
— किमपि
नावगतम् ।
अबोधयत् इन्दुकेतनः ।
— आयुष्मन् ! प्रतिपदार्थं काचित् सीमा अस्ति । तत्र च किंचित्
नियन्त्रणसूत्रम् अन्तर्निहितम् । यदा एतत् सर्वम् आकलनपथे आगच्छति तदा स्वतो मनो
नियम्यते । प्रवृत्तिश्च परिवद्धा भवति । तदनु एवं मार्गो भुक्तो दृश्यते । स मार्गः
परित्यागस्य ...... समर्पणस्य ......उत्सर्गस्य .......।
विमुग्धश्रीमुखो
जिज्ञासां प्रकटितवान् ।
— कथमेतत्
सर्वं सम्भवेत् ?
— जीवनं नाम काचित् प्रकाशात्मिका शक्तिः । यया कयाऽपि रीत्या अस्या उपयोगः सम्भवति । यावत् उपयुज्यते तावत् प्रकाशयितुं शक्यते, किन्तु किं प्रकाश्यं तदेव चिन्तनीयम् ।
श्रीमुखमनसि
प्रश्न :- एतावत्कालावधौ किमनेन प्रकाशितम् ? कया वा दिशा जीवनशक्तेरुपयोगः कृतः ? किं सर्वेषां कृते स एव मार्गः रोचकः स्यात् ?
श्रीमुखस्य
नीरवतामालक्ष्य इन्दुकेतनो व्यशदयत् ।
— सर्वेषां
कृते प्रकाशनशैली न समाना । अत्र अनुभव एवं मार्गं निर्दिशति । तदनुसारिणी गतिः भवति
। एकाग्रनिर्णयः अन्ततः प्रकाशात्मनः परिचयं कारयति । तत्र च सङ्गमः परिणामायते ।
किन्तु कर्मतत्वे सर्वत्र उत्सर्गः परिणामस्य नियामको भवति ।
श्रीमुखो
नम्रगम्भीरः । मनसि कोलाहलम् अंकुरयति पर्यटितस्थानानां परिणतावशेषः । पुनरपि
निजीकरणस्य कश्चन उपायो मनो मथ्नाति । सः अपृच्छत् ।
— तर्हि, तेषु स्थानेषु निर्मितीनां पुनरुद्वारविषये का भवतो निष्पत्तिः ?
अहसत्
इन्दुकेतनः ।
— न
केवलं जीवनम्, अपितु जीवनस्य निखिलप्रसरः समयदण्डेन परिमीयते । कश्चित् समय उपगतः
यदा निर्मितिरभूत्। पुनश्च तासां समर्पणमपि अभूत् । इदानीं करणीयस्य उपरतिकालः ।
पुनः कथमासक्तिः ?
— तर्हि सिद्धान्तः किम् ?
— भूमिरासीत् । सा च भूमिः अवशेषरूपेण तत्र आसीत् । यतो हि इतः पूर्वं नूनं किमपि तत्र
प्ररूढमासीत् । प्ररूढस्य अपसारणम अस्माभिः कृतम् । पुनः तत्र किंचित् संस्थापितम् । संस्थापनं नाम योजनम् । उपादानमासीत् । निर्माणकौशलमपि आसीत् । किंचिद् हितमूलकमुद्देश्य च विद्यते स्म । केवलो योजनस्य अभाव आसीत् । तद् अस्माभिः सम्पादितम्।
किन्तु सम्पादनमिदं नित्यमिति कथमवधारणीयम् ? यदा च उद्देश्य पूर्णं पुनः तस्य उत्तरस्थितिविषये कियत्कालपर्यन्तं वा
कश्चित् चिन्तयितुं प्रभवेत् ?
— तर्हि तत्र किं करणीयम् ?
— प्ररूढस्य अपसारणमेव ।
— सर्वं
ज्ञात्वाऽपि केनप्रकारेण निर्माणे भवतः प्रवृत्तिरभूत् ? किमर्थमेतत् सर्वं निर्मितम् ? कथं च परित्यक्तम् ? का वा मनोभूमिरत्र ?
श्रीमुखो
व्याकुलः ।
इन्दुकेतन
आकाशमपश्यत् । शरज्ज्योत्स्ना तीरायते । कीटगीतिषु परिवेशस्य शृङ्गारनियोग
आवेदनशीलः । प्रभाभास्वरं नश्वरव्यसनम् ।
इन्दुकेतन आरभत ।
— आयुष्मन् ! अनुभवे मम सङ्गमोऽपि कश्चित् उपलब्धिविशेषः । जीवनस्य प्रवाहनैवेद्ये अहं कश्चिद् बुदबुद इति मे अनुभव आसीत् । तदानीम् अपरो बुद्बुदो मयि संलग्नः । संलग्नबुद्बुदप्रतिमेयं मम पत्नी शशिरेखा । मानवीयसीमावलये उभयस्य दौर्बल्यम् उभयेन आविष्कृतम् । अस्मन्निकटे जीवनस्य परिधिः स्पष्टतरोऽभवत् ।
कश्चन अपूर्णताबोधः अस्मत्सङ्गमप्रसरे प्रतिबन्धकः संजातः । अस्यामेव चन्द्रशालायां तद्दूरीकरणाय उपायः चिन्तितः । काचित् कल्याणकल्पना हृदयमस्पृशत् । एतदर्थं नेकेषु स्थानेषु वसतिः विहिता । वसतिसमये जनानां प्रार्थना हितचिन्तया निर्मितिरूपम् अधरत् ।
— तर्हि, हितचिन्ता निर्मितेः कारणम् ?
— नहि ......। अस्मदपूर्णताबोधस्य अयं परिणामप्रकारः ।
— तर्हि
माता --- ?
— सकलकर्मचित्रे सैव प्रारूपं योजयति स्म । किन्तु कर्मतत्त्वे शान्तिरेव अस्मल्लक्ष्येषु मुख्या आसीत् । तथापि जीवने जीवधर्मस्तु अपनेयः । तद्वशोऽपि अस्मत्प्रवृत्तिमार्गः सर्वत्र लक्ष्यानुसारं नियन्त्रितः । अनेन क्रमेण सा सर्वमिदं दृश्यमानं नश्वरस्य नैवेद्यमिति अन्वभवत् । तदनु कर्मणा मनसा वाचा उत्सर्गस्य मार्गमङ्गीकृतवती ।
— ततः ......?
अत्रैव सा शान्तिसंगत्या आनन्दमुखरा आसीत् । जीवधर्मस्य परिणामे आकृतिस्तु संस्कारदशां प्राप्नोति । अतः सङ्गतिधारायां सा संस्कारदशापन्ना संजाता। मदर्थं तु संगतिः जीवद्दशा.... संस्कारशा - मुक्ति: ।
नीरवः संजातः इन्दुकेतनः । श्रीमुखस्तु अहमास्पदताया निर्मलस्वरूपम् आविष्कृत्य तस्य चरणतले शिष्य इव प्रणिपतति । संगतिं निविडयति शरन्निशीथिनी ।
सेवकः चन्द्रमणिः
उत्तीर्णप्रहरस्य संकेतम् असूचयत् ।
शरच्चिह्नानि
सम्प्रति पुरातनानि ।
सैव
निशीथिनी । तदेव तल्पम् । निद्रादरिद्रस्तु अभ्रपदः । तिक्तमनोवलये तस्य मोहजृम्भा विशाला । वेदनाविधुरं हृदयम् । चिन्तायाम् अविश्वासस्य स्तूपः । वचनमात्रं चण्डायते अहंकारः । तस्य दुर्व्यवहारे सीमा न दृश्यते । सर्वमेतत् तस्य सम्पत्तिनिष्ठम् ।
धनव्याप्तिं वर्धयितु सम्प्रति नृत्याभ्यासे मग्ना कन्या ऊर्वी । तारुण्यस्य आद्यस्पर्शे सा चमत्कृत्तिम् आतनोति । विमोहिता भवन्ति दर्शकाः। पुरस्कारराशिः न्यूनोऽपि उत्साहवर्धकः
। स एव धनराशिः अभ्रपदस्य धनकोषे निपतनीति महान् आनन्दः । इदानीं क्वचिदपि
कार्यक्रमे धननिर्वन्धं विदधाति स्वयमभ्रपदः । कन्यायाः सुव्यवस्थां विधातुं वृद्धो
दिनमणिः तया सह संचरति।
परं
श्रावणीकृते सर्वमेतत् अरुचिकरं भवति । अतः सा प्रतिवारं प्रतिवादमुत्थापयति । दिनमणिं वारयति । कन्यां निषेधयति । पतिनिकटे निवेदनं करोति । परिणामो भयङ्कर इति सा पुनः
पुनः सचेतयति । किन्तु सकलोऽपि निषेधप्रकार: निष्फलो भवति । सा विलपति। कस्मै वा
निवेद्य दुःखं न्यूनीकरिष्यति । आत्मीया इति तु वृद्धा माता आसीत् । इदानीं तत्
स्थानं पूरयति वात्सल्येन वृद्धो दिनमणिः । स यथासम्भवं करोति यत्र कर्त्तुं न
शक्नोति तत्र केवलं मस्तके करं निधाय असामर्थ्यं प्रकटयति ।
वराको दिनत्रयतः ज्वरेण पीडितः । सेवायां संलग्ना वर्तते श्रावणी । तथैव सेवापरायणा ऊर्वी परमेतन् न सहते अभ्रपदः । यदा स भृत्यपार्श्वे उभयं दृष्टवान् तदा अगर्जत् ।
— किमत
क्रियते ?
श्रावणी
निरुत्तरा ।
ऊर्वी
अवदत् ।
— पितामहः
अस्वस्थः ।
— पितामहः ....? स भृत्यः .....। नाम्ना एव आकारयितव्यः ।
— भृत्यः किं पितामहो भवितुं न शक्नोति ?
— तद्वक्तुं नागतोऽहम् ।
ऊर्वी दृढस्वरेण अवदत्
— तर्हि किं वदति ?
— भृत्यनिकटे मां अवमनुषे ?
चपेटाघातेन कन्यां बहिष्कृतवान् अभ्रपदः ।श्रावणीं च निरदिशत्।
— याहि ....। भृत्यसेवार्थं न त्वमत्र न आनीता ।
श्रावणी
किमपि नोक्त्वा प्रस्थिता । काकुस्थभावेन दिनमणि: न्यवेदयत् ।
— श्रीमन् ! न मे सेवा आवश्यकी । नाऽहं कामपि आकारितवान्।
अभ्रपदः
अदमयत् ।
— अस्तु
तावत् । कियद्दिनपर्यन्तं शयनं करिष्यति ? श्वः प्रभृति कर्म प्रारभ्यताम् । श्वः रात्रौ कन्यायाः नृत्यकार्यक्रमः अस्ति । यद्
भवतु नाम तया सह गन्तव्यम् ।
अभ्रपदः श्रावणीप्रकोष्ठं प्रविष्टः । दृढभावेन न अवदत् ।
— किं दासी कर्मणः पुनरभ्यासः क्रियते ? कथं भृत्योपरि इयान् स्नेहः ? भूत्यानां स्थानं तु पाददेशे । त्वमेव तान् प्रोत्साहयसि। अल्पदिनाभ्यन्तरे
ते एव उपद्रवं करिष्यन्ति । पुनः यदि कदाचित् एतादृशं व्यवहारं पश्येयम् तर्हि तेन सह तवापि
विताडनं भवेत् ।
अभ्रपदः
प्रस्थितः । परगृहे कन्या उर्वी विलपति। श्रावणी तत्र उपतिष्ठते । दुःखेन भाग्यं निन्दति ।
मरणाय भगवन्तं प्रार्थयति, किन्तु वृद्धमातुः सहिष्णुमार्गं स्मरति । तस्या उपदेशं मनस्यति
। तदेव च उदाहृत्य कन्यामाश्वासयति । सहनशक्तिं वर्धयितुमुपदिशति । भगवन्निकटे
कल्याणं संप्रार्थ्य तामालिंगति .... विलपति ....।
ऊर्वी
यावत् अग्रिमसोपाने पादं निदधाति तावत् पितृचरितम् उद्देश्यं च आकलयति । मातु दुःखमपि
अनुभवति । गृहस्य क्षयधारां ज्ञातुं प्रभवति । मातुरतीतं च विमृशति । ततो व्याकुला भवति।
परं किमपि निर्धारयितुं न शक्नोति । अन्ततो भीत्या मातुरङ्के मुखं संस्थाप्य अवसीदति ।
ऊर्वी
गृहचरितं विस्मर्तुं यतते । नयने नृत्यति नृत्यगृहस्य छटा । तदनु पादपातस्य संख्यानुगुणा शैली । मृदङ्गनादेन सह अन्तर्नादः तालानुसारी भवति । दर्शकमुखे स्मितराशिः साफल्यं द्योतयति। प्रशंसावचनेन सह करतालध्वनिः लास्याहंकारं प्रगुणयति । ऊर्वी तु साक्षात् दृप्ता किन्नरी । यदा सा नृत्यं समाप्य नाट्यमन्दिरतः प्रत्यागच्छति तदा तस्याः करस्पर्शम् अनुभवितुं शतशो हस्ताः प्रसारिता भवन्ति । तस्याः जीवनीमङ्कयितुं तथैव नैका लिखन्यो मसीराशिं निगालयन्ति । भङ्गीचित्राणि वृत्तपत्रं मण्डयन्ति ।
कार्यक्रमेषु
दिनमणिः पार्श्वचररूपेण यथागौरवमनुभवति तथा ऊर्वीभविष्यविषये आशङ्कते अनेके हितमेव
निमित्तीकृत्य तां यतन्ते । कश्चित् नृत्यविषयक व्यापार निबंध करोति चेत् अपर
उपभोगस्य सामग्रीरूपेण तस्या मूल्यनिर्धारण करोति । कश्चित् रसिकरूपेण पुष्पोपहारं
प्रयच्छति चेत् अन्यः प्रेमिरूपेण हास्यविनिमय प्रतीक्षते । कश्वित् साधनानुरागं
प्रशंसति चेत् अपर कल्याणवचसा प्रगति कामयते । परमेतसवं दिनमणिनिकटे निरयंक भवति ।
स किमपि कस्मात् श्रोतु नेच्छति । केवल कन्याया नियन्त्रणमभिपति परमेतन्न सम्भवति
। स कन्या बोधयितुं यतते । तु वर्तमान सर्वस्वा । दिनमणिः चिन्तयति पिता अहंकारेण
ज्वलति । अन्यान् अपि दहति । तया एव दिशा कन्या प्रवर्तते । स इदानी अन्यान दहति ।
अन्ततः स्वयं सा दग्धा भविष्यति । एषु प्रशंसावचनेषु करतालध्वनि च अहङ्कार एवं
वर्धते जनस्तु इमम् उत्साहरूपेण अङ्गीकरोति । वस्तुतः वयमुत्साहः अहङ्कारस्य
निम्नपर्यायः यदाऽयम् कवं मागमिष्यति तदा अन्यान् नाशयित्वा आत्मानमपि नाशयिष्यति
।
दिनमणेः
लक्ष्ये परिवारस्य रक्षा एवं मुख्य अतः स यत्र आशते तत्र कमपि प्रतिबन्धकं सृजति ।
यदि तन पारयति स्वयं प्रतिबन्धको भवति कदाचित अस्वस्थतामभिन्नयति । कदाचित्
कार्यान्तर व्यावृति दर्शयति । प्रभोराज्ञां यथाकथंचित स इतस्ततः करोति । किन्तु
कस्नेहम् अवहेलयितु न प्रभवति । नृत्यकार्यक्रमेषु वाध्यतया उपस्थितो भवति ।
परमयत्वे स्वच्छता तस्या वारणं करोति ।
एकदा
दिनमणिः कार्यक्रमस्य समयमपि विवरण श्रावणी निकटे धावितवान् । श्रावणी अतिशय
खेदमन्भवत् । न्य वारयितु दिनमणि अन्वनयत् । श्रावणी तु निरुपाया । इतः पतिः
अहङ्कारस्य ईश्वर । ततः कन्या तातु प्रवर्त्तते । अतः श्रावणी अत्यन्त व्याकुला ।
मनसि । क्षोभः । चिन्तायां तिक्तता । तस्या मोतप्रवृत्तिश्व द्रोहस्रमिषु।
तुतवारणमभिलष्य सा मानसं दृढ़ीकृतवती । प्रतिवादस्य तीव्रतामाकलय्य च
प्रतिज्ञाबद्धा संजाता- इतः प्रभृति मौनताया विस्फुरण भविष्यति ।
क्रुद्धा
श्रावणी आसीना ।
सहसा
कोलाहलः श्रुतः । श्रावणी वातायने बहिरपश्यत् जनानाम् इतस्ततः संचारमालक्ष्य
श्रावणो दिनमणिम् आकारितवती । पितृव्य 1 पितृव्य
दिनमणिः
उपस्थितः ।
श्रावणी
अपृच्छत् ।
- तव कथ कोलाहलः ?
- न कोलाहलः । श्रेष्ठिरघुपतेः पुत्राः अभिनवयानेन समागताः । यान नवीनरीत्या
निर्मित मनोहरं च दृश्यते। अतः तद् दर्शनाय सम्मर्दः । ते तु प्रायो नागच्छन्ति ।
इदानी कथमागता ?
अद्यत्वे
रघुपतेः पत्नी भवानी नितरां पीडिता । न सा जीविष्यति ।
एकाकिनी
कन्या कि करिष्यति ?
कन्या
नाम लिप्सा नु ?
हाँ।
सम्पत्तिलोभेन पतिमपि परित्यक्तवती । पिता रघुपतिः सहसा मृत इति सा किमपि तु न
प्राभवत् । अन्यथा चतुरतया समग्र सम्पत्तेः अधिकारिणी अभविष्यत् । इदानी भ्रातरः
समागताः । किं भवेत, कोवा
जानाति ? वराक: श्रीमुखः कुत्र गत इति तस्य विषये
मनागपि न चिन्तयति
श्रीमुखस्य
नामश्रवणमात्र धावणीहृदये स्पन्दतरङ्गः सहस्रा यितः । सा किचित् प्रसन्ना अभवत् ।
अतीतस्य कृति स्मृतय तस्या मनसि चापल्यमसृजन् ।
सा
अपृच्छत ।
तस्य
भागोऽपि अत्र विद्यते । स किमयं नागच्छति ? वराको निजसम्पत्ति परित्यज्य गतः । अपरस्य धनविषये कथ चिन्तयेत् ? तस्य स्थानमिदानी ग्रामदेवतायाः स्थानं नाम मङ्गल पोठ संजातम । सदेव पूजा
तव प्रचलति । धर्मसभा भवति । जनाना मङ्गलकार्य तत्र च संवाय केवन वा सन्ति ताना
इत्यं दानाय ?
मूलतः
स उदार एव ।
वराकः
प्रथमतारुण्ये पित्रोः मनसि दुःखं विन्यस्य संन्यासी अभूत् कथं सन्यासी ? स तु लिप्सां परिणीतवान्
परिणये
किमस्ति ? मधुचन्द्रिका राव एवं स गृहात्
निष्क्रान्तः । बराको रघुपतिः कियन्न अखिद्यत् ? कतिवार
स कन्यां नाबोधयत किन्तु यथा माता तथा दुहिता । उभयोरकारस्य शरव्यः सजात वृद्धो
वराको रघुपतिः । दुःखेन स अम्रियत । तथापि तयोः बुद्धिः नोदिता ।
इदानी
कि भविष्यति ?
कि
भवेत् ? संन्यासिनां न गृह न वा स्थितिः। कुल स
भ्रमति को वा जानाति ? वस्तुतः श्रीमुख उत्तमो जनः
रघुपतिः त सम्य परिचिनोति स्म । रत्नसदृशं पुरुष कौशलेन बानीय कन्यायाः करे
समर्पयत् । किन्तु किं भवेत् ? सा परिचेतु नाशकत्
। अभिमानेन दम्भेन च रत्न निक्षिप्य सम्प्रति अनुतपति
श्रीभुवि
का फील
आत्मग्लान्या
श्रावणी निरुत्तरा । निजपतिवृत्त विमृश्य सा भाग्यमेव निन्दति । तस्याः चिन्ताकुलतामा
लक्ष्य दिनमणिः अवदत् । कंवा वदिष्यामः ? अस्माकमपि अनुरूपदशा प्रभुम भवती तथा वधुरत्न प्राप्य परिचेतु न शक्नोति ।
एकदा इत्यमपि समय यदा सः अनुतपेत्
मुखं
विवर्त्य दिनमणिः बहिरागतः । श्रावणी निविष्टा यत् प्राप्तवती तद् इदानी हारयितुं
प्रवर्तते । केन प्रकारेण कन्य पति च दुष्पवतो निवत्तयितु प्रभवेत् ? अथवा उभयस्य दुर्गतिदर्शनात् पूर्व स्वयं
सा संसारविसर्जन करिष्यति ?
चिन्तने
दिवसा पर्याकुलाः ।
यत्र
कलिका विकसनमारभते नूनं तव पवनः उपस्थितो भवति । स्वरयाच सुरभि प्रसारयति । तेन न
केवलो मराष्टो भवति अपितु केचन कोटा विमुद्यन्ते । यदा भ्रमरो रतिमग्नो भवितु
मागच्छति तदानीमेव कोटा दशनाय प्रवत्तन्ते । परमनभिज्ञालिका कथमेतद् बोद्ध
प्रभवेत् ? मि
हि
कविदिनेभ्यः ऊर्वी जनपदे निवसति अवश्यं व्यवस्था विहिता पार्श्वे च पितृव्यो
वर्तते । तथापि मनो न बुध्यति । प्रकोष्ठे इतस्ततः सचरति धावणी। मौनमुखे तस्यायाः
शुची धारे दिवसगणनाया मुद्रा या गतिः स्थिरा कदाचित् द्वारमुपगम्य कन्याया मागं
पश्यति कदाचिच्च वातायने दीर्घसमयं यावत् संलग्ना तो बहिर्विलोकयति
मार्गे
गच्छन्ति बहव परं दृष्टि न कमपि स्पृशति । दृश्यं नाम मस्तकमाला अनुभव्यं तु हृदयं
मध्नाति तथापि दृष्टि न निवर्तते मनोन प्रतीक्षा जहाति I
सहसा
अट्टहासः श्रुतः। वहति भवत्या विवस्वं पश्यत् कुटि हसति पतिः सा दं कुपिता पर
भम्भीरा वर्तते अनपदो विकटरीत्या आरभत ।
अद्य
दण्डो लब्धः अर्थव परिणामो भुक्तः
धावणी
नम्र होपेन अपृच्छत् ।
कस्य
वार्ता करोति ?
संव
चण्डी । अथ तस्या दप भग्नः ।
किमभूत ? का सा - ?
सा
पापिष्ठा लिप्सा । अयि ! को वा कस्य आत्मीय:? धननिमित्तं सर्वे आत्मीयाः । धनं गतं नाम सर्व शून्यम् सम्पत्तिर्नास्ति
चेत् न सद्गतिः ।
किमभूत ? स्पष्ट कथयतु ।
वडा
भवानी मृता समस्यते विभाजनमभूत्वा तेषा महोत्वा प्राकार निर्मापयन्ति गृहस्यापि
विभागात न्याया कुटीरम् । पापिनी सम्यक दण्ड भागस्तु अजूनस्कुटीरमेव प्राप्तवती ।
श्रावणो
विरक्तिमसूचयत् ।
अनेन
भक्त को वा आनन्द ? परदुःखसमये हास्य न शोभते ।
तस्याः
कि दुःखम् ?
- यद् वा भवतु । अन भवतः किमस्ति ? अहङ्कारिणी
दण्डं प्राप्तवतीति मे महती आश्वस्तिः । कृतकर्मणः प्रायश्चित्तमिदानीं करोतु ।
सामान्या नारी
कियान्
दर्पः तस्याः ?
श्रावणी
क्रोधेन अवदत् ।
निजविषयं
चिन्तयत् ।
विवत्त्यं
सा प्रस्थिता ।
अनपद:
अगर्जत् । श्रावणि! अभिमुखं वक्तु इयान् ते साहसः ? कदा प्रभुति
एतादृशी
प्रवृत्तिः ?
दाम्भिकभावेन
अभ्रपदः सभाजनगृहं गतवान् ।
वादप्रतिपन्नः
परिसरः ।
लिप्सा
सम्प्रति प्रासाद परित्यज्य अङ्गनस्थकुटीरे निवसति । सर्वतः परिच्छिन्नः अस्य
आभोगः । श्रद्धया रघुपति आत्मशान्तये कुटीरमिद निरमात् । अव स वणिग्जीवनस्य लाभांश
गणयति स्म । मुक्तये स्म । प्रायश्चित्ताय उपाय चिन्तयति स्म । अव च
क्लान्तावसरस्य विनोदनं करोति स्म । अयम् बाभोग तस्य सम्पत्तेः कश्चित अनुगुणो
भागः । अयमिदानीं लिप्सायाः प्राप्यांशः ।
पितुरधिकारं
दायत्वेन निजीकृत्य गम्भीरा लिप्सा । मनसि यथा द्रोहः तदनुगुणोऽपि अनुताप । बायो
नाम अयमाभोगः । अवलम्बन च इदं कुटीरम् । सामाधानाय मार्गो नाम अयं कुटीरस्य पन्थाः
। इत सा निर्गमिष्यति आभोगतः सरोवर यावत । ततो निवत्यं कुटीरमागमिष्यति, कुटीरसरोवरंयोः व्यवधान विमृश्य लिप्सा आसीना ।
एकत्र स्नानम् । अभ्यव यजनम् । स्नानेन संस्करणम्। यजनेन संगतिकरणम ।
पितुरभिनिवेशम् अवधारयितु न प्रभवति लिप्सा । चतुर्पार्श्व हि कीटझङ्कारः
श्रुतिनिष्ठरः । वायसानों रुग्णचीत्कारो भयङ्कर । कुक्कुराणां रतिप्रतितस्रिध्वनिः
निःसङ्ग निवासस्य बीभत्सप्रतिरूपं प्रस्तोति ।
लिप्सा
अनुतपति
तद्दिने
प्रासादस्य पश्वादद्वारतो निर्गम्य आभोगस्य अस्मिन्नेव मार्गे श्रीमुखः प्रस्थितः
। प्रत्यूषस्य प्रकाशेऽपि लिप्सा तस्य वरवेशं द्रष्ट नाशकत्। बहङ्कारेण हि
निमीलितमासीत् तस्या नयनम् परम् अहङ्कारं प्रत्यग्रीकत्तु नेदानीं निर्दिशति माता
। न वा अहङ्कारस्य अवनमनमुपदिशति पिता सर्व निजस्वम् । सकलकर्मणि आभि मुख्यमात्मन
एवं भ्रातृविवाद उपरत भागो गृहीतः । इदानी मनोऽनुगुणता स्वकीयस्य लिप्सा विमथ्यते
। अनुभवे हि छायायते अहमिका । छाया इयं साक्षात् द्वारयवनिका नेयं प्रकाश प्रवेशयति न वा बहिरानयति ।
सम्प्रति आवरणस्य अपसारणमनुभवति लिप्सा तो यद् विमुक्तं तदात्मीयं प्रतिभाति
जीवधर्मस्य भूमिः समाना प्रतीयते परस्य दुखं निजयितमिव अनुभूयते विनिमयकामनया
किमपि नव्य निजसात्कत्तु मन उत्सहते। स एवं साधारणनम्रपुरुष इदानीमात्मीय प्रतीयते
। तमन्वेष्ट प्रवृत्तिः प्रगल्भा भवति । तन्निकटे क्षमः संप्राप्यं प्रायश्चित्तच्छलेन
आत्मान समर्पयितुं स्पृहा जागत्ति। श्रीमुख इति नामस्मरणमात्रं कश्चित्
स्वन्दतरङ्ग हृदय संस्करोति ।
वयोगभवत्तमाने
चापल्यं तु पलितम्
मुक्तकेशा
लिप्सा सरोवरमेव विलोकयति । तरङ्ग उद्भवति परिधि रचयति तिरोभवति। सा विमुह्यते
विलपति पुनरवि पश्यति कुमुदस्य प्रतीक्षितसंकोच निजीकृत्य नेव निमीलति ।
उपक्रमते
रात्रिः ।
चन्द्रशालामधिरोहति
वृद्ध इन्दुकेतन । नेदानी चन्द्रमणिः आसन सज्जीकरोति । श्रीमुख सम्प्रति सेवकः ।
अस्वस्थोऽपि इन्दुकेतनः चन्द्रशालाधिरोहणं न त्यजति । तव सुप्त्वा निमग्नो भवति ।
पार्श्व उपविश्य करचरणं सम्मदयति श्रीमुखः । नित्यकर्मविवरणं च प्रस्तोति । आयव्यय
विषय विशदयति । श्रीमुखस्य कर्मप्राणतां प्रशंसति इन्दुकेतनः । तस्य व्यवहारे च
प्रसीदति । तस्य पूर्ववृत्तान्त मपि प्रतिदिन खण्डशः शृणोति । अय किन्तु
वृत्तान्तस्य नावृत्तिमकरोत् श्रीमुखः । इन्दुकेतनः ज्ञातवान् यत् पूर्ववृत्तान्तः
समाप्तः । इन्दुकेतनः प्रतिदिनमिव उपविश्य अद्य उपादिशत् । आयुष्मन् ! न त्वं मे
सेवकः । किन्तु पुत्र एवं श्रीमुखो नम्रः संजातः ।
कथमयम्
बहेतुकः अधिकारमारो मयि ? भवत्प्रदत्तं दायित्वं मया आत्मशान्तये एवं निभात्यते । पुनश्च भवतः सेवा
मम दायित्वमिति मया स्वान्तः सुखाय एव अङ्गीकृतम् । अव अधिकारस्य प्रश्नः कुतः ? भवान् तु अभिनः । अधिकारदायित्वयोः परिसर भवान् सम्यक् जानाति ।
इन्दुकेतन
बहसत्
- आयुष्मन् ! एकत्र दायित्वम् अपरत अधिकार इति अनयोन तथा दृढतरं पार्थक्यम्
कुत्रचित् अधिकारी दायित्व निभालयति । कुत्रचिच्च दायित्ववान् स्वतः अधिकारी भवति
। त्वं कस्मिन् पक्षे ?
श्रीमुखो
निरुत्तरः ।
पुनः
विहस्य इन्दुकेतन उपादिशत् ।
त्वयि
दायित्वं न्यस्तं नाम कश्चित् ते अधिकारः प्रदत्तः । इदानी
दायित्ववान्
इति त्वमेव अधिकारी वाष्पगद्गदो नम्रः श्रीमुखः । वृद्धस्य बनाकलितस्नेहधारायां
स
नितरां विमुग्धः। सः पृच्छत् । तहि, सम्प्रति कि दायित्व न्यस्यते ?
जाने
नाsहम्, कियद्दिनं जीविष्यामि ? मत्तः परमस्या सम्पत्तेः का वा दशा भवेत् तदर्थमपि मम स्पृहा नास्ति
स्पृहा तु तब
विषये
एव । - मम विषये
- तव सकलोऽपि वृत्तान्तो मया श्रुतः । तब अहमिकाया सोमाइपि नाकलिता ।
अहङ्कारापनयननिमित्तं नानाकर्मन्छलेन तब संस्कारो ऽपि मया विहितः । इतः प्रभृति
त्वं प्रकृतिस्थ इति अनुभवामि । अतः आकांक्षितयोग्यतापरिसरे पुवाधिकार स्वदुपरि
व्यस्थामि ।
आश्चर्यान्वितः
श्रीमुखः नम्रतया पुनन्यवेदयत्
करणीयमुपदिशतु
गृहं
मे रिक्तं मुक्तं च । अव चन्द्रशाला अस्ति । शिरेखाया आशीर्वादोऽपि विद्यते ।
अहं
तु भवतः पार्श्वे एव अस्मि ।
तन्न
पर्याप्तम् । त्वं विवाहितः। अहङ्कारविवश त्वं पत्नी परित्यक्त वान् । परित्यक्ता
वधूः नूनं तत्र संतप्ता स्यात् । त्वं संस्कार सम्पन्नः । अतः तस्याः संस्कारः तव
दायित्वपरिसरे अन्तर्भवति । तस्याः संस्कारसम्पादनार्थं तामत आनय । अव सा जीवनमनु
भविष्यति । शशिरेखा तस्याः पथप्रदर्शिका भवेत् ।
चमत्कृतः
श्रीमुखः । निजदोष स्वीकृत्य अनुमोदितवान्
- बादेशस्य नूनं पालनं भवेत्
समयेऽस्मिन्
प्रदीप हस्तेन चन्द्रमणिः उपस्थितः । कति
जनान्
पार्श्वमानीय न्यवेदयत् ।
एते
निमन्त्रयितुमागताः ।
अनुरोधमुखेन
इन्दुकेतनः तान् उपवेशनाय निरदिशत् । कचित् आयोजकः निमन्त्रणमुपस्याप्य अवदत् ।
जनपदेऽस्मिन्
नाट्य मन्दिरस्य भित्तिस्थापनं भवेत् तदयं नृत्यसमारोह स्प आयोजन कृतम् भवान्
आधारपुरुषरूपेण तव आगच्छतु आशिया च अस्मान् संयोजयतु । इदमस्माकं निमन्त्रणम् ।
इन्दुकेतनः
सामान्यमहसत् ।
निमन्त्रणं
स्वीकृतम् । परमस्वाध्यवशात् कुवापि गन्तु न शक्नोमि । यदि भवन्त इच्छेयुः तर्हि
मम स्थाने अपरम नियोजयितुं शक्नोमि ।
आयोजक
प्रासीदत् ।
तदपि
रुचिरं भवेत् । यदि भवन्तः तस्य संकेत दास्यन्ति तहि वयं गत्वा निमन्त्रण
करिष्यामः । गमनस्य आवश्यकता नास्ति । स तु भवतां सम्मुखे वर्त्तते ।
इन्दुकेतन:
अगुल्या निरदिशत ।
अयं
श्रीमुखः कश्चित् पुण्यपुरुषः । तस्यैव हस्तेन मितिस्थापन कारयन्तु । मन्ये, समीचीनं भवेत् ।
सर्वे
श्रीमुखमपश्यन् । अलोके मलस्पष्टम् । अर्धपलितः केशराशिः । श्मश्रुप अर्धमपि धवलम्
। प्रसन्नज्योत्स्ना धारे पावनः प्रतीयते अर्धवृद्धः । विमुक्तशरीरे तरुण विभा तु
अनुत्तीर्णा । शान्तनयने स्थिरा दृष्टिः विनयशालिनी आयोजको ।
परिवर्तन
कृपया
भवान् आगच्छतु ।
श्रीमुखः
सकृत् इन्दुकेतनस्य मुखमपश्यत् । सकृच्च आयोजकान् । तत आत्मग्लान्या निरुत्तरः
संजातः । चिन्तया अलम् नहि कल्याणकृत् कश्चित् दुर्गति गच्छति । यद् इन्दुकेतनः अवदत् ।
हिताय
भवेत् तदवश्यमङ्गीकरणीयम् ।
श्रीमुखः
अङ्गीकृतवान् ।
भवतां
निमन्त्रण स्वीकरोमि निर्दिष्टसमये यथास्थानं प्राप्स्यामि
आयोजकाः
प्रस्थिताः । इन्दुकेतननिकटे पुनश्च कृतकृत्यः संजात श्रीमुखः चरणतले प्रगति
समप्यं गद्गदं व्यवत्। इन्दुकेतनः तमुत्थाप्य समालिगत्। अबोधयच्च
इदमेव
संगतिकरणम् । चन्द्रमणि आस्तरमा कुञ्चितवान् ।
नृत्यसमारोहस्य
शुभ शिञ्जिनिः अनुरणनमतोलवति । लयमुद्धरति वायानां स्वस्तिनादः । अतिथिप्रतीक्षाया
सभापरिसर उत्कण्ठितः । घोषणा संजाता । नत्ये दर्शका आश्वस्त । यवनिका उत्थिता। मचे
नृत्य प्रदर्शयत ऊर्वी करतल ध्वनिसा नृत्य समापयतु । आयोजक परम अतिथिम्
आमन्त्रितवान् । अतिथि समागतः । पचादिवि कार्य मारब्धम् । प्रथमतः
आशीर्वादनिमित्तम् आयोजक अतिथिम् अनुरुद्धवान् । आशीर्वाद ग्रहीतु च
ऊर्वीमुपास्यापयत् । श्रीमचकितः । वालिकेय साक्षात् श्रावणी परमिद पार्थक्यं यत्
अस्या मुखतो विनयस्य आभा न प्रकाश्यते । श्रीमख अन्तर्भाव निय स्मितेन तस्याः
स्वागतमकरोत । इन्दकेतनप्रदत्तधनराशिनो सह उपहार च तस्याः करे समप्यं औपचारिकं
सम्पादितवान् । पुनः करतालध्वनिषु सभा प्रकम्पिता । श्रीमख स्वस्तिवचनच्छलेन
प्रथमतया अनुभवं प्राकाशयत् ।
मान्याः
! जीवनयात्रा विनिमयबिन्दुतः प्रारभ्यते समाप्यते संगतिकरणे परं जीवनस्य मार्ग
प्रतिरुणद्धि बहङ्कारः न एव नानारीत्या प्रकाश्यते। कदाचित् मोहरूपेण कदाचित
आसक्तिरूपेण कदाचिन्न कोधरूपेण इत्यमस्य प्रकाशो बहुविधो भवति । अनेन साधना नश्यति
। श्रमो विफलो भवति परमिदमवधेयम- सर्वाऽपि साधना जीवनस्य कृते । यदि अनया जीवनस्य
तात्पर्य न बुध्यते नहि साधना मूल्यहोना भवति । पुनश्व इदमङ्गीकरणीयं यत् जीवनस्य
लक्ष्य संगतिकरणम् । अनेन शान्तिः सुखस्य च प्रसक्तिः । अतः सर्वाऽपि साधना
अहङ्कारस्य नाशिका शान्तेश्च साधिका भवतु ।'
भाषणं
समाप्य श्रीमुखः मञ्चतः अवतीर्णः तस्य संक्षिप्त सारवचनं श्रुत्वा सर्व विमुग्धाः
। सर्वे च तस्य आतिथ्यमभ्यनन्दन् ।
श्रीमुखः
प्रस्थामुपकारत । समयेऽस्मिन् बालिकाया दर्शन निमित्तं स आयोजकमनुरुदवान् । आयोजक
नेपथ्यगृहे तं प्रापयत् । श्रीमुख ऊर्वीपरिचयं ज्ञातुमैच्छत् । तदानी तब से
निर्माण इष्ट्वा चकितः । दिनमणिस्तु तं परिचेतु न प्राभवत् श्रीमुखः तस्य समीप
गत्वा अपृच्छत् ।
- भवान् नाम्ना दिनमणिः नु
सहसा
दिनमणिः तस्य आकृति निरीक्ष्य परिचेतुमयतत । हो । अह दिनमणि: । भवान् श्रीमुखः खलु
श्री
मुखः सानन्दमवदत् ।
- हां, पितृव्य ।
षोडशवर्षाणि
ततोऽधिकानि वा व्यतीतानि । अहो भाग्यम् ! भवतः दर्शनमभूदिति यह धन्यः संजातः ।
- भवान् अत्र किमर्थम् ?
यहं
तु श्रावणी कन्यामानीय भ्रमामि
श्रावणीकन्या ?
इयं
नत्तंकी ऊर्वी तस्याः कन्या ।
दिनमणिः
पुनश्च कर्वी निरदिशत् ।
प्रणम
प्रणम एनं पुण्यपुरुषम् । अयं पुण्यात्मा श्रीमुखः यस्य स्थाने संप्रति ग्रामस्य
मङ्गलपीठ विराजते
ऊर्वी
प्रणतवती ।
श्रीमुख
आशीर्वादं व्यतरत् ।
सुखिनो
भव । शान्तिमती भव । श्रावणीविषय मानसमानीय लिप्सा विषयमपि प्रष्टुमुद्यतः
श्रीमुखः सहमा आयोजक आगम्य तत्र उपस्थितः मञ्चोपरि ऊर्वीमानेतु स दिनर्माण
निरदिशत् । दिनमणिः त्वरया निर्गन्तुमुद्यतः। स केवल मन्वनयत् ।
भवान्
निमेषानन्तरमागच्छतु नैकाः सन्ति वार्त्ताः ।
आत्मसौजन्ये
श्रीमुखः समारोहतः प्रस्थितः । किचिद् व्यक्त चिच अव्यक्तम् अन्यत् किञ्चिद्
अन्तराले किञ्चिद् बहिः किचिद् बुद्ध किचिद् अदमिति अनुभव विवरणम्। किन्तु
मधुगन्धयोः संगमबिन्दु पुष्पमेव आधारीकरोति । अतः अ अनुसंधानस्य नियोगः फलभाक्
भवति । अव च अन्वेषा रोमन्य परिपुष्णाति । नश्वरस्य नैवेद्यरीतिः इह जीवनस्य
तात्पयं विशदयति ।
शरन्मयूखस्य
म्लानदशा इन्दुकेतनस्य कृते संस्कारदशा । एकस्मिन् भोप्सितप्रत्यूषे इन्दुकेतनस्य
स्वर्गवासः अभवत् । अन्तिमकाले स सेवक चन्द्रमणि श्रीमुखस्य दायित्वे समप्यं
शेषश्वासम ग्रहीत् । सम्प्रति प्रासादे इन्दुकेतनस्य स्थान पूरयति श्रीमुखः । संव
चन्द्रशाला
। स एवं चन्द्रमणि अनुभवे संगतिकरणस्य पथप्रभा ---
शशिरेखा
चन्द्रमणिः
न्यवेदयत् ।
पुनश्चिन्तया
किमस्ति ? प्रभोरभिलाष परिपालयतु । तेन भवान्
सुखो
भवेत् ।
श्रीमुख
आसीनः । मनसि उद्भासित जन्मस्थानम् । स एव मधुग्रामः यत्र स निजस्थानं
मङ्गलकार्याय समर्पितवान् स एव आभोगो यत्र स लिप्सां परित्यज्य प्रस्थानमकरोत् ।
तदेव स्थान यत्र पित्रोः वात्सल्यसम्बोधन इदानीमपि प्रतिध्वनि रचयति श्रीमुख
सम्मुखे जीविका विकलग्रामस्तु व्यसनविधुरः सम्प्रति व कोलाहलो नाम कलहः । प्रभुत्व
नाम सम्पत्तेः सोमाङ्कनम् । अहकारो अधिकारस्य मर्यादा दुर्बलस्य शातनं भूषणम् ललना
इह पापस्य भूमिः । तस्याः प्रतिनियन्त्रणं च पौरुषम्
ऊवमानीय
दिनमणिः गृहे उपस्थितः सकुशलं समागत इति स सकलशुभसमाचारं वर्णितवान् ।
पारितोषिकधनराशि प्राप्य अपदः भृशं प्रासीदत् । स यत्नेन धन संस्थाप्य
श्रावणीप्रकोष्ठ गतवान् । श्रावणी तु कोपेन ज्वलति प्रथमवारमय सा नितरा क्रोधन्विता ।
किं
धनं प्राप्तम् ?
अभ्रपदः
कुटिलमहसत ।
श्रावणी
सर्पिणी इव अगर्जत ।
अनायें
... ! लम्पट -! धिक्
ते वृत्तिम् । वैश्यालय कथं न चालयसि ?
अपदोऽपि
अगर्जत ।
- सावधाना दासोपुवि ! श्रावणीमुखे घृणाबोधः स्पष्टतः ।
- राक्षसः । चाण्डाल । दूरमपसर । स्वादृशं पति प्राप्य जीवन मे नष्टम् ।
कन्याया जोवनमपि नश्यति । मूढ नराधमः धावणि! साक्षाद्
जिल्हामुलाविष्यामि
याहि
याहि त्वादृशो मूखी- । श्रावणि!
अभ्रपद:
गर्जनपुरःसरं तां ताडयितुमारब्धः । श्रावणी चीत्कारमकरोत् चीत्कार श्रुत्वा ऊर्वी
तत्र उपस्थिता । तदैव श्रावणीगलकं दृढं धृत्वा तो भूतले न्यपातयत् । एतद्दृष्टवा
ऊर्वी कोपेन साक्षात् चण्डी अभवत । सा दण्डमेक घुत्वा अपदस्य देहे प्रहारमकरोत् ।
त्रपदः तां धत्वा अपरप्रकोष्ठमनयत् तत्र च रज्जुद्वयेन तामवघ्नात् । ततः कपोले
चपेटाद्वय दत्वा बहिरागम्य च द्वारं पिहितवान् । ऊर्वी भयेन चीत्कारं न कृत्वा
केवल विलपति।
श्रावणी
प्रकोष्ठस्य निःशब्दतामालक्ष्य अभ्रपद तव उपस्थितः। श्रावणी तथैव निपतति । स ताम्
उत्थापयितुमयतत किन्तु सहसा प्रकृतिस्थः संजातः । पुनश्च निरंक्षत। श्रावणी
मूच्छिता । अत्रपदो व्यतिव्यस्त । पर्याकुलभावेन स उच्चैराकारितवान् ।
पितृव्य
! पितृव्य ! बहिस्थो दिनमणि धावन् नागतः । श्रावणीदशां दृष्ट्वा अपृच्छत ।
किमभूत्
किमभूत ?
- प्रथमतो जलमानयतु ।
त्वरया
जलमानीतवान् दिनमणि । श्रावणीमुळे जलम् असिञ्चत अभ्रपदो व्यजनीम चालयत
कतिक्षणानन्तरं श्रावणी चैतन्य लब्धवती । दिनमणि प्रसन्नः सन् अपृच्छत् ।
कन्या
कुत्र ?
विमुखतया
अनपदो निरदिशत् ।
तस्मिन्
प्रकोष्ठे दिनमणिः तत्र आगतः
। व वन्दिनी । दिनमणि विलोक्य ऊयों गद्गद् व्यलपत । दिनमणि ऊर्वी मोचितवान । तव पद
श्रावयन्निव उद्विग्नतया अवदत् ।
जाने, अस्य व्युत्पातेन न कोऽपि शान्त्या विवस्तु
प्रभवेत् पोड़ा केवला पीड़ा ।
ऊर्वी
श्रावणी प्रकोष्ठमागतवती । विलपन्ती सा समबोधयत
मातः!
मातः ! श्रावणी उपविष्टा । नेवे तस्या लोकप्लावनम् ऊवीं पुनः पुनः सम्बोधयति । परं
श्रावणी उत्तर न ददाति । तथैव दिनमणिः नाकारितवान् ।
जाते
! जाते ! वद नु -!
श्रावणि
तथापि निरुत्तरा । अत्रपदः शङ्काकुलः । प्रकृतिस्वरूपेण नम्रवाचा स समबोधयत् ।
श्रावणि! श्रावणि! अरे, न
वदसि कथम् ?
सजलनयना
श्रावणी केवलं तम् अपश्यत ऊर्वी तु बधीरा। सा विलासविह्वला सती लाकारितवती ।
मातः
! मातः ! मातः !! श्रावणी संकेतं दत्तवती- 'तस्या वाक्शक्तिः नष्टा सा वक्तु न प्रभवति ।' ऊर्वी
साश्चर्यम् अवदत् ।
किं
त्वं मूका संजाता ?
श्रावणी
मस्तकेन सम्मतिमसूचयत् ।
दिनमणिः
व्यथितो भूत्वा पदमवदत् । किमेतत् कृतवान् ? देवीसदृशी पत्नी परिचेतु न प्राभवत् ? अन्ततो
मौनमास्थाय सा मुका संजाता ?
अनपदो
व्यथितः । स कर्तव्यमूढ व केवल श्रावणी पश्यन् स्थिरः ।
झञ्झा
अपगता । परिणामः तथापि भयङ्करः । गृहे मौनता शून्य प्रसादिनी । औदासीन्यं व्यापकम्
। इतस्ततः चटकानां खण्ड विरुतिः प्रतिजन ब्ययामंकुरयति । अन्तरात्मना सर्वे
विमध्यमानाः प्रतीयन्ते ।
दिनत्रयं
गतम् । तथापि संव दशा । श्रावणीमुखे वचनं नायाति । सा मुका संजाता। अभ्रपद इतस्ततो
जनान् प्रेषयित्वा वैद्य समाकारयति । औषध ददाति । तथापि किचित् फल न दृश्यते ।
कर्वी अपि मौना । साऽपि पिता सह किमपि वक्तु नोत्सहते दिनमणिस्तु सेवायां लग्नः ।
ऊर्वी मातरं परित्यज्य बहिनं गच्छति । तस्याः संकेतानुसारं सा कर्माणि निभालयति ।
इदानीमेकाकी
अनपदः चिन्ताकुलः । जीवने प्रथमवारम् इयं घटना तस्य मनसि दुःखमजनयत् प्रथमतया च
अनुतापः तस्य हृदयमस्पृशत् । स श्रावणीविषये निजव्यर्थतामा कलयितुं प्रवर्त्तते ।
किन्तु अवनमनं स्वीकत्तु सन्नद्धो न भवति ।
अपराह्णे
तापक्षुण्णम् ।
ग्रामस्य
मङ्गलपीठे केचन मङ्गलकर्मणः तिथिनिर्धारणे मग्नाः । श्मश्रुधरः क्रमश आगम्य तत्र
उपस्थितः ग्रामीणाः तं पर्यचिन्वन् अयं श्रीमुखः । सहसा इतस्ततो वार्त्ता
प्रसारिता श्रीमुख बागत इति तं द्रष्टु बहवः समवेताः । दिनमणिः वार्त्तामिमां
प्राप्य श्रावणी समीपमागतः । तत्र च ऊर्वी उपविष्टा आसीत् । श्रीमुखस्य नाम
श्रुत्वा सा तस्य दर्शनार्थमुत्सुका संजाता । दिनमणिः तां स्मारयितु प्रवृत्तः ।
स एव
पुण्यपुरुषः अद्य मङ्गलपीठमागतः । स्मरसि ? तद्दिने स एव साशीर्वाद पारितोषिकं दत्तवान् ।
श्रावणीनयने
स्पृहा, मुखे च स्मितमस्फुटत् ऊर्वी किमपि नोक्त्वा झटिति निर्गता मङ्गलपीठाभिमुखं च अधावत् । अभ्रपदस्य भयेन दिनमणिस्तु विचलितः । सः अभ्रपदस्य व्यावृति निश्चेतु सभाजन प्रकोष्ठमागतः ।
परित
निरीहरोमन्थे विमग्नः अभ्रपदः । अहङ्कारधिक्कारयोः प्रकारविमर्शे स गम्भीरः ।
दूरतः कोलाहलध्वनिः क्षीणतया सभाजनप्रकोष्ठं प्रविशति । दिनर्माण विलोक्य सः
अपृच्छत् । - कथं कोलाहलः श्रूयते ?
भयनम्रवचनेन
दिनमणिः अवदत् । प्रायः मङ्गलपीठे किमपि भवति ।
किं
भवति ? अद्य तु न कश्चित् उत्सव दिवस ? दिनमणि निरुत्तरः । अभ्रपदो विचिन्त्य अवदत् ।
औषधिदानेन
तु किमपि फलं न भवति । कुत्रचित् समीचीन वैद्य मन्वेषय । अन्यथा सा सदैव मौना तिष्ठेत् । इदानीं कन्या अपि
तस्या मागंमाश्रयते । सा मया सह न जल्पति । श्रावणपार्श्व ऊर्वी ? ताम् आकारय । वर्त्तते नु सा तव नास्ति ।
कुत्र
गतवती ?
मन्ये, मङ्गलपीठम्
- सा किमर्थं गतवती अहं पश्यानि कि त भवति
अपदो
गन्तुमुद्यतः । दिनमणि निरुपायः । तचापि साह बदहवासः अवदत् ।
भवान्
किमर्थं गमिष्यति ? वह गत्वा तामाकारविष्यामि ।
- नन । ममाऽपि तव कार्यमस्ति । अहं गच्छामि ।
पदो
निष्क्रान्तः ।
दिनमणिः
या धावणीप्रकोष्ठम् मागत्य व्यज्ञापयत् । - जाते ! सर्वमनर्थं भवेद । इदानी
कनिष्ठप्रभु अयमविष्य मङ्गलपीठं गच्छति। भवतो तस्य वारणं करोतु । अन्यथा--- अन्यथा
विरतो
दिनमणिः ।
वसनपरिवर्तनाय
उत्थिता मौना धावणी ।
श्रीमुखस्य
आगमनसमाचार प्राप्तवतो लिप्सा देहे तस्याः 1 पुलकतरङ्गः । मनसि पुनः उद्वेलनम् । हृदये स्पन्दनराधिः । सा अस्थिभूत् ।
अयमेव अवसर तस्य स्वागतस्य अयं सुयोगः प्रायश्वित्तस्य वयं च समुचितसमयः सकलाभिमानसमर्पणस्य।
इदमेव कुटीरं निमित्त सा तमामन्त्रयिष्यति । न च अनुतापाशुभिः तस्य चरण
क्षालविष्यति । सा उद्विग्नतथा वसन परिवत्यं अधावत् ।
जब
जनसमावेशं दूरीकृत्य मङ्गलपीठ प्रापिता तव निजपरिचय दत्त्वा कैशोरसुलभचापत्येन सह
श्रीमुखस्य चरणधूति मस्तके विलेपितवती । श्रीमुखोऽपि आशीर्वचनेन सह पोपहार
दत्तवान् । दृश्येऽस्मिन् जना विमुग्धा । दृष्यमिदच दूरतो विलोकित वान् अभ्रपदः ।
प्रचण्डकोधेन स प्राज्वनत्- 'कन्येय सकृदपि न मां नमस्कृतवती । किन्तु यायावरं नमस्करोति ?"
साटोपं
मङ्गलपीठमुपगतः अनपदः । उच्चैः सः अगजेत् ।
उद्धता
दुष्टा त किमर्थमागता ? पदः बलात् तस्या हस्तात् उपहारं आकृष्य अक्षिपत् चपेटाद्वयं
हढं
दत्त्वा च अवदत् ।
याहि
शीघ्रमपसर । ततः स श्रोमुखं दृष्ट्वा जगजेत् ।
यायावर? लम्पट ! कि पुनः परिवारं नाशयितुमागतः ? अथ न कोऽपि त्वां रक्षिष्यति ?
अभ्रपदः
श्रीमुख तायितुमारब्धः । ताडनसमये महान् कोलाहलः अभवत् श्रीमुखस्तु नीरवः ।
निरीहबलीवर्द इव च दण्डायमानः । अभ्रपदः सक्रोधं ताडयति । समयेऽस्मिन् धावन्ती
उपगता लिप्सा । विलापविचीत्कारमुखेन सा श्रोमुखम् अधरत् तथापि अभ्रपदः नेव निमील्य
ताडयति ।
धावति
व्यथिता श्रावणी । अनुसरति दिनमणि । ताडन दृश्यमिदं दूरतो विलोक्य श्रावणी सहसा
चीत्कारमकरोत् ।
- न न
नहि नहि । पुनः पुनः विनापमिश्रितचीत्कारं श्रुत्वा सपदि विरत अभ्रपदः । आहता
हरिणीव विलपति श्रावणी । लिप्सा विलपति। ऊर्वी व विलपति
श्रीमुखो
रक्ताक्तः
विलप्य
अञ्चलेन तस्य रुधिरमपसारयति लिप्सा । श्रावणी वक्षसि धरति अभ्रपदः । सा तु विलपति।
गद्गदं च वदति । किमेतत् करोति ? किमेतत् करोति भवान् ?
श्रीमुखशरीरे
रुधिरं दृष्ट्वा केचन अभ्रपद ताडयितुमुद्यताः । - किमय धनपतिरिति य कमपि
ताडयिष्यति ? आगच्छ
आगच्छ
ताडय
एनम् ताडय एनम्
एवं
गर्जनपुरःसरं ते अभिमुखम् आगताः । सहसा श्रीमुखः अभ्रपदस्य अन्र` दण्डायमानो भूत्वा हस्तमुत्तोलितवान् । जनास्तु
क्रोधेन अवदन ।
-
अपसरतु । अपसरतु । सर्वान् स उत्पीडयति । सद्य एव तस्य मरणं भविष्यति ।
श्रीमुखः
तान् अन्वनयत् ।
-
भ्रातरः ! शृण्वन्तु । शृण्वन्तु तावत् ।
जनाः
स्तब्धाः । श्रीमुखः अबोधयत् ।
-
भ्रातरः ? यदा मुखे वचनं समाप्यते । तदा करः
वचनकर्म करोति यदेतत् अधुना संघटितं तत् सर्वम् आवश्यकमासीत ।
जना
विवादमकुर्वन्
कथम् ? कथम् ? श्रीमुखो
व्यशदयत ।
श्रावणी
मुका आसीत् । मनोबाधया तस्या वाक्शक्तिः पीडिता आसीत् । पुनश्च तथा रीत्या सा
शक्तिः प्रत्यागता । तस्या मूकदोषो दूरीभूतः । एतदर्थमहं प्रसन्नः । माहाजनोपरि
ताडने यदि कस्यचित् उपकारः तहि तत्र न मे दुःखम् । अपितु तव आनन्दो मम । तथैव यदि
मम मरणे
सहसा
लिप्सा श्रीमुखस्य मुखे करमददात् । - मेवं वदतु । यदत्र संघटितं तत्सवं मदर्थमेव ।
प्रथमतो मामेव इह भवान् व्यापादयतु ।
लिप्सा
गद्गदं व्यपत् । श्रीमुख आश्वासयत् ।
लिप्से
! पुनः विलापस्य का वा कथा ? अपरावनतम् ।
इदानीं
प्रस्थानसमयः । - कुत्र भवान् गमिष्यति ? कुटीरं मे भवदर्थमेव मुक्तमस्ति भवतः पूजानिमित्तं हृदयमपि मे
सुसज्जितमस्ति ।
लिप्सा
श्रीमुखस्य करं धृत्वा निजकुटीराभिमुखमानयति । स्तब्धा जनाः चकिताः । श्रावणी
पार्श्वे धृत्वा दण्डायमानः अभ्रपदः विकलतया तस्या मार्ग पश्यति ऊर्वी पार्श्वे
निवेश्य वृद्धो दिनमणिः
वाष्प
निविहृदयः । अश्रु अपसायं स अवदत् - किमेतत् कृतवान् भवान् ? यो भवतः परिवारस्य मङ्गलं कांक्षते तमपि
परिचेतुन प्राभवत् ?
अभ्रपदो
लज्जितः अनुतप्तश्च अहङ्कारस्य परिणाम स्वय मिदानीम् अनुभवति । अहङ्कारस्य ववनमनं
नाम सुखस्य पाथेयमिति मनसि निधाय से दिनर्माण निरदिशत् पितृव्य ! आगच्छतु मया सह ।
दिनमणि:
शङ्काकुलः ।
अभ्रपद
लिप्सायाः कुटीराभिमुखं त्वरया आागच्छत् । श्रावणी तमन्वसरत् । ऊर्वी गृहीत्वा
दिनमणिः उभयस्य मार्ग निजीकृतवान् । लिप्सायाः कुटीरद्वारे सर्वे मिलिता ।
श्रीमुखो दण्डायमानः । लिप्सा केवलम् अभ्रपदस्य गतिविधि लक्षयति ।
अभ्रपदः
अञ्जल बद्ध्वा नम्रतया अवोचत् ।
बन्धो
! "श्रीमुख ! बहङ्कारविमूढोऽयं जनः वस्तुतः अन्धः । अतः कुत्राऽपि उत्तमतां
द्रष्टु नाऽह प्राभवम् । बद्य स्वमेव दृष्टिपुरतो मे जोवनस्य तत्त्वमुन्मोचितवान्
। अह लज्जितः । अहम् अनुतप्त अतः क्षमा प्रार्थयितुमुपगतः ।
श्रीमुखः
तस्य हस्तमधरत् । बभ्रुपदः अवदत् ।
-
बन्धो ! अज्ञानवशतः यदस्माभिः कृतं तत्सवं विस्मत्तव्यम् । इतः प्रभृति वृटिस्तु न
भविष्यति ।
श्रीमुखः
मनाक् अहसत् । अन्नपदो लिप्सामालक्ष्य अवदत्
देवि
! जाने, मम दुराचरितम् अक्षमणीयम् । मनसा वाचाच यद्
भवत्या अनिष्टं मया चिन्तित तदर्थम् अहं मम अनुताप प्रकटयामि ।
लिप्सा
किचित् अहसत् । भवन्तं परिशोद श्रावणी वत्तंते नु ।
श्रावणी
अहसत् । लिप्सा कर्वी श्रावणी च कुटीरे प्रावेशयत् । स्नेहसम्मेलनं दृष्ट्वा
दिनमणिः हर्षगद्गद आसीत् । कर्त्री श्रीमुखं लिप्सां च आमन्त्रयत् ।
अस्माकं
गृहं प्रति नागमिष्यन्ति किम् ? मम नृत्य न द्रक्ष्यन्ति ?
श्रीमुखः
सहर्षमभाषत ।
अरे !
सत्यं खलु ? नूनं
गमिष्यामः ऐषमः नृत्य समारोहस्यापि आयोजनं करिष्यामः ।
दिनमणिः
गद्गदमवदत् ।
मङ्गलपीठे
ऐषमः नृत्यसमारोहो भवतु ।
सर्वे
अहसन् ।
सन्ध्या
उत्तीर्णा । स्नेहसम्मेलनम् अवसितम् सोप्रस्थानिक स्वीकृत्य निजगृहं प्रत्यागतः
अत्रपदस्य परिवारः
उपविष्टः
श्रीमुखः ।
ज्योत्स्नाप्रकाशे
लिप्सायाः कुटीरम् उद्भासितम्। अङ्गस्य आभोग उज्ज्वलः अभूत् । सरोवरे कुमदः
पूर्णविकसनम् आत्मसाद करोत् । कीटझङ्कारः श्रवणपेयः संजातः । शशिरेखाया शीतलपान
मास्वाद्य स्मिताननः श्रीमखः लिप्साया मखं पश्यति । लिप्सा श्रीमुखस्य
रक्ताक्तव्रणेषु औषधि विलिप्य अब विसृजति ।
निशावगुण्ठने
प्रभातरङ्ग सङ्गमयति अश्यत ।
समाप्तम्
आभार
जवाब देंहटाएं