Chapter 2
अस्ति
मगधदेशे फुल्लोत्पलनाम सरः । तत्र संकटविकटौ हंसौ निवसतः। कम्बुग्रीवनामकः तयोः
मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।
अथ
एकदा धीवराः तत्र आगच्छन् । ते अकथयन् -"वयं श्वः मत्स्यकूर्मादीन्
मारयिष्यामः । " एतत् श्रुत्वा कूर्मः अवदत् - "मित्रे! किं युवाभ्यां
धीवराणां वार्ता श्रुता ?
अधुना किम् अहं करोमि?"
हंसौ अवदताम् "प्रातः यद् उचितं तत्कर्त्तव्यम् ।
" कूर्मः अवदत्- "मैवम्। तद् यथाऽहम् अन्यं हृदं गच्छामि तथा
कुरुतम्।" हंसौ अवदताम्-"आवां किं करवाव?" कूर्मः अवदत्-" अहं
युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।
हंसौ
अवदताम्-" अत्र कः उपायः ?"
कच्छपः वदति - "युवां काष्ठदण्डम् एकं चञ्च्वा
धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।” हंसौ
अकथयताम्- "सम्भवति एषः उपायः । किन्तु अत्र एक: अपायोऽपि वर्तते । आवाभ्यां
नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव । यदि त्वमुत्तरं दास्यसि तदा तव
मरणं निश्चितम्। अतः त्वम् अत्रैव वस।" तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्
"किमहं मूर्ख: ?
उत्तरं न दास्यामि । किञ्चिदपि न वदिष्यामि।" अतः अह
यथा वदामि तथा युवा कुरुतम् ।
एवं काष्ठदण्डे लम्बमानं कूर्मं पौराः अपश्यन्।
पश्चाद् अधावन् अवदन् च- "हहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि
उड्डीयते।" कश्चिद् वदति- "यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव
पक्त्वा खादिष्यामि। "अपरः अवदत्" सरस्तीरे दग्ध्वा खादिष्यामि"।
अन्यः अकथयत्- "गृहं नीत्वा भक्षयिष्यामि" इति। तेषां तद् वचनं श्रुत्वा
कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः अवदत्-"यूयं भस्म
खादत।" तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। पौरैः सः मारितः। अत एवोक्तम्
सुहृदां हितकामानां
वाक्यं यो नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः
काष्ठाद् भ्रष्टो विनश्यति॥
Chapter 3
कृष्णमूर्तिः
श्रीकण्ठश्च मित्रे आस्ताम् । श्रीकण्ठस्य पिता समृद्धः आसीत् । अतः तस्य भवने
सर्वविधानि सुख-साधनानि आसन् । तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन् ।
तस्य अष्टादश-प्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि
पट्त्रिंशत् विद्युत् व्यजनानि च आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति
स्म । परं कृष्णमूर्ते: माता पिता च निर्धनौ कृपकदम्पती । तस्य गृहम् आडम्बरविहीनं
साधारणञ्च आसीत्।
एकदा
श्रीकण्ठः तेन सह प्रातः नववादने तस्य गृहम् अगच्छत् । तत्र कृष्णमूर्तिः तस्य
माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतत् दृष्ट्वा श्रीकण्ठः
अकथयत्- "मित्र! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि केवलम् इदमेव मम दुःखं
यत् तव गृहे एकोऽपि भृत्यः नास्ति मम सत्काराय भवतां कष्ट जातम्। मम गृहे तु बहवः
कर्मकराः सन्ति।" तदा कृष्णमूर्तिः अवदत्-" मित्र ! ममापि अष्टी
कर्मकराः सन्ति। ते च ही पादा,
हस्तौ द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायकाः । किन्तु तव भृत्याः सदैव
सर्वत्र च उपस्थिताः भवितुं न शक्नुवन्तु त्याधीनः यदा यदा ते अनुपस्थित तदा तदा
त्वं कष्टम् अनुभवसि । स्वावलम्बने तु सर्वदा सुखमेव न कदापि कष्टं भवति।
"
श्रीकण्ठः अवदत्-" मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नताजाता।
अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि।"
भवतु.सार्धंद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि।
Chapter 5
स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रमाबाई 1858 तमे खिष्टान्दे जन्म
अलभत। तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम् । तस्मिन् काले
स्त्रीशिक्षायाः स्थितिः चिन्तनीया आसीत् । स्त्रीणां कृते संस्कृतशिक्षण प्रायः
प्रचलित नासीत्। किन्तु डोंगरे रुविद्धा धारणा परित्यज्य स्वपत्नी
संस्कृतमध्यापयत्। एतदर्थं स समाजस्य प्रतारणाम् अपि असहत। अनन्तर रमा अपि
स्वमातुः संस्कृतशिक्षा प्राप्तवती।
कालक्रमेण रमायाः पिता विपत्रः सञ्जातः। तस्याः पितरौ ज्येष्ठा भगिनी च
दुर्भिक्षपीडिताः दिवङ्गताः। तदनन्तररमा स्व-ज्येष्ठात्रा सह पद्भ्यां समग्र
भारतम् अभ्रमत्। भ्रमणक्रमे सा कोलकाता प्राप्ता संस्कृतदुष्येण सा तत्र 'पण्डिता' 'सरस्वती' चेति उपाधिभ्यां
विभूषिता। तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्। पश्चात् सा
स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलन प्रारम्भवती।
1880 तमे ख्रिष्टयदे सा विपिनविहारीदासेन सह बाकीपुर न्यायालये विवाहम् अकरोत्।
साधकवर्षात् अनन्तर तस्याः पतिः दिवङ्गतः।
तदनन्तरं सा पुत्र्या मनोरमया सह जन्मभूमि महाराष्ट्र प्रत्यागच्छत्। नारीणा
सम्मानाय शिक्षायै च सा स्वकीय जीवनम् अर्पितवती। हण्टर शिक्षा आयोगस्य समक्ष
नागेशविषये सास्वमतं प्रस्तुत सा उच्चशिक्षा इग्लैण्डदेश गयो। तंत्र ईसाईधर्मस्य
स्त्रीविषयक उनमविचार प्रभाविता जाता।
इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् । तत्र सा भारतस्य विधवास्त्रीणां
सहायतार्थम् अर्थसञ्चयम् अकरोत्। भारतं प्रत्यागत्य मुम्बईनगरे सा 'शारदा सदनम्' अस्थापयत् । अस्मिन्
आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म। तत्र स्त्रियः मुद्रण- टङ्कण-
काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्म परम् इदं सदनं पुणेनगरे स्थानान्तरितं
जातम्। ततः पुणेनगरस्य समीपे केडगाँव स्थाने 'मुक्तिमिशन' नाम संस्थानं तया
स्थापितम्। अत्र अधुना अपि निराश्रिताः स्त्रियः ससम्मान जीवन यापयन्ति ।
1922 तमं खिष्टाब्दे रमाबाई महोदयायाः निधनम् अभवत्। सा देश-विदेशानाम् अनेकासु
भाषासु निपुणा आसीत्। समाजसेवायाः अतिरिक्त लेखनक्षेत्रे अपि तस्याः
महत्त्वपूर्णम् अवदानम् अस्ति। 'स्त्रीधर्मनीति' 'हाई कास्ट हिन्दू विमेन' इति तस्याः प्रसिद्ध रचनाद्वयं वर्तते।
Chapter 7
(पार्वती शिवं पतिरूपेण अवाञ्छत्। एतदर्थं सा तपस्यां कर्तुम् ऐच्छत्। सा
स्वकीयं मनोरथं मात्रे न्यवेदयत्। तत् श्रुत्वा माता मेना चिन्ताकुला अभवत्।)
मेना - वत्से ! मनीषिताः देवताः
गृहे एव सन्ति। तपः कठिनं भवति । तव शरीर सुकोमलं वर्तते। गृहे एव वस। अत्रैव
तवाभिलाषः सफलः
भविष्यति।
पार्वती- अम्ब! तादृश: अभिलापः तु तपसा एव पूर्णः
भविष्यति । अन्यथा तादृशं पति कथं प्राप्स्यामि। अहं तपः एवं
चरिष्यामि इति मम
सङ्कल्पः।
मेना - पुत्रि त्वमेव में
जोवनाभिलाषः।
पार्वती-
सत्यम् परं मम मनः लक्ष्य
प्राप्तुम् आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव
विजयया साकं
गौरीशिखरं गच्छामि।
(ततः
पार्वती निष्क्रामति)
(पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म। कदाचिद्
रात्रौ स्थण्डिले, कदाचिच्च शिलायां स्वपिति
स्म। एकदा विजया
अवदत् ।)
विजया- सखि तपःप्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः
। पञ्चाग्नि-व्रतमपि त्वम् अतपः पुनरपि तव अभिलाषः
न पूर्णः अभवत्।
पार्वती- अयि विजये। किं न जानासि ? मनस्वी कदापि धैर्य न
परित्यजति। अपि च मनोरथानाम् अगतिः नास्ति।
विजया- त्वं वेदम् अधीतवती । यज्ञ
सम्पादितवती । तपः कारणात् जगति तव प्रसिद्धिः। 'अपर्णा' इति नाम्ना अपि त्वं
प्रथिता।
पुनरपि तपसः फलं नैव दृश्यते।
पार्वती - अयि आतुरहृदये ! कथं त्वं चिन्तिता | (नेपथ्ये- अयि भो! अहम्
आश्रमवटुः। जलं वाञ्छामि।) (ससम्भ्रमम्)
विजये!
पश्य कोऽपि वटुः आगतोऽस्ति । (विजया झटिति अगच्छत्, सहसैव वटुरूपधारी शिवः तत्र प्राविशत्
)
विजया- वटो! स्वागतं ते। उपविशतु भवान् । इयं मे सखी
पार्वती। शिवं प्राप्तुम् अत्र तपः करोति ।
वटुः- हे तपस्विनि
! किं क्रियार्थं पूजोपकरणं वर्तते स्नानार्थ जलं सुलभम्. भोजनार्थ फलं वर्तते? त्वं तु जानासि एव
शरीरमाद्यं
खलु धर्मसाधनम्।
(पार्वती तूष्णीं तिष्ठति)
वटुः - हे तपस्विनि ! किमर्थं
तपः तपसि ? शिवाय ?
(पार्वती पुनः तूष्णीं
तिष्ठति )
विजया- (आकुलीभूय) आम्. तस्मै एव
तपः तपति । विजया
(वटुरूपधारी शिवः सहसैव
उच्चैः उपहसति)
वटुः - अयि पार्वति ! सत्यमेव
त्वं शिवं पतिम् इच्छसि ? (उपहसन्) नाम्ना शिवः अन्यथा अशिवः । श्मशाने वसति ।
यस्य त्रीणि नेत्राणि, वसनं व्याघ्रचर्म
अङ्गरागः चिताभस्म, परिजनाश्च भूतगणाः। किं तमेव शिव पतिम्
इच्छसि ?
पार्वती - (क्रुद्धा सती) अरे
वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थ स्वरूपं जानाति। यथा त्वमसि तथैव वदसि
(विजयां प्रति) सखि चल।
यः निन्दां करोति सः तु पापभाग् भवति
एव यः शृणोति सोऽपि
पापभाग् भवति।
(पार्वती द्रुतगत्या
निष्क्रामति । तदेव पृष्ठतः वटो: रूपं परित्यज्य शिवः तस्याः
हस्तं गृहाति। पार्वती
लज्जया कम्पते)
शिव- पार्वति ! प्रीतोऽस्मि तव
सङ्कल्पेन । अद्यप्रभृति अहं तव तपोभिः
क्रीतदासोऽस्मि ।
(विनतानना पार्वती विहसति)
Chapter 8
(केचन बालकाः काश्चन बालिकाश्च स्वतन्त्रता दिवसस्य ध्वजारोहणसमारोहे सोत्साहं
गच्छन्तः परस्परं संलपन्ति ।)
देवेशः- अद्य स्वतन्त्रता दिवसः । अस्माकं विद्यालयस्य
प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान्
प्रस्तोष्यन्ति । अन्ते च
मोदकानि मिलिष्यन्ति ।
डेविड :- शुभे जानासि त्वम्? अस्माकं ध्वजः कीदृश: ?
शुचिः- अस्माकं देशस्य ध्वजः त्रिवर्णः इति।
सलीम - रुचे! अयं त्रिवर्णः कथम्?
शुचिः- अस्मिन् ध्वजे त्रयः
वर्णाः सन्ति, अतः त्रिवर्णः। किं त्वम् एतेषां वर्णाना नामानि जानासि ?
सलीमः- अरे केशरवर्णः श्वेतः हरित:
च एते पः वर्णाः
देवेशः- अस्माकं ध्वजे एवं त्रयः
वर्णाः किं सूचयन्ति ?
सलीमः- शृणु. केशरवर्णः शीर्षस्य श्वेतः सत्यस्य
हरितश्च समृद्ध सूचका सन्ति।
शुचिः - किम् एतं वर्णानाम्
अन्यदपि महत्त्वम्?
डेविड :- आम्! कथं न? ध्वजस्य उपरि स्थितः केशरवर्णः
त्यागस्य उत्साहस्य सूचकः मध्ये स्थितः श्वेतवर्णः
सत्विकतायाः शुचितायाः
च द्योतकः। अधः स्थितः हरितवर्ण: वसुन्धरायाः सुपमायाः उर्वरतायाश्च द्योतकः ।
तेजिन्दरः- शुचे! ध्वजस्य मध्ये एकं नीलवर्ण चक्रं वर्तते ?
शुचिः - आम् आम्। इदम् अशोकचक्रं कथ्यते । एतत् प्रगतेः
न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति ।
तस्मात् एव एतत् गृहीतम्
।
प्रणव:- अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।
मेरी- भारतस्य संविधानसभायां 22 जुलाई 1947 तमे
वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम् ?
तेजिन्दरः - अस्माकं त्रिवर्णः ध्वजः
स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः । अत एवं स्वतन्त्रतादिवसे गणतन्त्रदिवसे च
अस्य ध्वजस्य उत्तोलन
समारोहपूर्वक भवति।
जयतु त्रिवर्णः ध्वजः जयतु भारतम् ।
Chapter 9
मालिनी- (प्रतिवेशिनीं प्रति) गिरिजे! मम पुत्रः
मातुलगृहं प्रति प्रस्थितः काचिद् अन्य कामपि महिलां कार्यार्थ जानासि
तर्हि प्रेषय।
गिरिजा- आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायाः
कृते कर्मार्थं पृच्छति स्म । श्वः प्रातः एव तया सह वार्तां
करिष्यामि।(अग्रिमदिने प्रातः काले
पट्वादने एव मालिन्या: गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी
द्वारमुद्घाटयति पश्यति
यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय बालिका तिष्ठति)
दर्शना - महोदय! भवती
कार्यार्थ गिरिजामहोदयां पृच्छति स्म कृपया मम सुतार्थ अवसर प्रदाय अनुगृहातु भवती
।
मालिनी- परमेषा तु अल्पवयस्का प्रतीयते। कि कार्य
करिष्यत्येषा? अयं तु अस्याः अध्ययनस्य कोडनस्य च कालः।
दर्शना- एषा एकस्य गृहस्य संपूर्ण कार्य करोति स्म । सः
परिवारः अधुना विदेशं प्रति प्रस्थितः कार्याभावं
अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्य प्रचलेत्
अस्मद्सदृशानां गृहसञ्चालनाय
च धनस्य व्यवस्था भवेत्।
मालिनी - परमेतत्तु सर्वथाऽनुचितम् ।
किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां
च मौलिक अधिकारः ।
दर्शना- महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः
केवलं स्वोदरपूर्ति रेवास्ति । एतस्य
व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-पड्गृहाणां कार्य करोमि मम रुग्णः
पतिः तु किञ्चिदपि
कार्य न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषण कुर्वः
अस्मिन्
महार्थताकाले मूलभूतावश्यकताना कृते एवं धनं पयाप्त न भवति तर्हि कथं
विद्यालयशुल्कं
गणवेष पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि ।
मालिनी- अहो! अज्ञानं भवत्याः। किं न
जानासि यत् नवोत्तर द्वि-सहस्र (2009)
तमे वर्षे सर्वकारेण सर्वेषां
बालकानां सर्वासां बालानां कृते शिक्षायाः मीलिकाधिकारस्य घोषणा कृता ।
यदनुसारं षड्वर्षभ्यः
आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थ सर्वकारीयं विद्यालयं
प्राप्य न केवल निःशुल्क
शिक्षा प्रस्यति अपितु निःशुल्क पुस्तका पुस्तकस्यूतम्, पदम्
माध्यानम् छात्रवृत्तिम् इत्यादिकं
सर्वमेव प्राप्स्यन्ति।
दर्शना - अप्येवम् (आश्चर्येण
मालिनी पश्यति)
मालिनी- आम्। वस्तुतः एवमेवा
दर्शना - (कृतार्थता प्रकटयन्ती)
अनुगृहीताऽस्मि महोदय! एतद् बोधनाय अहम् अद्यैवास्याः प्रवेश
समीपस्थे विद्यालये कारयिष्यामि। दर्शनाया: पुत्री (उल्लासेन सह) अहं
विद्यालयं गमिष्यामि।
अहमपि पठिष्यामि
(इत्युक्त्या करतलवादनसहित नृत्यति मालिनों प्रति च कृतज्ञता ज्ञापयति)
Chapter 10
उत्सवे, व्यसने, दुर्भिक्षे
राष्ट्रविप्लवे,
दैनन्दिनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति। यदि
विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति ।
परन्तु अधुना निखिले
संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । मानवाः परस्परं न विश्वसन्ति। ते
परस्य कष्टं स्वकीयं कष्टं न गणयन्ति । अपि च समर्थाः देशाः असमर्थान् देशान्
प्रति उपेक्षाभाव प्रदर्शयन्ति तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति । संसारे
सर्वत्र विद्वेषस्य शत्रुतायाः,
हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः
भवति ।
इयम् महती आवश्यकता वर्तते
यत् एकः देश: अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्।
विश्वस्य जनेषु इयं भावना आवश्यकी । ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था
स्पर्धा भविष्यति। सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च
समृद्धि प्राप्तुं समर्थाः भविष्यन्ति।
सूर्यस्य चन्द्रस्य च
प्रकाश: सर्वत्र समानरूपेण प्रसरति । प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति तत्
अस्माभिः सर्वैः परस्पर वैरभावम् अपाय विश्वबन्धुत्वं स्थापनीयम्।
अतः विश्वस्य कल्याणाय
एतादृशी भावना भवेत् -
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
Chapter 11
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता एकदा
कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखा शुण्डेन अत्रोटयत् ।
चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशोणांनि । अथ सा चटका व्यलपत्। तस्याः
विलाप श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्-"भद्रे, किमर्थं विलपसि?" इति।
चटकावदत्-"दुष्टेनकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य नैव मम दुःखम्
अपसरेत्।" ततः काष्ठकूटः तां वीणारया नाम्न्याः मक्षिकायाः समीपम् अनयत्।
तयोः वाती श्रुत्वा मक्षिकावदत्-"ममापि मित्र मण्डूकः मेघनादः अस्ति। शीघ्र
तमुपेत्य यथोचित करिष्यामः।" तदानी तौ मक्षिकया सह गत्या मेघनादस्य पुरः सबै
वृत्तान्तं न्यवेदयताम्।
मेघनादः अवदत्- "यथाह कथयामि तथा कुरुतम्। मक्षिके प्रथमं त्वं मध्याहे
तस्य गजस्य कर्णे शब्द कुरु, येन सः नयने निमील्य स्थास्यति। तदा काष्ठकूटः चच्चा तस्य नयनं स्फोटयिष्यति।
एवं सः गजः अन्यः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्ग महान् गर्नः
अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि मम शब्देन तं गतं जलाशयं
मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।" अथ तथा कृते सः गजः
मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा
चोक्तम्
'बहूनामप्यसाराणां समवायो हि दुर्जयः ।
Chapter 13
विश्वस्य उपलब्धासु भाषासु
संस्कृतभाषा प्राचीनतमा भाषास्ति । भाषेयं अनेकापां भाषाणां जननी मता । प्राचीनयोः
ज्ञानविज्ञानयोः निधिः अस्यां सुरक्षितः। संस्कृतस्य महत्त्वविषये केनापि कथितम् 'भारतस्य
प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा ।
इयं भाषा अतीव वैज्ञानिकी
। केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा । अस्याः वाङ्मयं
वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति । कालिदासादीनां
विश्वकवीनां काव्यसौन्दर्यम् अनुपमम् । कौटिल्यरचितम् अर्थशास्त्रं जगति
प्रसिद्धमस्ति । गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभटः अकरोत् ।
चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि
शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्र,
रसायनशास्त्र,
खगोलविज्ञानं ज्योतिषशास्त्र, विमानशास्त्रम् इत्यादीनि
उल्लेखनीयानि ।
संस्कृते विद्यमानाः
सूक्तयः अभ्युदयाय प्रेरयन्ति यथा - सत्यमेव जयते, वसुधैव कुटुम्बकम्
विद्ययाऽमृतमश्नुते,
योगः कर्मसु कौशलम् इत्यादयः । सर्वभूतेषु आत्मवत् व्यवहार
कर्तुं संस्कृतभाषा सम्यक शिक्षयति ।
कंचन कथयन्ति यत्
संस्कृतभाषायां केवल धार्मिक साहित्यम् वर्तते एषा धारणा समीचीना नास्ति।
संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति। महापुरुषाणा मति:, उत्तमजनानां
धृतिः सामान्यजनानां जीवनपद्धतिः च वर्णिताः सन्ति । अतः अस्माभिः संस्कृतम्
अवश्यमेव पठनीयम्। तेन मनुष्यस्य समाजस्य च परिष्कारः उक्तञ्च-
अमृतं संस्कृत मित्र! सरसं सरलं वचः।
भाषासु महनीयं यद्
ज्ञानविज्ञानपोषकम् ॥
Chapter 14
बालिकायाः अनारिकायाः मनसि
सर्वदा महती जिज्ञासा भवति । अतः सा बहून् प्रश्नान् पृच्छति। तस्याः प्रश्नैः
सर्वेषां बुद्धिः चक्रवत् भ्रमति ।
प्रातः उत्थाय सा अन्वभवत्
यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत् ।
भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति । सा चिन्तयति किमर्थम् इयं
सज्जा ? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति । सः अत्र किमर्थम् आगमिष्यति इति
विषयं तस्याः जिज्ञासा: प्रारब्धा: । गृहम् आगत्य सा पितरम् अपृच्छत्- "पितः
! मन्त्री किमर्थम् आगच्छति?"
पिता अवदत्-"पुत्रि ! नद्या: उपरि नवीनः सेतुः
निर्मितः । तस्य उद्घाटनार्थ मन्त्री आगच्छति।" अनारिका पुनः अपृच्छत्
"पितः । किं मन्त्री सेतोः निर्माणम् अकरोत् ?" पिता अकथयत् " न हि
पुत्रि ! सेतोः निर्माण कर्मकराः अकुर्वन् ।" पुनः अनारिकायाः प्रश्नः आसीत् “यदि
कर्मकराः सेतोः निर्माणम् अकुर्वन्,
तदा मन्त्री किमर्थम् आगच्छति ?" पिता अवदत् यतो हि सः अस्माकं देशस्य मन्त्री ।" "पितः। सेतो:
निर्माणाय प्रस्तराणि कतः आयान्ति?
किं तानि मन्त्री ददाति?"
विरक्तभावेन पिता
उदतरत्-"अनारिके । प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति । " "पितः
तर्हि किम् एतदर्थं मन्त्री धनं ददाति?
तस्य पार्श्वे धनानि कुतः आगच्छन्ति?" एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-"अरे! प्रजाः धनं प्रयच्छन्ति।"
विस्मिता अनारिका पुनः अपृच्छत्-"पितः कर्मकराः पर्वतेभ्यः प्रस्तराणि
आनयन्ति ते एव सेतुं निमन्ति । प्रजाः धनं ददति । तथापि सेतोः उद्घाटनार्थं
मन्त्री किमर्थम् आगच्छति ?"
पिता अवदत्-"प्रथममेव
अहम् अकथयम् यत् सः देशस्य मन्त्री अस्ति। स जनप्रतिनिधिः अपि अस्ति। जनतायाः धनेन
निर्मितस्य सेतो: उद्घाटनाय जनप्रतिनिधिः आमन्त्रित भवति। चल सुसज्जिता भूत्वा
विद्यालय चला" अनारिकायाः मनसि इतोऽपि बहवः प्रश्नाः सन्ति।
धन्यवाद sir
जवाब देंहटाएंSanskrit language classes - The Sanskrit language is one of the oldest languages in the world, and it is still spoken by a few people today. Many people believe that Sanskrit is a difficult language to learn. However, this couldn't be more wrong. Sanskrit is actually quite easy to learn with the right course and teacher. For more visit : foreign language institute
जवाब देंहटाएंउत्कृष्ट जानकारी के लिए आपका हृदय से धन्यवाद।
जवाब देंहटाएं