Chapter 1
एषः कः ? एषः चषकः । किम् एषः बृहत् ? न, एषः लघुः ।
सः कः ? सः सौचिकः। सौचिकः किं करोति
? किं सः खेलति ? न, सः वस्त्रं
सीव्यति ।
एतौ कौ? एतौ शुनकौ स्तः । किम् एतौ गर्जत: ? न. एतौ उच्चैः बुक्कतः।
तौ कौ? तौ बलीवर्दी स्तः
। किं तौ धावतः ? न. तौ क्षेत्र कर्पतः ।
एते के? एते स्यूताः
सन्ति। किम् एते
हरितवर्णा: ? नहि, एते नीलवर्णाः सन्ति।
ते के? ते वृद्धाः
सन्ति। किं ते गायन्ति ? नहि ते हसन्ति।
Chapter
2
एषा का? एषा दोला । दोला कुत्र अस्ति
? दोला उपवने अस्ति
।
सा का? सा घटिका । घटिका किं सूचयति? घटिका समयं
सूचयति ।
एते के? किम एते कोकिले? चटके किं कुरुत: ? न. एते चटके। एते विहरतः।
ते के? ते चालिके स्तः । ते किं कुरुतः ? ते वाहनं चालयतः
।
एता: का: ? एता: स्थालिका: । किम् एताः
गोलाकारा: ? आम्, एताः गोलाकाराः
एव ।
ताः का: ? ताः अजाः। ताः किं
कुर्वन्ति? ताः चरन्ति ।
Chapter 3
एतत् किम्? एतत् खनित्रम्
अस्ति ? श्रमिका खनित्रं
चालयति
तत् किम्? तत् विश्रामगृहम्
अस्ति। किम् अत्र भित्तिकम् अस्ति ? अत्र भित्तिकं न अस्ति ।
एते के? एते अङ्गुलीयके
स्तः। सुवर्णकारः अङ्गुलीयके रचयति ।
ते के? ते बसयाने स्तः। ते बसयाने कुत्र
गच्छतः ? त रेलस्थानकं
गच्छतः।
एतानि कानि ? एतानि
करवस्त्राणि सन्ति । किम् एतानि पुराणानि ? न,
एतानि तु
नूतनानि।
तानि कानि ? तानि कदलीफलानि
सन्ति । किं तानि मधुराणि ?
आम्. तानि मधुराणि
पोषकाणि च।
chapter 4
एष:विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति । वयम् अत्र
क्रीडामः पठामः च।
ऋचा - तव नाम किम् ?
प्रणवः - मम नाम प्रणवः । तव नाम किम्?
ऋचा - मम नाम ऋचा । त्वं कुत्र पठसि ?
प्रणवः- अहम् अत्र एव पठामि । ऋचा -
अहम् अपि अत्र एव पठामि । -
इदानीम् आवां मित्रे स्वः ।
शिक्षिका - छात्राः ! यूयं किं कुरुथ ?
छात्रा :- आचार्ये! वयं गच्छामः ।
शिक्षिका - यूयं कुत्र गच्छथ।
छात्रा :- वयं सभागारं गच्छामः ।
शिक्षिका- युष्माकं पुस्तकानि कुत्र
सन्ति?
छात्रा:- अस्माकं पुस्तकानि अत्र सन्ति ।
शिक्षक:- छात्रौ ! युवां किं
कुरुथ : ?
छात्रौ - आचार्य ! आवां श्लोकं गायावः ।
शिक्षकः- शोभनम् किं युवां
श्लोकं न लिखथः ?
छात्रौ - आवां लिखावः पठावः, गायाव:, चित्राणि अपि रचयावः ।
शिक्षक:- बहुशोभनम् ?
Chapter 6
एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति । केचन तरङ्गैः क्रीडन्ति । केचन
च नौकाभिः जलविहारं कुर्वन्ति । तेषु केचन कन्दुकेन क्रीडन्ति । बालिकाः बालकाः च
बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति । एषा
क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि
स्वजीविकां चालयन्ति ।
अस्माकं देशे बहवः समुद्रतटाः सन्ति । एतेषु मुम्बई - गोवा- कोच्चि
कन्याकुमारी- विशाखापत्तनम्-पुरीतटाः अतीव प्रसिद्धाः सन्ति । गोवातट:
विदेशिपर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम्-तटः वैदेशिकव्यापाराय प्रसिद्धः।
कोच्चितट: नारिकेलफलेभ्यः ज्ञायते मुम्बईनगरस्य जुहूतटे सर्वे जनाः स्वैरं
विहरन्ति। चेन्नईनगरस्य मेरीनातट: देशस्य सागरतटेषु दीर्घतमः ।
भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति । अस्माद् एव कारणात् भारतदेशः
प्रायद्वीपः इति कथ्यते। पूर्वदिशायां वङ्गोपसागर: दक्षिणदिशायां हिन्दमहासागरः
पश्चिमदिशायां च अरबसागरः अस्ति। एतेषां त्रयाणाम् अपि सागराणां सङ्गमः
कन्याकुमारीतटे भवति। अत्र पूर्णिमायां चन्द्रोदयः सूर्यास्तं च युगपदेव द्रष्टुं
शक्यते।
Chapter 7
एकस्मिन् वने शृगालः बकः च निवसतः स्म । तयोः मित्रता आसीत्। एकदा प्रातः
शृगालः बकम् अवदत् "मित्र! श्वः त्वं मया सह भोजनं कुरु।" शृगालस्य
निमन्त्रणेन बकः प्रसन्नः अभवत्।
अग्रिमे दिने सः भोजनाय शृगालस्य निवासम् अगच्छत्। कुटिलस्वभावः शृगालः
स्थाल्यां काय क्षीरोदनम् अयच्छत्। बकम् अवदत् च-" मित्र ! अस्मिन् पात्रे
आवाम् अधुना सहैव खादावः ।" भोजनकाले बकस्य चञ्चुः स्थालीतः भोजनग्रहणे समर्थ
न अभवत्। अतः बकः केवलं क्षीरोदनम् अपश्यत् शृगालः तु सर्व क्षीरोदनम् अभक्षयत्।
शृगालेन वञ्चितः बकः अचिन्तयत्- "यथा अनेन मया सह व्यवहारः कृतः तथा अहम्
अपि तेन सह व्यवहरिष्यामि " । एवं चिन्तयित्वा सः शृगालम् अवदत्-" मित्र
! त्वम् अपि श्वः सायं मया सह भोजनं करिष्यसि "। बकस्य' निमन्त्रणेन शृगालः प्रसन्नः अभवत् । यदा शृगालः सायं बकस्य निवासं भोजनाय
अगच्छत्, तदा बकः सङ्कीर्णमुखे
कलशे क्षीरोदनम् अयच्छत्. शृगालं च अवदत्-" मित्र ! आवाम् अस्मिन् पात्रे
सहैव भोजनं कुर्वः "। बकः कलशात् चञ्च्वा क्षीरोदनम् अखादत् । परन्तु
शृगालस्य मुखं कलशे न प्राविशत्। अतः बक: सर्व क्षीरोदनम् अखादत् । शृगालः च
केवलम् ईर्ष्यया अपश्यत्।
शृगालः बकं प्रति यादृशं व्यवहारम् अकरोत् बकः अपि शृगालं प्रति तादृशं
व्यवहारं कृत्वा प्रतीकारम् अकरोत् ।
उक्तमपि-
आत्मदुर्व्यवहारस्य फलं भवति दुःखदम्।
तस्मात् सद्व्यवहर्तव्यं मानवेन सुखैषिणा ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें