NCERT Ruchira Class 8

 Chapter 2

कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म । सः कदाचित् इतस्ततः परिभ्रमन्क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततःसूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्- "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि" इति।

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नामक: शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्,- "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि? एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः "भो बिल भो बिल किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम् आकारयिष्यसि ? यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि इति। "

अथ एतच्छ्रुत्वा सिंहः अचिन्तयत्-"नूनमेषा गुहा स्वामिनः सदा समाह्वानं करोति। परन्तु मद्भयात् न किञ्चित् वदति।"

          अथवा साध्विदम् उच्यते-

 

                                                      भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।

                                                       प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।

तदहम् अस्य आह्वानं करोमि । एवं सः बिले प्रविश्य मे भोज्यं भविष्यति । इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। सिंहस्य उच्चगर्जनप्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्वयत् । अनेन अन्येऽपि पशवः भयभीता: अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत्-

                 अनागतं यः कुरुते स शोभते

                                        स शोच्यते यो न करोत्यनागतम् ।

              वनेऽत्र संस्थस्य समागता जरा

                                           विलस्य वाणी न कदापि मे श्रुता ।।

 

Chapter 3

अद्य सम्पूर्णविश्वे "डिजिटल इण्डिया" इत्यस्य चर्चा श्रूयते । अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते । प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म । अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् । परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखन प्रारब्धम्। टंकणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकलाय सुरक्षिता अतिष्ठत्। वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता । अद्य सर्वाणि कार्याणि सङ्गणकनामकेन यन्त्रेण साधितानि भवन्ति । समाचार-पत्राणि पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च । कर्मदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म परम् सङ्गणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षाया दिशि महान् उपकारो भविष्यति।

अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति । "डेबिट कार्ड", "क्रेडिट कार्ड" इत्यादयः सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तः । वित्तकोशस्य (बँकस्य) चापि सर्वाणि कार्याणि सङ्गणकयन्त्रेण सम्पाद्यन्ते । बहुविधा: अनुप्रयोगाः (APP) मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः सन्ति । कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे 'ई-मेल' इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्श्य वयं सौकर्येण यात्रायाः आनन्द गृहीम: । चिकित्सालयेऽपि उपचारार्थं रूप्यकाणाम् आवश्यकताद्य नानुभूयते । सर्वत्र कार्डमाध्यमेन ई-बैंकमाध्यमेन शुल्कं प्रदातुं शक्यते । तद्दिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः । वस्त्रपुटके रूप्यकाणाम् आवश्यकता भविष्यति । 'पासबुक' चैकबुक' इत्यनयोः आवश्यकता न भविष्यति पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति । लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा नूतनज्ञानान्वेषणार्थं शब्दकोशस्याऽपि आवश्यकता न भविष्यति। अपरिचितमार्गस्य ज्ञानार्थं मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति । एतत् सर्वं एकेनेव यन्त्रेण कर्तुं शक्यते । शाकादिक्रयार्थम्, फलक्रयार्थम् विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुं चिकित्सालये शुल्कं प्रदातुम् विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम् किं बहुना दानमपि दातुं चलदूरभाषयन्त्रमेव अलम् डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः ।

 

Chapter 5

आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविका निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रातःकाले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्. 'व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्। व्याघ्रः न्यवेदयत् भोः मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तहिं अहं त्वां न हनिष्यामि।' तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत् 'भो मानव! पिपासुः अहम् नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत् 'शान्ता मे पिपासा । साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां खादिष्यामि।' चञ्चलः उक्तवान्, 'अहं त्वत्कृते धर्मम् आचरितवान् । त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि ?

व्याघ्रः अवदत् 'अरे मूर्ख! क्षुधार्ताय किमपि अकार्यम् न भवति । सर्वः स्वार्थं समीहते'

चञ्चलः नदीजलम् अपृच्छत् । नदीजलम् अवदत्

'एवमेव भवति, जना: मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते वस्तुतः सर्वः स्वार्थं समीहते।

चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत् 'मानवाः अस्माकं छायायां विरमन्ति । अस्माकं फलानि खादन्ति पुनः कुठारः प्रहत्य अस्मभ्यं सर्वदा कष्टं ददति । यत्र कुत्रापि छेदनं कुर्वन्ति । सर्वः स्वार्थं समीहते।'

समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्तां शृणोति स्म। सा सहसा चञ्चलमुपसृत्य कथयति-"का वार्ता? माम् अपि विज्ञापय।" सः अवदत्-" अहह मातृस्वसः । अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणा: रक्षिताः परम् एषः मामेव खादितुम् इच्छति।"

तदनन्तरं सः लोमशिकाय निखिलां कथा न्यवेदयत्।

लोमशिका चञ्चलम् अकथयत् - बाढम् त्वं जालं प्रसारय। पुनः सा व्याघ्रम् अवदत्- केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्षं द्रष्टुमिच्छामि। व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत्। लोमशिका पुनः अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय सः तथैव समाचरत् । अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायं भूत्वा तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् सत्यं त्वया भणितम् 'सर्वः स्वार्थं समीहते।'

 

Chapter 6

शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति । सर्वे प्रसन्नमनसा तस्याः स्वागतं कुर्वन्ति परं तस्याः भ्रातृजाया सीना इव दृश्यते"  

शालिनी- भ्रातृजाये! चिन्तिता इव प्रतीयसे सर्व कुशलं खलु ?

 माला- आम् शालिनि। कुशलिने अहम् त्वदयं किम् आनपनि शीतलपेयं चायं वा ?

शालिनी- अधुना तु किमपि न वाञ्छामि। रात्रौ सर्वैः सह भोजनमेव करिष्यामि । उदा

 (भोजनकालेऽपि मालायाः मनोदशा स्वस्था न प्रतीयते स्म परं सा मुखेन किमपि नोक्तवती)

राकेश :- भगिनि शालिनि। दिष्ट्या त्वं समागता । अद्य मम कार्यालये एका महत्त्वपूर्णा गोष्ठी सहसैव निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धारितः त्वं मालया सह चिकित्सिका प्रति गच्छ तस्याः परामर्शानुसार यद्विधेयं तद् सम्पादय ।

शालिनी- किमभवत्? भ्रातृजायाया: स्वास्थ्यं समीचीन नास्ति? अहं तु ह्यः प्रभृति पश्यामि सा स्वस्था न प्रतिभाति इति प्रतीयते स्म ।

राकेश:- चिन्तायाः विषयः नास्ति । त्वं मालया सह गच्छ। मार्गे सा सर्वं ज्ञापयिष्यति।

 (माला शालिनी च चिकित्सिकां प्रति गच्छन्त्यौ वार्ता कुरुतः)

 शालिनी- किमभवत्? भ्रातृजाये! का समस्याऽस्ति ?

माला - शालिनि। अहं मासत्रयस्थ गर्भ स्वकुक्षी धारयामि तव भ्रातुः आग्रहः अस्ति यत् अहं लिङ्गपरीक्षणं कारयेयं कुक्षी कन्याऽस्ति चेत् गर्भ पातयेयम् । अहम् अतीव उद्विग्नाऽस्मि परं तव भ्राता वार्तामिव न शृणोति ।

शालिनी - भ्रातः एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा ? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती ? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति त्वम् तृष्णीम् तिष्ठसि ? अधुनैव गृहं चल, नास्ति आवश्यकता लिङ्गपरीक्षणस्य । भ्राता यदा गृहम् आगमिष्यति अहम् वार्तां करिष्ये।

(सन्ध्याकाले धाता आगच्छति हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति तदनन्तरं चायपानार्थम् सर्वेपि एकत्रिता: )

राकेश: माले! त्वं चिकित्सिकां प्रति गतवती आसीः किम् अकथयत् सा?

(माला मौनमेवाश्रयति तदैव क्रीडन्ती त्रिवर्षीया पुत्री अम्बिका पितुः क्रोडे उपविशति तस्मात् चाकलेहं च याचते । राकेशः अम्बिकां लालयति, चाकलेहं प्रदाय तां क्रोडात् अवतारयति । पुनः मालां प्रति प्रश्नवाचिकां दृष्टिं क्षिपति शालिनी एतत् सर्वं दृष्ट्वा उत्तरं ददाति)

शालिनी- भ्रातः ! त्वं किं ज्ञातुमिच्छसि ? तस्याः कुक्षि पुत्रः अस्ति पुत्री वा ? किमर्थम् ? पण्मासानन्तरं सर्व स्पष्टं भविष्यति, समयात् पूर्वं किमर्थम् अयम् आयासः ?

राकेश :- भगिनि त्वं तु जानासि एव अस्माकं अम्बिका पुत्रीरूपेण अस्त्येव अधुना एकस्य पुत्रस्य आवश्यकताऽस्ति तहिं........

शालिनी- तर्हि कुक्षि पुत्री अस्ति चेत् हन्तव्या ? (तीव्रस्वरेण) हत्यायाः पापं कर्तुं प्रवृत्तोऽसि त्वम् ।

राकेश :- न हत्या तु ..........

शालिनी - तर्हि किमस्ति निर्घृणं कृत्यमिदम्? सर्वथा विस्मृतवान् अस्माकं जनकः कदापि पुत्रीपुत्रयोः विभेदं न कृतवान्? सः सर्वदैव मनुस्मृतेः पंक्तिमिमाम् उद्धरति स्म "आत्मा वै जायते पुत्रः पुत्रेण दुहिता समा"। त्वमपि सायं प्रातः देवीस्तुतिं करोषि ? किमर्थं सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोषि ? तव मनसि इयती कुत्सिता वृत्तिः आगता, इदं चिन्तयित्वैव अहं कुण्ठिताऽस्मि । तव शिक्षा वृथा......

राकेश :- भगिनि ! विरम विरम। अहं स्वापराधं स्वीकरोमि लज्जितश्चास्मि । अद्यप्रभृति कदापि गर्हितमिदं कार्य स्वप्नेऽपि न चिन्तयिष्यामि । यथैव अम्बिका मम हृदयस्य सम्पूर्णस्नेहस्य अधिकारिणी अस्ति, तथैव आगन्ता शिशुः अपि स्नेहाधिकारी भविष्यति पुत्रः भवतु पुत्री वा । अहं स्वगर्हितचिन्तनं प्रति पश्चात्तापमग्नः अस्मि, अहं कथं विस्मृतवान्

                          "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।

                          यत्रैताः न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः । "

अथवा " पितुर्दशगुणा मातेति।" त्वया सन्मार्गः प्रदर्शितः भगिनि । कनिष्ठाऽपि त्वं मम गुरुरसि ।

शालिनी- अलं पश्चात्तापेन तव मनसः अन्धकारः अपगतः प्रसन्नतायाः विषयोऽयम् । भ्रातृजाये। आगच्छ सर्वा चिन्तां त्यज आगन्तुः शिशोः स्वागताय च सन्नद्धा भव। भ्रात: त्वमपि प्रतिज्ञां कुरु कन्यायाः रक्षणे, तस्याः पाठने दत्तचित्तः स्थास्यसि "पुत्री रक्ष पुत्रीं पाठ्य" इतिसर्वकारस्य घोषणेय तदेव सार्थिका भविष्यति यदा वयं सर्वे मिलित्वा चिन्तनमिदं यथार्थरूपं करिष्यामः

              या गार्गी श्रुतचिन्तने नृपनये पाञ्चालिका विक्रमे,

               लक्ष्मीः शत्रुविदारणे गगन विज्ञानाङ्गणे कल्पना ।

                                   इन्द्रोद्योगपथे च खेलजगति ख्याताभितः साइना,

                                   सेयं स्त्री सकलासु दिक्षु सबला सर्वैः सदोत्साह्यताम्॥

 

Chapter 8

के आसन् ते अज्ञातनामान: ?

शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः इमे एव तडागाः अत्र संसारसागराः इति । एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम् आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म । परं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्य एव परिवर्तितानि । अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म। एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतनः प्रविधिः विकसित:, तेन प्रविधिनाऽपि पूर्व सम्पादितम् एतत्कार्य मापयितुं न केनापि प्रयतितम्। अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्म निर्मातारोऽपि अशेषे देशे निवसन्ति स्म । गजधरः इति सुन्दरः शब्दः तडागनिर्मातॄणां सादरं स्मरणार्थम् । राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति । कः गजधरः ? यः गजपरिमाणं धारयति स गजधरः । गजपरिमाणम् एव मापनकार्ये उपयुज्यते । समाजे त्रिहस्त- परिमाणात्मिकी लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्य मापयेत् इत्यस्मिन् रूपे परिचितः ।

गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म । नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। ते योजना प्रस्तुवन्ति स्म. भाविव्ययम् आकलयन्ति स्म उपकरणभारान् सङ्ग्रह्णन्ति स्म। प्रतिदाने ते न तद् याचन्ते स्म यद् दातुं तेषा स्वामिनः असमर्थाः भवेयुः। कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म ।

नमः एतादृशेभ्यः शिल्पिभ्यः ।

 

Chapter 9

अध्यापिका -      सुप्रभातम्।

छात्रा:-             सुप्रभातम्। सुप्रभातम् ।

अध्यापिका-       भवतु । अद्य किं पठनीयम्?

छात्रा:-            वयं सर्वे स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।

अध्यापिका-      शोभनम् । वदत। अस्माकं देशे कति राज्यानि सन्ति?

सायरा-          चतुर्विंशतिः महोदये !

सिल्वी-         न हि न हि महाभागे ! पञ्चविंशतिः राज्यानि सन्ति ।

अध्यापिका-     अन्यः कोऽपि....?

स्वरा-         (मध्ये एव) महोदये! मे भगिनी कथयति यदस्माकं देशे नवविंशतिः राज्यानि सन्ति । एतदतिरिच्य सप्त

                केन्द्रशासित प्रदेशाः अपि सन्ति ।

अध्यापिका-    सम्यग्जानाति ते भगिनी । भवतु, अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायोऽस्ति यः

                   सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति ।

सर्वे-             (साश्चर्यम् परस्परं पश्यन्तः) सप्तभगिन्यः ? सप्तभगिन्यः ?

निकोलस :-     इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

अध्यापिका-  प्रयोगोऽयं प्रतीकात्मको वर्तते । कदाचित् सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना

                  प्रथितानि ।

समीक्षा-     कौतूहलं मे न खलु शान्तिं गच्छति श्रावयतु तावद् यत् कानि तानि राज्यानि ?

अध्यापिका- शृणुत! अद्वयं मत्रयं चैव न-त्रि-युक्तं तथा द्वयम् । सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।। इत्थं भगिनीसप्तके

                इमानि राज्यानि सन्ति- अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरम, मेघालय:, नगालैण्डः, त्रिपुरा चेति ।

                यद्यपि क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते तथापि गुणगौरवदृष्ट्या बृहत्तराणि प्रतीयन्ते ।

सर्वे-           कथम्? कथम्?

अध्यापिका-  इमाः सप्तभगिन्यः स्वीये प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः। न केनापि शासकेन इमाः स्वायत्तीकृताः।

                 अनेक संस्कृति - विशिष्टायां भारतभूमौ एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी इति ।

तन्वी-         अयं शब्दः सर्वप्रथमं कदा प्रयुक्तः ?

अध्यापिका-  श्रुतमधुरशब्दोऽयं सर्वप्रथमं विगतशताब्दस्य द्विसप्ततितमे वर्षे त्रिपुराराज्यस्योद्घाटनक्रमे केनापि प्रवर्तितः ।

                 अस्मिन्नेव काले एतेषां राज्यानां पुनः सङ्घटनं विहितम् ।

स्वरा-         अन्यत् किमपि वैशिष्ट्यमस्ति एतेषाम् ?

अध्यापिका- नूनम् अस्ति एव । पर्वत- वृक्ष - पुष्प- प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि ।

                भारतवृक्षे च पुष्प स्तवकसदृशानि विराजन्ते एतानि

राजीव:-      भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः

                 सप्तभगिन्यः सन्ति ।

अध्यापिका-  मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये

                 किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुत जनजातिबहुलप्रदेशोऽयम् । गारो खासी - नगा-

                मिजो-प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति। शरीरेण ऊर्जस्विनः एतत्प्रादेशिका: बहुभाषाभिः

                समन्विताः पर्वपरम्पराभिः परिपूरिताः, स्वलीला कलाभिश्च निष्णाताः सन्ति ।

मालती-      महोदये तत्र तु वंशवृक्षा अपि प्राप्यन्तं ?

अध्यापिका-   आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्त प्रायः

                 वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्य विद्यते। साम्प्रत वंशोद्योगोऽयं

                 अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति ।

अभिनवः-    भगिनीप्रदेशोऽयं बहाकर्षकः इति प्रतीयते।

सलीम:-      किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीनः ?

सर्वे छात्राः-  (उच्च) महोदये आणमिनि अवकाशे वयं तत्रैव गन्तुकामः।

स्वरा-         भवत्यपि अस्माभिः सार्द्धं चलतु ।

अध्यापिका-  रोचते मेऽयं विचारः एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि इति ।

 

Chapter 11

उपरि निर्मितं चित्रं पश्यत । इदं चित्रं कस्याश्चित् पाठशालायाः वर्तते । इयं सामान्या पाठशाला नास्ति । इयमस्ति महाराष्ट्रस्य प्रथमा कन्यापाठशाला । एका शिक्षिका गृहात् पुस्तकानि आदाय चलति । मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति । स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति । तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति । केयं महिला ? अपि यूयमिमां महिलां जानीथ? इयमेव महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले नामधेया ।

 

जनवरी मासस्य तृतीये दिवसे १८३१ तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव- नाम्नि स्थाने सावित्री अजायत । तस्याः माता लक्ष्मीबाई पिता च खण्डोजी इति अभिहितौ । नववर्षदेशीया सा ज्योतिबा फुले महोदयेन परिणीता । सोऽपि तदानों त्रयोदशवर्षकल्पः एव आसीत् । यतोहि सः स्त्रीशिक्षायाः प्रबल समर्थकः आसीत् अतः सावित्र्या मनसि स्थिता अध्ययनाभिलाषा उत्साह प्राप्तवती इतः परं सा साग्रहम् आङ्ग्लभाषाया अपि अध्ययनं कृतवती । १८४८ तमे ख्रिस्ताब्दे पुणेनगरे सावित्री ज्योतिवामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत । तदानीं सा केवल सप्तदशवर्षीया आसीत्। १८५१ तमे ख्रिस्ताब्दे अस्पृश्यत्वात् तिरस्कृतस्य समुदायस्य बालिकानां कृते पृथकृतया तया अपरः विद्यालयः प्रारब्धः।

सामाजिक कुरीतीनां सावित्री मुखरं विरोधम् अकरोत् । विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता । फलतः केचन नापिताः अस्यां रूढी सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म । उच्चवर्गीयाः उपहासं कुर्वन्त्यः कूपात् जलोद्धरणम् अवारयन् । सावित्री एतत् अपमानं सोढुं नाशक्नोत् । सा ताः स्त्रियः निजक्षेत्रं नीतवती। तत्र तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत । सार्वजनिकोऽयं तडागः । अस्मात् जलग्रहणे नास्ति जातिवन्धनम् । तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा सर्वथा समर्थितः ।

'महिला सेवामण्डल' 'शिशुहत्याप्रतिबन्धकगृहम्' इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम् । सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव सक्रिया आसीत् । अस्य मण्डलस्य उद्देश्यम् आसीत् उत्पीडितानां समुदायानां स्वाधि कारान् प्रति जागरणम् इति ।

सावित्री अनेकाः संस्था: प्रशासनकौशलेन सञ्चालितवती । दुर्भिक्षकाले प्लेग-काले चसा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्। सहायता सामग्री व्यवस्थायै सर्वथा प्रयासम् अकरोत् । महारोगप्रसारकाले सेवारता सा स्वयम् असाध्यरोगेण ग्रस्ता १८९७ तमे ख्रिस्ताब्दे दिवङ्गता ।

साहित्यरचनया अपि सावित्री महीयते। तस्याः काव्यसङ्कलनद्वयं वर्तते 'काव्यफुले' 'सुवोधरत्नाकर' चेति । भारतदेशे महिलोत्थानस्य गहनावबोधाय सावित्रीमहोदयायाः जीवनचरितम् अवश्यम् अध्येतव्यम् ।

 

Chapter 12

पूर्वदिशायाम् उदेति सूर्यः पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके । परं न अनेन अवबोध्यमस्ति यत्सूर्योो गतिशील इति । सूर्योऽचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापितः सिद्धान्तः । सिद्धान्तोऽयं प्राथम्येन येन प्रवर्तितः, स आसीत् महान् गणितज्ञः ज्योतिर्विच्च आर्यभटः । पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः तेन प्रत्यादिष्टा । तेन उदाहतं यद् गतिशीलायां नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति, अन्यान् च पदार्थान् गतिशीलान् अवगच्छति । एवमेव गतिशीलायां पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिरामनुभवति सूर्यादिग्रहान् च गतिशीलान् वेति ।

476 तमे ख्रिस्ताब्दे (पट्सप्तत्यधिकचतुःशततमे वर्षे) आर्यभटः जन्म लब्धवानिति तेनैव विरचिते 'आर्यभटीयम्' इत्यस्मिन् ग्रन्थे उल्लिखितम् । ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः । ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत् । अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

आर्यभटस्य योगदानं गणितज्योतिषा सम्बद्धं वर्तते यत्र संख्यानाम् आकलन महत्त्वम् आदधाति । आर्यभटः फलितज्योतिषशास्त्रे न विश्वसिति स्म । गणितीयपद्धत्या कृतम् आकलनमाधृत्य एव तेन प्रतिपादितं यद् ग्रहणे राहु केतुनामकौ दानवी नास्ति कारणम्। तत्र तु सूर्यचन्द्रपृथिवी इति त्रीणि एव कारणानि। सूर्य परित: भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति । यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति । तथैव पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।

समाजे नूतनानां विचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति । भारतीयज्योतिःशास्त्रे तथैव आर्यभटस्यापि विरोधः अभवत् । तस्य सिद्धान्ताः उपेक्षिताः । स पण्डितम्मन्यानाम् उपहासपात्रं जातः। पुनरपि तस्य दृष्टिः कालातिगामिनी दृष्टा । आधुनिकैः वैज्ञानिकैः तस्मिन् तस्य च सिद्धान्ते समादरः प्रकटितः । अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम् ।

वस्तुतः भारतीयायाः गणितपरम्परायाः अथ च विज्ञानपरम्परायाः असौ एकः शिखरपुरुषः आसीत्।

Share:

NCERT Ruchira Class 7

 Chapter 2

अस्ति मगधदेशे फुल्लोत्पलनाम सरः । तत्र संकटविकटौ हंसौ निवसतः। कम्बुग्रीवनामकः तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।

अथ एकदा धीवराः तत्र आगच्छन् । ते अकथयन् -"वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः । " एतत् श्रुत्वा कूर्मः अवदत् - "मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता ? अधुना किम् अहं करोमि?" हंसौ अवदताम् "प्रातः यद् उचितं तत्कर्त्तव्यम् । " कूर्मः अवदत्- "मैवम्। तद् यथाऽहम् अन्यं हृदं गच्छामि तथा कुरुतम्।" हंसौ अवदताम्-"आवां किं करवाव?" कूर्मः अवदत्-" अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।

हंसौ अवदताम्-" अत्र कः उपायः ?" कच्छपः वदति - "युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।हंसौ अकथयताम्- "सम्भवति एषः उपायः । किन्तु अत्र एक: अपायोऽपि वर्तते । आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव । यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।" तत्   श्रुत्वा क्रुद्धः कूर्मः अवदत् "किमहं मूर्ख: ? उत्तरं न दास्यामि । किञ्चिदपि न वदिष्यामि।" अतः अह यथा वदामि तथा युवा कुरुतम् ।

एवं काष्ठदण्डे लम्बमानं कूर्मं पौराः अपश्यन्। पश्चाद् अधावन् अवदन् च- "हहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।" कश्चिद् वदति- "यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि। "अपरः अवदत्" सरस्तीरे दग्ध्वा खादिष्यामि"। अन्यः अकथयत्- "गृहं नीत्वा भक्षयिष्यामि" इति। तेषां तद् वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः अवदत्-"यूयं भस्म खादत।" तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। पौरैः सः मारितः। अत एवोक्तम्

सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।

स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति॥

 

Chapter 3

कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम् । श्रीकण्ठस्य पिता समृद्धः आसीत् । अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन् । तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन् । तस्य अष्टादश-प्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि पट्त्रिंशत् विद्युत् व्यजनानि च आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म । परं कृष्णमूर्ते: माता पिता च निर्धनौ कृपकदम्पती । तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।

एकदा श्रीकण्ठः तेन सह प्रातः नववादने तस्य गृहम् अगच्छत् । तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतत् दृष्ट्वा श्रीकण्ठः अकथयत्- "मित्र! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति मम सत्काराय भवतां कष्ट जातम्। मम गृहे तु बहवः कर्मकराः सन्ति।" तदा कृष्णमूर्तिः अवदत्-" मित्र ! ममापि अष्टी कर्मकराः सन्ति। ते च ही पादा, हस्तौ द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायकाः । किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः भवितुं न शक्नुवन्तु त्याधीनः यदा यदा ते अनुपस्थित तदा तदा त्वं कष्टम् अनुभवसि । स्वावलम्बने तु सर्वदा सुखमेव न कदापि कष्टं भवति।

" श्रीकण्ठः अवदत्-" मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नताजाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि।" भवतु.सार्धंद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि।

 

Chapter 5

स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रमाबाई 1858 तमे खिष्टान्दे जन्म अलभत। तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम् । तस्मिन् काले स्त्रीशिक्षायाः स्थितिः चिन्तनीया आसीत् । स्त्रीणां कृते संस्कृतशिक्षण प्रायः प्रचलित नासीत्। किन्तु डोंगरे रुविद्धा धारणा परित्यज्य स्वपत्नी संस्कृतमध्यापयत्। एतदर्थं स समाजस्य प्रतारणाम् अपि असहत। अनन्तर रमा अपि स्वमातुः संस्कृतशिक्षा प्राप्तवती।

कालक्रमेण रमायाः पिता विपत्रः सञ्जातः। तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः। तदनन्तररमा स्व-ज्येष्ठात्रा सह पद्भ्यां समग्र भारतम् अभ्रमत्। भ्रमणक्रमे सा कोलकाता प्राप्ता संस्कृतदुष्येण सा तत्र 'पण्डिता' 'सरस्वती' चेति उपाधिभ्यां विभूषिता। तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्। पश्चात् सा स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलन प्रारम्भवती।

1880 तमे ख्रिष्टयदे सा विपिनविहारीदासेन सह बाकीपुर न्यायालये विवाहम् अकरोत्। साधकवर्षात् अनन्तर तस्याः पतिः दिवङ्गतः।

तदनन्तरं सा पुत्र्या मनोरमया सह जन्मभूमि महाराष्ट्र प्रत्यागच्छत्। नारीणा सम्मानाय शिक्षायै च सा स्वकीय जीवनम् अर्पितवती। हण्टर शिक्षा आयोगस्य समक्ष नागेशविषये सास्वमतं प्रस्तुत सा उच्चशिक्षा इग्लैण्डदेश गयो। तंत्र ईसाईधर्मस्य स्त्रीविषयक उनमविचार प्रभाविता जाता।

इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् । तत्र सा भारतस्य विधवास्त्रीणां सहायतार्थम् अर्थसञ्चयम् अकरोत्। भारतं प्रत्यागत्य मुम्बईनगरे सा 'शारदा सदनम्' अस्थापयत् । अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म। तत्र स्त्रियः मुद्रण- टङ्कण- काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्म परम् इदं सदनं पुणेनगरे स्थानान्तरितं जातम्। ततः पुणेनगरस्य समीपे केडगाँव स्थाने 'मुक्तिमिशन' नाम संस्थानं तया स्थापितम्। अत्र अधुना अपि निराश्रिताः स्त्रियः ससम्मान जीवन यापयन्ति ।

1922 तमं खिष्टाब्दे रमाबाई महोदयायाः निधनम् अभवत्। सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्। समाजसेवायाः अतिरिक्त लेखनक्षेत्रे अपि तस्याः महत्त्वपूर्णम् अवदानम् अस्ति। 'स्त्रीधर्मनीति' 'हाई कास्ट हिन्दू विमेन' इति तस्याः प्रसिद्ध रचनाद्वयं वर्तते।

 

Chapter 7

(पार्वती शिवं पतिरूपेण अवाञ्छत्। एतदर्थं सा तपस्यां कर्तुम् ऐच्छत्। सा स्वकीयं मनोरथं मात्रे न्यवेदयत्। तत् श्रुत्वा माता मेना चिन्ताकुला अभवत्।)

 

मेना -        वत्से ! मनीषिताः देवताः गृहे एव सन्ति। तपः कठिनं भवति । तव शरीर सुकोमलं वर्तते। गृहे एव वस। अत्रैव   

               तवाभिलाषः सफलः भविष्यति।

पार्वती-      अम्ब! तादृश: अभिलापः तु तपसा एव पूर्णः भविष्यति । अन्यथा तादृशं पति कथं प्राप्स्यामि। अहं तपः एवं  

                चरिष्यामि इति मम सङ्कल्पः।

मेना -         पुत्रि त्वमेव में जोवनाभिलाषः।

पार्वती-        सत्यम् परं मम मनः लक्ष्य प्राप्तुम् आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव

                  विजयया साकं गौरीशिखरं गच्छामि।

                            (ततः पार्वती निष्क्रामति)

                (पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म। कदाचिद् रात्रौ स्थण्डिले, कदाचिच्च शिलायां स्वपिति

                 स्म। एकदा विजया अवदत् ।)

विजया-       सखि तपःप्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः । पञ्चाग्नि-व्रतमपि त्वम् अतपः पुनरपि तव अभिलाषः

                 न पूर्णः अभवत्।

पार्वती-        अयि विजये। किं न जानासि ? मनस्वी कदापि धैर्य न परित्यजति। अपि च मनोरथानाम् अगतिः नास्ति।

विजया-        त्वं वेदम् अधीतवती । यज्ञ सम्पादितवती । तपः कारणात् जगति तव प्रसिद्धिः। 'अपर्णा' इति नाम्ना अपि त्वं         

                  प्रथिता। पुनरपि तपसः फलं नैव दृश्यते।

पार्वती -      अयि आतुरहृदये ! कथं त्वं चिन्तिता | (नेपथ्ये- अयि भो! अहम् आश्रमवटुः। जलं वाञ्छामि।) (ससम्भ्रमम्)  

                 विजये! पश्य कोऽपि वटुः आगतोऽस्ति । (विजया झटिति अगच्छत्, सहसैव वटुरूपधारी शिवः तत्र प्राविशत् )

 विजया-    वटो! स्वागतं ते। उपविशतु भवान् । इयं मे सखी पार्वती। शिवं प्राप्तुम् अत्र तपः करोति ।

वटुः-           हे तपस्विनि ! किं क्रियार्थं पूजोपकरणं वर्तते स्नानार्थ जलं सुलभम्. भोजनार्थ फलं वर्तते? त्वं तु जानासि एव

               शरीरमाद्यं खलु धर्मसाधनम्।

                        (पार्वती तूष्णीं तिष्ठति)

वटुः -        हे तपस्विनि ! किमर्थं तपः तपसि ? शिवाय ?

               (पार्वती पुनः तूष्णीं तिष्ठति )

विजया-    (आकुलीभूय) आम्. तस्मै एव तपः तपति । विजया

              (वटुरूपधारी शिवः सहसैव उच्चैः उपहसति)

वटुः -        अयि पार्वति ! सत्यमेव त्वं शिवं पतिम् इच्छसि ? (उपहसन्) नाम्ना शिवः अन्यथा अशिवः । श्मशाने वसति ।  

               यस्य त्रीणि नेत्राणि, वसनं व्याघ्रचर्म अङ्गरागः चिताभस्म, परिजनाश्च भूतगणाः। किं तमेव शिव पतिम्  

               इच्छसि ?

पार्वती -     (क्रुद्धा सती) अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थ स्वरूपं जानाति। यथा त्वमसि तथैव वदसि  

               (विजयां प्रति) सखि चल। यः निन्दां करोति सः तु पापभाग् भवति

               एव यः शृणोति सोऽपि पापभाग् भवति।

               (पार्वती द्रुतगत्या निष्क्रामति । तदेव पृष्ठतः वटो: रूपं परित्यज्य शिवः तस्याः

               हस्तं गृहाति। पार्वती लज्जया कम्पते)

शिव-       पार्वति ! प्रीतोऽस्मि तव सङ्कल्पेन । अद्यप्रभृति अहं तव तपोभिः

              क्रीतदासोऽस्मि ।

                  (विनतानना पार्वती विहसति)

 

Chapter 8

(केचन बालकाः काश्चन बालिकाश्च स्वतन्त्रता दिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्तः परस्परं संलपन्ति ।)

देवेशः-    अद्य स्वतन्त्रता दिवसः । अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान्

             प्रस्तोष्यन्ति । अन्ते च मोदकानि मिलिष्यन्ति ।

डेविड :-    शुभे जानासि त्वम्? अस्माकं ध्वजः कीदृश: ?

शुचिः-       अस्माकं देशस्य ध्वजः त्रिवर्णः इति।

सलीम -    रुचे! अयं त्रिवर्णः कथम्?

शुचिः-       अस्मिन् ध्वजे त्रयः वर्णाः सन्ति, अतः त्रिवर्णः। किं त्वम् एतेषां वर्णाना नामानि जानासि ?

सलीमः-     अरे केशरवर्णः श्वेतः हरित: च एते पः वर्णाः

देवेशः-      अस्माकं ध्वजे एवं त्रयः वर्णाः किं सूचयन्ति ?

सलीमः-     शृणु. केशरवर्णः शीर्षस्य श्वेतः सत्यस्य हरितश्च समृद्ध सूचका सन्ति।

शुचिः -       किम् एतं वर्णानाम् अन्यदपि महत्त्वम्?

डेविड :-        आम्! कथं न? ध्वजस्य उपरि स्थितः केशरवर्णः त्यागस्य उत्साहस्य सूचकः मध्ये स्थितः श्वेतवर्णः        

               सत्विकतायाः शुचितायाः च द्योतकः। अधः स्थितः हरितवर्ण: वसुन्धरायाः सुपमायाः उर्वरतायाश्च द्योतकः ।

तेजिन्दरः-   शुचे! ध्वजस्य मध्ये एकं नीलवर्ण चक्रं वर्तते ?

शुचिः -     आम् आम्। इदम् अशोकचक्रं कथ्यते । एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति ।     

              तस्मात् एव एतत् गृहीतम् ।

 प्रणव:-     अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।

 मेरी-        भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम् ?

तेजिन्दरः -   अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः । अत एवं स्वतन्त्रतादिवसे गणतन्त्रदिवसे च      

                 अस्य ध्वजस्य उत्तोलन समारोहपूर्वक भवति।

                                            जयतु त्रिवर्णः ध्वजः जयतु भारतम् ।

 

Chapter 9

 

मालिनी-     (प्रतिवेशिनीं प्रति) गिरिजे! मम पुत्रः मातुलगृहं प्रति प्रस्थितः काचिद् अन्य कामपि महिलां कार्यार्थ जानासि

                तर्हि प्रेषय।

गिरिजा-    आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायाः कृते कर्मार्थं पृच्छति स्म । श्वः प्रातः एव तया सह वार्तां     

               करिष्यामि।(अग्रिमदिने प्रातः काले पट्वादने एव मालिन्या: गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी   

              द्वारमुद्घाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय बालिका तिष्ठति)

दर्शना -      महोदय! भवती कार्यार्थ गिरिजामहोदयां पृच्छति स्म कृपया मम सुतार्थ अवसर प्रदाय अनुगृहातु भवती ।

 मालिनी-   परमेषा तु अल्पवयस्का प्रतीयते। कि कार्य करिष्यत्येषा? अयं तु अस्याः अध्ययनस्य कोडनस्य च कालः।

दर्शना-   एषा एकस्य गृहस्य संपूर्ण कार्य करोति स्म । सः परिवारः अधुना विदेशं प्रति प्रस्थितः कार्याभावं

               अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्य प्रचलेत् अस्मद्सदृशानां गृहसञ्चालनाय    

              च धनस्य व्यवस्था भवेत्।

मालिनी -        परमेतत्तु सर्वथाऽनुचितम् । किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां  

                          च मौलिक अधिकारः ।

दर्शना-       महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूर्ति रेवास्ति । एतस्य  

                   व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-पड्गृहाणां कार्य करोमि मम रुग्णः पतिः तु किञ्चिदपि

                 कार्य न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषण कुर्वः अस्मिन्

                 महार्थताकाले मूलभूतावश्यकताना कृते एवं धनं पयाप्त न भवति तर्हि कथं विद्यालयशुल्कं

                गणवेष पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि ।

मालिनी-  अहो! अज्ञानं भवत्याः। किं न जानासि यत् नवोत्तर द्वि-सहस्र (2009) तमे वर्षे सर्वकारेण सर्वेषां

               बालकानां सर्वासां बालानां कृते शिक्षायाः मीलिकाधिकारस्य घोषणा कृता । यदनुसारं षड्वर्षभ्यः

               आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थ सर्वकारीयं विद्यालयं प्राप्य न केवल निःशुल्क

              शिक्षा प्रस्यति अपितु निःशुल्क पुस्तका पुस्तकस्यूतम्, पदम् माध्यानम् छात्रवृत्तिम् इत्यादिकं  

              सर्वमेव प्राप्स्यन्ति।

दर्शना - अप्येवम् (आश्चर्येण मालिनी पश्यति)

मालिनी- आम्। वस्तुतः एवमेवा

दर्शना -    (कृतार्थता प्रकटयन्ती) अनुगृहीताऽस्मि महोदय! एतद् बोधनाय अहम् अद्यैवास्याः प्रवेश

              समीपस्थे विद्यालये कारयिष्यामि। दर्शनाया: पुत्री (उल्लासेन सह) अहं विद्यालयं गमिष्यामि।

              अहमपि पठिष्यामि (इत्युक्त्या करतलवादनसहित नृत्यति मालिनों प्रति च कृतज्ञता ज्ञापयति)

 

 

Chapter 10

उत्सवे, व्यसने, दुर्भिक्षे राष्ट्रविप्लवे, दैनन्दिनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति ।

परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति । अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभाव प्रदर्शयन्ति तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति । संसारे सर्वत्र विद्वेषस्य शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति ।

इयम् महती आवश्यकता वर्तते यत् एकः देश: अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्। विश्वस्य जनेषु इयं भावना आवश्यकी । ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था स्पर्धा भविष्यति। सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धि प्राप्तुं समर्थाः भविष्यन्ति।

सूर्यस्य चन्द्रस्य च प्रकाश: सर्वत्र समानरूपेण प्रसरति । प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति तत् अस्माभिः सर्वैः परस्पर वैरभावम् अपाय विश्वबन्धुत्वं स्थापनीयम्।

अतः विश्वस्य कल्याणाय एतादृशी भावना भवेत् -

                                         अयं निजः परो वेति गणना लघुचेतसाम् ।

                                          उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

 

Chapter 11

पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखा शुण्डेन अत्रोटयत् । चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशोणांनि । अथ सा चटका व्यलपत्। तस्याः विलाप श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्-"भद्रे, किमर्थं विलपसि?" इति।

चटकावदत्-"दुष्टेनकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य नैव मम दुःखम् अपसरेत्।" ततः काष्ठकूटः तां वीणारया नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वाती श्रुत्वा मक्षिकावदत्-"ममापि मित्र मण्डूकः मेघनादः अस्ति। शीघ्र तमुपेत्य यथोचित करिष्यामः।" तदानी तौ मक्षिकया सह गत्या मेघनादस्य पुरः सबै वृत्तान्तं न्यवेदयताम्।

मेघनादः अवदत्- "यथाह कथयामि तथा कुरुतम्। मक्षिके प्रथमं त्वं मध्याहे तस्य गजस्य कर्णे शब्द कुरु, येन सः नयने निमील्य स्थास्यति। तदा काष्ठकूटः चच्चा तस्य नयनं स्फोटयिष्यति। एवं सः गजः अन्यः भविष्यति। तृषार्तः सः जलाशयं गमिष्यति। मार्ग महान् गर्नः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि मम शब्देन तं गतं जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।" अथ तथा कृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्                     

                                                  'बहूनामप्यसाराणां समवायो हि दुर्जयः ।

 

Chapter 13

विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति । भाषेयं अनेकापां भाषाणां जननी मता । प्राचीनयोः ज्ञानविज्ञानयोः निधिः अस्यां सुरक्षितः। संस्कृतस्य महत्त्वविषये केनापि कथितम् 'भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा ।

इयं भाषा अतीव वैज्ञानिकी । केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा । अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति । कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम् । कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति । गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभटः अकरोत् । चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्र, रसायनशास्त्र, खगोलविज्ञानं ज्योतिषशास्त्र, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि ।

संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति यथा - सत्यमेव जयते, वसुधैव कुटुम्बकम् विद्ययाऽमृतमश्नुते, योगः कर्मसु कौशलम् इत्यादयः । सर्वभूतेषु आत्मवत् व्यवहार कर्तुं संस्कृतभाषा सम्यक शिक्षयति ।

कंचन कथयन्ति यत् संस्कृतभाषायां केवल धार्मिक साहित्यम् वर्तते एषा धारणा समीचीना नास्ति। संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति। महापुरुषाणा मति:, उत्तमजनानां धृतिः सामान्यजनानां जीवनपद्धतिः च वर्णिताः सन्ति । अतः अस्माभिः संस्कृतम् अवश्यमेव पठनीयम्। तेन मनुष्यस्य समाजस्य च परिष्कारः उक्तञ्च-

                                         अमृतं संस्कृत मित्र! सरसं सरलं वचः।

                                          भाषासु महनीयं यद् ज्ञानविज्ञानपोषकम् ॥

 

 

Chapter 14

बालिकायाः अनारिकायाः मनसि सर्वदा महती जिज्ञासा भवति । अतः सा बहून् प्रश्नान् पृच्छति। तस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति ।

प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत् । भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति । सा चिन्तयति किमर्थम् इयं सज्जा ? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति । सः अत्र किमर्थम् आगमिष्यति इति विषयं तस्याः जिज्ञासा: प्रारब्धा: । गृहम् आगत्य सा पितरम् अपृच्छत्- "पितः ! मन्त्री किमर्थम् आगच्छति?" पिता अवदत्-"पुत्रि ! नद्या: उपरि नवीनः सेतुः निर्मितः । तस्य उद्घाटनार्थ मन्त्री आगच्छति।" अनारिका पुनः अपृच्छत् "पितः । किं मन्त्री सेतोः निर्माणम् अकरोत् ?" पिता अकथयत् " न हि पुत्रि ! सेतोः निर्माण कर्मकराः अकुर्वन् ।" पुनः अनारिकायाः प्रश्नः आसीत् यदि कर्मकराः सेतोः निर्माणम् अकुर्वन्, तदा मन्त्री किमर्थम् आगच्छति ?" पिता अवदत् यतो हि सः अस्माकं देशस्य मन्त्री ।" "पितः। सेतो: निर्माणाय प्रस्तराणि कतः आयान्ति? किं तानि मन्त्री ददाति?"

विरक्तभावेन पिता उदतरत्-"अनारिके । प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति । " "पितः तर्हि किम् एतदर्थं मन्त्री धनं ददाति? तस्य पार्श्वे धनानि कुतः आगच्छन्ति?" एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-"अरे! प्रजाः धनं प्रयच्छन्ति।" विस्मिता अनारिका पुनः अपृच्छत्-"पितः कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति ते एव सेतुं निमन्ति । प्रजाः धनं ददति । तथापि सेतोः उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति ?"

पिता अवदत्-"प्रथममेव अहम् अकथयम् यत् सः देशस्य मन्त्री अस्ति। स जनप्रतिनिधिः अपि अस्ति। जनतायाः धनेन निर्मितस्य सेतो: उद्घाटनाय जनप्रतिनिधिः आमन्त्रित भवति। चल सुसज्जिता भूत्वा विद्यालय चला" अनारिकायाः मनसि इतोऽपि बहवः प्रश्नाः सन्ति।

Share:

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)