गणेश प्रातःस्मरणम्
प्रातः स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभित-गण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-
माखण्डलादि-सुरनायक-वृन्दवन्द्यम् ॥ १ ॥
प्रातर्नमामि चतुरानन-वन्द्यमान
मिच्छानुकूलमखिलं च फलं ददानम् ।
तं तुन्दिलं द्विरसनाधिप-यज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥
प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाह-
मुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्॥ ४ ॥
शिव प्रातःस्मरणम्
प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥ १ ॥
प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्ङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥ २ ॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं षडभावशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥ ३ ॥
प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं
पठन्ति ।
ते दुःखजातं बहुजन्मचिन्त्यं (संचितं) हित्वा पदं यान्ति
तदेव शंभोः ॥ ४ ॥
नारायण प्रातःस्मरणम्
प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमञ्जनामम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १ ॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्द्युगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारयणप्रवणविप्रपरायणस्य ॥ २ ॥
प्रातर्भजामि भजतामभयंकरं तं
प्राक्सर्वजन्मकृतपापमयापहत्यै ।
यो ग्राहवक्त्रपतिताङ्घ्रि-गजेन्द्रघोर-
शोकप्रणाशमकरोद्धृतशङ्खचक्रः ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेद् द्विजः ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ॥ ४ ॥
सूर्य प्रातःस्मरणम्
प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनूर्यजूंषि ।
सामानि यस्य किरणाः प्रभवादिहेतुं ।
ब्रह्माहरात्म-कमलाक्षमचिन्त्यरूपम् ॥ १ ॥
मातर्नमामि तरणिं तनुवाङ्मनोभिः
ब्रह्मेन्द्रपूर्वकर्सुरैर्नुतमर्चितं च ।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥ २ ॥
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च ।
तं सर्वलोककलनात्मककालमूर्तिं
गोकण्ठबन्धनविमोचनमादिदेवम् ॥ ३ ॥
श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेद्द्विजः ।
सर्वव्याधिविनिर्मुक्तः परमं सुखमाप्नुयात् ॥ ४ ॥
चण्डिका प्रातःस्मरणम्
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकुण्डलहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्रहस्तां
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥ १ ॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां
चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥ २ ॥
प्रातर्भजामि भजतामखिलार्तिहन्त्रीं
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां
मायां परां समधिगम्य परस्य विष्णोः ॥ ३ ॥
श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठन्नरः ।
सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ४ ॥
श्रीरामस्य प्रातःस्मरणम्
प्रातः स्मरामि रघुनाथमुखारविन्दं
मन्दस्मितं मधुरभाषि विशालभालम् ।
कर्णावलम्बिचलकुण्डलशोभिगण्डं
कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १ ॥
प्रातर्भजामि रघुनाथकरारविन्द
रक्षोगणाय भयदं वरदं निजेभ्यः ।
यद्राजसंसदि विभज्य महेशचापं
सीताकरग्रहणमङ्गलमाप सद्यः ॥ २ ॥
प्रातर्नमामि रघुनाथपदारविन्दं
पद्माङ्कुशादिशुभरेखिशुभावहं मे ।
योगीन्द्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३ ॥
प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि कलुषं सकलं निहन्ति ।
यत्पार्वती स्वपतिना सह भोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४ ॥
प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं
नीलाम्बुदोत्पल-सितेतर-रत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
ध्येयां समस्तमुनिभिर्जनिमृत्युहन्त्रीम् ॥ ५ ॥
यः श्लोकपञ्चकमिदं प्रयतः पठेत
नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।
श्रीरामकिंकरजनेषु स एव मुख्यो
भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ ६ ॥
इत्याचारार्काद्युदाहृतश्रीरामपञ्चरत्नम् ।
निर्गुणब्रह्मस्मरणात्मकं प्रातःस्मरणम्
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सञ्चित्सुखं परमहंसगतिं तुरीयम् ।
यत्स्वप्नजागरसुषुप्तिमवेति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ १ ॥
प्रातर्भजामि मनसा वचसामवाच्यं
वाचो विभान्ति सकलं यदनुग्रहेण ।
यन्नेति नेति निगमानिगमैरजग्मु-
स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥
प्रातर्नमामि तमसः परमर्कवर्णं
सन्मात्रपूर्णमखिलं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषविशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रविभाति तं वै ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।
प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥ ४ ॥
प्रातः स्मरामि परिपूर्णमनन्तमेकं
सच्चित्सुखाकृतिनिजानुभवैकवेद्यम् ।
आरब्धविश्वजननस्थितिमङ्गलीलं
ब्रह्माद्वयं तदखिलश्रुतिमौलिगम्यम् ॥ १ ॥
मातर्भजामि तमहं निजमाययेदं
सृष्ट्वा जगत्तदनुविश्य विचित्रशक्तिः ।
जीवात्मनेन्द्रियमनोगुणबुद्धिसाक्षी
यो लीलया विहरते सततं महेशः ॥ २ ॥
प्रातर्नमामि दहरात्मतया स्फुरन्तं
प्रत्यक्तया पृथु-तटस्थतया स्फुरन्तम् ।
अन्तर्नियामकतया स्थितमङ्गभाजा-
माधारकारणविवर्ततया स्फुरन्तम् ॥ ३ ॥
प्रातः श्रये तमिह जाग्रति विश्वसंज्ञं
स्वप्नोदये तदुररीकृततैजसाख्यम् ।
प्राज्ञं सुषुप्तिसमये च शिवं तुरीये
तत्त्वेन चिन्तयतमाद्यमनात्मवस्तु ॥ ४ ॥
प्रातर्नमामि गुरुशास्त्रविचारलब्ध-
तत्त्वं पदार्थसहजैक्यतया दृशोच्चैः ।
मोहान्धकारमवधूततया स्फुरन्तं
स्वात्मानमेव सुदृढं निजबोधरूपम् ॥ ५ ॥
प्रातः स्मरामि परिपूर्णमनन्तमेक-
मेकं परं परमसूक्ष्ममुपाधिशून्यम् ।
सत्यस्वरूपममलं च विशुद्धतत्त्वं
ब्रह्मैव सत्यमिति निर्गुणमद्वितीयम् ॥ ६ ॥
प्रातर्भजामि शिवतत्त्वमजं पुराण-
माद्यन्तशून्यमभयं स्वपरप्रकाशम् ।
सर्वात्मकं सदसतोः परमार्थतत्त्वं
ब्रह्मैव सत्यमिति निर्गुणमद्वितीयम् ॥ ७ ॥
निर्गुणब्रह्मपरां प्रातःस्मृतिमिमां शुभाम् ।
प्रातरुत्थाय पठतां भवबन्धो विनश्यति ॥
इति निर्गुणब्रह्मस्मरणात्मकं स्तोत्रद्वयं
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्द-भगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादाचार्यविरचितम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें