कृत्यसारसमुच्चयः

अथ चैत्रकृत्यम्

तत्र वारुण्यादिनिर्णयः । मासेषु चैत्रस्य प्राथम्यादादौ चैत्रकृत्यमित्येव निरूप्यते । अथ चैत्रकृष्णत्रयोदशी शतभिषायुक्ता वारुणी वरुणदेवता शतभिषानक्षत्रयोगात् । अत्र गङ्गास्नाने फलमाह स्कान्दे-

वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।

गङ्गायां यदि लभ्येत शतसूर्यग्रहैः समा ॥ इति

शतभिषायुक्ता सा त्रयोदशी महावारुणीतथाहि स्कान्दे-

शनिवारसमायुक्ता  सा महावारुणी स्मृता ।

गङ्गायां यदि लभ्येत कोटिसूर्यग्रहैः समा ॥

 

सा चैत्रकृष्ण त्रयोदशी शतभिषायुक्ताशतभिषाशुभयोगशनिवारयोगे महामहावारुणी । तदुक्तं स्कान्दे-

शुभयोगसमायुक्ता शनी शतभिषा यदि ।

महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ।। इति

कुलं पुरुष इति याज्ञवल्क्यदीपकलिकाचैत्र कृष्णत्रयोदश्यामेवेतादृशयोगे महामहावारुणीतितस्या उपक्रम एवैतल्लेखनात् । अत्र योगत्रये गङ्गायामेव फलमन्यत्राः इति तिथितत्वचिन्तामणौ महेशठक्कुराः । अत्र रात्रौ वारुण्यादिस्नानं न कर्त्तव्यम्राहुदर्शनादिप्रतिप्रसूतेतर सर्व-कर्मणि पर्युदस्तत्यादाचार्यचूडामणिः । श्रन्ये तु महाफलश्रुते रात्रावपि स्नानङ्कर्तव्यमेव ।

महानिशा तु विज्ञेया मध्यभं प्रहरद्वयम् ।

तस्यां स्नानं न काम्यनैमित्तिकादृते ॥ इति देवलोक्तेः । एतद्योगत्रये स्त्रिया अपि स्नानं कर्तव्यमेव । न च-

'स्नानं कुवन्ति या नार्यश्चन्द्रे शतभिषाङ्गते ।

सप्त जन्म भवेयुस्ता दुर्भगा विधवा ध्रुवम् ॥ इति प्रचेतोवचनात्तन्निषेध इति वाच्यम्तस्या रागप्रातस्नानविषयत्वेनैव महेशठक्कुरादिनिबन्धकृद्भिर्व्याख्यातत्वात् । चैत्रशुक्लप्रतिपद् देवीपूजादौ परयुतैव ग्राह्या तच्चाश्विनकृत्ये वक्ष्यते ।

चैत्र शुक्लाष्टभ्यां ब्रह्मपुत्रस्नानम् । तथा हि स्कान्दे-

चैत्रे मासि सिताष्टभ्यां यो नरो नियतेन्द्रियः ।

स्नायाल्लौहित्यतोयेषु स याति ब्रह्मणः पदम् ।।

लौहित्यो ब्रह्मपुत्रः । तत्र सङ्कल्पः । ओमद्येत्यादि सर्वपापक्षयपूर्वकब्रह्पदगमनकामो ब्रह्मपुत्रस्नानमहङ्करिष्ये इति ।

ॐ ब्रह्मपुत्र ? महाभाग ? शन्तनोः कुलसम्भव ? 

अमोघागर्भसम्भत ? पापं लोहित्य ? मे हर ।

इति पठित्वा स्नायात् । अत्राशोककलिकापानंतन्मन्त्रो यथा-

'वामशोककराभीष्टं मधुमाससमुद्भव !

पिबामि शोकसन्तप्तो मामशोकं सदा कुरु।।

इति तिथितत्त्वचिन्तामणौ ठक्कुराः । तत्र सम्पूर्णचैत्रस्नाने-

चैत्रं तु सकलं मासं शुचिः प्रयतमानसः ।

लौहित्यतोये यः स्नायात्स कैवल्यमवाप्नुयात् ॥

ओमद्येत्यादि कैवल्यप्राप्तिकामश्चैत्रमासं व्याप्य ब्रह्मपुत्रस्नानमहङ्करिष्ये इति तत्र सङ्कल्पः ॥

अथ रामनवमी —–चैत्रशुक्लनवम्यां रामपूजातद्व्रतं च ब्रह्मपुराणे-

कृत्वैव ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् ।

बहुना किमिहोक्तेन मुक्तिस्तस्य करे स्थिता ॥

तस्य रामपूजाव्रतकर्त्तुः । अकरणे दोषमाह स्मृतिः-

यस्तु रामनवम्यां वै मोहाद्भुङ्क्ते नराधमः ।

कुम्भीपाकेपु घोरेषु पच्यते नात्र संशयः ॥

इयं च नवमी मध्याह्वव्यापिनी ग्राह्यातत्र स्मृतिः-

चैत्रशुक्ला तु नवमी पुनर्वसुयुता यदि ।

सेव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥

उभयदिने मध्याह्नयोगे परैव ग्राह्या । अष्टमीविद्धा सनक्षत्राऽपि नोपोष्येति माधवः । । गौडास्तु-

'नवमी चाष्टमी विद्धा त्याज्या विष्णुपरायणैः। इति वचनाद्व्यवस्थापयन्ति । स्कान्दे-

जनकस्य महर्षेस्तु कूपः परमधार्मिकः ।

तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते ॥ इति

 

अथ वैशाखकृत्यम्

ब्रह्मपुराणे - एकभुक्तमथो नक्तमयाचितमतन्द्रितः ।

माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ॥

स्कान्दे- प्रपा कार्या च वैशाखे देवे दद्या गलन्तिका ।

उपानद्वयजनं छत्रं सूक्ष्मवासांसि चन्दनम् ॥

जलपात्राणि देयानि तथा पुष्पगृहाणि च ।

पावकाणि च चित्राणि द्राक्षारम्भा फलान्यपि ॥

तिथितत्त्वे- ददाति यो हि मेषादौ सक्तूनम्बुघटान्वितान् ।

पितॄनुद्दिश्य विप्रेभ्यः सर्वपापैर्विमुच्यते ॥

तथा - वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने ।

ददाति सुरराजेन्द्र ! स याति परमाङ्गतिम् ॥

मेषादौ सक्तवो देया वारिपूर्णा च गर्गरी । इति

तथात्र त्यात्यानाह -

कांस्यम्मांसं मसूरान्नं चणकोङ्कद्रवन्तथा ।

शाकम्मधु परान्नं च पुनर्भोजनमैथुने ॥

अत्र वारिपूर्णघटदानविधिः । ॐ वारिपूर्णघटाय नमः । ३ । कुशोपरि ॐ ब्राह्मणाय नमः । ३ । घटं सिक्त्वा ओमद्येत्यादि मेषार्कसंक्रमणप्रयुक्त- पुण्याहे पुण्यकाले वा अमुकगोत्रस्य श्री अमुकशर्मणो मम स्वर्गकामो मेषार्कं व्याप्य प्रत्यहं घटपरिमितजलं वरुणदैवतं यथानामगोत्राय ब्राह्मणायाऽहं ददे ।

ततो दक्षिणां दत्वा पठेत् ।

एष धर्मघटो नित्यं ब्रह्मविष्णुशिवात्मकः ।

अस्य प्रसादात्सफला मम सन्तु मनोरथाः ॥ इति ॥

अथ अक्षयतृतीया । वैशाखशुक्लतृतीया अक्षयतृतीयासा चतुर्थीयुक्ता ग्राह्यातथाहि पक्षधरीयतिथिचन्द्रिकायां गोभिल:-

'वैशाखस्य तृतीयां तु पूर्वविद्धाङ्करोति यः ।

हव्यन्देवा न गृह्णन्ति कव्यश्च पितरस्तथा।।

ब्रह्मवैवर्ते - रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम ? 

अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ।। इति ।

गणयुक्ता चतुर्थीयुक्ताचतुर्थी युताया अलाभे तु द्वितीयायुताऽपि ग्राह्या ।

एकादशी तृतीया च पष्ठी चैव त्रयोदशी ।

पूर्वविद्धाऽपि कर्तव्या यदि न स्यात् परेऽहनि ॥

इति ब्रह्मवैवर्तात् । इयं युगादिःतत्र श्राद्धकरणे फलमाह मात्स्ये-

कृतं श्राद्धविधानेन मन्वादिषु युगादिषु ।

हायनादिद्विसाहस्रं पितॄणां तृप्तिदम्भवेत् ॥

अत्र श्राद्धं पूर्वाह्ण एव कर्तव्यमिति शूलपाणिः । अयमेव मैथिलस्मार्तपक्ष इति ठक्कुराः । एतत्तृतीयामभिधाय ब्रह्मपुराणे-

तस्यां कार्यो यवैर्यज्ञो यवैर्विष्णुं प्रपूजयेत् ।

यवान्दद्याद् द्विजातिभ्यः प्रयतः प्राशयेद्यवान् ॥

पूजादि विधायातिशयिताक्षययवदानजन्यफलप्राप्तिकामनया यवान्दद्यात् । तद्वाक्यमेतत्फलानुसारेणोह्यं ( करणीयम् ) । द्रव्यान्तरदानेऽपि अक्षयफलप्राप्तिकामनया इत्यादिवाक्यम् । नारदीये-

वैशाखे शुक्लपक्षे तु तृतीयायान्तथैव च ।

गङ्गातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥

ओमद्येत्यादि सर्वकिल्बिषविमुक्तिकामो गङ्गायां स्नानमहं करिष्ये, इति गङ्गास्नानसङ्कल्पः । कौशिकीस्नानप्रकरणेरामायणे आदिकाण्डे

वैशाखे मासि काकुस्थ ! तृतीया या भवेत्तिथिः ।

शुक्लपक्षे नरः स्नात्वा अश्वमेधफलं लभेत् ॥

कृत्तिका ऋक्षसंयुक्ता राका या कार्तिके भवेत् ।

कोकामुखे तु कौशिक्यां स्नात्वा स्वर्गे वसेन्नरः ।

ॐ अद्येत्यादि अश्वमेधफलप्ताप्तिकामः कौशिक्यां स्नानमहङ्करिष्ये इति तृतीयायां संकल्पः । वैशाखपूर्णिमामभिधाय विष्णुपुराणे-

कृष्णाजिनन्तिलान् कृष्णान्हिरण्यम्मधुसर्पिषी ।

ददाति यस्तु विप्राय सर्व्वं तरति दुष्कृतम् ॥ इवि ॥

अस्यां गङ्गास्नाने ओं अद्येत्यादि गङ्गास्नानजन्यफलसहस्रगुणाधिकफलप्राप्तिकामो गङ्गायां स्नानमहङ्करिष्ये ।

 अथ ज्येष्ठकृत्यम्

ज्येष्ठामावस्यायां वटमूले सावित्रीपूजनम् । वटप्रदक्षिणं च स्त्रियः कुर्युः । इयममावस्या पूर्वयुतैव ग्राह्या । तथाहि-

स्कान्दे-कृष्णाष्टमी चतुर्थी च सावित्री वटपैतृकी।

शुक्ला त्रयोदशी रम्भा नोपोष्यास्स्युः परान्विताः ।।

स्मृतिश्च- शिवा च शिवदुर्गा च दूर्वा चैव हुताशनी ।

गोपूजा च वटच्छाया कर्तव्या प्रथमे दिने ॥

अथ तिथीनां वेधविचारः-तत्र प्रातःकाले द्विमुहूर्तवेधः । 'द्विमुहूर्त्ताऽपि वेधः स्याद्या तिथिवृद्विगामिनी इति दक्षोक्तेः । सायङ्काले त्रिमुहूर्त्तवेधः ।

पक्षद्वयेऽपि तिथयः तिथिपूर्वान्तथोत्तराम् ।

त्रिभिर्मुहूतैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः ॥

इति पैठीनसिवचनात् ।

यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः ।

सा तिथिस्तद्दिने प्रोक्ता त्रिमुहूर्तैव या भवेत् ॥

इतिस्कान्दोक्तेश्च । इति तिथितत्त्वचिन्तामणौ ठक्कुराः । ज्येष्ठशुक्लतृतीयायां पञ्चाग्निव्रतं राजमार्तण्डे-

भद्रे ! कुरु प्रयत्नेन रम्भाख्यं व्रतमुत्तमम् ।

ज्येष्ठशुक्लतृतीयायां स्नाता नियमतत्परा ।।

एतद्द्व्रतोद्यापनं पञ्चवर्षं समाचारः इयमेव रम्भाख्या तृतीया सा च द्वितीयायुतैव कार्या,

युग्माग्नि क्रतुभूतानि षण्मुनयोवसुरन्ध्रयोः ।

रुद्रेण द्वादशी युक्ता चतुर्दश्यऽथ पूर्णिमा १५ ।।

युग्मा = , अग्नि =३, क्रतु = १, भूत = ५, षट् = ६, मुनि = ७, वसु = ८, रन्ध्र = ९,  रुद्र = ११, द्वादशी = १२, चतुर्दशी = १४, पूर्णिमा = १५ ।

प्रतिपदात्वमावस्या तिथ्योर्युग्मं महाफलम् ।

व्यस्तमेतन्महाघोरं हन्ति पुण्यं पुराकृतम्इति निगमात् ।

रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम ! ।

अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥ इति ब्रह्मवैवर्त्तवचनाच्च ॥ 

अथ दशहरा । राजमार्त्तण्डे-

ज्येष्ठे मासि सिते पते दशमी हस्तसंयुता ।

हरते दश पापानि तस्माद्दशहरा स्मृता ।।

कुजहतयुतां दशमीमभिधाय तत्रैव 'पुण्यन्दद्यादपि दशगुणां वाजिमेधायुतस्येतिएतद्दशमीमभिधाय स्कान्दे-

यां काश्चित्सरितं प्राप्य दद्यादर्ध्यतिलोदकम् ।

मुच्यते दशभिः पापैः स महापातकोपमैः ॥

दद्यादिति पितृभ्यः। इत्यादि योगाधिक्ये फलाधिक्याद्यत्रैव योगबाहुल्यं तत्रैवेयं ग्राह्याज्येष्ठे मलमासे सत्यपि दशहराप्रशंसा न तु शुद्धसमय एवेति नियमो निबन्धनात्रेतथा 'दशहरा: शुभोत्कर्षाश्चतुर्ष्वपि युगादिषु इति ऋष्यशृङ्गः । इति तिथितत्त्वचिन्तामणौमहेशठक्कुरलिखनम् । दशपापान्याह राजमार्तण्डे

पारुष्यमनृतञ्चैव पैशुन्यं चापि सर्वतः ।

असम्बद्धप्रलापञ्च वाङ्मयं स्याच्चतुर्विधम् ॥

अदत्तानामुपादानं हिंसा चैवाविधानतः ।

परदारोपसेवा च कायिकं त्रिविधं मतम् ॥

परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् ।

वितथाभिनिवेशश्च मानसन्त्रिविधं स्मृतम् ॥

अस्यां गङ्गास्नाने सङ्कल्पः ॐ अद्येत्यादि दशविधपापक्षयकालो गङ्गायां स्नानमहङ्करिष्ये इति । अस्यामेव सेतुबन्धे रामेश्वरदर्शनम् । अस्यां स्थापितत्वात् । तथाहि-

दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् ।

रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् ॥

अथाषाढकृत्यम्

मैथिलस्मार्त्तमते एकादश्यामेव हरिशयनम् । दाक्षिणात्यमते द्वादश्याम् । गौडमते चोभयमिति बोध्यम् । तथा भारते-

अषाढे तु सिते पक्षे एकादश्यामुपोषितः ।

चातुर्मास्यव्रतङ्कुर्याद्यत्किचिदखिलो नरः ।

नित्यमेतद्व्रतम् । दैवादकरणे कार्तिकमात्रेऽपि कर्त्तव्यम् । तथाहि भारते-

वार्षिक्याचतुरो मासान्वाहयेत्केनचिन्नरः ।

व्रतेन नो चेदाप्नोति किल्बिषं वत्सरोद्भवम् ॥

असम्भवे तुलार्केऽपि कर्त्तव्यं तत्प्रयत्नतः ।

आषाढशुक्लपक्षे रविवारे पुलिकमूलबन्धनमुक्तम् । ज्योतिःसारे-

शुचिसितदिनकरवारे करमूले बद्धपुलिकमूलस्य ।

नागारेवि नागाः प्रयान्ति किल दूरतस्तस्य ॥

 तन्मन्त्रोऽप्ययमेव । बृहद्वशिष्ठः-

अकृत्वा पुलिकैर्बन्धं प्रायश्चित्तीयते नरः ।

चातुर्मास्ये व्यतीते तु मुक्तिस्तस्य कराद्भवेत् ॥

अथ श्रावणकृत्यम्

राजमार्तण्डे-

सिंहकटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।

तासु स्नानन्न कुर्वीत वर्जयित्वा समुद्रगाः ॥

सिंहो भाद्रः । कर्कटः-श्रावणमासः । मासश्चात्र सौरो ग्राह्यः । द्वैतपरिशिष्टे तथैवाभिधानात् । नद्यश्चाष्टसहस्रधनुः प्रमाणं यासां ताः । तन्न्यूनं गर्तः । तथाहि-

धनुः सहस्रायष्टौ च गतिर्यासां न विद्यते ।

न ता नदीशब्दवाच्या गर्तास्ते परिकीर्तिताः ॥

चतुर्हस्तदण्डो धनुः । तथाहि विष्णुधर्मोत्तरे – 'द्वादशांगुलिकः शंकुस्तद्द्द्वयं तु शयः स्मृतः । तञ्चतुष्कन्धनुः प्रोक्तं क्रोशो धनुः सहस्रिकः - इति । शयो हस्तः । समुद्रगाः साक्षात्प्रत्यभिज्ञायमानसमुद्रगामिन्यःतासु गङ्गा महानदीतापीकृष्णावेणीगोदावरीतुङ्गभद्राताम्रपर्णीकावेरीरेवासिन्धुर्गोमतीत्येकादशाहुस्त एव शिष्टाः ।

तपनस्य सुता गङ्गा गोमती च सरिद्वरा ।

रजसा च न दुष्यन्ति ये चान्ये नदसंज्ञकाः ।

तपनस्य सुता यमुनाकालविशेषे रजोयोगेऽपि स्नाने दोषाभावमाह देवल:-

उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।

चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ।।

उपाकर्म यज्ञोपवीत संस्कार विशेषः । स च दक्षिणदेशे प्रसिद्धः । नदीतीरवासिनान्तु रजोयोगेऽपि सर्वदा नदीस्नाने दोषाभावमाह निगम :-'न दुष्येत्तीरवासिनाम्इति । व्याघ्रपादोऽपि -

अभावे कूपवापीनामन्येनापि समुद्धृते ।

रजोदृष्टेऽपि पयसि ग्राम्यभोगो न दुष्यति ॥ इति ।

अन्येनेति कुम्भादिनेति स्मार्ताः ।

श्रावण शुक्लतृतीयायां मधुश्रावणीव्रतम् -

'तृतीया नभसः शुक्ला मधुश्रावणिका स्मृता

इति ठक्कुरधृतवचनात् । इदञ्च परयुतायामेव कार्यमिति दिवोदासः ।

स्मृतिश्च--

याद्या मधुश्रावणिका कज्जली हरितालिका ।

चतुर्थीमिश्रिता स्त्रीभिर्वायानक्ते विधीयते ॥ इति ।

रम्भाख्यां वर्जयित्वा तु तृतीये'त्यादिवचनैः चतुर्थी युतेयं कार्या ।

अथ गणेशचतुर्थीनिर्णयः-श्रावणशुक्लचतुर्थी गणेशचतुर्थी सा च पूर्वविद्धा ग्राह्या । तथाहि-

तृतीयासंयुता या तु सा चतुर्थी फलप्रदा ।

कर्तव्या व्रतिभिस्तात ! गणनाथसुतोषिणी । इति ।

गणनाथं सुतरां तोषयतीति गणेश्वरव्रते तृतीयायुता चतुर्थीविधेया । अन्यदेवताव्रते हि 'गणनाथसुतोषिणी'त्यसङ्गतं स्यात् । तस्माद्विनायकव्रते चतुर्थी तृतीयायुतैवोपोष्यावत्सपूजाधेनुपूजयोः पृथगुपादानादिति तिथिन्द्रिकायां पक्षधर मिश्राः । बृहस्पतिः-'चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यतेइति । एतच्चोभयदिने मध्याह्नव्यातौ उत्तरदिन एव 'मध्याह्न यापिनी चेत् स्यात् परता परेऽहनिइति बृहस्पतेः ।।

अथ नागपञ्चमी- 

श्रावणशुक्लपञ्चमी नागपूजादौ षष्ठीयुता । अन्यपञ्चम्यस्तु चतुर्थीयुताः कार्याः । तथाहि चमत्कारचिन्तामणौ स्मृतिः-

पञ्चमीनागपूजायां कार्या पष्ठीसमन्विता ।

तस्यान्तु तुषिता नागा इतरासु चतुर्थिका । इति ।

इतरासु एतद्भिन्नपञ्चमीषु चतुर्थिकेतियोगः प्रशस्त इति शेषः । स्मृतिः-

श्रावणे पञ्चमी शुक्ला सम्प्रोक्ता नागपञ्चमी ।

तां परित्यज्य पञ्चम्यश्चतुर्थीसहिताः स्मृताः ॥ इति ।

इयञ्च शुक्ला पञ्चमी माण्डरब्रह्मणमात्रपूज्या । शूद्रैरपि पूज्या । कृष्णा तु पञ्चमी सदसन्मान्याऽतिप्रशस्तेति सर्वस्मार्तराद्धान्त इति तिथितचिन्तामणौ महेशठक्कुराः ॥

अथ रक्षिकाबन्धनम्  श्रावणपूर्णिमायां भद्राशून्यायां रक्षार्थं रक्षिकाबन्धनम् । भद्रायां तन्निषेधमाह स्मृतिः-

भद्रायां द्वे न कर्तव्ये श्रावणी फागुनी तथा ।

श्रावणी नृपतिं हन्ति प्रामं हन्ति च फाल्गुनी ॥ इति ।

इयं तु पूर्वविद्धा ग्राह्या-

श्रावणी दौर्गनवमी दूर्वा चैत्र हुताशिनी ।

पूर्वविद्वा तु कर्तव्या शिवरात्रिबलेर्दिनम् ॥

इति बृहद्यमवचनात् ।

अथ भाद्रकृत्यम्

भाद्रकृष्णचर्य्यां बहूलापूजा । सा च तृतीयायुता ग्राह्यापरयुक्ताया दोषश्रवणात् । तथाहि दिवोदसः-

गौरी चतुर्थी वटधेनुपूजा दुर्गार्चनं दुर्भरहोलिका च ।

गोवत्सपूजा शिवरात्रिरेताः परा विनिघ्नन्ति नृपं सराज्यम् ॥ इति ।

अथ बहुलापूजासङ्कल्पः- 

ओमद्येत्यादि सर्वपापचयपूर्वकधनधान्य-सुतान्वितगोसमृद्धिपूर्वक- दिव्यविमानारोहण-गोलोकप्राप्तिकामोऽद्यादि यावज्जीवनम्प्रति- भाद्रकृष्णचतुर्थ्याम्बहुला-पूजनव्रताचरणमहङ्करिष्ये इति प्रथमारम्भे सङ्कल्पः । (पूजा) तत्र पञ्चदेवता विष्णुगौरी कुलदेवतारोहितपर्यंतचन्द्रसेन-सोमिलगोपकामरूपिव्याघ्रसवत्स-बहुला एतेषां पूजां कृत्वा कथां श्रुत्वा गोग्रासं दत्वा आचाराद्यवान्नभक्षणं कुर्यादिति ।।

अथ भाद्रे गोप्रसवे दोषमाह । नारदः-

भानौ सिंहगते चैत्र यस्य गौस्सम्प्रसूयते ।

मरणन्तस्य निर्दिष्टं षड्भिर्मासैर्न संशयः ॥

तत्र शान्तिम्प्रवक्ष्यामि येन सम्पद्यते शुभम् ।

प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ।

ततो होमम्प्रकुर्वीत घृताक्तै राजसर्षपैः ।

आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥

सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ।

वस्त्रयुग्मं यवं चैव समवर्णं प्रदापयेत् ॥

इष्टदैवतमन्त्रेण ततः शान्तिर्भवेद्विज ॥

तथा - सिंहराशौ गते सूर्ये गोप्रसूतिर्यदा भवेत् ।

पौषे च महिषी सूते दिवैवाश्वतरी तथा ॥

तदाऽनिष्टम्भवेत्किंचित्तच्छान्तौ शान्तिकं चरेत् ।।

अस्य 'वामेतिसूक्तेन 'तद्विष्णो'रिति मन्त्रतः ।

जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् ॥

मृत्युञ्जयविधानेन जुहूयाच्च तथाऽयुतम् ।

श्रीसूक्तेन तथा स्नायाच्छान्तिसूक्तेन वा पुनः ॥

मध्यरात्रे निशीथे वा यदा गौः क्रन्दते सदा ॥

ग्रामे वा स्वगृहे वाऽपि शान्तिकं पूर्ववद्दिशेत् ॥

गार्ग्यपरिशिष्टे-माघे बुधे च महिषी श्रावणे बडवा दिवा।

सिंहे गावः प्रसूयन्ते स्वामिनो मृत्युदायकः ।।

तत्रापि शान्तिः कार्या ।

भाद्रकृष्णाष्टम्यां कृष्णजन्माहतिथितत्त्वचिन्तामणौ-

चैत्रे तु शुक्लपञ्चम्यां भगवान्मीनरूपधृक् ।

अथ ज्येष्ठशुक्ले तु द्वादश्यां कूर्मरूपधरो हरिः ॥

चैत्रकृष्णनवम्यान्तु हरिर्वाराहरूपधृक् ।

नभस्ये तु द्वितीयायां बलभद्रोऽभवद्धरिः ।। ।

नरसिंहश्चतुर्दश्यां वैशाखे शुक्लपक्षके ॥

मासि भाद्रपदे शुक्लद्वादश्यां वामनो हरिः ।

राधे कृष्णतृतीयायां रामो भार्गवरूपधृक् ॥

चैत्रशुक्लनवम्यान्तु रामो दशरथात्मजः ।

नभस्ये तु द्वितीयायां बलभद्रोऽभवद्धरिः।।

श्रावणे बहुलेऽष्टम्यां कृष्णोऽभूल्लोकरक्षकः ।

ज्येष्ठशुक्लद्वितीयायां बौद्धः कल्की भविष्यति ।

श्रावणोऽत्र शुक्लादिश्चान्द्रमासः तेन कृष्णादिरीत्या भाद्र एव इति ।

अथ भाद्रकृष्णाष्टम्यां कृष्णस्य पूजनं मतं च स्त्रीपुंससामान्याधिकारमिति समयप्रदीपः । एतच्च नित्यम् ।

अकुर्वन्निरयं याति यावदिन्द्राञ्चतुर्दश । इति ।

नरो वा यदि वा नारी कृष्णजन्माष्टमीव्रतम् ।।

न करोति तदा घोरा व्याली भवति कानने ।

इति च भविष्यपुराणवचनाभ्यामकरणे दोषश्रवणात् । नित्यतया चात्र सङ्कल्पो नास्तीति व्रतपद्धतिः । वस्तुतस्तु - 'अकुर्वन्निरयम्इत्यादि 'यथेष्टं फलमाप्नुयात्इति वचनाभ्यान्नित्यकाम्यमिदमिति कृत्यमहार्णवः । इयमष्टमी चन्द्रोदयव्यापिनी यदा तदा जयन्ती व्रतम्, उभयदिने चन्द्रोदयव्यापित्वे तूत्तरदिने । तथाहि अग्निपुराणे-

वर्ज्जनीया प्रयत्नेन साम्या संयुताऽष्टमी ।

सऋक्षाऽपि न कर्त्तव्या सप्तम्या संयुता यदि ॥

पद्मपुराणे - पञ्चगव्यं यथा शुद्धं न ग्राह्यं मद्यदूषितम् । रविविद्धा तथा त्याज्या रोहिण्याऽपि युताऽष्टमी ।। इति ।

यद्युत्तरदिने चन्द्रोदयव्यापिनी नाष्टमी तदा सप्तमीसंयुता ग्राह्या । तदुक्तं विष्णुपुराणे -

कार्या विद्धाऽपि सप्तम्या रोहिणीसंयुताऽष्टमी ।

जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते ।।

कृतोपवासस्तिथ्यन्ते तत्र कुर्यात्तु पारणम् इति ।

यदा चोदये किञ्चिन्मात्रमष्टमी तदुपरि सकला नवमीतदा जयन्ती व्रतेऽष्टमी स्वल्पाऽप्युपोष्या । तदुक्तं पद्मपुराणे-

उदये चाष्टमी किञ्चिन्नवमी सकला यदि ।

भवेद्बुधैन संयुक्ता प्राजापत्यर्क्षसंयुता ॥

अपि वर्षशतेनापि लभ्यते वा न वा विभो ? 

इति तिथिचन्द्रिकायां पक्षधरमिश्रलिखनम् ॥

पूर्वविद्धाऽष्टमी या तु उदये नवमी दिने ।

मुहूर्त्तमपि संयुक्ता सम्पूर्णा साऽष्टमी भवेत् ।

कला काष्ठा मुहूर्त्ताऽपि यदा कृष्णाष्टमी तिथिः ।

नवम्यां सैव ग्राह्या स्यात्सप्तमीसंयुता नहि ॥

इति पद्मपुराणाभिधानात् । एवमेव म० म० वाचस्पतिमिश्रद्वैतनिर्णयेरुद्रधरवर्षकृत्ये । गौडदाक्षिणात्यग्रन्थमात्रे बहुव्यवस्था बोध्येति शिवम् ।तिथितत्त्वचिन्तामणौ महेशठक्कुरलिखनान्नवमीयुक्तायामेवाष्टम्याञ्जयन्तीव्रतम् ।

अथमहालक्ष्मीपूजनादिविधिः- - एतदष्टमीमारभ्याखिलकृष्णाष्टमीं यावत् प्रत्यहं महालक्ष्मीपूजाव्रतं कथाश्रवणं च षोडशवर्षपर्यन्तम् ।

अथ कुशोत्पाटनम् । भाद्रामावास्यायां कुशोत्पाटनमाह मरीचिः-

मासे नभस्यमावास्या तस्यां दर्भश्च यो मतः ।

यातयामास्ते दर्भा विनियोज्याः पुनः पुनः ॥ इति ।

नभसि श्रावणे । अत्रापि शुक्लादिश्चान्द्रमासः । तेन श्रावणी पूर्णिमोत्तरामात्रास्यायां कुशोत्पाटनमायाति । कुशोत्पाटनमन्त्रस्तु

कुशाग्रे वसते रुद्रः कुशमध्ये तु केशवः ।

कुशमूले वसेद् ब्रह्मा कुशान्मे देहि मेदिनि ! ॥ इति ।

कुशप्रतिनिधीनाह स्नानसूत्रभाष्ये-

कुशाः काशामया दूर्वा उशीराश्चैव मन्दराः । इति । (कुत्रचित् मन्दराः स्थाने कुन्दराः इत्यपि पाठः) कुशाः कुशकार्यकारिण इति संख्यापरिमाणम् । निषिद्धकुशानाह लघुहारीत:-

चितिदर्भाः पथिदर्भा ये दर्भा यज्ञभूमिषु ।

स्तरणासनपिण्डेषु षट् कुशान् परिवर्जयेत् ॥

पिण्डार्थं ये स्तृता दर्भा यैः कृतं पितृतर्पणम् ।

मूत्रोच्छिष्टे धृता ये च तेषां त्यागो विधीयते ॥ इति ।

अथ हरितालिका - भाद्रशुक्लतृतीया हरितालिका । तथाहि दिवोदासीये-

भाद्रस्य कज्जली कृष्णा शुक्ला च हरितालिका ।

सा च परयुता ग्राह्या तथाहि माधव:-

मुहूर्त्तमात्रसत्वेऽपि दिने गौरी व्रतम्परे ।

शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ॥

स्कान्दे-

कला काष्ठा मुहूर्त्ताऽपि द्वितीया यदि दृश्यते ।

सा तृतीया न कर्त्तव्या कर्त्तव्या गणसंयुता ॥ इति ।

ब्रह्मवैवर्तेऽपि—

“रम्भाख्यां वर्जयित्वा तु तृतीयामित्यादि ।

पुराणसमुच्चयेऽपि—

द्वितीयाशेषसंयुक्तां या करोति विमोहिता ।

सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥ इति ।

संयुक्तामिति तृतीयामिति शेषः । अत्र पार्वतीशिवयोः पूजा ॥

अथ चतुर्थ्यां चन्द्रदर्शने दोषमाह मार्कण्डेयः—

सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्द्रदर्शनम् ।

मिथ्याभिशापङ्कुरुते तस्मात्पश्येन्न तं तदा ॥

तदेति चतुर्थ्यां न तच्चन्द्रं पश्येदित्यर्थः । तेन तत्रोदितस्य पञ्चम्यां दर्शने न दोष इति तात्पर्यम् । अत्र चतुर्थ्यामेव दर्शननिषेधरतस्यामेव चन्द्रपूजनं दर्शनं च व्यवहारसिद्धमतो दोषशान्त्यर्थं 'सिंहः प्रसेनमवधीत्इत्यादि धात्रेयिकावाक्यं प्राङ्मुख उदङ्मुखो वा पठेत् ।

'पठेद्धात्रेयिकावाक्यं प्राङ्मुखो वाऽप्युदङ्मुख:। इति ।

प्रदोषव्यापिनीयं ग्राह्या उभयदिने प्रदोषव्याप्तौ पञ्चमी युक्ता 'युग्माग्निक्रतुभूतानी'त्यादि निगमात् ।

अथ भाद्रशुक्लपष्ठी सूर्यषष्ठी सा च सर्वमते स्कन्दव्रतातिरिक्ता परयुता ग्राह्यायुग्मात् । “नागविद्धा न कर्तव्या पष्ठी चैव कदाचन" इति स्कान्दाच्च । अत्रैव राधाव्रतंतच सप्तमीयोगेन कार्यम् ।

अथ भाद्रशुक्लाष्टमी  दूर्वाख्या । सा च पूर्वयुता ग्राह्या तथाह बृहद्यमः-

श्रावणी दुर्गनवमी दूर्वा चैव हुताशिनी ।

पूर्वविद्धा तु कर्तव्या शिवरात्रिर्बलेर्दिनम् ।। इति ।

अथ भाद्रशुक्लचतुर्दश्यामनन्तव्रतम् । सा च त्रिमुहूर्त्ताऽप्यौदयिकी- ग्राह्येति माधवाचार्यः । तथाहि-

“उदये त्रिमुहूर्ताऽपि ग्राह्याऽनन्तव्रते तिथिः” इति घटिकामात्राऽप्यौदयिकी ग्राह्याइति निर्णयामृतः । तथाह-

‘पौर्णमास्या समायोगाद्त्रतं चानन्त कं चरेत्इति भविष्ये । द्वद्यद्देऽऽयायिकत्वे पूर्णत्वात्पूर्वविद्धा ग्राह्येति स्मार्त्ताः ।

अथ भाद्रशेषदिनत्रयेऽगस्त्यार्घदानम् । तत्र प्रमाणम् ब्रह्मवैवर्ते-

अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः ।

अर्घन्दद्युरगस्त्याय गौडदेशनिवासिनः ॥

नारसिंहे- शङ्खे तोयं विनिःक्षिप्य सितपुष्पाक्षतैर्युतम् ।

मन्त्रेणानेन वै दद्यादक्षिणाभिमुखः स्थितः ।।

 अनेन 'शंखं पुष्पं फलं तोयम्इत्यादि मन्त्रेण । अत्र दिनत्रये मन्त्रत्रयं यथा-

कुम्भयोनिसमुत्पन्न ! मुनीनां मुनिसत्तम ! ।

उदयं ते लङ्काद्वारेऽर्घोऽयम्प्रतिगृह्यताम् ॥ १ ॥

शङ्ख पुष्पं फलं तोयं रत्नानि विविधानि च । उदयन्तेइत्यादि ॥ २ ॥

काशपुष्पप्रतीकाश ! वह्निमारुतसम्भव ! । उदयन्ते लङ्केत्यादि ।। ३ ।। इति केचित् । रसमालायां तु प्रथमदिने तृतीयमन्त्रःद्वितीये प्रथम इति भेदः ।

अथाश्विनकृत्यम्

तत्र मनुः– अश्वयुक्कृष्णपक्षे तु श्राद्धं देयन्दिने दिने ।

त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा ॥

दिने दिने प्रतिदिनेन तु तिथौ तिथौ मुख्यार्थत्यागापत्तेः । श्राद्धविवेकादयोऽप्येवम् । तथा च प्रतिपदाद्यमावास्यान्तः पार्वणकालो मुख्यः । तदशक्तस्य पञ्चम्याद्यमावास्यान्तः । तत्राप्यशक्तस्य अष्टम्याद्यमावास्यान्तः । ततोऽप्यशक्तस्य दशम्याद्यमावास्यान्त इति चत्वारः कल्पा इति तात्पर्यम् । एतत्पक्षचतुष्टयाशक्तेनैकस्मिन्नपि दिने पार्वणं कर्तव्यम् । तथाहि-

यो वै श्राद्ध  नरः कुर्य्यादेकस्मिन्नपि वासरे ।

तस्य संवत्सरं यावत्संतृप्ताः पितरो ध्रुवम् ॥ इति ।

करणे दोषमाह स्मृतिः- सूर्ये कन्याङ्गते श्राद्धं यो न कुर्याद् गृहाश्रमी ।

धनं पुत्राः कुतस्तस्य पितृनिश्श्वासपीडनात् ॥

अतो नित्यमिदम्पार्वणम् । 'नन्दायां भास्करदिनेइत्यादि नन्दादिश्राद्धनिषेधवचनानि पक्षश्राद्धव्यतिरिक्तविषयाणि बोध्यानीति ठक्कुराः ।

सर्वेष्वप्येषु पक्षेषु चतुर्दशीत्यागः । यथा मनुः-

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्द्दशीम् ।

श्राद्धे प्रसिद्धास्तिथयो यथैता न तथेतराः ॥

अथ शस्त्रादिहतानामेव चतुर्द्दश्यां श्राद्धम् । तथाहि देवीपुराणे -

आहवेषु त्रिपन्नानां जलाग्निभृगुपातिनाम् ।

चतुर्दश्यां भवेत्पूजाऽमावास्यायान्तु कामिकी ।। इति

वायुपुराणेपि-युवानस्तु गृहे यस्य मृतास्तेषान्तु दापयेत् ।

शस्त्रेण या हता ये वै तेषां दद्याच्चतुर्दशीम् ॥ इति शस्त्रहतनाद्धमेकोद्दिष्टविधिना कर्तव्यम् । तथाहि-

चतुद्दश्यान्तु यच्छ्राद्धं सपिण्डीकरणे कृते ।

तदेकोद्दिष्टविधिना कर्त्तव्यं शस्त्रघातिनाम् ॥ इति ।

युवानः षोडशवर्षमारभ्य त्रिंशद्वर्षपर्यन्तवयस्का विवक्षिता इति रत्नाकरः ।

शस्त्रघातिनां शस्त्रेण हतानामित्यर्थः ॥

अथ महालक्ष्मीपूजनं व्रतञ्च । भाद्रकृष्णाष्टमीमारभ्याश्विनकृष्णाष्टमीं यावन्महालक्ष्मीपूजनं व्रतञ्च । इयमष्टमी चन्द्रोदयव्यापिनी ग्राह्यातत्रैव पूजोक्तेः । परदिने चन्द्रोदयादूर्ध्वं त्रिमुहूर्तव्यापित्वे परैवअन्यथा पूर्वैव,

तथा च स्मृतिः-

पूर्वा या परविद्धा या ग्राह्मा चन्द्रोदये सदा ।

त्रिमुहूर्तापि सम्पूज्या परतश्चोर्ध्वगामिनी ।। इति ।

जीवत्पुत्रिकाऽष्टमी-

आश्विनकृष्णाष्टमी जीवत्पुत्रिकाख्या । तथाहि भविष्ये-

इषे मास्यसिते पक्षे चाष्टमी या तिथिर्भवेत् ।

पुत्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्रिका ।।

शालिवाहनराजस्य पुत्रो जीमूतवाहनः ।

तस्यां पूज्यः स नारीभिः पुत्र सौभाग्यलिप्सया ।।

इयमष्टमी प्रदोषव्यापिन्युपोष्या ।

प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः ।

पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्त्रिकाम् ॥

इति भविष्यपुराणात् । यद्युभयदिने प्रदोषव्याप्तिस्तदाऽपरेऽहन्येव प्रधानकालानुरोधात्नवम्यधिकरणकपारणानुरोधाच्च पूर्वदिने व्रते तु वक्ष्यमाणवचनेन अष्टम्यां पारणे दोषश्रवणेन तदन्ते निशिपारणनिषेधेन च उपवासद्वयापत्तिः । यदि पूर्वेद्युः प्रदोषव्याप्तिर्न परेयुरिति तदा पूर्वेद्युरेव प्रदोषानुरोधबोधकपूर्वोक्तवचनात् ।

पूर्वेयुरपरेद्युर्वा प्रदोषे यत्र चाष्टमी ।

तत्र पूज्यस्सदा स्त्रीभी राजा जीमूतवाहनः ॥

इति विष्णुधर्मोत्तरीयाच्च । तिथिचन्द्रिकायां पक्षधरमिश्रोऽप्येवम् । यत्तु ठक्कुरैः सप्तमीयुताऽष्टमी कर्तव्येत्यभिहितं तदपि गुरुमिश्रकवाक्यत्वानुरोधेन पूर्वदिनमात्रे प्रदोषव्यापिन्यष्टमी विषयकमेव विधेयम् । पारणन्तु परदिने तिथ्यन्ते कार्यम् ।

आश्विनस्यासिताष्टम्यां याः स्त्रियोऽन्न भुञ्जते ।

मृतवत्सा भवेयुस्ता विधवा दुर्भगा भुवम् ।। इति भविष्यात् । विष्णुधर्मोत्तरे नवम्यां पारणविधानाच्च । उभयदिने प्रदोषे तदव्याप्तौ (या ) उदयगामिन्यां (सूर्योदयगामिन्यां ) व्रतम् ।

लक्ष्मीव्रतञ्चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विनकृष्णपक्षे ।

यत्रोदयं वै कुरुते दिनेशस्तदा भवेज्जीवितपुत्रिका सा ॥

इति दामोदरमित्रधृतवचनात् । दिनेशः सूर्यः । तथाचोभयदिने प्रदोषेऽष्टम्यलाभे सूर्योदयकालीना यद्दिनेऽष्टमी तद्दिने जीमूतवाहनव्रतमिति तात्पर्यम् । एषैव व्यवस्था परमानन्दठक्कुरकृतवर्षपद्धतावपि इति तिथिचन्द्रिकायां म० म० पक्षधर मिश्राः ॥

अथ अन्वष्टका श्राद्धम् ।

नवम्यामन्वष्टकाश्राद्धम् । तत्र कात्यायनः-

अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् ।

पित्रादि मातृमध्यञ्च ततो मातामहान्तकम् ॥ इति ।

ब्रह्माण्डपुराणे - पितॄणाम्प्रथमन्दद्यान्मातॄणान्तदनन्तरम् ।

ततो मातामहादीनामन्वष्टक इति क्रमः ॥

तथाच प्रथमं पित्रादित्रयाणां ततो मात्रादितिसृणाम्ततो मातामहादित्रयाणामेवं नवपुरुषश्राद्धमन्वष्टकायाम्भवतीति भावः । अथ गजच्छाया - कृष्णपक्षे त्रयोदश्यां मघायुक्कायां हस्तनक्षत्रगते सूर्ये गजच्छाया भवति । तथाहि वायुपुराणे-

हस्तसूर्ये स्थिते या तु मघायुक्ता त्रयोदशी ।

तिथिर्वैवस्वती नाम सा छाया कुञ्जरस्य तु ॥

अन्यथ— कृष्णपक्षे त्रयोदस्यां मघास्विन्दुः करे रविः ।

यदा तदा गजच्छाया श्राद्धं पुण्यमवाप्यते ।

अत्र वारनियमो नास्ति प्रापकाभावात्दिवस एवैतादृशयोगे गजच्छायान तुरात्रौ । तथाहि महाभारते-

'दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन ।इति ।

यत्र मधुघृतयुतपायसेन श्राद्धम् । तथाहि-

सोऽस्माकञ्च कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।

पायसं मधुसर्पिभ्यो वर्षासु च मघासु च ॥

पितॄणामुक्तिरियम् । ब्रह्मपुराणे-

अश्वयुज्यां तु कृष्णायां त्रयोदश्यां मधासु च ।

प्रावृडृतौ यमः प्रेतान् पितॄंश्चापि यमालयात् ॥

विसर्जयति मानुष्ये कृत्वा शून्यं स्वकम्पुरम् ।

क्षुधार्त्ताः कीर्त्तयन्तश्च दुष्कृतन्तु स्वयं कृतम् ।

पायसं पुत्रपौत्रेभ्यः कांक्षन्तो मधुसंयुतम् ।

तस्मात्तत्र विधानेन तर्पयेत्पायसेन च ॥

मध्वाज्यतिलमिश्रेण तथा शीतेन चाम्भसा ।

ग्रासमात्रं परगृहाद्वयक्तं यः प्राप्नुयान्नरः ।

भिक्षामात्रेण यः प्राणान् सन्धारयति वा स्वयम् ।

यो वा संवर्द्धयेद्देहं प्रत्यहञ्चात्मविक्रयात् ।

श्राद्धं तेनापि कर्त्तव्यं तैस्तैर्द्रव्यैः स्वसञ्चितैः ॥

नास्मात्परतरः कालः श्राद्धेष्वन्यत्र विद्यते ।

यत्र साक्षाद्धि पितरो गृह्णन्त्यमृतमक्षयम् ।

ज्येष्ठपुत्रवता पिण्डरहितमेव श्राद्धमत्र कर्त्तव्यम् । मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यतीत्यनिष्टश्रवणात् । ज्येष्ठपदमत्र सर्वज्येष्ठपरमिति रसमाला । अत्र मघाऽधिकरणकनामात्रेण पिण्डदाननिषेधः । सपिण्डनदिने मघासत्वे सपिण्डनपर्युदासापत्तेकिन्तु मघानिमित्तके । तथा च मघापुरस्कारेण पार्वणं ज्येष्ठपुत्रिणा पिण्डरहितं कर्त्तव्यमिति शास्त्रार्थःइति कृत्यमहार्णवः । ब्रह्मपुराणे—

सूतके मृतके चैव ग्रस्तयोश्चन्द्रसूर्ययोः ।

छायायां कुञ्जरस्याथ भुक्त्वा तु नरकं व्रजेत् ॥

प्रमादाद्ब्राह्मणो भुक्त्वा चरेच्चान्द्रायणं व्रतम् ।

एतेन ब्राह्मणस्य तत्र भोजने चान्द्रायणम्क्षत्रियादीनां पादहीनं तदेव ।

विप्रे तु सकलं देयं पादोनं क्षत्रिये मतम् ।

इति बृहद्विष्णुवचनात् । विशेषतो ब्राह्मणस्यैवोपादानाद् ब्राह्मणस्यैवप्रायश्चित्तमिति केचित् । चान्द्रायणप्रकारो मत्कृतप्रायश्चित्तव्यवस्थायामवलोकनीयः ।

अथ श्राद्धकालः-

शुक्लपक्षस्य पार्वणम्पूर्वाह्णे कृष्णपक्षस्य चापराह्णेतथा च मार्कण्डेय:-

शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ।

कृष्णपक्षेऽपराह्णे च रौहिणं न तु लङ्घयेत् ॥

इति तिथितत्त्वचिन्तामणौ । अक्षयतृतीयाप्रकरणे रौहिणमित्येकोद्दिष्टपरमिति श्राद्धरत्ने लक्ष्मीपतिः ॥

अथ श्राद्धकालमाह-

पूर्वाह्णे मातृकं श्राद्धं पराह्णे तु पैतृकम् ।

एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ।।

पूर्वाह्णे इति सार्द्धप्रहरं यावत् । तच्च गोपूजाप्रकरणे वक्ष्यते । मातृकमन्त्रष्टका पैतृकम्पार्वणम्एकोद्दिष्टमाद्यश्राद्धादीति श्राद्धरत्ने लक्ष्मीपतिः ।

मध्याह्ने कुतुपे । कुतुपकालमाह-

द्वौ यामी घटिकान्यूनौ द्वौ यामौ घटिकाऽधिकौ ।

स कालः कुतुपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥

विज्ञेषमाह रत्नमालायाम्-

'दिनस्य यः पञ्चदशो विभागो रात्रेस्तथा तद्धि मुहूर्तमानम्। इति

तथा च दिनमानस्य पञ्चदशमो विभागो दिनमुहूर्त एवं रात्रावपीत्यर्थः । तत्राष्टमो मुहूर्त्तः कुतुपः । नवमो रौहिणः । तथाहि-

अह्नो मुहूर्त्ता विख्याता दश पञ्च च सर्वदा ।

तत्राष्टमो मुहूर्त्तो यः सः कालः कुतुपः स्मृतः ।।

प्रातःकालादिमाह-

प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव हि ।

मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्नस्ततः परम् ॥

सायाह्नस्त्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् ।

ततः परमिति मुहूर्त्तत्रयमिति शेषः । उभयदिने कुतुपस्य लाभेअथवा पूर्वदिने रौहिणस्योत्तरदिने कुतुपस्तदोभयत्र पूर्वदिन एवैकोद्दिष्टंविहितत्वाविशेषात् कपालाधिकरणन्यायात् । यदि च कुतुपमुहूर्त्ते एकस्मिन्नपि दिने क्षयतिथिर्न लभ्यते तदा रौहिणे श्राद्धं रौहिणमुल्लङ्घय न कर्तव्यम् । "रौहिणन्तु न लङ्घयेत्” इति वचनादिति ।।

अथ हस्ताऽर्के खञ्जनदर्शनम् । तत्र दर्शनमन्त्रौ-

नीलकण्ठ ! शुभग्रीव ! सर्वकामफलप्रद ! ।

पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते ॥

त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेषि शिखोद्गमेन ।

संदृश्यसे प्रावृषि निर्गतायां त्वङ्खञ्जनाश्चर्य मयो नमो नमस्ते ।।

दर्शन फलमाह तिथितत्त्वे-

अब्जेषु गोषु गजबाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु ।

भस्मास्थिकेशतुषलोमनखेषु दृष्टो दुःखं ददाति बहुशः खलु खञ्जरीटः ॥

वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं

याम्यामग्निभयं सुरारिकलहो लाभस्समुद्रालये ।

वायव्यां वरमन्नवस्यविभवं दिव्याङ्गना चोत्तरे

ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ।।

ब्रह्मणि आकाशे ‘खम्ब्रह्मइति श्रुतेःशक्रे पूर्वदिशि, दर्शने इति शेषःहुताशेऽग्निकोणेयाम्यां दक्षिणेसुरारिर्नैर्ऋत्यकोणःसमुद्रालये पश्चिमे ॥

अथ आश्विनशुक्रप्रतिपदि कलशस्थापनम् । तच्च पूर्वाह्णेउभयदिने पूर्वाह्णे प्रतिपल्लाभे द्वितीयायुक्तायामेव तत्कार्यम् । नत्वमावास्यायुक्तायां प्रतिपदि, तथाहि देवीपुराणे -

यो मां पूजयते भक्त्या द्वितीयायां गुणान्विताम् ।

प्रतिपच्छारदीम्पूजां सोऽश्नुते सुखमव्ययम् ॥

यदि कुर्यादमायुक्तप्रतिपत्स्थापनं मम ।

तस्मै शापायुतं दत्वा तस्य शेषं करोम्यहम् ।।

आग्रहात्कुरुते यस्तु कलशस्थापनं मम ।

तस्य सम्पद्विनाशः स्याज्ज्येष्ठपुत्रो विनश्यति ॥ इति ।

द्वितीयायां द्वितीयायुतायाम् । अमा अमावास्या । तिथितत्वचिन्तामणौ-

अमायुक्ता न कर्त्तव्या प्रतिपच्चण्डिकार्चने ।

मुहूर्त्तमात्रा कर्त्तव्या द्वितीयायां गुणान्विता ॥ इति ।

द्वितीयायां द्वितीयायुक्तायांमुहूर्त्तमात्रा मुहूर्त्तान्यूनातत्रैव परदिने प्रतिपदोऽत्यन्तासत्त्वे दर्शयुक्ता पूवैव ग्राह्या इति ठक्कुराः । श्रत्यन्तासत्त्वं मुहूर्त्तोनत्वम्मुहूर्त्तपर्यन्तमपि उत्तरदिने प्रतिपल्लाभे उत्तरदिने एव कार्यम् । पूजा तु तत्र सङ्क्षेपतोऽपि कार्या ।

'सम्यक्कल्पोदिता पूजा यदि कत्तु न शक्यते

इत्यादि ‘सङ्क्षेपपूजा कथितेत्यन्त कालिकापुराणात् । तिथिमले तु न कार्यम् ।

षष्टिदण्डात्मिकायाञ्च तिथेनिष्क्रमणेऽपरे ।

अकर्मण्यं तिथिमलं बिद्यादेकादशीं विना ॥

इति वचनात् । अपरे परदिनेतथा च पूर्वदिने षष्टिदण्डात्मिका भूत्वा परदिने सैव तिथिः किञ्चिद्दण्डात्मिका सैव द्वितीयदिने तिथिमलत्वात्त्याज्येति भावः । द्वितीयायोगनिषेधकानि यानि यानि वचनानि पठन्ति तानि तानि मुहूर्त्तन्यूनप्रतिपद्विषयाणि तिथिमलप्रतिपद्विपयाणि च बोध्यानिमुहूर्त्तन्तु दिनमानेस्य पञ्चदशो भाग इत्युक्तम्प्राक् ॥

अथ चण्डीपाठफलमाह वाराहीतन्त्रे-

ईश्वर उवाच-चण्डीपाठफलं देवि ! शृणुष्व गदतो मम ।

ग्रहोपशान्त्यै कर्तव्यं पञ्चावृत्तं वरानने ! ॥

महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत् ।

अर्कावृत्तेः काम्यसिद्धिरिहानिश्च जायते ।।

मन्त्रावृत्त्या रिपुर्वश्यस्तथा स्त्री वश्यतामियात् ।

सौख्यं पञ्चदशावृत्ताच्छ्रियमाप्नोति मानवः ॥

कलावृत्तात्पुत्रपौत्रधनधान्यादिकं विदुः ।

राज्ञां भीतिविमोक्षाय वैरस्योच्चाटनाय च ॥

कुर्यात्सप्तदशावृत्तं तथाष्टादशकं प्रिये ? 

महाव्रणविमोक्षाय विंशावृत्तं पठेन्नरः ॥

पञ्चविंशावर्त्तनाञ्च भवेद्बन्धविमोक्षणम् ।

सङ्कटे समनुप्राप्ते दुश्चिकित्सामये तथा ॥

जातिध्वंसे कुलच्छेदे आयुषो नाश आगते ।

वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये ॥

तथैव त्रिविधोत्पाते तथा चैवातिपातके ।

कुर्याद्यत्नाच्छतावृत्तं ततः सम्पद्यते शुभम् ॥

श्रियो वृद्धिश्शतावृत्ताद्राज्यवृद्धिस्तथा प्रिये ! ।

मनसा चिन्तितं देवि ! सिद्धयेदष्टोत्तराच्छतात् ॥

शताश्वमेधयज्ञानां फलमाप्नोति सुव्रते ! ।

सहस्रावर्त्तनाल्लक्ष्मीरावृणोति स्वयं स्थिरा ॥

भुक्त्वा मनोरथान् सर्वान्नरो मोक्षमवाप्नुयात् ॥

अर्कावृत्तिर्द्वादशावृत्तिः । मनुश्चतुर्दश । कालः पट् ।

यथाऽश्वमेधः क्रतुराड् देवानां च यथा हरिः ।

स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः ॥

अथवा बहूनोक्तेन किमेतेन वरानने ! ।

चण्ड्याः शतावृत्तिपाठात्सर्वाः सिद्धयन्ति सिद्धयः ॥

अत्र पठनश्रवणवत् पाठनश्रावणेऽपि कार्ये प्रयोजयिता अनुमन्ता कर्त्ता चेति सर्वे स्वर्गनरकभोक्तारो यो भूय आरभते तस्मिन्फले विशेष इत्यापस्तम्बेनाप्रवृत्तप्रवर्त्तकलक्षणप्रयोजकस्यापि फलश्रुतेःइति तिथितत्त्वे स्मार्ताः । द्विजानां पठनश्रवणयोश्शूद्रस्य श्रवणमात्रेऽधिकारः इत्यपि तत्रैवेति । तिथित- चिन्तामणौ प्रतिपदादिनवम्यन्तम्पाठक्रमस्त्वयम् ।

ऋषिच्छन्दोऽन्वितं न्यस्य पठेत्स्तोत्रं विचक्षणः ।

स्तोत्रं न दृश्यते यत्र प्रणवं तत्र विन्यसेत् ॥

सर्वत्र पाठो विज्ञेयस्त्वन्यथा विफलं भवेत् । इति ।

अथ सप्तमीनिर्णयः । उपवासादौ सप्तमी उदयकालीना ग्राह्यान तु युग्मवाक्यादरात्पूर्वा—

युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया ।

रवेरुदयमिच्छन्ति न तत्र तिथियुग्मता ॥ इति कृत्यतत्त्वोक्तेः ।

भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः ।

तिथावुदयगामिन्यां सर्वास्ताः कारयेद्बुधः ।। इति तिथितत्वोक्तेश्च ।

दुर्गाभक्तितरङ्गिण्यां घटिकातो न्यूना परा न कार्या ।

'व्रतोपवासनियमे घटिकैका यदा भवेत्

इति देवलोक्तेः। घटिकान्यूना मुहूर्त्तन्यूनेत्यर्थः । पूर्वैकवाक्यत्वात् । पत्रिका नवपत्रिकापूजा पूर्वाह्ण एवन तु मूलानुरोधान्मध्याह्नादाविति कृत्यतत्त्वोक्तेः ।

अथ महाष्टमीनिर्णयः । महाष्टमीव्रतेऽष्टमी नवमीयुता ग्राह्या ।

'अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता। इति पाद्मोक्तेः ।

शरन्महाष्टमी पूज्या नवमीसंयुता सदा ।

सप्तमीसंयुता नित्यं शोकसन्तापकारिणी ॥

जम्भेन सप्तमीविद्धा पूजिता तु महाष्टमी ।

इन्द्रेण निहतो जम्भस्तस्माद्दानवपुङ्गवः ।।

इति स्मृतिसंग्रहोक्तेश्च ॥

अथ नवमीनिर्णयः । नवमी तु व्रतादौ पूर्वविद्धा ग्राह्मा ।

'अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता। इति पाद्मोक्तेः ।

युग्माग्निक्रतुभूतानि षण्मुन्योर्वसुरन्ध्रयोः ।

इति निगमवचनाच्च । देवीपुराणे-

भूमौ शयीत चामन्त्र्य कुमारीं पूजयेन्मुदा ।

वस्त्रालङ्कारदानैश्च सन्तोष्य प्रतिवासरम् ।।

बलिं च प्रत्यहं दद्यादोदनं मांससंयुतम् ॥ इत्यादि ।

अथ विजयादशमी । दशम्यामपराजितापूजा देवीविसर्जनादि उदयगामिन्यां दशम्यामेकादशीयुतायामेव । तथाहि नन्दिकेश्वरे—

प्रातरावाहयेद्देवीं प्रातरेव विसर्जयेत् ।

ततः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ॥

प्रातरिति मुहूर्त्तान्न्यूनकाल इति शेषः । रत्नकोशे नारद:-

इषस्य दशमीं शुक्लां पूर्वविद्धां न कारयेत् ।

श्रवणेनापि संयुक्तां राज्ञां पट्टाभिषेचने ।

सूर्योदये यदा राजन् ! दृश्यते दशमी तिथिः ।

आश्विने मासि शुक्ले तु विजयां तां विदुर्बुधाः ॥

नन्दिकेश्वरे ‘भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः -- इत्यादि ।

तत्रापि यदि सम्यक् पूजाद्ययोग्यमुहूर्त्तन्यूनदशमी प्राप्तावाह कालिकापुराणे-

सम्यकल्पोदिता पूजा यदि कर्तुं न शक्यते ।

उपचारांस्तथा दातुं पञ्चैतान्वितरेत्तदा ।।

गन्धं पुष्पं च धूपञ्च नैवेद्यं दीपमेव च ।

अभावे पुष्पतोयाभ्यां तदभावे तु भक्तितः ॥

संक्षेपपूजा कथिता तथा शास्त्रादिकं पुनः ।

तथा चोदयगामिन्यां मुहूर्त्तन्यूनायामल्पकालव्यापिन्यामप्येकादशी युतायामेव संक्षेपपूजादिभिरपि विसर्जनं कार्य्यमिति भावः ।

दिनमानस्य पञ्चदशो भागो मुहूर्त्तमित्यनुपदमेवाभिहितं प्राक् । मुहूर्त्तन्यूनदशम्या उत्तरदिने उदयगामिन्या अलाभे तु नवमीयुतायामेवापराजिता पूजा देवीविसर्जनञ्चतथाहि शिवरहस्ये -

आश्विने शुक्लपक्षे तु दशम्यां पूजयेत्ततः ।

एकादश्यां न कुर्वीत पूजनं चापराजितम् । इति ।

एकादश्यां एकादशी युतायां पूजनमत्र विसर्ज्जनस्याप्युपलत्तकम् । एतद्वचनस्योत्तरदिने मुहूर्त्तन्यूनदशमीलाभे उत्तरदिनकर्तव्यतानिषेधकत्वेनैव स्मार्तादिभिस्तिथितत्त्वादिग्रन्थे व्याख्यातत्वात्तादृशार्थपर्यवसानम् । 'श्रवणेन विसर्जये 'दिति श्रवणायोगस्तु रोहिणी योगवदप्रयोजक इति ठक्कुराः । तेन  श्रवणायोगो विसर्ज्जने नावश्यकः । 'श्रवणेन विसर्जयेत्इति वचनस्य श्रवणाप्रशंसकत्वं प्रतीमः । अत्र सर्वत्र नक्षत्रादरान् मुख्यस्तदभावे तिथिरेव ग्राह्या युग्मात्।

'तिथिः शरीरं देवस्य तिथौ नक्षत्रमाश्रितम् ।

तस्मात्तिथिं प्रशंसन्ति नक्षत्रं न तिथिं विना ' 

इति विद्यापतिठक्कुराः ।

अथ यात्राविजयदशमी । तत्र यात्रां कृत्वा सीमानं लङ्घयेत् । तथाहि व्रतकाण्डे काश्यपः-

श्रवणर्क्षे तु पूर्णायां काकुत्स्थः प्रस्थितो यतः ।

उल्लङ्घयेयुः सीमान्तं तद्दिनर्क्षे ततो नराः ॥ (पूर्णायां दशम्याम् )

अथ शमीग्रहणम् ।

शमीमर्चयित्वा यात्राकरणम् । तत्र मन्त्रः-

" शमी शमयते पापं शमी लोहितकण्टिका ।

धारिण्यर्ज्जुनबाणानां रामस्य प्रियदायिनी ॥

करिष्यमाणा या यात्रा यथाकालं सुखं मया ।

तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ! ।।

शमी वृक्षविशेषःलोहितकंटकयुक्तः प्रागुक्तवचनलिङ्गात् ।

गृहीत्वा साक्षतां मालां शमीमूलगतो मृदम् (भृशम् ) ।

गीतवादित्रनिर्घोषैरानयेत्स्वगृहं प्रति ॥

ततो भूषणवस्त्रादि धारयेत्स्वजनैः सह” । इति ।

अथ कोजागरा । तिथितत्त्वे-

कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावतस्थितम् ।

सुगन्धैर्निशि संवेशैश्चाक्षैर्जागरणं चरेत् ॥!

तथा - निशोथे वरदा लक्ष्मीः को जागर्तीति भाषिणी ।

तस्मै वित्तं प्रदास्यामि अक्षैः क्रीडां करोति यः ॥

अत्र निशीथ इत्यभिधानाद्रात्रिकृत्यमिदम् । यद्दिने प्रदोषनिशीथोभयव्यापिनी पूर्णिमा तद्दिने कोजागराकृत्यम् । उभयव्याप्त्यनुरोधात् । यदा तु पूर्वदिने निशीथव्याप्तिःपरेद्युर्न प्रदोषव्याप्तिस्तदा सुतरां पूर्वदिने तत्कृत्यमिति ॥

अथ कार्त्तिककृत्यम्

वायुपुराणे - तुलामकरमेषेषु प्रातः स्नानं विधीयते ।

हविष्यं ब्रह्मचर्यञ्च महापातकनाशनम् ॥

अत्र सौरमासक्रमो बोध्य इति ठक्कुराः । तथाहि-

दुर्लभः कार्त्तिको मासो मथुरायां नृणामिह ।

यत्रार्चितो हरी रूपं भक्तेभ्यः स्वं प्रयच्छति ।।

कार्त्तिकस्नानमन्त्रस्तु -

कार्त्तिकेऽहं करिष्यामि प्रातः स्नानं जनार्दन ! ।

प्रीत्यर्थं तव देवेश ? दामोदर ! मया सह । मया लक्ष्म्या । पद्मपुराणे--

धात्रीछायासु यः कुर्यात्पिण्डदान महामुने ! ।

मुक्तिम्प्रयान्ति पितरः प्रसादान्माधवस्य च ॥

धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः ।

धात्रीफलकृताहारो नरो नारायणो भवेत् ॥

धात्रीच्छायां समाश्रित्य योऽर्चयेश्ञ्चक्रपाणिकम् ।

पुष्पे पुष्पेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥

नारदीये  एकान्तरोपवासी वा त्रिरात्रोपोषितोऽपिवा ।

षड्वा द्वादश पक्षं वा मासं वा वरवर्णिनि ! ॥

एकभुक्तेन नक्तेन तथैवायाचितेन च ।

उपवासेन भैक्ष्येण ब्रजते परमं पदम् ॥

अथ हविष्यविचारः । हविष्याण्याह भविष्ये

हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ।

कलायं कङ्गुनीवारा वास्तूकं हिलमोचिका ॥

षष्टिका कालशाकं च मूलकं केमुकेतरत् ।

कन्दं सैन्धवसामुद्रे गव्ये दधिसर्पिषी ।

पयोऽनुद्धृतसारं च पनसाम्रहरीतकी ।

पिप्पली जीरकं चैव नागरं कञ्चु तिन्तिली ।।

कद्लीलवलीधात्रीफलान्यगुडमैक्षवम् ।

अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ॥

हैमन्तिकं मार्गपौषोत्पन्नं धान्यं तस्यैव विशेषणं सितास्विन्नमिति सितं श्वेतम् स्विन्नम् उसिना इति प्रसिद्धम्तद्भिन्नमस्वन्नम्। कङ्गु काउनि इति प्रसिद्धा । नीवार ओइरी इति प्रसिद्धा । षष्टिका शाठी इति प्रसिद्धा । मूलकमित्यस्य विशेषणं 'केम्बुकेतरत्इति केम्बुकम् केउवा इति प्रसिद्धम्तद्भिन्नम् । सैन्धवसामुद्रे इति लवणे इतिशेषः । अगुडमिति ऐक्षयमित्यस्य विशेषणम्तेन इक्षुसम्बन्धिषु गुडभिन्नं सिताशर्करादिकं सर्वमेवहविष्यमित्यर्थः ।

अर्थ- हेमन्त ऋतु (अगहन, पूष) में होनेवाला हैमन्तिक (कतमा/सतीनक)विना भीगे हुए सफेद धानमूंगजोतिलमटर (वटाणा)कौनी (कांग)नीवारबथुआहितमोचिकासांठी चावल काल शाककेबुक को छोड़कर बाकी सभी मूल जमीन में होनेवाले सभी कंदसेंधा और समुद्र नमक तथा गाय का दही और घीमलाई आदि ने निकाला हुआ दूधकटहल (फनस)आम हरड़पीपलजीरा, नारंगीइमलीकेलागन्ना ये सभी हविष्यान्न हैं।

अथ आमिषविचारः । आमिषाण्याह पाद्मे-

प्रायङ्गचूर्णं चर्माम्बु जम्बीरं बीजपूरकम् ।

अयज्ञशिष्टं माषादि यद्विष्णोरनिवेदितम् ।।

दग्धमन्नं मसूरं च मांसं चेत्यष्टधाऽऽमिषम् ।

गोछागीमहिषीदुग्धादन्यद्दुग्धं तथाऽऽमिषम् ॥

धान्ये मसूरिका प्रोक्ता अन्नं पर्युषितं तथा ।

द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ॥

ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् ।

आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥ इति ।

प्राण्यङ्गचूर्णंशुक्तिकादिचूर्णम् ।

अथामावस्यादिकृत्यम् -

वनस्पतिगते सोमेऽनड्वाहौ यस्तु वाहयेत् ।

नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥

इति वचनादमावास्यायां वृषवाहने महादोषः । तस्येति पिण्डादिकमिति शेषः । स्मृतिः-

येयं दीपान्विता राजन् ! ख्याता पश्ञ्चदशी भुवि ।

तस्यां देयं न चेद्दत्तं पितॄणां तु महालये ।। इति ।

दीपान्विता पञ्चदशी कार्त्तिकामावास्यापितॄणां महालये पितृपक्षे महालयेतथाच पितृपक्षे येन श्राद्धं न कृतंतेनात्र श्राद्धं कर्तव्यमिति तात्पर्यम् । अन्यच्च-

कन्याङ्गते सवितरि पितृराजानुशासनात् ।

तावत्प्रेतपुरी शून्या यावद्वृश्चिकदर्शनम् ॥

ततो वृश्चिक आयाते निराशाः पितरो गताः ।

पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणम् ॥ इति ।

तथा चामावास्यायामप्यकृते श्राद्धे पितरो निराशाः सन्तः शापं दत्वा यान्तीत्यतोऽपरपक्षे येन पार्वणं न कृतं तेनात्रावश्यमेव कर्तव्यमिति भावः ॥

अथ उल्काभ्रमणम् । स्कान्दे-

ततः प्रदोषसमये दीपान्दद्यान्मनोरमान् ।

ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ।। इति ।

ज्यौतिषे - तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः ।

उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ।

एतेन प्रदोषव्यापिन्याममावास्यायामुल्काभ्रमणमिति पर्यवसितम् । उभयदिने प्रदोषव्यापिन्या अमावास्याया लाभेऽलाभे च परदिन एव ।

दण्डैकरजनीयोगे दर्शः स्याच्चापरेऽहनि ।

तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका ।। इति ज्योतिर्वचनात् ।

तथा च- दर्शश्राद्धं भवेद्दर्शऽपराह्न प्रतिपद्यपि ।

प्रदीपोल्कादिकं कार्यं तत्प्रदोषे न दुष्यति ॥ इति म. म. शुभङ्कर ठक्कुरधृततिथिनिर्णये ।

भूताहे ये प्रकुर्वन्ति उल्काग्रहमचेतनाः ।

निराशाः पितरो यान्ति शापं दत्वा सुदारुणम् ॥

इति वचनाच्च । उत्तरदिने प्रदोषे दर्शाभावेपूर्वदिने प्रदोषदर्शयोगे तु पूर्वदिन एव कर्मकालस्य मुख्यत्वात् । 'तुलासंस्थे सहस्रांशा'विति प्रागुक्तज्योतिर्वचनाच्च । ‘भूताहे ये प्रकुर्वन्ती-'त्यादिवचनस्योभयदिने प्रदोषेऽमावास्याया लाभेऽलाभे च पूर्वदिने कर्तव्यतानिषेधकत्वंतिथितत्त्वे स्मार्तोऽप्येवम् । उल्काप्रहणमन्त्रस्तु -

शस्त्राशस्त्रहतानां च भूतानां भृतदर्शयोः ।

उज्ज्वलज्योतिषा देहं निर्द्दहे व्योमवह्निना ॥

भ्रमणमन्त्रस्तु -

अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम ।

उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम् ।। इति ।

विसर्ज्जनमन्त्रस्तु ब्रह्मपुराणे-

यमलोकं परित्यज्य आगता ये महालये ।

उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते ॥ इति

अथ दीपमालिका दानफलदानमाह-

यः कुर्यात्कार्त्तिके मासेशोभनां दीपमालिकाम् ।

घृतेन च चतुर्दश्याममायां च विशेषतः ।।

यावद्दीपप्रसंख्या तु घृतेनापूर्यबोधिता ।

तावद्युगसहस्राणि स्वर्गलोके महीयते ।।

अथ गोक्रीडादौ प्रतिपदमावास्यायुतैव ग्राह्या । तथाहि नारदः-

या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप ! ।

पूजनात्त्रीणि वर्द्धन्ते प्रजा गावो महीपतिः ।।

स्मृतिरपि - शिवा च शिवदुर्गा च दुर्भगा च हुताशिनी ।

गोपूजा च वटच्छाया कर्तव्या प्रथमे दिने ।।

देवलोपि-प्रतिपद्दर्शसंयोगे गवां वै क्रीडनं भवेत् ।

परविद्धासु करणात्पुत्रदारधनक्षयः ।। इति ।

स एव प्रतिपद्यग्निकरणं द्वितीयायां गवार्चनम् ।

क्षत्रक्षयं करिष्येते वित्तनाशं कुलक्षयम् ॥ इति ।

नारदोपि --'भद्रायां गोकुलक्रीडा स देशो वै विनश्यति

भद्रायां द्वितीयायुतायाम् । एतच्च द्वितीयदिने चन्द्रदर्शनसम्भावनायाम् । अत एव पुराणसमुच्चयेऽपि ।

गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ।

सोमो राजा पशून् हन्ति सुरभीपूजकांस्तथा ॥ इति ।

प्रतिपदुत्तरं सूर्यास्तमनकालपर्यन्तं षण्मुहूर्तान्यूना यदि द्वितीया तदा चन्द्रदर्शनसम्भावना सर्वसम्मतायत्र यदा प्रतिपदि षण्मुहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावना गोक्रीडनं न कार्यमिति तिथिनिर्णयः । ठक्कुरैरपि ‘या कुहू'रित्यादि पूर्ववचनान्यभिधाय एते विधिप्रतिषेधाः पूर्वदिने प्रतिपदः सायाह्नव्यापित्वे द्वितीयदिने चन्द्रदर्शनसम्भवे च ज्ञेयाः । दिनद्वये सायाह्नव्यापित्वे परैव ग्राह्येत्यभिहितम् । एवं च द्वितीयदिने यदि प्रतिपदुत्तरं सूर्यास्तमनकालपर्यन्तं षण्मुहूर्तन्यूनैव द्वितीया तदा चन्द्रदर्शनसम्भावनाया अभावात् द्वितीयायुतैव ग्राह्या । तत्रैव पुराणसमुच्चयः

वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका ।

द्वितीया वृद्धगामित्यादुत्तरा तत्र बोध्यते ॥ इति ।

चन्द्रादर्शने तु द्वितीयायुतैव ग्राह्येति तिथिनिर्णयः ।

सायाह्ने होलिकां कुर्यात्पूर्वाह्णे क्रीडनं गवाम् ।। इति ।

पूर्वाह्णः सार्द्धप्रहरं यावत् । तथाहि तिथिचन्द्रिकायां-

पूर्वाह्णः प्रहरं सार्द्धं मध्याह्नः प्रहरं तथा ।

तत्तृतीयोऽपराह्णः स्यात्सायाह्नश्च ततः परम्।। इति ।

कुहूः प्रतिपद्युता यत्र गावस्तत्र न पूजयेत् । इत्यादि स्मृतयोऽपि ।

द्वितीयदिने द्वितीयायाः षण्मुहूर्त्तान्न्यूनत्वे पूर्वयुक्तायाः कर्तव्यतानिषेधकत्वेन व्याख्येया इति सर्वं सुस्थम् । विशाखायां गोपूजानिषेधमाह राजमार्तण्डे-

विशाखायाममावास्या विशाखा प्रतिपद्युता ।

आयुः पुत्रं धनं हन्ति सुरभीपूजकांस्तथा ॥

सुरभी गौः ।

अत्र कार्त्तिकशुक्लद्वितीया यमद्वितीयाख्यातस्यां कर्तव्यं स्कन्दपुराणे-

कार्त्तिके शुक्लपक्षे तु द्वितीयायां युधिष्ठिर ! ।

यमो यमुनया पूर्वम्भोजितः स्वगृहेऽर्चितः ॥

अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ।

अस्यां निजगृहे विप्र ! भोक्तव्यं न ततो नरैः ।

स्नेहेन भगिनीहस्ताद् भोक्तव्यं पुष्टिवर्द्धनम् ।

वस्त्रालङ्करणादीनि ताभ्यो देयानि यत्नतः ।।

भगिन्या पठनीयो मन्त्रो यथा-

भ्रातस्तवानुजाताऽहं भुंक्ष्व भक्तमिदं शुभम् ।

प्रीतये यमराजस्य यमुनाया विशेषतः ॥

ज्येष्ठभगिन्यास्तु- ‘भ्रातर्ज्येष्ठाऽनुजाताऽहम्इति शेषः । अन्यत्समानमिति स्मार्त्ताः । तत्र हे भ्रातरनुजाता वा ज्येष्ठाऽहमित्यन्वयः । ब्रह्माण्डपुराणे—

या तु भोजयते नारी भ्रातरं युग्मके तिथौ ।

अर्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् ॥

भ्रातुरायुः क्षयो राजन्न भवेत्तत्र कर्हिचित् ॥

युग्मके द्वितीयातिथौ । यमद्वितीया प्रतिपद्युता ग्राह्येति निर्णयामृतः ।

हेमाद्रौ तु द्वितीया मध्याह्रव्यापिनी पूर्वविद्धा चेति विशेषः ।।

अथात्र चित्रगुप्तपूजनमाह गौडः-

यमं च चित्रगुप्तं च यमदूताँश्च पूजयेत् ।

अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्वयैः ॥

इयं पूजा अपराह्णे आह स्कान्दे-

ऊर्ज्जशुक्ल द्वितीयायामपराह्णेऽर्चयेद्यमम् ।

स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ॥

भानुजायां यमुनायाम् । व्रतादौ दिवैवैकभुक्तम् । तथाहि तिथिचन्द्रिकायाम्-

दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् ।

एकभुक्तमिति प्रोक्तं मतं स्यात्तद्दिवैव हि ।

अथ एकादशीनिर्णयः

एकादशी द्वादशीयुतैव ग्राह्या । 'रुद्रेण द्वादशी युक्ते'ति निगमात् । तिथिमलरूपाया अपि द्वादशीयुक्तायाः प्राप्तौ सैव ग्राह्या ।

षष्टिदडात्मिकायाश्च तिथेर्निष्क्रमणे परे ।

अकर्मण्यन्तिथिमलं विद्यादेकादशीं विना ॥ इति वचनात् ।

दशमीयुक्ताया ग्रहणे दोषमाह स्मृति:-

एकादशी दशाविद्धा गान्धार्या समुपोषिता ।

तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ इति ।

एतच्चोभयदिने एकादशीलाभे । यदि तु दशमीमात्रयुक्तैव सान द्वादशीयुक्तातदा दशमीयुता कर्तव्या । तथाहि स्मृतिः-

एकादशी न लभ्येत सकला द्वादशी भवेत् ।

उपोष्या दशमीविद्धा ऋषिरुद्दालकोऽब्रवीत् ॥ इति ।

न लभ्येतेति द्वादशीयुक्तेति शेषः । द्वैतनिर्णयद्वैतपरिशिष्टव्रतपद्धतिपक्षधरीय- तिथिचन्द्रिकादिमैथिलग्रन्थेष्वप्येतादृशस्थले दशमीयुक्तायामेव कर्तव्यत्वं सिद्धान्तितंन तु द्वादशीव्रतमिति । त्र्यहस्पर्शमाह स्मृतिः-

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।

त्र्यहस्पृशमहोरात्रं तत्र साहस्रिकं फलम् ॥ इति ।

साहस्रिकं सहस्रगुणम् । हरिशयनादौ फलादिभक्षणनिषेधमाह भगवान्-

"मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने ।

फलमूलपयोहारी हृदि शल्यं ममार्पति ॥

मच्छयने हरिशयनेमदुत्थाने देवोत्थाने पार्श्वपरिवर्त्तने भाद्रशुक्लैकादश्याम् । स्मृतिः-

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।

सूतके मृतके चैव अन्यस्मिन्नप्यशौचके ॥

सर्वथा न परित्याज्या इच्छता श्रेय आत्मनः । इति ।

अशक्तौ त्वाह वायुपुराणे-

फलं मूलं पयस्तोयमुपभोग्यम्भवेच्छुभम् ।

नत्वेवं भोजनङ्कश्चिदेकादश्यां प्रकीर्त्तितम् ॥

प्रमादादितो व्रताकरणे व्रतभङ्गाभावमाह छागलेयः-

सर्वभूतभयं व्याधिः प्रमादो गुरुशासनम् ।

अव्रतघ्नानि कीर्त्यन्ते सकृदेतानि शास्त्रतः ॥

प्रमादो विस्मरणम् । सकृदेकवारम्वारं वारं तद्धेतुभिरप्यकरणे भङ्ग एव सकृदित्युक्तेः ।

स्मृतिः - एकादशी दिने यत्र भार्या ऋतुमती भवेत् ।

पितृश्राद्धं च तत्रैव उपायस्तत्र कथ्यते ॥

एकादशीव्रतं कुर्यात्पिण्डाघ्राणं च श्राद्धकृत् ।

अर्द्धरात्रे व्यतीते तु ऋतुन्दद्यान्न दोषभाक् ॥

ब्रह्मपुराणे-

एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् ।

सुप्तं प्रबोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः ॥ इति ।

अथ विष्णुत्थापनमन्त्राः-

ब्रह्मेन्द्ररुद्रैरभिवन्द्यमानो भवानृषिर्वन्दितवन्दनीयः ।

प्राप्ता तवेयङ्किल कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ! ॥

मेघा गता निर्मलपूर्णचन्द्रः शारद्यपुष्पाणि मनोहराणि ।

अहन्ददानीति च पुण्यहेतोर्जागृष्व जागृष्व च लोकनाथ ! ॥

उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज्य निद्रां जगत्पते ! ।

त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥

हरिवासरमाह मत्स्यपुराणे-

द्वादशीशुक्लपक्षे तु नभस्ये श्रवणं यदि ।

उपोष्यैकादशीन्तत्र द्वादशीमप्युपोषयेत् ॥

ब्रह्माण्डे  द्वादश्यान्तु दिने भाद्रे हृषीकेशर्क्षसंयुते ।

उपवासद्वयं कुर्याद्विष्णुप्रीणनतत्परः ॥

द्वादश्येकादशी सौम्यः श्रवणं च चतुष्टयम् ।

देवदुन्दुभियोगोऽयं शतमन्युफलप्रदः ।।

नभस्ये भाद्रेहृषीकेशर्क्षं श्रवणासौम्यो बुधः । मन्युर्यज्ञः । वराहपुराणे-

एकादशीमुपोष्यैव द्वादशीमप्युपोषयेत् ।

न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ।।

अत्र तिथिचन्द्रिकायां- 'पारणान्तं व्रतं ज्ञेयं समाप्तौ द्विजभोजनम् ।इति । समाप्तिश्च पारणेनतदभावे उपवासद्वये क्रियमाणे पूर्वव्रतस्यासमाप्तेर्विधिलोपः प्राप्नोति सोऽप्येकदेवत्वेन न विधिलोप इति पक्षधरमिश्राः पठन्ति ।

आभाकासितपक्षे च मैत्रश्रवणरेवती ।

द्वादशी बुधवारेण हरेर्वासर उच्यते ॥

तथा चाषाढशुक्लद्वादशी बुधवारानुराधायुताभाद्रशुक्ल द्वादशी बुधश्रवणायुताकार्तिकशुक्लद्वादशी बुधरेवतीयुता हरिवासर इत्यर्थः पर्यवसितः ॥

अथैकादशीपारणायां मासभेदेन वस्तुभेदमाह–

गोमूत्रेण च गोमयेन पयसा दध्ना गवां सर्पिषा

सद्दर्भोदककार्तवीर्ययवजैश्चूर्णस्तथा दूर्वया ।

कुष्माण्डेन गुडेन विल्वतुलसीपत्रेण वा पारणं

द्वादश्यां गदितं क्रमान्मुनिवरैर्मार्गादितस्तत्फलम् ।।

पयसा दुग्वेनकार्तवीर्यस्तिलः । विल्वतुलसीपत्रयोर्विकल्पः । मार्गादि-

द्वादशमासेषु क्रमेण द्वादशत्रस्तुभिः पारणमिति ।

अर्थ-  मार्गशीर्ष की एकादशी का पारण गोमूत्र सेपौष की एकादशी का पारण गोमय (गोबर) सेमाघ की एकादशी का पारण गाय के दूध सेफाल्गुन की एकादशी का पारण गाय के दही सेचैत्र की एकादशी का पारण गाय के घी सेवैशाख की एकादशी का पारण कुशो के जल सेज्येष्ठ की एकादशी का पारण कार्तवीर्य यानी तिल सेआषाढ़ की एकादशी का पारण यव (जौ) के चूर्ण (आटा) सेश्रावण की एकादशी का पारण दूर्वादल सेभाद्रपद की एकादशी का पारण कुष्माण्ड (भतुआ, कुम्हर, कद्दू, जिससे पेठा बनता है) सेआश्विन की एकादशी का पारण गुड़ से  कार्त्तिक की एकादश का पारण बिल्वपत्र या तुलसीपत्र से करना चाहिये। मुनियों ने यह पारण द्वादशी तिथि को करने का कहा है।

पद्मपुराणे क्रियायोगे-

दशम्यां विप्रशार्दूल ! द्वादश्यां चैव वैष्णवः ।

सम्यग्व्रतफलं प्रेप्सुर्न कुर्यान्निशि भोजनम् ॥

दशम्यामेवमादीनि निषिद्धानि द्विजोत्तमः ।

द्वादश्यामपि तान्येव निषिद्धानि न संशयः ।

तथाच दशमीविहितानि सर्वाण्येव मांसभक्षणाकरणादीनि द्वादश्यामपि कुर्यादिति भावः । कार्त्तिकी पूर्णिमायां कौशिकीस्नाने फलमाह रामायणे-

कृत्तिकाऋक्षसंयुक्ता राका या कार्त्तिके भवेत् ।

कोकामुखे तु कौशिक्यां स्नात्वा स्वर्गे वसेन्नरः ॥

ओमद्येत्यादि कौशिकीस्नानमहं करिष्ये । इतिसंकल्पः । स्नानमन्त्रस्तु-

गाधिराजसुते ! देवि ! विश्वामित्रमुनेः स्वसः ! ।

ऋचीकभार्ये ! सत्तोये ! पापं मे हर कौशिक ! ॥

अथाग्रहणकृत्यम् ।

तत्र नवान्नभक्षणम् । वृश्चिकत्रयोदशांशाभ्यन्तरे नवान्नभक्षणम् ।

वृश्चिके पूर्वभागे तु नवान्नं शस्यते बुधैः ।

अपरे क्रियमाणे तु धनुष्येव कृतं भवेत् ॥

धनुषि यत्कृतं श्राद्धं मृगनेत्रासु रात्रिषु ।

पितरस्तन्न गृह्णन्ति नवान्नामृतकांक्षिणः ॥ इति वचनात् ।

पूर्वभागे त्रयोदशांशाभ्यन्तरे । अपरे च चतुर्द्दशांशादौतत्राविहिततिथ्यादीन्याह ज्यौतिषे-

सूर्ये चैव विशाखगे स्मरतिथौ तारे त्रिजन्मान्विते

नन्दामन्दमहोजकाव्यदिवसे पोषे मधौ कार्तिके ।

भेषु ग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे

श्राद्धं भोजनकं नवान्नविहितं पुत्रार्थनाशप्रदम् ॥

स्मरतिथिः त्रयोदशीनन्दा प्रतिपत् पष्ठ्येकादश्यःमन्दः शनिःमहीजो मङ्गलःकाव्यः शुक्रःमधौ चैत्रेभेषु नक्षत्रेषुउग्रः पूर्वात्रयमघाभरण्यःअहिरश्लेषाशिव आर्द्रा एतानि निषिद्धानि ।

आश्लेषाकृत्तिकाज्येष्ठामूलाजपदभेषु च ।

भृगुभौमदिने रिक्तातिथौ नाद्यान्नवोदनम् ॥

इति श्राद्धशेषाभोजिमात्र परम् । अजपदं पूर्वभाद्रपदमिति । तिथितत्त्वे विहितानि नक्षत्रादीन्याह भोजराजः-

ब्रह्मा विष्णुबृहस्पती शशधरो मार्तण्डपौष्णादितिः

मैत्रे चित्रविशाखवायुधनभे मूलाश्विवह्नौ तथा ।

शक्रे वारुणऋक्षके शुभदिने श्राद्ध नवं शस्यते

नन्दाभार्गवभूमिजेषु न भवेच्छ्राद्धं नवान्नोद्भवम् ।

ब्रह्मा रोहिणीविष्णुः श्रवणःबृहस्पतिः पुष्यःशशधरो मृगशिराःमार्तण्डो हस्तःपौष्णो रवतीअदितिः पुनर्वसूमैत्रमनुराधाचित्रं चित्रा ।

अन्यच्च — हरियुगलेऽदितियुगले पूषायुगले विरञ्चियुगले च ।

करपञ्चकोत्तरेषु च नवान्नफलभक्षणं शस्तम् ॥

तथा च रोहिण्यादिद्वयम्पुनर्वस्वादिद्वयम्उत्तरत्रयंहस्तादिपञ्चकम्श्रवणाद्वयं रेवत्यादिद्वयं एतानि नक्षत्राणिशुक्रशनिमङ्गलभिन्नवाराः । नन्दारिक्तात्रयोदशीभिन्न तिथयः । तृतीयजन्मभिन्नताराः । अष्टमभिन्नचन्द्रमाः । विशाखाभिन्ननक्षत्रस्थसूर्यः । पौषचैत्रकार्तिकभिन्नमासाः । शुक्लपक्षः । हरिशयनभिन्नकालः प्रशस्तः ।

अथ पौषकृत्यम्

अथाकालवृष्ट्यादिविचारः । स्मृतिः-

पौषादिचतुरो मासान् ज्ञेया वृष्टिरकालजा ।

व्रतयात्राविवाहादि वर्जयेत्सप्तवासरान् ॥

एतच्च निरन्तरदिनत्रयवृष्टयांतृतीयेन तु सप्ताहमिति वक्ष्यमाणवचनैकवाक्यत्वाद् । विशेषमाह-

एकेनैकदिनन्त्याज्यं द्वितीयेन दिनत्रयम् ।

तृतीयेन तु सप्ताहन्त्यजेदाकालवर्षणे ।।

एकेनैकदिनस्पृशा वृष्ट्या द्वितीयेन दिनद्वयस्पृशाएवमग्रेऽपि एकदिनमिति तदग्रिमदिनमित्यर्थः । एवं दिनत्रयमित्यत्रापि वृष्टिदिनानन्तरदिनत्रयमित्यर्थः । एवमग्रेऽपि वृष्टिदिनत्यागो दण्डापूपन्यायात् । तथा च वृष्ट्यधिकरणदिनं तदुत्तरमेकत्रिसप्तदिनानि च त्याज्यानिएवं निरन्तरदिनचतुष्टयादिवृष्ट्या वृष्ट्यधिकरणदिनचतुष्टयादिकम्तदनन्तरं सप्तदि- नानि च त्याज्यानितत्रापि तृतीयेन तु सप्ताहमेतद्विषयत्वात्, "अधिकं तु प्रविष्टन्न तु तद्धानिरिति न्यायेन” दिनचतुष्टयादिवृष्टौ अवश्यं दिनत्रयवृष्टिसत्वात् । अत्र द्वैतपरिशिष्टे एकेनैकदिनस्पृशा वृष्ट्या एकं दिनंतदग्रिमं च दिनं त्याज्यम् । द्वितीयेनाव्यवहितदिनद्वयस्पृशा वृष्ट्या तदुत्तरं त्र्यहः । वृष्ट्यधिकरणदिनस्याशुद्धत्वं तुन शुद्धिं निर्दिशेत्तावदिति यावत्तावत्पदसमभिव्याहारात् । वृष्टिदिनमादाय एकद्वित्रिगणने तृतीयार्थकारणत्वानुपपत्तिः । द्वितीयेन दिनत्रयमित्यत्र दिनैकमित्येव ब्रूयादिति केशवमिश्राः । नाडीजङ्घस्तु पौषादि चतुरो मासानित्यत्र मासपदं पक्षपरमाह तथाहि-

मासान् मार्गप्रभृति मुनयो व्यासवाल्मीकिगर्गा

श्चैत्रं यावद्वर्षणविधौ नेति कालं वदन्ति ।

नाडीजङ्घः सुरगुरुमुनिः प्राह वृष्टेरकालं

मासावेतावशुभफलदौ पौषमाघौ न शेषौ ॥

इति पठित्वा "पौषादिचतुरो मासा"नित्यत्र पक्षा वै मासा इति वदन्ति । अकालवृष्टाऽपि यदि नरपशुचरणचिह्नं भुवि सम्पद्यते तदा- शुद्धिर्नान्यथातथाहि-

वृत्तेऽप्यकालवर्षे नाशुद्धिन्निर्दिशेत्तावत् ।

यावन्न भवति याने नरपशुचरणाङ्किता वसुधा ॥ इति ।

अत्र नरपशुर्वानर इति मेधातिथिः ।

अथ ग्रहणादावशुद्विमाह-

एकरात्रं परित्यज्य कुर्यात्पाणिग्रहं ग्रहे ।

प्रयाणे सप्तरात्राणि त्रिरात्रं व्रतबन्धने ॥

पाणिप्रहो विवाहः । ग्रहे ग्रहणेव्रतबन्धने उपनयनेएतच्च प्रौढकन्याप्रौढमाणवकविवाहोपनयनविषयमतो वक्ष्यमाणवचनाद्विरोधः ।

दिग्दाहे दिनमेकं स्याद् ग्रहे सप्तदिनानि च ।

भूकम्पे च समुत्पन्ने त्रिरात्रं परिवर्जयेत् ।

दृश्यते सिंहिकासूनुरुदितो गगने यदि ।

यत्रादौ मङ्गले कार्ये सप्तरात्रं विवर्जयेत् ॥

अरिष्टे त्रिविधोत्पाते 'सिंहिकासूनुदर्शने ।

सप्तरात्रं न कुर्वीत यज्ञोद्वाहादिमङ्गलम् ॥

दर्शनाद्दर्शनाद्राहोः केतोः सप्तदिनन्त्यजेत् ।

यावत्केतूदयस्तावदशुद्धः समयो भवेत् ॥

धूमकेतौ समुत्पन्ने ग्रहणे सूर्यचन्द्रयोः ।

ग्रहाणां सङ्गरे चैव न कुर्यान्मङ्गलक्रियाम् ॥

यदाऽम्बुवृष्टिः कुलिशं पतत्यधो धराप्रकम्पोऽसुरकेतुदर्शनम् ।

तदा विवाहव्रतबन्धनेषु विवर्जयेत्सप्तदिनानि शास्त्रतः ।।

अम्बुवृष्टिः दिनत्रयमकालवृष्टिः ।

ग्रहे रवीन्द्वोरवनीप्रकम्पे केतूदयोल्कापतनादिदोषे ।

व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित् ॥

अत्रादिपदेन करकावज्रपातादेरुपग्रह इति द्वैतनिर्णयप्रदीपे गोकुलनाथोपाध्यायाः । ग्रहणभूकम्पोल्कापात-करकापातादिसमाहारे त्रयोदशाहमशुद्धम् । किञ्चिदूनसमाहारे दशाहम् । ग्रहणायेद्येकैकोपग्रहे त्र्यहमिति द्वैतनिर्णयः । एतत्समुदायार्थपर्यालोचनया अयमर्थः पर्यवसितःग्रहणेऽत्यन्तप्रौढकन्याविवाहे तद्दिनमात्रमशुद्धम् । प्रौढमाणवकोपनयने ग्रहणदिनमारभ्य दिनत्रयम्प्रौढभिन्नकन्याविवाहे तादृशमाणवकोपनयनादिमङ्गलकर्मसु ग्रहणानन्तरं सप्तदिनमशुद्धम् । दिग्दाहे च मङ्गलकर्ममात्रे एकदिनमशुद्धम् । भूमिकम्पे दिनत्रयम् । तद्दिनमारभ्य ग्रहणभूकम्पोल्कापातवज्रकरकापाता- दिसमुदाये एकस्मिन्दिने जाते उपनयने त्रयोदशदिनमशुद्धम्किञ्चिन्न्यूनतत्समुदाये जाते दशाहमशुद्धम्अन्यत्सुगमम् । भूमिदारणे वज्रमात्रपाते वा मङ्गलकर्ममात्रे तद्दिनानन्तरन्दिनमेकमशुद्धमिति द्वैतपरिशिष्टाद्यनुसारीयः पन्थाः ।

व्रताह्नि पूर्वसन्ध्यायां वारिदो यदि गर्जति ।

तद्दिनं स्यादनध्यायं व्रतं तत्र न कारयेत् ॥

व्रतमुपनयनम् । पूर्वसन्ध्या प्रातः सन्ध्या । अत्र प्रमाणं विष्णुपुराणम्-

ततोऽखिलजगत्पद्मबोधायाच्युतभानुना ।

देवकीपूर्वसन्ध्यायामाविर्भूतं महात्मना ॥ इति ।

"प्रभातसन्ध्यासमये च गर्जिते तदा ह्यनध्यायमुशन्ति सूरयः ।"

इति रत्नसारशतकं च । तथा च उपनयनदिने प्रातः सन्ध्यागर्जे तद्दिनमुपनयनेऽशुद्धमित्यर्थः पर्यवसितः । पक्षधरमिश्रीयमानबोधसारसंग्रहेऽप्येवमैव । तथाहि—“व्रताह्नि पूर्वसन्ध्यायाम्" इत्यादिवाक्यस्य उक्तत्वात् ।

अथ अर्द्धोदयः । महाभारते-

अमाऽर्कपातश्रवणैर्युता चेत्पौषमाघयोः ।

अर्द्धोदयस्सविज्ञेयः कोटिसूर्यग्रहैस्समः ।

अमा अमावास्यापौषमाघयोरित्यनेनान्वयःअर्को रविवारः पातो व्यतीपातयोगः ।

श्रवणार्कव्यतीपातैरमा चेत्पौषमाघयोः ।

अर्द्धोदयः स विज्ञेयः किञ्चिन्न्यूने महोदयः ॥

योगोऽयं दिवैव शस्तः । तथाहि तिथितत्त्वचिन्तामणिधृतवचनम् -

“दिवैव योगश्शस्तोऽयं न तु रात्रौ कदाचन ।" इति ।

फलमाह

- अद्धोदये तु सम्प्राप्ते सर्वं गङ्गासमं जलम् ॥

शुद्धात्मानो द्विजास्सर्वे भवेयुर्ब्रह्मसन्निभाः ।

यत्किञ्चिद्दीयते दानं तद्दानं मेरुसन्निभम् ।।

अत्र सङ्कल्पः ओमद्य पौषे मासि कृष्णे पक्षे अमावास्यायां तिथावमुकगोत्रस्यामुकशर्मणो मम सूर्यग्रहणकालीनगङ्गास्नानजन्य- फलकोटिगुणप्राप्तिकामोऽर्द्धादये गङ्गायां स्नानमहं करिष्ये । एवं माघेऽपि तत्र पौषस्थाने माघे मासीत्येव विशेषः । एतन्मासे महिषीप्रसवे दोषशान्तिर्भाद्रेऽभिहिता । वैशाखादौ तु कौशिकीस्नाने प्रमाणमभिहितं प्राक् । पौषी पूर्णिमायां तत्स्नाने प्रमाणाभावेऽपि शिष्टाचारात्स्नानं कर्त्तव्यम् । तत्र सङ्कल्पमाह सङ्कल्पावली- 'ओमद्येत्यादि पृथिव्यधिकरणकसकलतीर्थस्नानजन्यफलप्राप्तिकामः कौशिक्यां स्नानमहङ्करिष्येइति सङ्कल्प्य -

ॐ गाधिराजसुते ! देवि ! विश्वामित्र मुनेस्स्वसः ।

ऋचीकभार्ये ! सत्यार्ये ! पापं मे हर कौशिकि ! ॥

इति पठित्वा स्नायात्।।

अथ माघकृत्यम् ।

तत्र प्रातः स्नानकालमाह तिथितत्वचिन्तामणौ स्मृतिः-

उत्तमन्तु सनक्षत्रं लुप्ततारन्तु मध्यमम् ।

सवितर्युदिते भूप ! ततो हीनं प्रकीर्तितम् ॥

अरुणोदय वेलास्नानफलमाह-

यो माघमास्युषसि सूर्यकराभिताम्रे स्नानं समाचरति चारु नदीप्रवाहे ।

उद्धृत्य सप्त पुरुषान् पितृमातृवंश्यान् स्वर्गं प्रयात्यमरदेहधरो नरोऽसौ ॥

अत्र मासः सौरः । तेन मकरसंक्रमदिनमारभ्य प्रातः स्नाननियमः । जलमात्रे तु पद्मपुराणे-

स्वर्गलोके चिरं वासो येषां मनसि वर्तते ।

यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे ॥

मृगभास्करे मकरस्थे रवौ । स्नानमन्त्रस्तु

मकरस्थे रवौ माघे गोविन्दाच्युत ! माधव ! ।

स्नानेनानेन मे देव ! यथोक्तफलदो भव ।। इति ।

नरसिंहपुराणे-

शीतकाले महावह्निं प्रज्वालयति यो नरः ।

सर्वसत्त्वहितार्थाय स्वर्गे चाप्सरसं लभेत् ॥

हितार्थाय शीतनिवारणायेत्यर्थः ।

अथ माघकृष्णचतुर्थी गणेशचतुर्थी । अस्यां गणेशोत्पत्तिमाह शिवधर्मे-

सर्वदेवमयः साक्षात् सर्वमङ्गलकारकः ।

माघकृष्णचतुर्थ्यान्तु प्रादुर्भूतो गणाधिपः ।।

इयं चतुर्थी तृतीयायुता ग्राह्या ।

गणेशगौरीबहुलाव्यतिरिक्ता प्रकीर्तिता ।

चतुर्थी पञ्चमीविद्धेत्यादिवचनात् गणेशचतुर्थीव्यतिरिक्तचतुर्थ्यां एव पञ्चमीयोगप्राशस्त्याभिधानात् ।"मातृविद्धो गणेश्वर” इति वचनात् ।

चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते ।

इति बृहस्पतेश्च । एतच्चोभयदिने मध्याह्नव्याप्तौ उत्तरदिनमात्रे मध्याह्नव्याप्तौ वा उत्तरदिने एव -

मध्याह्नव्यापिनी चेत्स्यात् परतश्च परेऽहनि । इति बृहस्पतेः ।

माघे मासि गणेशदेवताका चतुर्थीति निबन्धमात्रेऽपि प्रसिद्धेतिठक्कुराः । अमावास्यायामर्द्धोदयः स पौषकृत्ये द्रष्टव्यः ।

अथ माघशुक्लपञ्चमी श्रीपञ्चमी सा च पूर्वयुतेति माधवाचार्यः । दिवोदासोऽपि ‘माघशुक्ला पश्चमी या पूर्वविद्धा प्रशस्यते। इति मैथिल गौडसम्मतम् । हेमाद्रिमते परेति दाक्षिणात्याः ।

अथ माघशुक्लसप्तमी अरुणोदयव्यापिनी ग्राह्यातथा च विष्णुः-

सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।

अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥

अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।

प्रयागे यदि लभ्येत कोटिसूर्यग्रहैः समा ॥

(गङ्गायां यदि लभ्येत शतसूर्यग्रहैः समा । )

इति क्वचित्पाठः । तत्र सप्तार्कपत्राणिबदरीपत्राणि शिरसि निधाय वक्ष्यमाणमन्त्रेण स्नायात्-

यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।

तन्मे रोगञ्च शोकं च माकरी हन्तु सप्तमी ॥

ॐ एतज्जन्मकृतं पापं यच्च जन्मान्तरार्जितम् ।

मनोवाक्कायजं यच्च ज्ञाताज्ञातञ्च यत्पुनः ।।

इति सप्तविधम्पापं स्नानान्मे सप्तसप्तिके ।

सर्वव्याधिसमायुक्तं हर माकरि सप्तमि ! ॥

इति मन्त्रं पठेत् । रोकं च शोकं चेति तिथितत्त्वे पाठःरोकं छिद्रमिति व्याख्यानञ्च ।

उभयदिने अरुणोदयकाले सप्तमीलाभे पूर्वदिने एव स्नानमधिककालव्यापित्वात् । अरुणोदयवेलामाह देवीभागवते

चतस्रो घटिकाः प्रातररुणोदय उच्यते । इति ।

पञ्च पञ्च उषः कालः सप्तपञ्चारुणोदयः ।

अष्टपञ्च भवेत् प्रातः शेषः सूर्योदयो मतः । इति ।

अथ माघशुक्लाष्टमी भीष्माख्यातस्यां भीष्मतर्पणान्याह पाद्मे-

माघे मासि सिताष्टम्यां सतिलैर्भीष्मतर्पणम् ।

श्राद्धं च ये नराः कुर्युस्तेस्युः सन्ततिभागिनः ॥

भारते- शुक्लाष्टम्यान्तु माघस्य दद्याद्भीष्माय यो जलम् ।

संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥

एतत्तर्पणे सर्ववर्णानामधिकारःइयानेव विशेषः ।

ब्राह्मणः पितृतर्पणानन्तरम्क्षत्रियादयस्तु प्रथममेव भीष्मतर्पणं कुर्युरिति समाचारः । तर्पणमन्त्रो यथा-

वैयाघ्रपादगोत्राय सांकृतिप्रवराय च ।

अपुत्राय ददाम्येतत्सलिलं भीष्मवर्मणे ।

वसूनामवताराय सांकृतिप्रवराय च ।

अर्घं ददामि भीष्माय आबालब्रह्मचारिणे ॥

इति मन्त्राभ्यां सलिलाञ्जलिं दत्वा पठेत् ।

ओं भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।

आभिरद्भिरवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ॥ इति ॥

अथ माघीपूर्णिमा परयुता ग्राह्यायथोक्तं ब्रह्मवैवर्ते-

भूतविद्धे न कर्तव्ये दर्शपूर्णे कदाचन ॥ इति ।

अथ फाल्गुनकृत्यम्

स्मृतिः - फाल्गुनस्य च मासस्य कृष्णाष्टम्यां महीसुता ।

जाता दाशरथेः पत्नी तस्मिन्नहनि जानकी ॥

उपोषितो रघुपतिस्समुद्रस्य तटे तदा ।

रामपत्नी च सम्पूज्या सीता जनकनन्दिनी ॥ इति ॥

अथ फाल्गुनकृष्ण चतुर्दश्यां शिवरात्रिव्रतम्। तच्च प्रदोषनिशीथोभयव्यापिन्यां चतुर्द्दश्याम् । तथाहि स्कान्दे-

त्रयोदशी यदा देवि ! दिनुभुक्तिप्रमाणतः ।

जागरे शिवरात्रिः स्यान्निशि पूर्णा चतुर्दशी ॥ इति ।

दिनुभुक्तिरस्तमनकालः | निशीथमाह-- 'महानिशी द्वे घटिके रात्रेर्मध्यमयामयोः ।इति । तथा च द्वितीयप्रहररात्रिशेषदण्डः तृतीयप्रहररात्रिप्रथमदण्ड इति दण्डद्वयनिशीथ इति भावः । यदि पूर्वदिने निशीथव्यापिनीपरदिने प्रदोषमात्रव्यापिनीतदा पूर्वदिने व्रतम्“निशीथव्यापिनी ग्राह्या शिवरात्रि चतुर्दशी ।" इति वचनात् । यदि तु पूर्वदिने निशीथानन्तरं परदिने निशीथपूर्वकालपर्यन्तं चतुर्दशीतदा परदिने व्रतम्प्रदोषव्यापिनी ग्राह्येति वचनात् । प्रदोषमाह ठक्कुरः- प्रदोषो घटिकाचतुष्टयरूप इति एतत्पारणन्तु चतुर्द्दश्यन्तेतथाहि-

कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी ।

एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणम्भवेत् ॥ इति ॥

पारणकाले चतुर्दश्यन्तासम्भवे चतुर्दश्यामपि पारणमाह पाद्मे-

उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् ।

कृतैः सुकृतलक्षैस्तु लभ्यते वा नवा नरैः ।।

श्रथ शिवरात्रिव्रतारम्भप्रकारः। फाल्गुनकृष्णचतुर्द्दश्यां प्रातःस्नानादिराचान्त उत्तराभिमुखो वारिपूर्णताम्रपात्रमादाय 'भगवन्सूर्य-भगवत्योदेवता अद्यादि चतुर्दशवर्षं यावत् प्रतिफाल्गुनकृष्णचतुर्दश्यां शिवरात्रिव्रतमहङ्करिष्ये इति निवेद्य कुशादिकमादायामुक- गोत्रस्यामुकशर्मणो ममान्तकालीन- शिवानुचरत्वशिवलोकसहितत्वदेवसाहित्य-सुरालयभ्रमण भूपालत्वसार्वदिकशिवभक्तिरूपबुद्धिविवेकाऽनाहताज्ञत्व-लक्ष्मीगोधनप्राप्तिकामोऽद्यादिचतुर्दशवर्षं यावत् प्रतिफाल्गुनकृष्णचतुर्दश्यां शिवरात्रिव्रतमहङ्करिष्ये इति सङ्कल्प्य व्रतारम्भः । चतुर्दशवर्षपर्यन्तं व्रतं समाप्य उद्यापनं गोदानं कुर्यात् । उद्यापनाशक्तौ गोदानं कृत्वा यथाशक्ति ब्राह्मणान् भोजयेत् ।

अथ नक्तव्रतन्तु–दिनोपवासपूर्वकरात्रि भोजनरूपम् । तत्र दिवारात्र्युभयव्यापिन्यां चतुर्दश्याम्उभयव्याप्त्यसम्भवे प्रदोषव्यापिन्यां, तथाहि स्कान्दे-

दिवारात्रिव्रतं यच्च एक एव तिथौ स्मृतम् ।

तस्यामुभयव्यापिन्यां कुर्यादेव व्रतं व्रती ॥

व्यासः - प्रदोषव्यापिनी ग्राह्या सदा नक्तव्रते तिथिः ।

यदि चोभयदिने प्रदोषव्यापिनी चतुर्दशी तदा परदिने-

यदि स्यादुभयोरह्नोः प्रदोषव्यापिनी तिथिः ।

तत्रोत्तरत्र नक्तं स्यादुभयत्रैव सा यतः ।

इति जाबालवचनात् । उभयत्र दिवसे रात्रौ च । प्रदोषोऽत्र त्रिमुहूर्तः ।

'त्रिमुहूर्तः प्रदोषः स्याद्भानावस्तङ्गते सति। इति व्यासोक्तेरिति ठक्कुराः । प्रदोषोऽस्तमयादूर्ध्वं घटिकाद्वयमिष्यते । इत्युक्त्वा अत्र घटिका दण्डद्वयरूपेति गौडाः ।

अथ नक्तव्रतारम्भप्रकारमाह व्रतपद्धतौ - ओमद्य भगवन्सूर्यभगवत्यो देवता अद्यादिवर्षं यावत् प्रतिकृष्णचतुर्दशीषु नक्तेतरभोजननिवृत्तव्रतमहङ्करिष्ये । फाल्गुनकृष्णचतुर्दश्यामेतत्व्रतारम्भः । एवं द्वित्रिवर्षादि व्याप्य करणे सङ्कल्प ऊहेन करणीयः ।

सन्ध्यामतीत्य भोजनमाद मार्कण्डेयः-

चत्वारि यानि कर्माणि सन्ध्यायां परिवर्जयेत् ।

आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥ इति ।

अत्र सन्ध्या प्राक् प्रातरेव हि । तिष्ठेदासूर्यदर्शनात् ।।इति किञ्चिदालक्ष्य तारकाकालात् सूर्यदर्शनविधिः सन्ध्याकाल इति अस्तमयादूर्ध्वं सन्ध्या,सा च नक्षत्रदर्शन विधेः पूर्वमिति सन्ध्यायाश्चात्यल्पत्वात् घटिकात्रयात्मकः सन्ध्याकालस्तडिद्गज्जितादिनिमित्तयोर्विधिप्रतिषेधयोः स एव गृह्यते इति सन्ध्याद्वयप्रमाणमुक्तवन्तस्तिथिचन्द्रिकायां पक्षधर मिश्राः ॥

अथ अशक्त्यादिना स्वयंव्रताद्यकरणे प्रतिनिधिद्वाराऽपि कारयितव्यमाह पराशरः-

उपवासं व्रतं होमं तीर्थयात्राजपादिकम् ।

विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तत्फलम् ॥

स्कन्दपुराणे - असामर्थ्ये शरीरस्य व्रते च समुपस्थिते

कारयेद्धर्मपत्नीं वा पुत्रं वा विनयान्वितम् ॥

भ्रातरं भगिनीं शिष्यं ब्राह्मणं दक्षिणादिभिः ॥

कात्यायनः- पितृमातृपतिभ्रातृगुर्वर्थे च विशेषतः ।

उपवासं प्रकुर्वाणः पुण्यं शतगुणं लभेत् ।

भार्या भर्तुव्रतं कुर्याद्भार्यायाश्च पतिस्तथा ।

असामर्थ्ये तयोरेवं व्रतभङ्गो न जायते ॥

राज्ञश्च क्षत्रियस्यार्थे एकादश्यामुपोषितः ।

पुरोधाः क्षत्रिणा सार्द्धं फलमाप्नोति निश्चितम् ॥

उपवासफलं ताभ्यां सममेवमवाप्यते ।

अथ स्त्रीणां तु स्वाम्याज्ञां विना व्रतादि न कार्यम् । तथाहि-

नारी या त्वननुज्ञातापित्रा भर्त्रा सुतेन वा ।

निष्फलन्तु भवेत्तस्या यत्करोति व्रतादिकम् ।।

सङ्कल्पितव्रतमशौचेऽपि कर्तव्यम् । तथा च विष्णुः "न व्रतिनां व्रते" इति व्रतीनामारब्धव्रतानां न व्रते इत्यशौचमित्यशौचप्रतिरोधक इति शेषः । विष्णु:--

व्रतयज्ञविवाहेषु श्राद्धे होमार्चने जपे ।

आरब्धे सूतकन्न स्यादनारब्धे तु सूतकम् ।।

अनारम्भ उक्तो हारीतेन-

आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः ।

नान्दीश्राद्धे विवाहादौ श्राद्धे पाकपरिक्रिया ।। इति ।

श्राद्धे दर्शश्राद्धविषयमिति स्मार्ताः । सङ्कल्पमाह हारीतः --

“मनसा सङ्कल्प्येति वाचा अभिलषति कर्मणा चोपपादयतीति" । भविष्ये-

सङ्कल्पेन विना राजन् ! यत् किञ्चित् कुरुते नरः ।

फलं चाल्पाल्पकं तस्य धर्मस्यार्धक्षयो भवेत् । इति ।

भविष्ये- शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा ।

सङ्कल्पो न च कर्तव्यो मृन्मयेन कदाचन ॥

गृहीत्वोदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।

दर्भत्रयं साग्रमूलं फलं पुष्पं तिलान्वितम् ॥ इति ।

अथ व्रते प्रारब्धे स्त्रिया रजोयोगे अन्यद्वारा पूजां कारयेत्तथा मात्स्ये 'यदात्वशुद्धा तदान्येन कारयेत् ।इति ।

अथ गोविन्दद्वादशीयोगमाह -

फाल्गुनस्य सिते पक्षे कुम्भस्थे दिवसाधिपे ।

जीवे धनुषि संस्थे च शोभने रविवासरे ॥

पुष्यर्क्षेण च संयुक्ता गोविन्दद्वादशी मता ।

दिवसाधिपे सूर्येजीवे बृहस्पतौपुष्यर्क्षे पुष्यनक्षत्रे । अस्यां कर्तव्यमाह--

गोविन्दद्वादशीं प्राप्य गच्छेच्छ्री पुरुषोत्तमम् ।

विष्णुलोकमवाप्नोति मोक्षङ्गङ्गाम्बुमज्जनात् ॥

पुरुषोत्तमं जगन्नाथक्षेत्रम् | पूर्ववचनस्थफलमुच्चार्य सङ्कल्प्य पठेत् ।

महापातकसङ्घानि यानि पापानि सन्ति मे ।

गोविन्दद्वादशीं प्राप्य तानि मे हर जाह्नवि ! ॥

इति (पद्मपुराणोक्तं ) पठित्वा गङ्गायां स्नायात् ।

अथ होलिका । सायाह्नव्यापिन्यां चतुर्दशीविद्धायां पूर्णिमायां भद्रा-शून्यायां होलिकादाहः । तथाहि-

सायाह्ने होलिकां कुर्यात् पूर्वाह्णे क्रीडनङ्गवान् । इति ।

श्रावणी दौर्गनवमी दूर्वा चैत्र हुताशिनी ॥

पूर्वविधैव कर्तव्या परविद्धा न कुत्रचित् ।

भद्रायां दीपिता होली राष्ट्रभङ्गङ्करोति वै ।। इति ।

भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा ।। इति ।

यदि च पूर्वदिने सायाह्ने भद्राशून्या सा न लभ्यते तदा परदिने ।

तथाहि ब्रह्मवैवर्ते-

होलिका पौर्णमासी तु सायाह्न व्यापिनी मता ।

भूतविद्धे न कर्तव्ये दर्शपूर्णे कदाचन ।। इति ।

यत्तु--प्रतिपद्यग्निकरणं द्वितीयायां गवार्चनम् ।

क्षत्रच्छेदङ्करिष्येते वित्तनाशं कुलक्षयम् ।।

इत्यादिवचनमुत्तरदिने होलिकानिषेधकं तच्च पूर्वदिने सायाह्ने भद्राशून्यपूर्णिमालाभे वेदितव्यम् । अत्र तिथितत्वचिन्तामणौ तु दिनद्वये प्रदोषव्याप्तौ परैवेति । यदि च पूर्वदिने चतुर्दशी प्रदोषव्यापिनीपरदिने पूर्णिमा सायाह्नात् प्रागेव समाप्यतेतदा पूर्वदिने संपूर्णरात्रौ भद्रासत्वात्तन्निषेधात्परेऽहनि प्रतिपद्येव कुर्यादिति ठक्कुराः ।

अथ होलिकादाहे वायुफलमाह-

पूर्वे वायौ होलिकायां प्रजाभूपालयोः सुखम् ।

पलायनं च दुर्भिक्षं दक्षिणे जायते ध्रुवम् ।।

पश्चिमे तृणसम्पत्तिरुत्तरे धान्यसम्भवः ।

यदीशानेऽप्यनावृष्टिरुर्ध्वं राजा समाश्रयेत् ॥

इति द्वादशमासकृत्यम्

अथ ग्रहणादिविचारः ।

 

तच्च यज्जन्मराश्यादौ ग्रहणं तस्य ग्रहणदर्शने दोषमाह-

धीधर्मनैधनमदव्ययशर्मकर्मजन्मोपगं रविशशिग्रहणं नराणाम् ।

पुत्रायुरर्थपरिनाशकमीक्षितं स्याद्रोगं वपुः क्षयमनः क्लममातनोति ॥

तथा च पञ्चमनवमाष्टमसप्तमद्वादशचतुर्थदशमजन्मराशौ ग्रहणे तद्ग्रहणदर्शने रोगादिकं भवतीत्यतो नावलोकनीयमिति भावः ॥

अथ ग्रहणे श्राद्धमावश्यकम् । तथाहि शातातपः-

सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।

अकुर्वाणस्तु तच्छ्राद्धं पङ्के गौरिव सीदति ॥ इति ।

अथ यावत्पर्यन्तं दर्शनयोग्य उपरागस्तावानेव पुण्यकालः । तथा हि जावालि:-

“चन्द्रसूर्योपरागे तु यावद्दर्शनगोचरः ।”

उपरक्तदर्शनानन्तरं यावद्दर्शनयोग्य उपरागस्तावानेव पुण्यकालो न संक्रान्तिवदधिकोऽपि । द्वैतपरिशिष्टे अत्र शातातपवचने राहुदर्शने इति देवलवचने च 'दर्शनगोचरइति दर्शनपदाभ्यां चाक्षुषज्ञानविषयस्यैव निमित्तताचाक्षुषज्ञान एव दर्शनपदस्य शक्तत्वात् । तच्च ज्ञानं स्नानादि- कर्तुरेव लाघवात् । एवं च स्पृष्टेऽपि ग्रासमपश्यतो नाधिकारः । नचैवं मज्जनकाल एव पुण्यकालो न स्यादिति वाच्यम् । गोचरपदस्य तद्योग्यतालक्षकत्वात् । सा च योग्यता दर्शनबाधकमानाभावरूपासा च मेघगुल्मादिव्यवहितेऽप्यस्तिमेघाद्यपगमे तद्दर्शस्यापि सम्भवात् । अन्यदृष्टे ग्रासेऽन्यस्य स्नानाधिकार इति केचित्, तन्नलाघवेन सामानाधिकरण्यस्यैव प्रयोजकत्वात् । राहुदर्शनसंक्रान्तीत्यादि अन्यस्यातिप्रसक्तत्वाच्च इति केशवमिश्राः ।

अथात्र श्राद्धे फलमाह -

स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।

राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।।

गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ।

मनुः - रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्त्तिता हि सा ।

सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥

एतट्टीकायामचिरोदित इत्यत्र कालपेक्षायां त्रिमुहूर्तः प्रातःकालो ग्राह्यः ।

विष्णुपुराणे यथोक्तं—

रेखाप्रभृत्यथादित्ये त्रिमुहूर्तं गते रवौ। प्रातस्तत्र स्मृतः कालो भागः सोऽन्तस्तु पञ्चमः ।। इति कुल्लूकभट्टः ।

अथ राहुदर्शने तु रात्रादावपि श्राद्धं कर्तव्यमेव । तथाहि विष्णुः-

सन्ध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।

तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥

देवलः–राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।

स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च ॥ इति ।

अत्र स्नानदानादीत्यादिपदं तर्पणाद्युपलक्षकम् |

संवत्सरप्रदीपधृतस्मृतिश्च-

सूतके मृतके चैव न दोषो राहुदर्शने ।

स्नानमात्रं तु कर्तव्यं दानश्राद्धविवर्ज्जितम् ॥ इति ।

तथा चाशौचिना ग्रहणे स्नानमात्रं कर्तव्यं न तु दानादिकमिति भावः ।

अथ नाद्यात्सूर्यग्रहात्पूर्वमह्नि सायं शशिग्रहात् ।

ग्रहकाले च नाश्नीयात् स्नात्वाऽश्नीयाच्च मुक्तयोः ॥

मुक्तयोरिति चन्द्रसूर्ययोरिति शेषः । अत्रार्द्धरात्रानन्तरग्रहणे दिनभोजने न दोषः । किन्तु श्राद्धादिकरणे भोजनजन्यमशौचं भवत्येवेति व्रतपद्धतिः । तथा च श्राद्धकरणेच्छावता तादृशचन्द्रमासे दिनेऽपि भोजनं न कर्तव्यमिति तात्पर्य्यम् । 'मुक्ते शशिनि भुञ्जीतइति वचनाद् ग्रहणमुक्त्यनन्तरं भोक्तव्यम् । तत्रापि यद्युपाधिवशान्मुक्तिर्न दृश्यते तदा मुक्तिकालमनुमीय भोक्तव्यम् । तथाहि-

मेघमालादिदोषेन मुक्तिर्यत्र न दृश्यते ।

आकलय्य तु तत्कालं भुञ्जीताथाविशङ्कतः ॥

स्मृतिः - सूर्यवारे रविग्रासचन्द्रवारे शशिग्रहः ।

चूडामणिरिति ख्यातस्तत्रानन्तफलं स्मृतम् ॥

इन्दोर्लक्षगुणं प्रोक्तं रवेद्दशगुणं स्मृतम् ।

गङ्गातीरे तु सम्प्राप्ते इन्दोः कोटी रवेर्दश ॥

अथ ग्रहणादौ फलमाहव्यवहाररत्नावल्याम्

कृत्तिका भरणी पुष्यं पूर्वभाद्रस्तथा मघा ।

विशाखा फाल्गुनी पूर्वा आग्नेयं मण्डलं विदुः ॥

अस्मिन्नक्षत्रयोगे यदि चलति मही चन्द्रसूर्यग्रहो वा

निर्घातोल्काऽशनीनां कथमपि पतने दर्शने चापि केतोः ।

दह्यन्ते काननानि प्रबलपुर गृहास्तीव्रतेजाः पतङ्गा

रोगैः पित्तज्वराद्यैर्निखिलतनुगतैः पीड्यते जीवलोकः ॥

स्वाती हस्ताश्विनी चित्रा मृगशीर्षम्पुनर्वसु ।

उत्तरा फाल्गुनी चैव वायव्यं मण्डलं विदुः ।।

प्राकाराट्टालचैत्याः पृथुगृहतरवो गोपुरा भूधराश्च

आमूलं शीर्यमाणाः पवनजववशाद्यान्ति भूभागमाशु |

नारीगोगर्भपातास्तदनु च नियतं मन्दसस्या धरित्री

दुर्भिक्षं चातिकष्टं भवति च महती व्याधिपीडा जनानाम् ।।

चैत्यो ग्रामोपलक्षकवृक्षःपृथुः स्थूलः । गोपुरन्तु वहिर्द्वारमितिकोशः । जवो वेगः ।

ज्येष्ठाऽनुराधारोहिण्यः श्रवणाऽभिजितं तथा ।

उत्तरा च धनिष्टा च माहेन्द्रं मण्डलं विदुः ।।

लोको नित्यप्रमोदी विनययुतमना नष्टरोगावकाशो

दाने भोगेऽनुरक्तः सकलगुणयुतः सर्वदुःखैर्विमुक्तः ।

कीर्तिं विस्तीर्य रम्यां त्रिभुवनफलके वर्द्धयन् धर्मवृद्धं

कोषैः पूर्णो नरेन्द्रो जनपदसहितो वर्धते श्रीसमेतः।

शतभिषा चोत्तराभाद्रः पूर्वाषाढश्च रेवती ।

आर्द्रा मूलं तथाऽश्लेपा वारुणं मण्डलं विदुः ।।

गर्जन्ते वारिवाहा जलभरनमिताः क्षीरगर्भाश्च गावः

सस्यैः पूर्णा धरित्री ज्वरभयरहिता जन्तवः सर्वदैव ॥

अथ मलमासविचारः

मलमासस्तु शुक्लप्रतिपदादिः । तथाहि-

इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः ।

अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ ॥

अस्यार्थः-इन्द्राग्नियागः शुक्लप्रतिपदादिः स मासादिः । अग्नीषोमयोर्य्यागः पूर्णिमायाम्सा मध्यं पितृसोमयोर्यागः अमावास्यायां स मासान्त इति । ज्यौतिषे-

गतेऽब्द द्वितये सार्द्धं पञ्चपक्षे दिनत्रये ।

दिवसत्याष्टमे भागे पतत्येकोऽधिमासकः ॥

तथा च द्वात्रिंशन्मासमष्टादशदिनं चातीत्य मलमासो भवतीति पर्यवसितम् । “चैत्रादयः सप्त सदाऽधिमासाः " इति वचनाच्चैत्रादिसप्तमासेष्वेव मलमास इति केचित्इदमुपलक्षणम्कार्तिकादिमासस्यापि मलमासत्वस्योक्तत्वात् । तथाहि ज्योतिषे-

दशानां फाल्गुनादीनां प्रायो माघस्य च क्वचित् ।

नपुंसकत्वं भवति न तु पौषस्य तु क्वचित् ॥

नपुंसकत्वं मलमासत्वम् ।

कदाचित् कार्तिकादिमासत्रये संक्रान्तिद्वययुक्तः शुक्लादिचान्द्रः क्षयाख्यो भवति । तत्क्षयाख्यात् पूर्वं परतश्च मलमासप्रसक्तिर्भवति तथाहि ज्योतिषे

असंक्रांतिमासोऽधिमासः स्फुटः स्याद् द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् ।

क्षयः कार्त्तिकादित्रये नान्यतः स्यात्तदा वर्षमध्येऽधिमासद्वयं स्यात् ॥ इति ।

क्षयाख्यः क्षयनामकःन तु वस्तुगत्या लुप्तमासः । अत एव मासयोः सङ्कर एव क्षयो -न तु कस्यापि लोप इति मासमीमांसायां गोकुलनाथोपाध्यायाः। तथा च यत्र कार्त्तिके क्षयाख्यः तत्र कार्त्तिककृष्णमार्गशुक्लपक्षयो रविकृतत्वमेवकार्त्तिकशुक्लमार्गकृष्णपक्षयोः क्षयकार्तिकशुक्ल-क्षयमार्गकृष्णत्वेनाभिधानमात्रं न तु शुक्लादिकार्त्तिकलोपः । एवं मार्गादावपि ज्ञेयमिति भावः । न च मासालोपे मलमासद्वयप्रसक्तौ च सत्यां संवत्सरस्य चतुर्दशमासात्मकत्वापत्तिरिष्टापत्तौ, “द्वादशमासाः संवत्सरस्त्रयोदशमासाः संवत्सर” इति श्रुतेः । 'त्रयोदशस्तु श्रुतिराह मासचतुर्दशः क्वापि न चास्ति दृष्टःइति भीमपराक्रमघृतस्मृतेश्च विरोध आपद्येत इति वाच्यम् । मलमासद्वयप्रसक्तिसत्वेऽपि -

एकस्मिन्नप्यब्दे यत्रैतल्लक्ष्म मासयोरुभयोः ।

तत्रोत्तरोऽधिमासः स्फुटगत्या भवति चार्केन्द्वोः ॥

एकत्र मासद्वितयं यदि स्याद्वर्षेऽधिकन्तत्र परोऽधिमासः ।

मासद्वयस्य मध्ये तु संक्रान्तिर्न्न यदा भवेत् ।

प्रकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः ॥

इत्यादि भीमपराक्रमहेमाद्रिकृत्यमहार्णवद्वैतपरिशिष्टदैवज्ञबान्धवादिग्रन्थधृतार्षविशेषवचनेभ्यः क्षयाख्यमासोत्तरयथोक्तलक्षणवतो मासस्यैव मलमासत्वे क्षयाख्यपूर्वमासस्य च प्रकृतत्वे सिद्धे क्षयाख्यपूर्वमासस्य मलमासत्वप्रतिषेधात् । एतल्लक्ष्म असंक्रान्तत्वरूपमलमासचिह्नमुत्तरः क्षयाख्योत्तरः । एकत्रेति वर्ष इत्यन्वयि मासद्वितयमिति अधिकमित्यन्वयः । तथा च क्षयाख्यपूर्वस्य न मलमासताकिन्तु क्षयाख्योत्तरमासस्यैवेति भावः । मैथिलव्यवहारोऽप्येवमेवेति । अत्र यदाऽनेकमासानां यथोक्तमलमासलक्षणं तदा पूर्वमासानां मलमासता तावन्नास्ति किन्तु चरमस्यैव यथोक्तलक्षणवत् इति । क्षयमासः कर्मार्ह एव अपवादकाभावात् इति च कृत्यमहार्णवे वाचस्पतिमिश्राः प्राहुरिति न किञ्चिदनुपपन्नम् ।

अथ मलमासे कर्तव्याऽकर्तव्ये । तत्र बृहस्पतिः

नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ।

तीर्थस्नानं गजच्छायां प्रेतस्नानं तथैव च ॥

गर्भे वाद्र्धुषिकृत्ये च मृतानां पिण्डकर्मसु ।

सपिण्डीकरणे चैव नाधिमासं विदुर्बुधाः ।।

नित्यं सन्ध्यावन्दनादिनैमित्तिकं ग्रहणशान्त्यादिनिमित्तकस्नानादितीर्थस्नानं द्वितीयाद्यावृत्तिप्रथमावृत्तिस्नानाकरणस्याऽनुपदमेव वच्यमाणत्वात् । गजच्छायेति तन्निमित्तकश्राद्धमित्यर्थः प्रेतस्नानं मरणनिमित्तकस्नानम्। गर्भे गर्भाधाननिमित्तककर्मणि । वादर्धुषिकृत्ये ऋणादौमृतानां पिण्डकर्मसु पूरकादिपिण्डेषुएकादशाह श्राद्धादौ च नाधिमासं विदुरिति । प्रतिरोधकमित्यादि तथा चैतत्सर्वं मलमासेऽपि कर्तव्यमिति भावः । बृहस्पतिः-

मलिम्लुचे त्वनावृत्तं तीर्थस्नानमपि त्यजेत् । अनावृत्तं प्रथमावृत्तम् । ज्यौतिषे-

अग्न्याधेयं प्रतिष्ठानञ्च यज्ञदानव्रतानि च ।

देवव्रतवृषोत्सर्गचूडाकरण मेखलाः

माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ॥

वापीकूपतडागादिप्रतिष्ठा यज्ञकर्म च ।

प्रतिष्ठा उद्यापनंशिवादिप्रतिष्ठा वा । मेखला उपनयनंमहादानं तुला पुरुषादिदानम् । स्मृतिः -

सपिण्डीकरणादूर्ध्र्वं यत् किञ्चिच्छ्राद्धिकं भवेत् ।

इष्टं वाऽप्यथवा पूर्त्तं तन्न कुर्यान्मलिम्लुचे ।

श्राद्धिकं श्राद्धम्इष्टं पूर्त्तं चाह रत्नाकरे जातूकर्ण:-

अग्निहोत्रं तपस्सत्यं वेदानां चानुपालनम् ।

आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ।।

वापीकूपतडागादि देवतायतनानि च ।

अन्नप्रदानमारामाः पूर्तमित्यभिधीयते ।।

मरणदिनमारभ्य एकादशमासिककालाभ्यन्तरे यदि मलमासस्तदा मासिकमेकं वर्द्धयेत् । तथाहि विष्णुसूत्रम् - "संवत्सराभ्यन्तरे यद्यधिमासपातो भवति तदा मासिकार्थं दिनमेकं वर्धयेत्” इति । संवत्सराभ्यन्तरे एकादशमासिककालाभ्यन्तरेएकादशमासिककालश्च एकादशमास-पूर्त्तिदिनाव्यवहितोत्तरक्षयाहतिथिः । तथाच तदभ्यन्तरे मलमासपाते सप्तदशश्राद्धसङ्कल्पः । त्रयोदशे मासि पूर्णे क्षयाहे वार्षिकमिति तात्पर्यम् । अत्र संवत्सरशब्द एकादशमासपरः ऋष्यशृङ्गवचनैकवाक्यताबलादिति द्वैवनिर्णयः ।

मरणदिनमारभ्य द्वादशमासस्य मलमासत्वे न मासिकवृद्धि:तेन मलमास एव क्षयाहे प्रथमवार्षिकम् । तथाहि ज्यौतिषे-

जातकर्मणि यच्छ्राद्धं नवश्राद्धं तथैव च ।

प्रतिसंवत्सरश्राद्धं मलमासेऽपि तत् स्मृतम् ॥ इति ।

नवश्राद्धं चतुर्थपञ्चमनवमैकादशदिनश्राद्धंप्रतिसंवत्सरश्राद्धं प्रथमवार्षिकम्”। स्मृतिः-‘“असंक्रान्तेऽपि कर्तव्यमाब्दिकं प्रथमं बुधैः ।"

असंक्रान्ते संक्रान्तिशून्ये मलमास इति यावत् । लघुहारीतः -

प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया बुधैः ।

क्वचित्त्रयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम् ॥

प्रत्यब्दं प्रतिवर्षंपिण्डक्रिया सांवत्सरिकं क्वचित् एकादशमासिककालाभ्यन्तरे मलमासपाते, “आद्यं मुक्त्वा तु वत्सर- " मिति मरणदिनमारभ्य द्वादशमासस्य मलमासत्वे मलमास एव द्वादशे मासि क्षयाहे प्रथम- वार्षिकमिति तात्पर्यम् । न चैवं सति आश्विनकृष्णामावास्यायां मृतस्याग्रिमभाद्रस्य मलमासत्वे द्वितीयभाद्रकृष्णामावास्यायामेवोक्तरीत्या प्रथमवार्षिकं तस्याश्विनत्वाभावात्भाद्रोल्लेखादाश्विनोल्लेखासङ्गतिरिति भ्रमितव्यम् । शुक्लादिरीत्या मरणतिथेः कृष्णादिरीत्या मलमासीयामावास्याया भाद्रीयामावास्यात्वान्न भाद्रोल्लेखासङ्गरिति । 

आश्विनशुक्लप्रतिपन्मृतस्याग्रिमभाद्रस्य मलमासत्वे तु एकादशमासिककालाभ्यन्तरे मलमासपातात्तत्र मासिकवृद्धयावश्यकत्वादग्रे आश्विनशुक्लप्रतिपद्येव प्रथमवार्षिकम् । एवमाश्विनशुक्ल द्वितीयादिपूर्णिमान्ते मृते अग्रिमभाद्रस्य मलमासत्वेऽपि एकादशमासिककाला- भ्यन्तर एव मलमासपातात्तत्रापि मासिकवृद्ध्या श्राश्विनशुक्ल द्वितीयादिमरणतिथावेव वार्षिकमित्यवगन्तव्यमिति सर्वं सुस्थम् ।

मलमासे यो म्रियते तस्यापि पञ्चदशमासिकानि भवन्तीति रुद्रधरः । तेन तत्रापि सप्तदशश्राद्धमेव भवतित्रयोदश मासि मरणपक्षतिथौ वार्षिकम् । एतावत्समुदायार्थपलोचनयाऽयमर्थः पर्य्यवसित- एकादशमासिककालाभ्यन्तरे मलमासे सम्भाव्यमाने सप्तदशश्राद्धं सङ्कल्प्य कर्तव्यम् | त्रयोदशे मासि शुद्धेऽग्रिमवर्षीयतन्मासे मरणतिथौ वार्षिकम् । द्वादशमासस्य मलमासत्वे तु न मासिकवृद्धिःतेन पोडशश्राद्धमेवतत्र प्रथमवार्षिकं मलमास एव क्षयाहे द्वादशे मासितत्र शुक्लादिमासपरिग्रहेण उत्तरमासीयकृष्णपक्षस्य पूर्वमासीयकृष्णपक्षत्वान्मासोल्लेखासङ्गतिरपि नास्ति द्वितीयादिवार्षिकन्तु मलमासपाते सर्वदैव त्रयोदशे मासि क्षयाहे । प्रथमवैशाख-शुक्ल -पक्षमृतद्वितीयवैशाखकृष्णपक्षमृतयोर्म्मासिकवृद्धयावश्यकत्वात्तत्तन्मरणपक्ष एव वार्षिकं व्युत्क्रमेण वार्षिकमकिंचित्करमिति व्रतपद्धत्यादिसम्मतो व्यवहार सिद्धश्च पन्थाः । गोकुलनाथोपाध्यायास्तु— “संवत्सराभ्यन्तरे यद्यधिमासपातः स्यात्तदा मासिकार्थं दिनमेकं बर्द्धयेदिति विष्णुसूत्रेऽधिमासपातशब्देन पौर्णमास्यन्तक्षणप्रतिपदाद्यक्षणोभयघटितलवेन सह मध्यम- चिह्नसम्बन्धो विवक्षणीयः । तथा सत्येवाधिमाससम्बन्धो व्यवहारणीयो न तु पूर्वापरचिह्नमात्रेणअन्यथा विष्णुसूत्रस्थपातपदोपादानवैयर्थ्यप्रसङ्गात्अत एव 'इन्द्राग्नी यत्र हूयेतेइत्यादिलघु- हारीतवचने व्यावर्त्तकस्य मध्यमचिह्नस्याभिधानमपि सङ्गच्छते । एतेनैषमो द्वितीयभाद्रकृष्णपक्षे मृतस्याग्रिमवर्षे आश्विन-कृष्णपक्षे प्रथमाब्दिकं प्रसज्येत इति मासोल्लेखासङ्गतिरिति परास्तम्कृष्णपक्षस्य तस्य संवत्सराभ्यन्तरे निरुक्तमध्यमचिह्सम्बन्धात्मकाधिमासपाताभावात् । अत एव मलमासशुक्लपक्षमृतानामेव मासिकवृद्धिः । न तु मलमासकृष्णपक्षमृतानामपीति । एवं चाश्विनकृष्णपक्षमृतस्याग्रिमभाद्रस्य मलमासत्वे संवत्सराभ्यन्तरे निरुक्ताधिमासपातादाश्विनकृष्णपक्ष एव प्रथमाब्दिकंन तु द्वितीयभाद्रकृष्णपक्षे इति न मासोल्लेखासंगतिर्न वा विष्णुसूत्रस्थसंवत्सरपदस्यैकादश-मासिककालोपलक्षकत्व” मिति प्राहुरित्येतद्विषयविस्तारो गोकुलनाथोपाध्यायकृतमासमीमांसायां द्रष्टव्यः ।

ज्यौतिषे - प्रतिसंवत्सरं श्राद्धमशौचात् पतितं च यत् ।

मलमासेऽपि कर्तव्यमिति भागुरिरब्रवीत् ॥

तथा चाशौचेन सांवत्सरिकश्राद्धप्रतिरोधेऽशौचान्ते मलमासेऽपि कर्तव्यमिति भावः ।

अथ एकोद्दिष्टादिश्राद्धनिर्णयः

ऋष्यशृङ्गः—देये पितॄणां श्राद्धे वै अशौचञ्जायते यदि ।

अशौचे तु व्यतीते वै तेषां श्राद्धं प्रदीयते ॥

अशौचं प्रयत्नानपनेयम्अन्यस्य श्राद्धदिनेऽशौचविधना निरासादिति पितृभक्तिः । यद्यपि पितॄणामिति बहुवचनं तथापि मृताहश्राद्धविषयमिति सम्प्रदायः । अशौचान्ते कुत्र कर्तव्यमित्याकांक्षायामाह श्रीदत्तः—

शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते ।

सातिथिस्तत्र कर्तव्या न त्वन्या वै कदाचन ॥

तथा चाशौचान्तद्वितीयदिने श्राद्धं कर्तव्यम् । एकभुक्तादिनियमस्तु अशौचान्तिमदिन एवतत्राशौचस्यातन्त्रत्वादेकादशाहश्राद्धवत् एवञ्चाशौचान्तद्वितीयदिने या तिथिः प्राप्यते तदुल्लेख एव सङ्कल्पवाक्ये कर्तव्यो न तु क्षयाहतिथेः । ‘या तिथिः प्रतिपद्यतेइति प्रागुक्तात् । अत्र सङ्कल्पमाह द्वैतपरिशिष्टे- ॐ अद्येत्यादि क्षयाहे प्रतिबन्धकाशौचव्यपगमे अमुकगोत्रस्य पितुरमुकशर्मण इत्यादि ।

रजोयोगेन श्राद्धप्रतिरोधे रजोयोगात् पञ्चमदिने स्त्रिया श्राद्धं कर्तव्यम् ।

"दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ।"

इति वचनात् । सङ्कल्पस्तत्रापि पूर्ववत् । क्षयाहाज्ञानविस्मरणरूपप्रतिबन्धेन क्षयाहे श्राद्धाकरणे श्राद्धकालमाह लघुहारीत:-

श्राद्धविघ्ने समुत्पन्ने क्षयाऽविदिते तथा ।

एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः ॥

मृताहाज्ञान आह् प्रचेताः— अविज्ञाते मृताहे अमावास्यायां श्रवणदिवसे वा श्राद्धं कर्तव्यमिति शेषः । पितृभक्तौ श्रीदत्तस्तु मृताहविशेषं जानत एवाद्य मृताह इति विस्मरणं श्राद्धविघ्नमेव बोद्धव्यम् । अयमर्थः विस्मृतश्राद्धमेकादश्यामेव कर्तव्यम् । अज्ञातमृताहश्राद्धं त्वेकादश्याममावास्यायां श्रवणदिवसे वेति विशेषः । प्रागुक्तहारीतप्रचेतो वचने अभिधाय श्राद्धचिन्तामणिः 'यस्मिन्दिने देशान्तरमृतः श्रूयते स एव श्रवणदिवसःअत्र एकादश्यमावास्ये विघ्ननिमित्ताव्यवहिते ग्राह्ये । मासज्ञाने तु सांवत्सरिके कर्त्तव्ये तन्मासस्यैव एकादश्यादौ । मासपक्षयोरज्ञाने यत्र मासि श्रूयते तस्यैव । 

एवं च मृताहविस्मरणेऽप्येकादश्यामेव क्षयाहस्याविदितत्यादिति । तदयं संक्षेपः- श्राद्धविघ्न एकादश्याम् (आसन्नाग्रिमायामित्यर्थः) । तिथ्यज्ञाने तत्पक्षज्ञाने तत्पक्षैकादश्यां तिथिपक्षयोरज्ञाने तन्मासस्यैकादश्याममावास्यायां वाएषामज्ञाने यस्यां तिथौ मृतः श्रूयते तस्यामेवतत्तिथेरपि विस्मरणे तन्मासस्यैकादश्याममावास्यायां वा एकोद्दिष्टम् । श्रवणमासस्यापि विस्मरणे न कार्यं मानाभावादिति | शुद्धिचन्द्रिकायां रघुपतिमिश्रस्तु श्राद्धविघ्ने क्षयाहे दैवादकरणे क्षयाहाज्ञाने च एकादश्यां कर्त्तव्यंपक्षाज्ञाने कृष्णपक्षे कर्तव्यमित्यर्थः । मासाज्ञाने चैत्रेइदन्तु एकोद्दिष्टश्राद्धपरमन्यथा आद्यश्राद्धाकरण एकादश्यान्तत्कृत्वा पूतः स्यात्, कथमन्यथा गयाश्राद्धं विना तस्य पातित्यमिति । प्रागुक्तहारीतप्रचेतोवचने अभिधाय स्मृतिसारे तु अत्र च मृताहा ज्ञानमद्यमृताह इति विस्मरणं श्राद्धविघ्नमेव बोद्धव्यम् । अविदित इति विस्मरणमपि गृहीतन्तस्याप्यज्ञानरूपत्वात् । प्रचेतो वाक्ये तु 'श्रवणइत्यभिधानात्तिथिविशेषाज्ञानमेव विवक्षितमिति । विष्णुपुराणे तु -

चतुर्द्दश्यष्टमी षष्ठी अमावास्याऽथ पूर्णिमा ।

पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥

तैलस्त्रीमांससम्भोगी पर्वश्वेतेषु वै पुमान् ।

विण्मूत्रभोजनं नाम प्रयाति नरके मृतः ॥

अत्र तैलं तिलभवं, तेन सार्षपादितैले पकतैले च न दोष इति व्रतपद्धतौ रुद्रधरः ।

अथ जन्मदिनकृत्यम्

अत्र भोजराजः--

यो जन्ममासे क्षुरकर्म यात्रां कर्णस्य वेधं कुरुते हि मोहात् ।

नूनं स रोगं धनपुत्रनाशं प्राप्नोति मूढो वधबन्धनानि ॥

क्षुरकर्म न कुर्वीत जन्मासे च जन्मभे ।

जन्ममासे उपनयनविधानात्तदङ्गसशिखवपने न दोष इति स्मार्ताः । श्रीपतिव्यवहारसमुच्चये-

स्नानं दानं तपो विद्या सर्वमङ्गल्यवर्धनम् ।

उद्वाहश्च कुमारीणां जन्ममासे प्रशस्यते ॥

मङ्गल्यवर्धनमुपनयनादि । जन्मदिनकर्त्तव्यमाह-

तिलोद्वर्ती तिलस्नायी तिलहोता तिलप्रदः ।

तिलभुक् तिलवापी च षट्तिली नावसीदति ।

तथा च जन्मदिने तिलोद्वर्तनादि षट् करणीयम् ।

तत्राश्वत्थामावलिव्यास हनुमद्विभीषणकृपपरशुरामजन्मनक्षत्रप्रजापतिमार्कण्डेयाः क्रमेण पूज्याः । ततो वरं प्रार्थयेत्-

ॐ मार्कण्डेय ! महाभाग ! सप्तकल्पान्तजीवन ! ॥

चिरजीवी यथा त्वं भो भविष्यामि तथामुने ! इति ।

ततः समधुरदुग्धपानमनेन-

ॐ सतिलं गुडसंमिश्रमञ्जल्यर्द्धमितं पयः ।

मार्कण्डेयवरं लब्ध्वा पिबाभ्यायुषहेतवे ।। इति ।

अस्मिन् दिने आमिषभोजनं मैथुनं क्षौराध्वगमनहिंसादिकं विवर्जयेत् ।

अथ वास्तु विचारः

तच्च व्रतपद्धतौ यथा- कार्तिकाग्रहणफाल्गुनवैशाखश्रावणा: ( मासा : ) ।

शुक्लपक्षः । रिक्ताऽमावास्याभिन्नतिथयःरोहिणीमृगशिरः पुनर्वसूपुष्यो त्तरफल्गुनीहस्तादित्रयमनुराधाज्येष्ठामूलोत्तराषाढश्रवणादित्रयोत्तरभाद्ररेवत्यो नक्षत्राणिसोमबुधगुरुशनिशुक्रवाराः प्रशस्ताः । तत्र गृहे हस्तमात्रं खातं खनित्वा जलेनापूर्य तज्जले गणपतिवास्तोष्पत्यष्टनागधरित्रीः पूजयेत् । तत्र धरित्र्यर्घदानमन्त्रः-

ॐ हिरण्यगर्भे वसुधे शेषस्योपरि शायिनि

वसामि तव पृष्ठेऽहं गृहाणार्घ्यं धरित्रि ! मे ॥ इति ।

ततो दधिभक्ताम्रपल्लवबहुवारपल्लवान् गर्ते प्रक्षिप्य मृत्तिकाभिः पूरयेत् ॥

 

अथ संक्षेपत आह्निकम् ।

 

तत्र मनुः - मूत्रोच्चारसमुत्सर्ग दिवा कुर्यादुदङ्मुखः ।

दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥

छायायामन्धकारे वा रात्रावहनि वा द्विजः ।

यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ॥

उच्चारो विष्ठासमुत्सर्गस्त्यागः । बाधाभयेषु व्याघ्रादिकृतविनाशभयेषु |

पराशरः - 'नियम्य प्रयतो वाचं संवीताङ्गोऽयगुण्ठितः ।'

लैङ्गे - पवित्रं दक्षिणे कृत्वा विण्मूत्रं च समुत्सृजेत् ॥

पवित्रं यज्ञोपवीतमिति महेशादयः । दक्षिणे इति दक्षिणकर्णे इति शेषः । विट् विष्ठा | मिताक्षरायां-

गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्घृतैर्जलैः ।

गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।।

अतन्द्रितोऽनलसः। अभ्युद्धृतैरित्यनेन जलान्तः शौचनिषेध इति ।

शौचेमनुः - एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।

उभयोः सप्त दातव्याः मृदः शुद्धिमभीप्सता ॥

एकत्र करे वामकरे इत्यर्थः । उभयोरिति हस्तयोरिति शेषः । बृहन्नारदीये – 'तिस्रस्तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ।'

यदा तूक्तशौचेनापि गन्धलेपक्षयो न भवति तदा 'यावदपैत्यमेध्याक्तात्इति वचनादधिकसंख्याऽपि मृद् दातव्या इति कुल्लूकभट्टः । मृत्तिकालेपक्षयपर्यन्तं जलं दद्यात् । प्रयोगपारिजाते--

कुर्याद्द्वादश गण्डूषान् पुरीषोत्सर्जने द्विजः ।

मूत्रे चत्वार एवोक्ता भोजनान्ते च षोडश ।।

पुरीषं विष्ठा । आचमने मनुः-

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।

वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥

अद्भिः जलैः । मनुटीकायां षट् छिद्राणि जलेन स्पृशेत् । तानि शिरःस्थानि घ्राणचक्षुःश्रोत्रादीनि गृहीतव्यानि । शुद्धिविवेके यमः-

प्रयान्त्याचमतां यास्तु शरीरे विप्लुषो नृणाम् ।

उच्छिष्टदोषो नास्त्यत्र भूमितुल्यास्तु ताः स्मृताः ।।

विप्लुषो जलबिन्दवः दन्तकाष्ठे मिताक्षरायाम्-

कण्टकीक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम् ।

कनिष्ठिकाग्रवत्थूलं पूर्वार्द्ध कृतकूर्चकम् ॥

दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा ।

वृक्षोत्थमित्यनेन लोध्रतृणाङ्गुल्यादिनिषेधः । नारसिंहे-

अपामार्गश्च बिल्वं च अधोदुम्बरस्तथा ।

बदरीतिन्दुकास्त्वेते प्रशस्ता दन्तधावने ॥

अपामार्गः चिर्चिरी इति प्रसिद्धः । स्कान्दे-

आम्रातकधात्रीणामेकोनखदिरोद्भवम् ।

क्षीरवृक्षोद्भवं चापि प्रशस्तं दन्तधावने ॥

विष्णु - 'न पलाशं दन्तधावनं स्यान्न श्लेष्मातकारिष्टबिभीतकधरकोविदार-शमी पिलुपिप्पलेंगुदगुग्गुलम् । श्लेष्मातकः बहुआर इति ख्यातः । अरिष्टं हरिड इति प्रसिद्धम् । कोविदारः कोइआर इति ख्यातः । बिभीतकं बहेड़ा इति प्रसिद्धम् । 'इङ्गुदस्तापस्तरुरित्यमरः । गर्गः-

कुशङ्काशम्पलाशश्च शिशपां यस्तु भक्षयेत् ।

तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ॥

उशनाः- कार्पासन्दन्तकाष्ठञ्च विष्णोरपि हरेच्छ्रियम् ।

प्रतिपद्दर्शषष्ठीषु नवम्यां श्राद्धवासरे ॥

दन्तानाङ्काष्ठसंयोगो दहत्यासप्तमङ्कुलम् ।।

अन्यच्च- समिधा चीरवृक्षस्य क्षयाहोपोषणं विना ।

दन्तकाष्ठं कुर्यादिति शेषः । क्षयाहपदं श्राद्धमात्रदिनोपलक्षकम् । उपोषणपदमुपवासदिनस्य तदुषसोऽप्युपलक्षकम् । विष्णुः 'उदङ्मुखः प्राङ्मुखो वा दद्याद्वै दन्तकाष्टकमित्यादि । दन्तधावनमन्त्रस्तु स्मृतिसारे-

आयुर्बलं यशो वर्चः प्रजापशुवसूनि च ।

ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ! ॥

दन्तकाष्ठप्रमाणमाह द्वैतपरिशिष्टे - वितस्तिः प्रथमः कल्पः । प्रादेशप्रमाणं मध्यमः । अष्टांगुलमपकृष्टः । चतुरंगुलमत्यन्तापकृष्टः । जाबालः-

द्वादशांगुलं विप्राणां क्षत्रियाणां नवांगुलम् |

सप्तांगुलं च वैश्यानां शूद्राणां च षडंगुलम् ॥ इति । तत्स्नानं छान्दोगपरिशिष्टे-

यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः ।

अनातुर इति विशेषणादातुरस्य ज्वराद्यभिभूतस्य स्नानाकरणे न दोष: ।

मनुः  शिवलिङ्गसमीपस्थं यत्तोयं पुरतः स्थितम् !

शिवगङ्गेति तत्प्रोक्तं तत्र स्नात्वा दिवं व्रजेत् ॥

दिवं स्वर्गमुक्तम् । योगियाज्ञवल्क्यः-

नद्यां स्नानानि पुण्यानि तडागे मध्यमानि च ।

वापीकूपे जघन्यानि गृहे प्रत्यवराणि च ।।

नद्यामपि प्रथमं महानद्यान्तदसम्भवेऽल्पनद्याम् । महानद्यस्तु ब्रह्मपुराणोक्ता:-

गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।

तापी पयोष्णी विन्ध्यस्य दक्षिणे च प्रकीर्त्तिताः ॥

भागीरथी नर्मदा च यमुना च सरस्वती ।

विशोका च वितस्ता च विन्ध्यस्योत्तरसंस्थिताः ॥

द्वादशैता महानद्यो देवर्षिक्षेत्रसंभवाः ||

नदीलक्षणं तु श्रावणकृत्येऽभिहितम् । समप्रवाहजले प्रवाहाभिमुखेनतदन्यजले सूर्याभिमुखेन स्नानम् । तथाहि नारसिंहे-

नद्यां स्रवत्सु च स्नायात्प्रतिस्रोतःस्थितो द्विजः ।

तडागादिषु तोयेषु प्रत्यर्कं स्नानमाचरेत् ॥

परखानितखाते पंचपिण्डमृत्तिकामुद्धृत्य स्नायात् । तथाहि योगियाज्ञवलक्यः-

पञ्चपिण्डाननुद्धृत्य न स्नायात्परवारिणि ।

मनुः स्मृत्वोंकारं च गायत्रीं निबध्नीयाच्छिखां ततः ॥ इति ।

स्नानानन्तरं ब्राह्मे-

योगो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।

भस्मीभवति तत्सर्वमूर्द्धपुंड्रं विना कृतम् ॥

भारते- जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना विभर्ति यः ।

विभर्ति रूपमर्कस्य तमो नाशाय केवलम् ॥

ब्राह्मे- उर्द्धपुण्ड्रं मृदा कुर्यात्त्रिपुण्ड्रम्भस्मना सदा ।

तिलकं वै द्विजः कुर्याञ्चन्दनेन यदृच्छया ।। मृदा गङ्गामृदा ।

पाद्मे- अभावे उदकेनापि पौण्ड्रञ्चैतत्समाचरेत् ।

द्विज इत्यभिधानाच्छूद्रस्य नोर्ध्वपुण्ड्रं किन्तु बिन्दुमात्रम् । तथा हि बृहद्धर्मसंहितायां व्यासः-

'तिलकं बिन्दुमात्रन्तु शूद्रजातिषु शस्यते।। इति ।

गोपीचन्दनमुद्राञ्च कृत्वा भ्रमति भूतले ।

सोऽपि देशो भवेत्पूतः किं पुनर्यत्र संस्थितः ।

पाद्मे  कृष्णनामाक्षरैर्गात्रङ्कल्पयेञ्चन्दनादिना ।

स लोकपावनो भूत्वा तस्य लोकमवाप्नुयात् ।।

तस्य कृष्णस्य । श्रीभगवानुवाच -

ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे ।

मर्त्यो न मर्त्यो विज्ञेयस्तन्नूनं मामकीतनुः ॥

विग्रहं शरीरम् 'शरीरं वर्ष्म विग्रहःइत्यमरकोषात् ॥

अथ सन्ध्या-

सा च नित्यातत्र मनुः -

नानुतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।

स शूद्रवद्वहिष्कार्यः सर्वस्माद्विजकर्मणः ।।

पूर्वां प्रातःसन्ध्यां पश्चिमां सायं सन्ध्याम् । योगियाज्ञवल्क्यः-

सन्ध्यात्रयं प्रकर्तव्यं द्विजेनात्मविदा सदा ।

संवर्त्तः- प्रातःसध्यां सनक्षत्रामुपासीत यथाविधि ।

सादित्यां पश्चिमां सन्ध्यामर्द्धास्तिमितभास्कराम् ॥

 'उत्तीर्य वाससी परिधायेतिकात्यायनवचनाद् वाजसनेयिभिः स्थले सन्ध्या प्रकर्तव्या । स्थलाशुचित्वपत्ते जलेऽपि ।

यत्राशुचि स्थलं वा स्यादुद के देवताः पितॄन् ।

तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम् ।। इति वचनात् ।

उदीच्यस्य तर्पणस्य जलेऽभिधानादिति केशवमिश्राः। छन्दोगानामनियमः । गायत्रीजपे मनुः-

गायत्री यो न जानाति ज्ञात्वा नैव उपासते ।

नामधारकविप्रोऽसौ न विप्रो वृषलो हि सः ॥

वृषलः शूद्रः ।। जपस्तु शुक्लवस्त्रेण स्थलेन जले । तथाहि गोभिलः-

कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् ।

गायत्र्यग्निमुखी प्रोक्ता तस्मादुत्थाय तां जपेत् ॥

उत्थाय सूर्याभिमुखो जपेदिति छन्दोगाह्निकम् ।

अथ जपक्रममाह योगियाज्ञवल्क्यः-

प्रणवं पूर्वमुच्चार्य भूर्भुवःस्वस्ततः परम् ।

गायत्री प्रणवश्चान्ते जपस्त्वेवमुदाहृतः ॥

प्रणवम्ॐकारम्तथाच प्रणवं व्याहृतिः गायत्री पुनः प्रणवमन्तेएवं क्रमो जपेततो दशवारजपोऽशौचेऽपि कर्तव्यः । तत्राश्वलायनः-

'आपन्न आशुचिः काले तिष्ठन्नपि जपेदश॥ इति ।

अशुचिरेवाशुचिः । तिष्ठन्नुत्तिष्ठन् । नित्यत्वान्मलमासेऽपि दशवारजपः ।

मात्स्ये - गृहे त्वेकगुणप्यन्नद्यां तु त्रिगुणं स्मृतम् ।

तीर्थेषु शतसाहस्रमनन्तं शिवसन्निधौ ॥

जपे गुटिकामाह पाद्मे-

शतधा शङ्खपद्माभ्यां मणिभिरतु सहस्रधा ।

पुत्रञ्जीवेन शतधा फलं स्यान्मन्त्रजापिनाम् ॥

पुत्रञ्जीवः 'पितौझियाइति प्रसिद्धः । शङ्खः-

शतं स्याच्छङ्खमणिभिः सहस्रन्तु प्रवालकैः ।

स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥

पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ।

कुशग्रन्थ्या च रुद्राक्षैरनन्तं फलमुच्यते ॥

प्रवालो ‘मूंगाइति प्रसिद्धः । शिवपुराणे-

अष्टोत्तरशतं चैत्र पञ्च पञ्चाशदुत्तरम् ।

अष्टाविंशतिभिर्वाऽपि कार्या रुद्राक्षमालिका ॥

गुटिकाप्रमाणमाह-

जातीफलप्रमाणेन जप्यं महदुदाहृतम् ।

बदरास्थिप्रमाणेन स्वल्पकन्तदुदाहृतम् ॥

जातीफलं ‘जायफरइति प्रसिद्धम् । करजपोऽष्टोत्तरशतपर्यन्तमेवन तु तदधिकं जप्यम् । अथ करजपक्रममाह अगस्त्यसंहितायाम्-

आरभ्यानामिकामध्यात्प्रादक्षिण्येन वै क्रमात् ।

तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ॥

अथ तर्पणम्

तत्र मृतपितृकस्याधिकारः । जीवत्पितृकस्य मृतमातृकस्य च देवर्षितर्पणे मातृतर्पणे चाधिकारः । पितुः संन्यासादिनापातित्येन वा तर्पणानर्हत्वे जीवत्पितृकोऽपि पितामहादितर्पणं कुर्यात्। तथाहि याज्ञवल्क्यः-

यदि स्याज्जीवत्पितृक एतान्दिव्यान् पितॄंस्तथा ।

येभ्यो वाऽपि पिता दद्यात्तेभ्यो वाऽपि च दापयेत् ॥

ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते ।

व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ।

इति कात्यायनेनापि तस्य पितामहोपक्रमप्रतिपादनात् पितुरसत्वे च सुतरामिति द्वैतपरिशिष्टम् । तर्पणमुपक्रम्य वर्धमानः-

'विना रूप्यसुवर्णाभ्यां विना ताम्रतिलेस्तथा ।

विना दर्भैश्च मन्त्रैश्च पितॄणां नोपतिष्ठते ।।इति ।

द्वैतनिर्णये - जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।

अशून्यन्तु करं कुर्याद्धिरण्यरजतैः कुशैः ।।

इति वचनात् । दक्षिणहस्तानामिकायां हिरण्यरजतकुशा धार्याः ।

देवीपुराणे - अनामिकायान्तद्वार्यं दक्षिणस्य करस्य च ॥ इति ।

तर्जन्यां रजतन्धार्यमिति प्रवादो निर्मूल एवं स्मृतिः-

तर्पयेद्देवतानाञ्च सव्यं कृत्वा समाहितः ।

अधिकारी भवेत्पश्चात्पितॄणां तर्पणे द्विजाः ॥

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।

तृप्यतामिति सेक्तव्यन्नामगोत्रेण वाग्युतैः ॥

सव्येन वामेनतथा च वामहस्तयुतदक्षिणहस्तेन तर्पयेदिति भावः ।

स्मृतिः- कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् ।

तर्पितास्तेन पितरस्त्वग्मांसरुधिरास्थिभिः ॥

कायस्थैः अङ्गस्थैः ।

अस्थैर्न तिलैः कुर्यादेवतापितृतर्पणम् ।

रुधिरन्तु भवेत्तोयं प्रदाता किल्बिषी भवेत् ॥

इति वचनैकवाक्यत्वात्तर्पणं स्थले एवन जलेतथाहि कत्यायनः 'उत्तीर्णवाससी परिधायेति। अन्यच्च-

उदके नोदकं कुर्यात्पितृभ्यश्च कदाचन ।

उत्तीर्य्य च शुचौ देशे कुर्यादुदकतर्पणम् ।।

इति स्थलाशुचित्वे जलेऽपि इत्यनुपदमुक्तं प्राक्वाजसनेयिनामिदम् ।

छन्दोगानामनियमः । कुशोपरि तर्पणंन तु भूमौ तथा च तीर्थचिन्तामणौ-

आस्तीर्य च कुशान् साग्रान् तानावाह्य च मन्त्रतः ।

प्राचीनाग्रेषु देवांस्तु दक्षिणाग्रेषु वै पितॄन् ।।

देवान् पितॄंस्तथा चान्यान् सन्तर्प्याचम्य वाग्यतः ।

भूम्यां यद्दीयते तोयं दाता चैत्र कुले स्थितः ॥

वृथा तन्मुनिशार्दूल ! नोपतिष्ठति कस्यचित् ।

स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकन्नरः ।

नोपतिष्ठेत्पितॄणान्तु सलिलं तन्निरर्थकम् ॥

पाद्मे - तर्पवेत्तिलतोयाभ्यां सम्यगञ्जलिसंख्यया ।

एकैकमञ्जलिन्देवा द्वौ द्वौ च सनकादयः ।

अर्हन्ति पितरस्तॄस्तॄन् स्त्रियस्त्वेकैवमञ्जलिम्।। इति।

एतेन पित्रादिषट्पुरुषेषु प्रत्येकमञ्जलित्रयम् । तद्भिन्नामेकैकमञ्जलिमिति । अमुकगोत्रः पिता अमुकशर्मा तृप्यतामिति वाक्यम् । तथाहि गोभिलः-

शर्मन्नर्घादिके कार्य शर्मा तर्पणकर्मणि ।

शर्मणोऽक्षय्यकाले स्यादेवं कुर्वन्न मुह्यति ।। इति ।

अक्षय्यकालेऽक्षय्योदके । अन्यच्च -

‘तृप्यतामिति सेक्तव्यं नामगोत्रेण वाग्युतैः

अत्र पुरुषपट्कस्त्रीषट्कयोर्नित्यन्तर्पणमिति द्वैतनिर्णयः । स्मृतिः-

नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।

नोपतिष्ठति तत्तोयं यद्भूमौ न प्रदीयते ॥

भूमाविति भूमिस्थितकुश इत्यर्थः । श्रतो न पूर्ववचनविरोधः । गौतमः- नित्यं स्वाध्यायः पितृभ्योदकदानञ्च यथोत्साहमन्यत् । मनुः-

यदेव तर्पयेदद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।

तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ।

इति वचनाभ्यामशक्तादिना वैश्वदेवाद्यकरणे न दोष:, काम्यत्वात् ।

अथ देवपूजा-

तत्र विहितासनमाह व्यासः -

कौशेयं कम्बलञ्चैव अजिनं पटमेव च ।

दारुजं तालपत्रं वा आसनं परिकल्पयेत् ।

कौशेयं कुशासनम्अजिनं मृगादिचर्म । दारुजं काष्ठसम्बन्धि ।

शारदातिलके-

'वस्त्रासने रोगनाशं चित्रकं विष्टरं शिवे !

व्यासः - वंशासने तु दारिद्र्यं पाषाणे व्याधिजं भयम् ।

धरिण्यां दुःखसम्भूतिर्दोर्भाग्यं छिद्रदारुके ।

तृणे धनयशो हानिः पल्लवे चित्तविभ्रमः ॥

पञ्चोपचारमाहआचारचन्द्रोदये-

सपर्या विविधा प्रोक्ता तासामेकां समाश्रयेत् ।

गन्धादिकान्ता नैवेद्या पूजा पञ्चोपचारिकी ।।

सपर्या पूजागन्धादिकेति गन्धपुष्पधूपदीपनैवेद्यैः पञ्चोपचारिकेत्यर्थः ।

पुनश्च तत्रैव-

आसनं स्वागतं चार्घ्यं पाद्यमाचमनं तथा ।

मधुपर्काचमनस्नानवसनाभरणानि च ॥

गन्धपुष्पधूपदीपनैवेद्यं चन्दनन्तथा ।। इति ।

तथा च आसनादिषोडशभिः पूजा षोडशोपचार इति भावः । पराशरभाष्ये-

'शिवार्चनं सदाऽप्येवं शुचिः कुर्यादुदङ्मुखः ।

सदेति दिवसे रात्रौ चेत्यर्थः । शिवभिन्नसर्वदेवकार्यं दिवसे प्राङ्मुखः । रात्रावुत्तरमुखः । द्वैतपरिशिष्टे - प्रातः प्राङ्मुखेनेति । पराशरभाष्ये-

'रात्रावुदङ्मुखः कुर्याद्देवकार्यं सदैव हि। इति ॥

अथ पुष्पे विशेषमाह-

याचितन्निष्फलं पुष्पं क्रयक्रीतन्तु निष्फलम् ।

स्मृतिः–‘परकीयारामजातैः कुसुमैरर्चयेत्सुरान्'

तेन पापेन लिप्येऽहमिति बहुलाकथायाम् । आरामः पुष्पवाटिका । एतन्निषेधः काम्यपूजायामेवनित्यपूजायान्तु चौर्येणापि पुष्पग्रहणे न दोषः ।

‘देवतार्थन्तु कुसुममस्तेयम्मनुरब्रवीदितिवचनात् ।

पारिजाते - जलं पर्युषितन्त्याज्यम्पत्राणि कुसुमानि च ।

तुलस्यगस्तिबिल्वानां गाङ्गं वारि न दुष्यति ॥

ज्ञानमालायाम्-

न पर्युषितदोषोऽस्ति जलजोत्पलचम्पके ।

तुलस्यगस्तिबकुले बिल्वे गङ्गाजले तथा ॥

न पर्युषितदोषोऽस्ति मालकारगृहेषु च ।

स्कान्दे - पालाशन्दिनमेकं च पंकजं च दिनत्रयम् ।

पंचाहं बिल्वपत्रं च दशाहं तुलसीदलम् ।।

पालाशमित्यादौ पर्युषितत्वेन न दुष्टमिति सर्वत्र योज्यम् । अन्यच्च-

एकाहन्तिष्ठते जाती करवीरमहर्निशम् ।

जलजं सप्तरात्राणि षण्मासन्तुलसीदलम् ॥

पूर्वदिने त्रोटितमुत्तरदिने पर्युषितपदवाच्यम् । भविष्ये—

समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।

शूद्रानीतः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ॥

विष्णुधर्मोत्तरे-

'समित्पुष्पकुशादीनि वहतो नाभिवादयेत् ।

बहतः उद्वहतःअभिवादनं प्रणामादिकुशादीनीत्यादिपदाज्जलादिपरिग्रहः । तथा-

देवोपरि धृतं यच्च वामहस्तेन यद्धृतम् ।

अधोवस्त्रधृतं यच्च जलाऽन्तः क्षालितञ्च यत् ॥

देवतास्तन्न गृह्णन्ति पुष्पं निर्माल्यताङ्गतम् ।

अधोवस्त्रं परिधानवस्त्रम्यदति पुष्पमिति शेषः । स्मृतिः -

स्नानं कृत्वा तु तत्किंचित्पुष्पञ्चिन्वन्ति वै द्विजाः ।

देवतास्तन्न गृह्णन्ति भस्मी भवति दारुवत् ॥

इदन्त्वहः स्नानविषयम् । प्रातः स्नानानन्तरं दक्षेण पुष्पाहरणविधानादिति द्वैतपरिशिष्टे । नारदीये-

भृङ्गराजशमीबिल्वतुलस्यामलकी तथा ।

तमालञ्च हरौ पूज्ये पत्रषट्कं प्रशस्यते ।

हरौ विष्णौ । पुष्पमालायाम्-

अपामार्गं शमी दूर्वा शिंशपा तुलसीदलम् ।

बिल्वपत्रं मरुबकं शस्तञ्च खदिरं हरेः ॥

अपामार्गं ‘'चरचिरी’, मरुबकं ‘मडुआइति प्रसिद्धम् । पुनञ्च तत्रैव-

कुन्दं कुब्जककर्णिकारतिलकं सेवन्तिका यूथिका पुन्नागङ्करवीरनागवकुलं द्रोणं यवा पाटला ।

द्वै जात्यौ खदिरं कुसुम्भकमलन्नीपङ्करुण्टोत्पलम् मल्लीचम्पकमाधवीबकमिदं पुष्पं हरौ शस्यते ।।

कुब्जकं कुआ । कर्णिकारः कनैलः । सेवन्तिका सेउतीयूथिका जूहीपुन्नागं नागकेशरंनीपं कदम्बं, द्रोणं दनूफयवा उडहुलपाटला पाँडरि, कुरुण्टः पीत पिअरीउत्पलं कोका इति प्रसिद्धम् । ज्ञानमालायाम्- 

यवाकुन्दशिरीषैश्च यूथिका मालतीभवैः ।

केतकीभवपुष्पैश्च नैवार्च्यः शङ्करः सदा ।।

तथा- गणेशन्तुलसीपत्रैर्दुर्गां नैव च दुर्वया ।

मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चाऽर्चयेत् ।

मुनिपुष्पैः अगस्तिपुष्पैः । पद्मपुराणे-

माघे चम्पकपुष्पेण योऽर्चयेत्कमलापतिम् । ।

स गच्छेत्परमं धाम विमुक्तः सर्वपातकैः ।

स्मृतिः- भूमिस्पृष्टं न गृह्णीयात्शेफाली बकुलं विना ।

शेफाली शृङ्गरहार इतिबकुलं मौलसरीति प्रसिद्धम् । तथा च शेफाली बकुलं च भूमिस्थितमपि ग्राह्यम् । अन्यत्पुष्पं न भूमिस्थं ग्राह्यमित्यर्थः ।

'न दोषः कलिकाभङ्गे पद्मचम्पकयोरपि। इति वचनात्कमलचम्पकयोः कलिकात्रोटने न दोषः ॥

अथ अष्टाङ्गादिप्रणाममाह हलायुधीये-

अष्टाङ्ग उत्तमः प्रोक्तः पञ्चाङ्गो मध्यमः स्मृतः ।

दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा तथा ।।

मनसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः ॥

दोर्भ्यामिति बाहुभ्यामित्यर्थः । अन्यच्च -

'पद्धयां कराभ्यां शिरसा पञ्चाङ्गा प्रणतिः स्मृता। इति ॥ स्त्रीणामयमाचारो वर्जितः ।।

अथ भोजन व्यवस्था-

तत्र कुलानुसारेण सप्तनवद्वादशादिनैवेद्यं दत्त्वा भोजनं कुर्यात् । बृहद्धर्मसंहितायां व्यासः -

न क्षीरे लवणन्दद्यान्न चाम्रे गुडमेव च ।

क्षीरं तथाऽऽमिषं भुक्त्वा न भुञ्जीत कदाचन ॥

अमिषं मांसं पठन्ति । वर्द्धमानः- हारिद्रमांसं हरिद्राजलावसिक्तं हरिद्रानलपाचितमात्मानं व्यापादयति । हारिद्रं मांसं 'हरिअलपक्षिमांसं व्यापादयति नाशयति ।

'गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ।'

विष्णुपुराणे-अनभ्यर्च्य ऋषीन्देवान् पितृभूतातिथींस्तथा ।

यो भुङ्क्ते तस्य सम्भाषात्पतन्ति नरके नराः ।

अन्यच्च - मौनेनैव तु यो भुङ्क्ते संयमेन दृढव्रतः ।

एकविंशतिगोत्राणि तारयेन्नरकार्णवात् ॥

संवर्त :- भुञ्जानश्च यदा ब्रूयाद्गायत्र्यष्टशतं जपेत् ।

बृहद्धर्मसंहितायां व्यासः-

पङ्क्तिमध्ये न भोक्तव्यम्पङ्क्तिन्नैव विलङ्घयेत् ।

पञ्चाङ्गुलीभिर्भोक्तव्यं नाङ्गुलीपृष्ठमालिहेत् ।।

पङ्क्तिमध्ये पक्तिद्वयाभ्यन्तरे ।

ज्योतिषे - अमृतं सिद्धियोगश्च यद्येकस्मिन्दिने भवेत् ।

तद्दिनन्तु भवेन्नष्टं मधुसर्पिर्यथा विषम् ॥ इति ।

मधुघृतमेकीभूतं विषमित्यायातितच्च द्वयोः समानत्वेन्यूनाधिकत्वे तु न विषं वैद्यशास्त्रे तथैव लिखनात् । शूलपाणिधृतशङ्खः-

एकपङ्क्त्युपविष्टानां विप्राणां सहभोजिनाम् ।

यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं विवर्जयेत् ॥

मोहद्भुञ्जीत यः पङ्क्त्यामुच्छिष्टसहभोजनम् ॥

प्रायश्चित्तञ्चरेद्विप्रः कृच्छ्रं सान्तपनं तथा ।। इत्याह्निकम् ।

अथ दाहादिविचारः ।

मृतस्य दाहः श्राद्धाधिकारिणा तदनधिकारिणाऽपि कर्त्तव्यस्तथैव शिष्टाचारात् । अग्राह्यानग्नीनाह-

चाण्डालाग्नेश्चिताऽग्नेश्च सूतिकाऽग्नेश्च कर्हिचित् ।

पतिताग्नेरमेध्याग्नेर्न शिष्टैर्ग्रहणं स्मृतम् ॥

दाह्यशरीरलाभे तस्यतदलाभे तदस्थ्नां दाहःतेषामप्यलाभे पर्णनरदाहः । आदिपुराणे-

अनाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना पुनः ।

तद्लाभे पलाशोत्थैः पत्रैः कार्यः पुमानपि ॥

शतैस्त्रिभिस्तथा षष्ठया ३६० शरव्रतैर्विधानतः ॥

श्राद्धरत्ने - दाह्यशरीरालाभे तदस्थि घृतेनाभ्युक्ष्य वस्त्रेणाच्छाद्य पूर्ववद् दहेत् । पूर्ववत् शरीरदाहवत् ।

पर्णनरविन्यासप्रकारमाह गृह्यपरिशिष्टे आश्वलायन:-

दद्याच्छिरस्यशीत्यर्द्धं ४० ग्रीवायान्तु दशैव तु ।

बाह्वोश्चैव शतन्दद्यादङ्गुलीपु तथा दश ॥

उरसि त्रिशतं दद्याद्विंशतिं जठरे तथा ।

अष्टाद्धं शिश्ने दद्याद् द्वादशार्द्धं वृषणयोः ॥

ऊर्वोश्चैव शतं दद्यात् त्रिंशतिं जानुजंघयोः ।

पादाङ्गुलीषु दश दद्यादेतत्पत्रविकल्पनम् ॥

वेष्टितव्यस्तथा यत्नात्कृष्णसारस्य चर्म्मणा ।

ऊर्णासूत्रेण बद्ध्वा तु प्रलेप्तव्यस्तथायवैः ।

सुपिष्टैर्जल मिश्रैस्तु दग्धव्यश्च तथाऽग्निना ।। इति ।

वृषणयोः अण्डकोशयोः ऊर्वोजंघयोः । द्वैतपरिशिष्टे केनापि प्रकारेण मृतानां सजातीयविजातीयानां विशीर्णावयवानां सन्निपातेन सर्वेषां दाहः कार्यो मानाभावात्, नापि पितुरेव परिचायकाभावात् अत एव तदवस्थायां पितुरपि पर्णनरदाह एवेति । पर्णनरदाहस्तु अशौचाभ्यन्तरे तत्रापि अष्टमदशमत्रयोदशाष्टाविंशतिदिने क्रमेण ब्राह्मणादिचतुर्वर्णानां पर्णनरदाहःशिष्टाचरात् । तदसंभवे नवमादिदिने अशौचाभ्यन्तरेतत्राप्यसंभवे पक्षत्रयान्तरममावास्यादौ कर्तव्यः । तथाहि-

'अशौचमध्ये यत्नेन दाहयेदुक्तया हतम् ।'

दीपकालिकायां सुमन्तुः— पर्णं नरं दहेन्नैव विना दर्शं कथञ्चन ।

अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेत् ॥

एवं पर्णं दहेन्नैव प्राक् त्रिपक्षात्कथंचन ।

पितृहा मातृहा यस्मान्न दर्शे न दद्देद्यदि ।

कृष्णपक्षे पञ्चदश्यामष्टभ्यां वा समाहितः ।

एकादश्यां विशेषेण ततः प्रभृति सूतकम् ।

त्रिरात्रं सर्ववर्णानामेष धर्मो व्यवस्थितः ॥ 

अत्राशौचाभ्यन्तरे दाहे शेषाशौचाहोभिः शुद्धिः । पर्णनरदाहप्रयुक्तत्र्यहाशौचापेक्षया मरणप्रयुक्तदशाहाद्यशौचस्य गुरुत्वात् त्रिपक्षानन्तरं दाहे त्रिरात्रम् । चतुर्थीदिने श्राद्धम् ।

'एवं पर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदिति ब्रह्मपुराणात् ।

तुल्यन्यायतया अस्थिदाहेऽपि त्रिरात्राशौचम् । यज्ञपार्श्वः-

पुत्राश्चेदुपलभ्येरन्तदस्थीनि कदाचन ।

तदलाभे पलाशस्य सम्भवे हि पुनः क्रिया ॥

हि यस्मात्तदलाभे अस्थ्न्यलाभे तस्माद्यदि पुनरप्यस्थीनि प्राप्यन्ते तदा पुनर्दाहे त्रिरात्राशौचे कर्तव्यं पुनः पिण्डदानादिकमिति शुद्धिनिर्णये गोभिलः—'मरणतिथिनिश्चये तस्यां वार्षिकम् । तदनिश्चये वर्णनरदाहतिथौ' इति विभावनीयम् ।

शतानन्दरत्नमालायां यमः --

गतस्य न भवेद्वार्त्ता यस्य द्वादशवार्षिकी ।

प्रेतावधारणं तस्य कर्तव्यं सुतबान्धवैः ॥

हेमाद्रिनिबन्धे जातूकर्णः -

पितरि प्रोषिते यस्य वार्त्ता न गृहमागता ।

ऊर्ध्वम्पञ्च दशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् ।

कुर्य्यात्तस्य च संस्कारं यथोक्तविधिना पुनः ॥

गतस्येत्यत्र पुंस्त्वन्न विवक्षितम् । अन्यथा स्त्रियास्तादृशस्थले व्यवस्था न स्याद्वचनान्तराभावात् । यथोक्तविधिना प्रागुक्तपर्णनरदाहविधिना । अत्र द्वादशवर्षानन्तरं मुख्यकाले तदसम्भवे पञ्चदशवर्षानन्तरं गौणकालेऽपि कर्तव्यमिति तात्पर्यम् ।

पर्णदाहः कदा कर्तव्य इत्यत्राह स्मृतिः-

यन्मासि यदहर्यातस्तन्मासि तदहः क्रिया ।

दिनाज्ञाने कुहूस्तस्य आषाढस्याथवा कुहूः ।।

तस्येति गमनमासस्येत्यर्थः । तथा च यन्मासि यत्तिथौ पूर्वं गृहाद्देशान्तरङ्गतस्तन्मासि तत्तिथौ द्वादशवर्षाद्यनन्तरं पर्णनरदाहः । तत्तिथेरज्ञाने तन्मासामावास्यायाम्तन्मासाज्ञाने तस्मिन्नेव वर्षे आषाढामावास्यायां दाहः । तत्तृतीयदिने क्षौरं चतुर्थदिने आद्यश्राद्धम्पञ्चमदिने सपिण्डनमिति भावः । यम-जातूकर्णवचने प्रागुक्ते अभिधाय अत्र देशापेक्षया विकल्प इति द्वैतपरिशिष्टे केशवमिश्राः । अत्र पर्णनरदाहतिथौ वार्षिकम् ।

मरणभ्रान्त्या कस्यचिद् (जीवितस्य प्रोषितस्य पर्णनरदाहविधिना) दाहादौ कृते यदि समायाति तदा निरग्निश्चेत् रुद्रस्वपनं प्राजापत्यव्रतं च कृत्वा, साग्निस्तु आयुषोमिष्टिं कृत्वा स पूतो भवति । तथाहि बृहच्छ्राद्धदर्पणे-

प्रेतकार्य तं यस्य स चेदायाति मानवः ।

प्राजापत्यव्रतं कुर्याच्छ्रान्ति रुद्रसमुद्भवाम् । इति ।।

एवं कृते मृतभ्रान्त्या यद्यागच्छेत्पुमान् क्वचित् ।

कुर्यात्तदायुषीमिष्टिं पुनराधाय पावकम् ॥ इति च ।

रुद्रसमुद्भवां रुद्राध्यायादिना शिवस्नपनरूपां प्राजापत्यानुकल्पो धेनुदानम् । तस्याप्यनुकल्पः कार्षापणत्रयलभ्यहिरण्यदानम्अत्र पूर्ववचनं निरग्निविषयकमुत्तरवचनमग्निहोत्रविषयकम्तथा चाग्निहोत्रभिन्नस्य मरणभ्रान्त्या दाहे कृते यदि समायाति तदा प्राजापत्यं प्रायश्चित्तं रुद्रस्नपनरूपां शान्तिं च कुर्यात्अग्निहोत्रिणस्तादृशस्थले आयुषीष्टिः । अत एव श्राद्धविवेके-

एवं कृते मृतभ्रान्त्या यद्यागच्छेत्पुमान् क्वचित् ।

कुर्यात्तदाऽऽयुषीन्त्विष्टिं पुनराधाय पावकम् ॥

साग्नेरियमिष्टिः । निरग्नेस्तु 'शान्तिस्वस्त्ययनमन्यत्इति रुद्रधरः श्राद्धविवेके । इति सकलमैथिलव्यवहारसिद्धोऽयं पन्थाः । ब्रह्मपुराणे-

ब्रह्मदण्डहता ये च ये चापि ब्राह्मणैर्हताः ।

महापातकिनो ये च पतितास्ते प्रकीर्तिताः ॥

पतितानां न दाहरस्स्यान्नान्त्येष्टिर्नास्थिसंचयः ।

नाश्रुपातश्च पिण्डो वा कार्यं श्राद्धादिकं क्वचित् ॥

एतानि पतितानान्तु यः करोति विमोहितः ।

कण्ठोदकक्रियां कृत्वा तप्तकृच्छ्रेण शुध्यति ॥

कण्ठोदकक्रिया वपनादिका उदकक्रिया । प्रमादतो दाहादिकरणे प्रायश्चित्तं मत्कृतप्रायश्चित्त-व्यवस्थायामवलोकनीयम् । गोभिलः-

गोभिर्विप्रैर्हते चैव तथा चैवात्मघातके ।

नैवाश्रुपातनं कार्य्यं सद्भिः श्रेयोऽभिकांक्षिभिः ॥

गोभिर्हतं क्रीडादिभिर्गवाहतमिति शूलपाणिः । अश्रुपातपदं दाहादीनामप्युपलक्षकम् ।

तथाच प्रमादतो गवा हतस्य श्राद्धं कार्यमेवक्रीडादिभिरिति शूलपाणिलिखनात्, 'प्रमादादपि निश्शङक-इत्यादिवक्ष्यमाणब्रह्मपुराणाच्च अङ्गिराः -

व्यापादयेदथात्मानं स्वयं योऽन्युदकादिना ।

विहितं तस्य नाशौचं नाग्निर्नायुदकक्रिया ॥

यस्तु रोषादिना हेतुनाऽग्न्यादिभिरात्मानं घातयतितस्याग्निदानाशौचक्रिया न कर्तव्येति रुद्रधरः । यदि मरणेच्छां विना प्रमादादितो जलादौ म्रियते तदा दाहादिसर्वाः क्रियाः कर्त्तव्याः तथाहि अङ्गिराः-

अथ कश्चित्प्रमादेन म्रियेताग्न्युदकादिषु ।

तस्याशौचं विधातव्यं काय्य चास्योदकक्रिया ॥

प्रमादोऽनवधानता । ब्रह्मपुराणे-

प्रमादादपि निश्शंकस्त्वकस्माद्विधिदेशितः ।

शृङ्गिदंष्ट्रिनखिव्यालत्रिषविद्युज्जलादिभिः ।।

चाण्डालेनाथवा चौरैर्निहतो यत्र कुत्रचित् ।

तस्य दाहादिकं कार्य्यं यस्मान्न पतितस्तु सः ॥ इति ।

अथ सतीविधानम् ।

यत्र सहमरणम्अनुमरणम्द्विविधं सतीमरणंतत्रापि ब्राह्मण्याः सहमरणमेव नानुमरणम्तथाहि गौतमः-  पृथक्चितिं समारुह्य न विप्रा गन्तुमर्हति ।

अन्यासामेव नारीणां स्त्रीधर्मोऽयं व्यवस्थितः ॥

अन्यासां क्षत्रियाण्यादीनां स्त्रीधर्मोऽयं पृथक् पश्चाच्चितारोहणरूपः । तथा च सहमरणं सर्वासामनुमरणं च क्षत्रियाण्यादीनामेवेति भावः । ब्रह्मपुराणे 

देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम् ।

निधायोरसि संशुद्धा प्रविशेज्जातवेदसम् ।

ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी ॥

तत्पादुकाद्वयं पतिपादुकाद्वयम् । जातवेदसं वह्निम् । पादुकाद्वयमिति तदीयवस्त्रादीनामप्युपलक्षकम् । मृतेन पत्या सह वह्निप्रवेशः सहमरणम् । पतिदाहानन्तरं तदीयपादुकादिग्रहणपूर्वकवह्निप्रवेशोऽनुमरणमिति पर्यवसितम्  नारदीये-

बालापत्याच गर्भिण्यो ह्यदृष्टऋतवस्तथा ।

रजस्वला राजसुते ! नारोहन्ति चितां शुभे ! ॥

अदृष्टऋतवः शंकितगर्भाः । तेनाप्राप्तऋतुकाऽपि गच्छतीति शिष्टाचारः । राजसुते इति सगरमातुः संबोधनम् । बालसंवर्द्धनं त्यक्त्वा बालापत्या न गच्छति । इति वचनात् । बालसंवर्द्धनश्रुतेरन्यतो बालसंवर्द्धनं चेत्तदा तस्या अप्यधिकारः ।

एकां चितां समासाद्य भर्तारं याऽनुगच्छति ।

तदुद्भर्तुर्यः क्रियां कर्ता स तस्याश्च क्रियां चरेत् ॥

इति तु पिण्डदानपर्यन्तविषयम् । श्राद्धस्य स्वस्वाधिकारिकर्त्तव्यत्यात् ।

सतीभवनफलमाहाङ्गिराः-

मृते भर्तरि या नारी समारोहेद्धुताशनम् ।

साऽरुन्धतीसमाचारा स्वर्गलोके महीयते ॥

तिस्रः कोट्योऽर्द्धकोटी च यानि रोमाणि मानवे ।

तावन्त्यब्दानि सा स्वर्गे भर्तारं याऽनुगच्छति ।।

सा स्वर्ग इत्यस्य महीयते इति पूर्वेणान्वयः ।

व्याग्राही यथा व्यालं बलादुद्धरते बिलात् ।

तद्वद्भर्तारमादाय तेनैव सह मोदते ॥

मातृकं पैतृकं चैव यत्र कन्या प्रदीयते ।

पुनाति त्रिकुलं नारी भर्तारं याऽनुगच्छति ।।

ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वाऽपि मानवः ।

तं वै पुनाति सा नारी इत्यङ्गिरसभाषितम् ।।

त्रिकुलं मातृपितृपतिकुलम् । तं तादृशपतिमित्यर्थः । विष्णुः - मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वेति । अत्र प्रयोगमाह शुद्धिनिर्णये गोभिलः- पुत्रादिना स्वगृह्योक्तविधिनाऽग्नौ दत्ते ज्वलद्भर्तृचितायां सह गन्त्री साध्वी स्नाता वाससी परिधाय कुशहस्ता प्राङ्मुखी उदङ्मुखी वा ॐ तत्सदिति ब्राह्मणैरुच्चरिते नारायणं संस्मृत्य नमोऽद्यामुके मास्यमुके पक्षेऽमुकतिथावमुकगोत्रा श्री अमुकी देवी अरुन्धती समाचारत्वपूर्वक स्वर्गलोकमहीयमानत्व- पतिसहितक्रीडमानत्व- ब्रह्मघ्नकृतघ्नपतिपूतत्वकामा भर्तृज्वलचितारोहणमहं करिष्ये इति सङ्कल्पः सह मरणे । अनुमरणे भर्तृज्वलच्चितारोहणमित्यत्र ज्वलदग्निप्रवेशनमात्रमिति सङ्कल्पे विशेषः ।

अष्टौ लोकपाला आदित्यचन्द्रानिलानलाकाशभूमिजलहृदयावस्थितान्तर्यामिपुरुषदिनरात्रिसन्ध्या यूयं साक्षिणो भवथ ज्वलद्भर्तृचितासमारोहणे भर्त्रनुमरणे वा इत्युच्चार्य चिताग्निं त्रिः प्रदक्षिणीकृत्य "इमा नारीरविधवा सपत्नीवाञ्छने सर्पिषा संविशन्त्वनस्रवाऽमसावासुरत्ना आरोहन्तु जलयोनिमग्ने" इति ।

इमाः पतिव्रताः पुण्याः स्त्रियो जायाः सुशोभनाः ।

सह भर्तृशरीरेण संविशन्तु विभावसुम् ॥

इति ब्राह्मणे पठितेन नमो नमःइत्युच्चार्य ज्वलच्चितां समारोहेत् । सहमरणानुमरणे मलमासादावपि कार्ये निरवकाशनिमित्तकत्वात् निमित्तकानीतिवचनादिति 

अथ विधवा स्त्रीधर्म्माः

तत्र विष्णुःब्रह्मचर्यं मैथुनताम्बूलचूडादिवर्जनं विधवाकर्त्तव्यमिति शेषः । तथा-

ताम्बूलाभ्यंजनं चैव कांस्यपात्रे च भोजनम् 

यतिश्च ब्रह्मचारी च विधवा परिवर्जयेत् ॥

स्मृतिः - एकाहारः सदा कार्यो न द्वितीयः कदाचन ।

पर्यङ्कशायिनी नारी विधवा पातयेत्पतिम् ॥

तर्पणं प्रत्यहङ्कार्यं भर्तुस्तिलकुशोदकैः ।

स्नानं दानं तीर्थयात्रा विष्णोर्नामग्रहं तथा ॥ इति ।

अथ मृत्यूत्तररोदनादिनिषेधः

मरणानन्तरं रोदनादिनिषेधमाह- कात्यायनः-

श्लेष्माध्बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।

अतो न रोदितव्यं तु क्रिया कार्या प्रयत्नतः ॥

रामायणे

शोचमानास्तु सस्नेहा बान्धवास्सुहृदस्तथा ।

पातयन्ति गतं स्वर्गमश्रुपातेन राघव ! ॥ इति ॥

दिवसे शवस्पर्शे दाहाकरणे रात्रौ ग्रामप्रवेशः । रात्रौ शवस्पर्शादिकरणे च सूर्योदयानन्तरंतथा हि पारस्कर:- 'प्रेतस्पर्शिनो न ग्रामं प्रविशेयुरानक्षत्राद्रात्रौ चेदादित्यस्य। प्रेतस्पर्शिन इति अजहत्स्वार्थलक्षणया दाहकर्तुरप्युपलक्षकम् ।

अथ पिण्डदानविचारः

पिण्डदानं न रात्रौन वा भोजनानन्तरं दिवसेऽपिरात्रौ मरणे जाते ज्ञाते वा निषिद्धकाले रात्रौ पिण्डा न देया इति स्मृतिसारलिखनात्भोजनजन्याशौचम्भवत्येवेति रुद्रधरलिखनाच्च । श्राद्धाधिकारिभिन्नेन दाहे कृतेऽपि तदधिकारिणा दश पिण्डा देया एवेति सम्प्रदायः । अधिकारिभिन्नेन दाहकर्त्राऽपि स्वीयं यावदशौचं दश पिण्डा देयाः ।

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।

प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत् ॥

इत्याश्वलायनात् दाहानन्तरं श्राद्धाधिकारिण्यायाते श्रवणदिने अतीतपिण्डं दत्वाऽवशिष्टपिण्डानशौचान्तिमदिनं यावत्प्रतिदिनन्दद्यादिति मुख्यपक्षः यावदशौचं प्रेतस्योदकं पिण्डमेकं च दद्युरिति विष्णुवचनात् अशौचान्तिमदिन एव सर्वपिण्डदानमिति गौणः । तत्र मुख्यपक्षः सांप्रदायिकव्यवहारसिद्धः । द्वितीयस्तु क्वाचित्कः । सर्ववर्णैनवमदिने नवमं पिण्डं दत्वाऽशौचान्तिम दिन एव दशमः पिण्डो देयः ।

दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु ।'

इत्युपक्रम्य-

देयस्तु दशमः पिण्डो राज्ञां वै द्वादशेऽहनि ।

वैश्यानां च पञ्चदशे देयस्तु दशमस्तथा ॥

शूद्रैस्तु दशमः पिण्डो मासे पूर्णेऽह्नि दीयते ।

इति ब्रह्मपुराणात् । विगोत्रेण श्राद्धाधिकारिणा सपिण्डने कृतेऽपि दाहकर्त्रा सगोत्रेण प्रेतपदेनैव यावदशौचं पिण्डा देयाः । पूरकपिण्डदानस्य प्रेतोद्देश्यकत्वनियमात् । शुनःपुच्छः-

फलमूलैश्च पयसा पायसेन गुडेन च ।

शालिना सक्तुभिर्वाऽपि शाकैरप्यथ निर्वपेत् ॥ इति ।

पिण्डानिति शेषः । इयांस्तु विशेषः । येन द्रव्येण प्रथमदिने पिण्डदानं तेनैव सर्वस्मिन्दिने ।

'प्रथमेऽहनि यद्द्द्रव्यं तदेव स्याद्दशाहिकम् ।

इति शुनःपुच्छ्वचनात् । अत्रोदकक्रिया तु पिप्पलपत्रपुटके नैव कर्त्तव्या-

आनयेङ्गुदिपिण्याकं पत्रं बोधिद्रुमस्य च ।

मन्दाकिनीं पुरस्कृत्य करिष्ये उदकक्रियाः ॥ इति रामायणात् ।

इङ्गुदः - फलविशेषः । 'इङ्गुदी तापसतरु'रित्यमरः । तपस्विजनोपयुक्तफलयुतत्वेन तापसतरुत्वमिति रायमुकुटः । जीयापूता इति ख्यात इति रायमुकुटादयः । पिण्याकः पिडार इति प्रसिद्धः । एतत्फलद्वयं पिण्डार्थकम्  बोधिद्रुमञ्चलदलः पिप्पलः कुञ्जराशनःइत्यमरः ।

अथ त्र्यहाशौचादौ पिण्डदानक्रममाह पारस्करः

प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः ।

द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥

त्रींस्तु दद्यात् तृतीयेऽह्नि वस्त्रादिक्षालनं तथा ।

ऋष्यशृङ्गः-'सद्यश्शौचे प्रदातव्याः सर्वेऽपि युगपत्तथा

सर्वेऽपीति पिण्डाः । युगपदेकदा । अधिकारिणा सद्यश्शौचप्रयोजकमरणवार्त्ताऽनुदिते सूर्ये एव दातव्या । सूर्योदयानन्तरमधिकारिणा सूर्य उदि स्नात्वा दशपिण्डान् दत्वा आद्यश्राद्धं कृत्वा नखलोमच्छेदनं कुर्यादिति सद्यः शौचविधिः सम्प्रदायसिद्धः समाचारः ।

अथास्थिसञ्चयः

तत्रास्थिसञ्चयकालमाह-अस्थिसंचयमित्युपक्रम्य ब्रह्मपुराणे-

चतुर्थे ब्राह्मणानान्तु पञ्चमेऽहनि भूभुजाम् ।

सप्तमे वैश्यजातीनां शूद्राणां दशमेऽहनि ।।

कर्तव्यन्तु नरैः श्राद्धं देशकालाविरोधतः ।

तथा च देशकालानुसारेणास्थिसंचयः कार्य इत्यर्थः इति संपूर्णाशौचेऽस्थिसञ्चयस्य मुख्यकालः । अल्पाशौचे आह । छन्दोगपरिशिष्टे

त्र्यहाशौचे द्वितीयेऽह्नि कर्तव्यस्त्वस्थिसंचयः ।

सद्यश्शौचे तत्क्षन्तु कर्त्तव्य इति निश्चयः ।।

त्र्याहाशौचे तृतीयेऽह्नि इति गौणः । अस्थिसंरक्षणाशक्तौ तु गौणकालमाह रत्नाकरे संवर्त्त:-

प्रथमेऽह्नि तृतीये वा सप्तमे नवमेऽथवा ।

अस्थिसंचयनं कार्यं निजैस्तद् गोत्रजैर्मृते ॥

इति श्राद्धयोग्यस्य बालादेर्दाहेऽशोचान्तिमदिन एवास्थिसञ्चयस्तदुत्तरदिने ब्राह्मणभोजनमिति सम्प्रदाय सिद्धव्यवहारः ।

गङ्गास्थिप्रक्षेपे फलमाह यमः -

गङ्गातोयेषु यस्यास्थि प्लवते शुभकर्मणः ।

न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कदाचन ॥

दशाहाभ्यन्तरे तस्य गङ्गातोयेऽस्थि मज्जति ।

गङ्गायां मरणे यादृक्तादृक्फलमवाप्नुयात् ।।

ब्रह्मपुराणे -

अस्थीनि मातापितृपूर्वजानां नयन्ति गङ्गामपि ये मनुष्याः ।

सद्भक्तिका वाऽपि दयाभिभूतास्तेषान्तु तीर्थानि फलप्रदानि ।।

मातुः कुलं पितृकुलं वर्जयित्वा नराधमः ।

अस्थीन्यन्यकुलोत्थानि नीत्वा चान्द्रायणं चरेत् ॥

अत्र मात्रादिवंशद्वयं विहायान्यवंशानां दृष्टप्रयोजनार्थितयाऽस्थिनयने दोष इति वाचस्पतिमिश्राः । दृष्टप्रयोजनं द्रव्यलाभादिःएतेन पुण्यरूपादृष्टप्रयोजनार्थितया पित्रादिवंशद्व्यतिरिक्तस्यापि समानजातीयस्यास्थिनयने न दोष इति पर्यवसितम् |

अस्थिप्रक्षेपे विधानमाह श्राद्धविवेके - स्नात्वाऽस्थीनि पञ्चगव्येन संप्रोक्ष्य हिरण्यमध्वाज्यतिलैः संयोज्य मृतपिण्डके निधाय दक्षिणां दिशं पश्यन् 'ॐ नमो धर्मायइति वदन् जलं प्रविश्य प्रेतगतस्वर्गकामो दक्षिणाभिमुखः 'स मे प्रीयताम्इत्युत्वा गङ्गायामस्थि निःक्षिपेत् । ततो दक्षिणां दद्यात् ।

तीर्थचिन्तामणौ

एवं कृते प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्तु महेन्द्रतुल्याइति ।

अथाशौचे त्याज्यात्याज्य-विचारः

आश्वलायनः — 'नैवास्यां रात्रावन्नं पचेयुत्रिरात्रमक्षारलवणाशिनश्च स्युर्द्वादशरात्रं महागुरुष्वितिमहागुरवो माता पिता आचार्यश्चेति । तथा चाशौचिनामशौचाधिकरणरात्रौ पाकनिषेधः । अशौचभागिनां त्रिरात्रं क्षारलवणनिषेधः । महागुरुषु मृतेषु द्वादशरात्रं क्षारलवणभक्षणनिषेधः ।

तेन सैन्धवलवणभक्षणे न दोषःइति पर्यवसितम् । अग्निहोतॄणां दाहदिनमारभ्य तद्भिन्नानां च मरणदिनमारभ्याशौचमुत्पद्यतेतथाहि-

मरणादेव कर्तव्यः संयोगो यस्य नाग्निना ।

दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः।।

इति शङ्खवचनात् । यातेऽप्यशौचेऽज्ञाते न श्राद्धादिकर्मप्रतिरोधः किन्तु ज्ञाते एवाशौचे तत्प्रतिरोधः । तथाहि ब्रह्मपुराणे-

अपि दातृगृहीत्रोश्च सूतके मृतके तथा ।

अविज्ञाते न दोषः स्याच्छ्राद्धादिषु कथंचन ।

विज्ञाते भोक्तुरेव स्यात्प्रायश्चित्तं क्रमादिति ॥

विज्ञानं विशेषतो ज्ञानं निश्चयात्मकमिति यावत्तथा च निश्चयात्मकज्ञानविषयेऽशौचे कर्मप्रतिरोध इति पर्यवसितम् अशौचे त्याज्यानाह जावाल:-

सन्ध्यां पञ्च महायज्ञान् नैत्यकं स्मृतिकर्म च ।

तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥ इति ।

तन्मध्ये स्वस्वाशौचमध्ये हापयेत्त्यजेत् । दशाहान्तपदं स्वस्वाशौचान्तद्वितीयदिनोपलक्षकम् पुनः पुनः क्रियेति कर्त्तव्येति शेषः ।

पञ्चमहायज्ञानाह छन्दोगपरिशिष्टे पञ्चैव महायज्ञा भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति ।

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।

होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥

श्राद्धं वा पितृयज्ञः स्यात्पित्रोर्बलिरथापि वा ।

सङ्कल्पितव्रतमशौचेऽपि कर्त्तव्यम् । तथा च विष्णुः- 'न व्रतिनां व्रते इति व्रतिनामारब्धव्रतानां न व्रते इति अशौचं प्रतिरोधकमिति शेषः । तिथितत्त्वे विष्णु:-

व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।

आरब्धे सुतकं न स्यादनारब्धे तु सूतकम् ॥

आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । 

नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया । 

निमन्त्रणं तु वा श्राद्धे प्रारम्भः स्यादिति स्मृतिः ॥ 

सूतकपदमशौचमात्रोपलक्षकं, नान्दीश्राद्धमाभ्युदयिकं, विवाहादावित्यादिपदादुपनयनादिपरिग्रहः । अपवादमाह, यमः - 

दैवे भये समुत्पन्ने प्रधानाङ्गे विनाशिते ।

पूर्वसङ्कल्पिते चार्थे तस्मिन्नाशौचमिष्यते ॥

ब्रह्मपुराणे गृहीतमधुपर्कस्य यजमानाच्च ऋत्विजः ।

पश्चादशौचे पतिते न भवेदिति निश्चयः ॥

अशौचप्रयुक्त-कर्मप्रतिरोध इति शेषः ।

मरीचिः - लवणे मधुमांसे च पुष्पमूलफलेषु च ।

शाककाष्ठतृणेष्वेवं दधिसर्पिः पयस्सु च ॥

तैलोषध्यजिने चैव पक्वापक्वे स्वयं गृहे ।

पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥

सर्पिर्घृतम् | पयोऽत्र दुग्धम् । पक्वं सक्तुमोदकादि, अपक्वं तण्डुलादि, तथा च लवणादीनामुक्तानामशौचिनोऽपि ग्रहणे न दोषः । पक्वापक्वयोस्त्वशौचिसम्बन्धिनोः स्वयं ग्रहणे न दोषः अशौचिहस्ताद्ग्रहणे तु दोष एवेति भावः ।

सम्पूर्णशौचसङ्करमाह ब्रह्मपुराणे-

आद्यं भागद्वयं यावत्सूतकस्य तु सूतके ।

द्वितीये पतिते चाद्यात् सूतकाच्छुद्धिरिष्यते ।

अत ऊर्ध्वं द्वितीयात्तु सूतकान्ताच्छुचिः स्मृता ।

विष्णु:- 'रात्रिशेषे दिनद्वयेन, प्रभाते दिनत्रयेण' इति । अशौचान्तद्वितीयदिनेऽशौचान्तरपाते तदशौचान्ते श्रद्धकर्तव्यत्वावगमकमनुपदं वक्ष्यते । एतेन सर्ववर्णानां सम्पूर्णाशौचपूर्वार्द्धे सजातीयसमान- दिनव्यापकद्वितीयाशौचपाते पूर्वाशौचेऽतीते शुद्धिः । उत्तरार्द्धे उपान्त्यदिनपर्यन्ते द्वितीय - तादृशाशौचपाते उत्तराशौचेऽतीते शुद्धिः । साजात्यन्तु मरणाशौचत्वादिना तेन मरणाशौचे मरणाशौचस्यैव सजातीयत्वं, जननाशौचे जननाशौचस्यैवेति बोध्यम् । अशौचान्तिमाहोरात्रे तादृशद्वितीयपाते अशौचा- न्तिमद्वितीयदिनं तदग्रिमदिनद्वयं चाशौचम्, अशौचान्तिमादनप्रभातकाले तादृशद्वितीयाशौचपाते तत्प्रभातानन्तरं दिनत्रयेण शुद्धिरिति पर्यवसितम् । 'अरुणोदयानन्तरं सूर्योदयं यावत्प्रभात' इति रत्नाकरः ।

पञ्च पञ्च उषः कालः सप्तपञ्चारुणोदयः ।

अष्टपञ्च भवेत् प्रातः शेषं सूर्योदयो मतः ॥ इति ।

अरुणोदयकालमाह स्कान्दे-

'उदयात्प्राक् चतस्रस्तु नाडिका अरुणोदयः ॥ इति । 

नाडिका दण्डः । त्र्यहाद्यल्पाशौचे सजातीयसमानदिन व्यापकाशौचान्तरनिपाते उत्तराशौचव्यपगमेन शुद्धिः । 

'अघवृद्धावशौचन्तु परेण तु समापयेत्'

इति यमवचनात् । अत्र त्र्यहाद्यसंपूर्णाशौचे समानदिनव्यापकाशौचान्तरपातेऽग्रिमाशौच व्यपगमेन शुद्धिरिति शुद्धिविवेकः । सजातीययोरल्पदिनाधिकदिनव्यापकयोरशौचयोः सङ्करेऽधिकदिनव्यापकाशौचान्तेन शुद्धिः । जननमरणाशौचयोः सङ्करे त्वल्पदिनव्यापकेनापि मरणाशौचेनातीतेनैव शुद्धिः । तदाह कूर्मपुराणे- 

अघानां यौगपद्ये तु ज्ञेया शुद्धिर्गरीयसी ।

मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् ॥ इति । 

पैठीनसिः - 'सूतिकां पुत्रजननीं विंशतिरात्रेण स्नातां सर्वकर्माणि कारयेत् । मासेन स्त्रीजननीमिति'

पुत्रीमज्जनतोऽथ सर्ववर्णजननीस्पर्शे दशाहाच्छुचिः' कर्मार्हा द्विदशाहतः पुरुषसूर्मासात्परं स्त्रीप्रसूः । इति च ।

पुत्रोषिता मज्जनतः स्नायात् । शुचिस्तत्कालकर्त्तव्यदानादिकस्ययोग्यः स्पर्शयोग्यश्च । एतेन प्रसूतीनां कन्याजन्मनि मासं पुत्रजन्मनि विंशतिदिनमशौचं यत्स्वप्रसवनिमित्तकं तन्मरणाशौचेन बाध्यते तस्यास्तादृशप्रसवनिमित्तकजननाशौचमेव बलीयः । तेन प्रसूतीनां पतिमरणेऽपि विंशतिदिनाद्यशौ- चान्तेनैव शुद्धिरिति पर्यवसितम् । अशौचान्तद्वितीयदिनेऽशौचपाते तु तदशौचे व्यतीते शुद्धिः, तदशौचान्तद्वितीयदिने आद्यश्राद्धं च । एकादशाहोत्पन्नाशौचेन यद्याद्यश्राद्धप्रतिरोधस्तदा तदशौचान्ते श्राद्धकरणे शय्यादानादि न भवतीति द्वैतनिर्णये वाचस्पतिमिश्र लिखनस्वरसात् । 

देये पितॄणां श्राद्धे वै अशौचं जायते यदि ।

अशौचे तु व्यतीते वै तेषां श्राद्धं प्रदीयते ।।

इति ऋष्यशृङ्गवचने सामान्यत एव श्राद्धपदोपादानाञ्च ।

ब्राह्मणादिचतुर्वर्णानां सपिण्डाशौचमाह मनुः-

शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।

वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥

चतुर्वर्णानामपि सकुल्ये मृते जाते वा त्रिरात्रमेवाशौचं, गोत्रजे स्नानपर्यन्तमेव ।

'त्रिरात्रेण सकुल्यास्तु स्नात्वा शुद्ध्यन्ति गोत्रजाः' । इति बृहस्पतिवचनात् । सापिण्ड्यमाहतुः शंखलिखितौ- 'सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी' । इति ।

मनुः - 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' । इति । 

अत्र गोत्रपदं सन्ततिः, तेन बीजिनमारभ्य सप्तपुरुषमभिव्याप्य सर्वेषां सन्तानानां सन्तानिनां च परस्परं सापिण्ड्यम् । एकस्यापि सप्ताधिकत्वेन समं सप्तान्तर्गतस्यापि सापिण्ड्यन्निवर्तते, संयोगवदुभयनिरूप्यत्वादिति द्वैतनिर्णये वाचस्पतिमिश्राः, द्वैतपरिशिष्टे केशवमिश्राश्च । सप्तमे इति सप्तमे सति अनन्तरम् अष्टमे सपिण्डता निवर्त्तत इत्यर्थः । अत्र परस्परं सापिण्ड्यमपि । एतेन पूर्वषट्केनोत्तरषट्केन च मध्यसापिण्ड्यमुक्तं भवति संयोगवदिति । यद्यप्यत्र मानाभावः, तथाऽपि 'सर्वेषामिति' पदात् परस्परप्रतियोगिता लभ्यते इत्याशय इति जीर्णोद्धारे ठक्कुरोपाह्वमधुसूदनः । हारीतः- अष्टमनवमदशमास्सकुल्या' इति । ज्ञायमानजन्मनां दशमपुरुषाधिकानां मरणजन्मनोः पक्षिणीति शुद्धिविवेके । दशपुरुषानन्तरं जन्मनाम्नोरविज्ञानेऽत्मत्कुलजा इत्येवमाकारकज्ञानगोचरा गोत्रजा इत्यपि तत्रैव । स्मृत्यर्थनिर्णये-केनचित्क्षत्रियेण दशाहाशैौचमभ्युपेतम्, तदपत्येनापि तदेवाभ्युपेतं सर्वे वा स्युद्दशाहिनः' इति वचनात् । तदा तेषां ब्राह्मणवदेवाशौचं जननमरणयोरनुसन्धेयम् । ये तु षट्त्रितय (खत्री) पदाभिधानेन क्षत्रियत्वाभिधायिनो वैश्याः पारम्पर्येण द्वादशाहाशौचमभ्युपगच्छन्ति ये तु राजपुत्र- पदाभिधानेन पारम्पर्येण द्वादशाहाशौचमङ्गीकुर्वन्ति, ये च देशविशेषनियततया द्वादशाहाशौचमेव शूद्रा मन्यन्ते, तेषां क्षत्रियजात्युक्ताशौचमेव सुधीभिरुपदेष्टव्यम् । पारम्पर्यसिद्धतया तस्यापि शास्त्रार्थत्यादिति गोकुलनाथोपाध्यायचरणाः । तथा चाशौच-सङ्करादिकमपि तादृशस्थले ब्राह्मणादिरीत्यैव तादृशक्षत्रियादीनामपि अवगन्तव्यमिति भावः ।

अथ कन्यामरणाद्यशौचम् । 

तत्र यद्यपि कन्याबालकयोः सपिण्डत्वसत्त्वात् प्रागुक्तमनुवचनेन तयोरपि दशाहाद्यशौचमेव प्राप्यते तथापि 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेदि' त्यनेन विशेषवचने बलवत्वात्तयोरल्पा शौचमेव । विशेषवचनमाह् ब्रह्मपुराणे-

अजन्मनस्तु चूडान्तं यत्र कन्या विपद्यते ।

सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ 

ततो वाग्दानपर्यन्तं यावदेकाहमेव हि ।

अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः ॥

वाक्प्रदाने कृते तत्र जातश्चोभयतस्त्र्यहम् ।

पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि ।

स्वजात्युक्तमशौचं स्यात्सूके मृतके तथा ॥ इति ।

अयं भावार्थः । जन्मतो द्वितीयवर्षपर्यन्तं कन्यामरणे सर्ववर्णानां सद्यः शौचम् | द्वितीयवर्षादूर्ध्वन्तुभ्यमेषा कन्या दातव्या इति वाक्प्रयोगपर्यन्तमेकाहोरात्रमशौचम् । तादृशवाक्यप्रयोगानन्तरं विवाहपर्यन्तं पितृकुले पतिकुले च त्रिरात्रम् । यत्र वाग्दानं नास्ति तत्र द्वितीयवर्णानन्तरं विवाहपर्यन्तमेकाहोरात्रम् | एतद् विषयकमेव 'अहः स्त्वदत्तकन्यासु' - इति याज्ञवल्क्यवचनम् । दाहकर्त्तुस्तत्रापि त्रिरात्राशौचमेव । 

'दहित्वा च वहित्वा च त्रिरात्रमशुचिर्भवेत्'

इति वचनात् । असम्बन्धिद्विजान्दहित्वा वहित्वा च सद्यः शौचम् । सम्बन्धे सति त्रिरात्रमिति पैठीनसिवचनात् । अत्र दहित्वा वहित्वा इति तु आर्षत्वादेव सुष्ठु, लोके तादृशप्रयोगासम्भवात् । तथा हि दहवहधातुभ्यां क्त्वा प्रत्यये इटि च कृते एवं दहित्वेत्यादि सिद्धयति, तथाच्चानिट्धातुत्वादिडागमो न भवतीति दग्ध्वा वोढ्वा इत्येव लोके । विवाहानन्तरं कन्या प्रसवमरणयोर्मातापित्रोत्रिरात्रं, बन्धुवर्गाणां सद्यः । तथाहि ब्रह्मपुराणे-

दत्ता नारी पितुर्गेहे सुयते म्रियतेऽथवा ।

स्वमशौचं चरेत्सम्यक् पृथकस्थाने व्यवस्थिता ॥

तद्वन्धुवर्गस्त्वेकेन शुध्येत्तज्जनकस्त्रिभिः ।। इति ।

अत्र दत्ता नारी पृथक्स्थाने व्यवस्थिताऽपि प्रसूता मृता वा तत्पतिसपिण्डाः स्वमशौचं चरेयुः । 'दत्तानां भत्तुरेव हिइत्येकवाक्यतबलात् इति मध्यमखण्डार्थ इति द्वैतपरिशिष्टम् । स्वातन्त्र्यात्पतिभिन्नं यमाश्रिता स्त्री भवति तस्य त्रिरात्रमशौचम् । तथाऽऽह स्मृतिः -

पित्रा दत्ता तु या कन्या स्वातन्त्र्यादन्यमाश्रिता ।

यं यं श्रितवती भूयस्तस्याशौचं त्र्यहं त्र्यहम् ॥

मृतायां वा प्रसूतायां नान्येषामिति निश्चयः ।

कामादक्षतयोनिश्चेदन्यं गत्वा व्यवस्थिता ।।

तस्यान्यस्य सगोत्रा सा यन्त्वात्रितवती स्वयम् । इति ॥

तस्याशौचमिति यमाश्रिता तस्यैवाशौचं त्र्यहमित्यर्थः । नान्येषामिति तत्सपिण्डानां नाशौचमित्यर्थः॥

अथ गर्भस्रावाशौचमाह ब्रह्मपुराणे-

षण्मासाभ्यन्तरं यावद्गर्भस्रावो भवेद्यदि ।

तदा माससमैस्तासां दिवसः शुद्धिरिष्यते ॥

अत ऊर्ध्वं स्वजात्युक्तमशौचं तासु विद्यते ।

सद्यः शौचं सपिण्डानां गर्भस्य पतने सति ॥ इति ।

षण्मासाभ्यन्तरे तृतीयमासस्योपरीति शेषः । मासत्रयाभ्यन्तरे सर्वासामधिकाशौचस्य वक्ष्यमाणत्वात्तेन मासत्रयोपरि षण्मासं यावत् व्यतीतमाससमसङ्ख्यदिनान्यशौचं सर्ववर्णसाधारणम्तासां स्त्रीणाम्तासु स्त्रीषु । मासत्रयाभ्यन्तरे आह मरीचिः-

गर्भश्रुत्यां यथामासमचिरे तूत्तमे त्र्यहम् ।

राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च ।।

अष्टाहेन तु शूद्रायाः शुद्धिरेण प्रकीर्त्तिता ।। इति ।

अचिरे मासत्रयाभ्यन्तरेउत्तमे = उत्तमजातीये ब्राह्मण्यामित्यर्थः ।

पुःस्त्वमत्राविवक्षितम्अन्यथा सद्यश्शौचं सपिण्डानामिति प्रागुक्तब्रह्मपुराणविरोधः स्यात् । तथा च ब्राह्मण्यादीनां प्रसूतीनां प्रागुक्तमशौचं तत्पतिपुत्रादीनां तु सपिण्डानां स्नानलोमनखवापनपर्यन्तमेव गर्भस्रावेऽशौचमिति भावः । द्विवर्षाभ्यन्तरे बालस्य कन्यायाश्च भूमिखननं, न तु दाहः । तदूर्ध्वं दाह एव सर्ववर्णानां तथा हि-

ऊनद्विवार्षिकं बालं भूमावेव निधापयेत् ।

न द्विवर्षस्य कर्तव्याः बान्धवैरुदकक्रिया ।। इति ।

प्रमादादिना दाहे कृते विशेषमाह तद्दाहमभिधाय ब्रह्मपुराणे-

अनतीतद्विवर्षस्तु प्रेतो यत्रापि दह्यते ।

अतिमोहाभिभूतैश्च देशसाधर्म्यमादरात् ॥

अशौचं ब्राह्मणानान्तु त्रिरात्रं तत्र विद्यते ।

राज्ञामेकादशाहन्तु वैश्यानां द्वादशाह्निकम् ॥

अपि विंशतिरात्रन्तु शूद्राणां भवति क्रमात् । इति ।

तत्रेति द्विवर्षाभ्यन्तरबालदाहे इत्यर्थः ।

अथ बालकमरणाशौचमाह याज्ञवल्क्यः-

आदन्तजननात्सद्य आचूडान्नैशिकी स्मृता ।

त्रिरात्रमाव्रतादेशाद्दशररात्रमतः परम् ॥

आदन्तजननाद् दन्तजननकालपर्यन्तम् स कालः सप्तमो मासः 'दन्त' जन्म सप्तमे मासि' इत्युपनिषदः । सरोजकलिकायां मर्यादायामत्रा तेन सप्तममासात्प्राक् षण्मासपर्यन्तं बालमरणे सद्यः शौचं चतुर्वर्णस्य । अतः परं ब्राह्मणमात्रविषयकं वचनमिति सप्तममासात्प्राक्सद्यश्शौचमिति शुद्धिविवेकः । आचूडात् चूडाकरणकालपर्यन्तं स च तृतीयवर्षः, 'तृतीये वा प्रतिहत' इति वचनात्। आव्रतादेशादुपनयनकालपर्यन्तं स च षड्वर्षान्तः । तथा हि ब्रह्मपुराणे-

द्विजन्मनामयं कालस्त्रयाणां तु षडाब्दिकः । इति ।

एवमग्रेऽपि व्रतमुपनयनकालः स च षड्वर्षान्तः । अङ्गिराः

विप्रे न्यूने त्रिभिर्वर्षैर्मृतै शुद्धिस्तु नैशिकी ।

द्यह्ने क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते सति ॥

निवृत्ते क्षत्रिये षड्भिर्वैश्ये नवभिरेव च ।। इति ।

अनुपनीतो विप्रस्त्वित्यादि' ब्रह्मपुराणवचने क्षत्रियवैश्ययोः षडब्दाभ्यन्तरे त्रिरात्राभिधानं वेदाग्निमतोरेव, अन्येषां षडहनवाहौ पूर्वोक्तावेवेति शुद्धिविवेके स्पष्टम् |

शूद्रविषये हि-

शूद्रे त्रिवर्षान्यूने तु मृते शुद्धिस्तु पञ्चभिः ।

अत ऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते ॥

शङ्खः - अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्परम् ।

मृत्युं समधिगच्छन्ति मासं तस्यापि बान्धवाः ॥

शुद्धिं समधिगच्छन्ति नात्र कार्या विचारणा ॥

अनूढभार्यः, नोढा विवाहिता भार्या येन सः, अविवाहित इति यावत् । विवाहिते शूद्रे मृते आह अङ्गिराः-

षड्वर्षान्तमतीतस्तु शूद्रः संम्रियते यदि ।

मासिकं तु भवेच्छौचमित्याङ्गिरसभाषितम् ||

अत्र 'षड्वर्षान्तमतीत' इत्यस्य षड्वर्षोऽन्ते यस्य इति व्युत्पत्त्या पंचवर्षमतीतः प्राप्त इत्यर्थः । पञ्चवर्षादधो विवाहः स्त्रियाः शूद्रस्य वा न प्रशस्तः । यत्र तयोस्तृतीये चतुर्थे वा विवाहो जातस्तत्र तयोर्मरणे सम्पूर्णाशौचं शास्त्रान्न सिद्धयति, देशाचारादेव तत्र व्यवस्था बोध्या ।

'यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ।

श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते '

इति देशकुलाचारस्य व्यवस्थापकत्वादिति स्मृत्यर्धनिर्णये गोकुलनाथोपाध्यायाः । एतावद्ग्रन्थपर्यालोचनया अयमर्थः पर्यवसितः- ब्राह्मणबाले सप्तमासात्प्राक् मृते ब्राह्मणानां सद्यश्शौचम्, तत्र केशनखच्छेदनं स्नानञ्च | सप्तमासमारभ्य जन्मतो द्वितीयवर्षपर्यन्तमेका- होरात्रमशौचम्, उभयत्र भूमिखननं श्मश्र्वादिच्छेदनञ्च । तदूर्ध्वं षड्वर्षं यावत्त्रिरात्रं, तत्र दाहं कृत्वा पिण्डदानं द्वितीयदिनेऽस्थिसञ्चयनं तदसम्भवे तृतीयदिने पिण्डदानमस्थिसञ्चयनं नखकेशच्छेदनञ्च, चतुर्थदिने ब्राह्मणभोजनमिति । सांप्रदायिकव्यवहारः ।

क्षत्रियाणां सप्तममासपर्यन्तं सद्यः, तदनन्तरं द्विवर्षपर्यन्तं द्वयहम् । तदूर्ध्वं षड्वर्षपर्यन्तं षड्दिनमशौचम् । वैश्यानां सप्तममासपर्यन्तं सद्यः, तदनन्तरं द्विवर्षपर्यन्तं त्र्यहं, तदूर्ध्वं षड्वर्षपर्यन्तं नवरात्रं, षड्वर्षानन्तरं ब्राह्मणक्षत्रियविशां सम्पूर्णाशौचम्, एकादशाहादिक्रियाश्च । शूद्राणां सप्तममासपर्यन्तं सद्यः, तदनन्तरं द्विवर्षपर्यन्तं पञ्चाहम्, भूमिनिखननं च । तदूर्ध्वं षोडशवर्षपर्यन्तम् अविवाहिते मृते द्वादशदिनम्, षोडशवर्षानन्तरं मासमशौचं श्राद्धादिक्रियाश्च । विवाहिते तु पञ्चवर्षानन्तरं 'षड्वर्षान्तमतीत इति प्रागुक्ताङ्गिरोवचनात् पञ्चवर्षाभ्यन्तरे च देशकुलाचारान्मासमशौचं श्राद्धादिक्रियाश्च।

भिन्नगोत्रे कृत्रिमादावशौचमाह -

दत्तककृत्रिमादिपुत्रानभिधाय ब्रह्मपुराणे-

भिन्नगोत्राः पृथक् पिण्डाः पृथक् गोत्रकरास्तथा ।

सूतके मृतके चैव त्र्यहाशौचस्य भागिनः ॥

औरसभिन्नपुत्रेषु मृतेष्वशौचमाह शुद्ध्येदित्यनुवृत्तौ विष्णुः - आचार्ये मातामहे अतीते त्रिरात्रेण ।

'अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।

परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥' इति ।

एतच्च सर्ववर्णविषयम्, विशेषानभिधानात् ॥ मनुः-

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।

प्रेतहारैः समं तत्र दशरात्रेण शुद्ध्यति ॥

अस्यार्थः शुद्धिविवेके यथा हि- यश्शिष्यो वेदाध्येता गुरुकुले तिष्ठन् गुरोः संस्कारं करोति तस्य त्रिरात्रम् । तत्र मनुः-

'त्रिरात्र माहुराशौचमाचार्ये संस्थिते सति ।

संस्थिते मृते इति । गुरुलक्षणमाह-

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यादिति ।

बौधायनः - त्रिरात्रमहोरात्रमेकरात्रमिति कुर्वीत आचार्योपाध्यायतत्पुत्रेष्विति । अत्र मृतेष्विति शेषः । मातामहेमृते त्रिरात्रमाह बृहस्पतिः -

त्र्यहम्मातामहाचार्यश्रोत्रियेषु शुचिर्नरः ।

मातुले पक्षिणी रात्रिः शिष्यर्त्विग्बान्धवेषु च ॥

पक्षिणी तु दिनद्वयसहिता रात्रिः 'आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी' - इत्यमरकोषात् । तुल्यन्यायात् रात्रिद्वयसहितं दिनमपि पक्षिण्येव ।

गौतमः - पक्षिण्यसपिण्डे योनिसम्बन्धे सहाध्यायिनि च । मृत इति शेषः । योनिसम्बन्धाश्च – मातृष्वसृ-पितृष्वसृ-मातुलमातुलानीमातुलपुत्र-मातृष्वस्रेय-पितृष्वस्रेय-दौहित्रभगिनीभागिनेयाः श्वश्रूश्वशुरौ चेति । स्वगृहे मृते मातुले श्वशुरे गुरौ, स्वगृहमृतायां मातृष्वसरि श्वश्र्वां च त्रिरात्रमिति शुद्धिविवेकः । अत्र योनिसंबन्धाश्च मातुलमातृष्वस्त्रेय-पितृष्वस्रेया इति मिताक्षरा । तत्रैव यम इत्यनुवर्त्य -

मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च ।

अशौचम्पक्षिणी रात्रिर्मृता मातामहो यदि ॥ इति ।

तथा - 'संस्थिते पक्षिणी रात्रि दौहित्रे भगिनीसुते । ' संस्थिते मृते । अथ स्वगृहे कस्मिंश्चिन्मृते गृहस्थस्याशौचमाहाङ्गिराः -

गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन ।

तस्याप्यशौचं विज्ञेयन्त्रिरात्रमिति निश्चयः ॥

गौतमः - मत्स्यमांसादि न भक्षेयुराप्रदानात् । प्रदानमाद्यश्राद्धम् । तेन मांसादिभक्षणनिषेधोऽशौचाभ्यन्तरे सर्वसाधारण इति शुद्धिनिर्णयः । आप्रदानाच्छ्राद्धे मांसप्रदानादित्यर्थ इति रत्नाकरः । अशौचप्रकरणे मनुः –

'मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ।'

आप्रदानादिति स्वरसात् मृतकाशौचे एव मांसादिभक्षणनिषेधो न तु जननाशौचे । मार्कण्डेयपुराणे-

तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनं च यत् ।

तेन वाऽऽप्यायते जन्तुर्यच्चाश्नन्ति सुबान्धवाः ॥ इति ।

अयञ्चाभ्यङ्गोऽस्थिसञ्चयनानन्तरमिति वाचस्पतिमिश्राः ।

अथाशौचान्तिमदिन कर्तव्यमाह बृहस्पतिः -

'नवमे वाससां त्यागो नखलोम्नां तदन्तिके ।

'नवम इति अशौचोपान्त्यदिनोपलक्षकम् | ब्रह्मपुराणे-

यस्य यस्य तु वर्णस्य यद्यत्स्यात्पश्चिमन्त्वहः ।

स तत्र वस्त्रशुद्धिं च गृहशुधिङ्करोत्यपि ॥

समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम् ।

ग्रामाद्बहिस्ततो गत्वा प्रेतस्पृष्टे च वाससी ॥

अन्त्यानामाश्रितानां च त्यक्त्वा स्नानङ्करोति च ।

श्मश्रु-केशनखानां च यत्त्याज्यं तज्जहात्यपि ॥

पश्चिमम् अशौचान्तिमम्, वस्त्रशुद्धिः वस्त्रप्रक्षालनम्, गृहशुद्धिरुपलेपनादिः, पिण्डदानानन्तरं श्राद्धकर्तुर्नखकेशच्छेदनं समाप्य 'दशमम्पिण्डमित्यादि' स्वरसात्साम्प्रदायिकव्यवहाराच्च, त्याज्यं जहात्यनेनात्याज्यानाकङ्क्षाक्षिकेशानां शिखानां च न त्याग इत्यवगम्यते । अत एव वशिष्ठ: - 'श्मश्रुकेशनखान् वापयेदक्षिलोमशिखावर्जम्' इति । वपनं केषामित्याहापस्तम्ब:-' एषु चोदकदानन्तावन्तङ्कालमनुभाविनां च परिवापनम्।' अनुभवन्तीत्यनुभाविनः, अनुभवशालिन इति यावत् ।
 अनुभवस्तु सपिण्डादिमरणस्य तेन सपिण्डादिमरणानुभवशालिनां सर्वेषामेव वापनमिति पर्यवसितम् । यत्तु अनु पश्चाद्भावि इत्यनुभाविनः कनिष्ठाः तेन प्रेतकनिष्ठानामेव वपनमिति वाचस्पति- मित्रैर्व्याख्यातं तच्च व्यवहारविरोधात्त्याज्यमेव, व्यवहारविरोधानुरोधेन रत्नाकरलिखितमप्युपेक्षितम् । यत्र व्यवहारविरोधो नापतितः, तत्र 'यथारत्नाकर- व्यवस्थेति ग्रन्थेन शुद्धिविवेककर्त्रा व्यवहारबलवत्त्वस्योक्तत्वात् । मनुः-

विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्द्दशम् ।

यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥

अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ।

संवत्सरे व्यतीते तु स्पृष्टै्ववापो विशुध्यति ॥

गौतमः - 'श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी' इति ।

देवलः - ऊर्ध्वं संवत्सरार्द्धार्त्तु श्रूयते चेन्मृतः स्वकैः ।

भवेदेकाहमेवात्र तच्च संन्यासिनां न तु ॥

एषां वचनानामयं भावः - अशौचाभ्यन्तरे मरणश्रवणेऽवशिष्टाऽशौचदिनं यावदशुद्धिः । अशौचान्तिमदिनानन्तरं षण्मासाभ्यन्तरं मरणश्रवणे त्रिरात्रम् | षण्मासानन्तरं नवममासपर्यन्तं पक्षिणी । तदनन्तरं वर्षं यावदेकाहोरात्रम् | वर्षानन्तरं स्नानोदकदानपर्यन्तमेवाशौचमिति सर्ववर्णानां सम्पूर्णाशौचविषयम् ।

असम्पूर्णत्र्यहाद्यशौचे तु अशौचाभ्यन्तरे मरणश्रवणेऽवशिष्टाशौचकालेन तादृशाशौचकाले व्यतीते तु स्नानोदकदानमात्रेण शुद्धिः । तथा हि याज्ञवल्क्यः-

'प्रोषिते कालशेषः स्यात्पूर्णे दत्वोदकं शुचिः' इति ।

त्रिरात्रादावशौचकाले व्यतीतेऽशौचाभाव एव इति शुद्धिविवेकः । जननाशौचाभ्यन्तरे जननश्रवणेऽवशिष्टाशौचकाले व्यतीते शुद्धिः । तदशौचानन्तरे जननश्रवणेऽशौचाभावः ।

"नाशौचं प्रसवस्यास्ति व्यतीतेषु दिनेष्वपि ।' इति देवलात् षष्टियोजनानन्तर देशो देशान्तरम् । पष्टियोजनाभ्यन्तरेऽपि भाषाभेद गिरिमहानद्येतावत्समुदायव्यवहितदेशो देशान्तर एव, तादृशदेशान्तरयोर्मृते सपिण्डानामपि सद्यः शौचमेव । तदाह पैठीनसिः - ' देशान्तरमृतस्य सद्यः शौचं सपिण्डस्यापि' इति शेषः । अत्र रुद्रधरोपाध्यायाः - गिर्यादिव्यवधानाभावेऽपि शास्त्रीयषष्टियोजनानन्तरे प्रयागे मृतस्य तीरभुक्तिदेशस्थितं प्रति देशान्तरमृतत्वव्यवहारः । प्रामाणिकास्तु - त्रिंशद्योजनानन्तरे काश्यां मृतस्य गिर्यादिसमुदायव्यवधानाभावात्तीरभुक्तिदेशस्थितं प्रति न देशान्तरमृतत्वव्यवहार इति प्राहुः । एतच्च दिक् प्रदर्शितम् । तेन यत्रैतादृशानन्तर्यमेतादृश समुदायाव्यवधानं वा तद्देशे देशान्तरत्वाद्देशान्तरत्वमिति पर्यवसितम् । मृतस्य त्रिविधा क्रिया पूर्वा मध्यमा उत्तरा चेति । तत्र दाहमारभ्याशौचान्तिमदिनपर्यन्तकर्त्तव्यक्रिया पूर्वा, एकादशाहसपिण्डनान्तक्रिया मध्यमा, तदुत्तरकोद्दिष्टादिरूपोत्तरा, तत्र पितृमातृसपिण्डादयः पूर्वां क्रियां कुर्युः । मध्यमायामनियमः । उत्तरां च न कुर्युः । पुत्रपत्नीसोदरभ्रातापिताभ्रातृपुत्राः, एते चोत्तरक्रियायामप्यधिकारिणः ।

पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ।

तत्सङ्घातान्तर्गतैर्वाऽपि राज्ञा वा धनहारिणा ॥

 

अथ श्राद्धाधिकारनिर्णयः

 

पूर्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तरा । इति विष्णुपुराणात् । तत्राधिकारिपौर्वापर्यक्रमः । तत्र प्रथममौरसः, तदभावे पुत्रिकापुत्रः

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 2

Powered by Issuu
Publish for Free

संस्कृतसर्जना वर्ष 1 अंक 3

Powered by Issuu
Publish for Free

Sanskritsarjana वर्ष 2 अंक-1

Powered by Issuu
Publish for Free

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)