स्वयं सुरेशः श्वशुरो नगेशः सखा धनेशस्तनयो गणेशः ।
तथापि
भिक्षाटनमेव शम्भोर्वलीयसी केवलमीश्वरेच्छा ।। १ ।।
दोषाकरः
शिरसि भाति गले द्विजिह्वः
पाषाणजा
सहचरी पशुरन्तरङ्गः ।
दुःखं
निवेदयति को भवदन्तिकं मे
त्वं च
त्रिलोचन ! निमीलित-लोचनोऽसि ॥ २ ॥
काली
कान्ता विषमनयना सर्वदा युद्धशीला
पुत्रोप्येकः
करिवरमुखः षण्मुखश्च द्वितीयः ।
भृत्यः
श्रेष्ठः कपिवरमुखो वाहनं वृद्ध उक्षाः
स्मारं
स्मारं स्वगृहचरितं मृन्मयो विश्वनाथः ॥ ३ ॥
एका
भार्या प्रकृतिरचला चञ्चला च द्वितीया
एक:
पुत्रो त्रिभुवनजयी मन्मथो दुर्निरीक्ष्य: ।
शेषश्शय्या
जलधिशयनं वाहनं पन्नागारि:
स्मारं
स्मारं स्वगृहचरितं दारुभूतो मुरारि: ॥ ४ ॥
सहस्रास्यो
नागः स्वयमपि भवान् पञ्चवदनः
षडास्यो
हन्तैकस्तनय इतरो वारणमुखः ।
चिरं
भिक्षावृत्तिर्भवति च कथं वर्तन मिति
ब्रुवत्या
पार्वत्या समभवदुमेशो विवसनः ॥ ५ ॥
किं
गोत्रं किमु जीवनं किमु धनं का जन्म-भूः किं वयः
का
विद्या किमु सद्म के सहचराः के वंशजाः प्राक्तनाः ।
का माता
च पिता तवेति गुरुणा पृष्टो विवाहे शिवो
मालिन्येन
हृदः स्वकीयभवनं त्यक्त्वा श्मशाने स्थितः ॥ ६ ॥
लक्ष्मि
! क्षमस्व वचनीयमिदं मयोक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन ।
नो चेत्
कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति पन्नगभोगतल्पे ॥ ७ ॥
मूर्खाय द्रविणं ददासि कमले ! विद्वत्सु किं मत्सरो
नाऽहं
मत्सरिणी बुधेषु न च मे मूर्खे रतिर्विद्यते ।
मूर्खेभ्यो
द्रविणं ददामि यदहो तत्कारणं श्रूयतां
विद्वान्
सर्वगुणैर्विभूषिततनुर्मूखस्य नान्या गतिः ॥ ८ ॥
पीतोऽगस्त्येन
तातश्चरणतलहतो वल्लभोऽन्येन रोषा
दाबाल्याद्
विप्रवर्गैः स्ववदनविवरे धारिता मे सपत्नी ।
गेहं मे
च्छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं
तस्मात्
खिन्ना सदाऽहं द्विजगणसदनं नाथ ! नित्यं त्यजामि ॥ ९ ॥
असारे
खलु संसारे सारं श्रशुरमन्दिरम् ।
हरो
हिमालये शेते हरिः शेते महोदधौ ॥ १० ॥
कमले
कमला शेते हरः शते हिमालये ।
क्षीराब्धौ
च हरिः शेते मन्ये मत्कुणशङ्कया ॥ ११ ॥
उत्फुल्लेन्दीवराक्षी
शशधरवदना विभ्रती शुभ्रकान्तिं,
गत्वाऽसौ
राजधानीं दशरथमवदत् कैकयी कोपयुक्ता ।
राजा
रामाभिषेकाद् विरमतु सहसा निष्कलङ्के कुलेऽस्मिन्,
भूपुत्री
यस्य पत्नी स भवति कथं भूपती रामचन्द्रः ॥ १२ ॥
को न
याति वशं लोके मुखे पिण्डेन पूरित: ।
मृदङ्गो
मुखलेपेन करोति मधुरध्वनिम् ॥ १३ ॥
चतुर: सखि ते भर्ता यल्लिखति तत् परो न वाचयति ।
तस्मादप्यधिको
मे स्वयमपि लिखितं न वाचयति ॥ १४ ॥
परान्नं
प्राप्य दुर्बुद्धे ! मा प्राणेषु दयां कृथाः ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ।। १५ ।।
या
पाणिग्रहलालिता सु-सरला तन्वी सुवंशोद्भवा
गौरी
स्पर्शसुखावहा गुणवतो नित्यं मनोहारिणी ।
सा
केनाऽपि हृता तथा विरहितो गन्तुं न शक्नोम्यहं
रे
भिक्षो, तव कामिनी ? नहि नहि प्राणप्रिया यष्टिका।। १६ ।।
हे
दारिद्र्य ! नमस्तुभ्यं सिद्धोऽस्मि त्वदनुग्रहात् ।
पश्याम्यहं
जगत् सर्वं न मां पश्यति कश्चन ॥ १७ ॥
शक्तिं
करोति सञ्चारे शीतोष्णे मर्षयत्यपि ।
दीपयत्युदरे
वह्निं दारिद्रयं परमौषधम् ।। १८ ।
वैद्यराज नमस्तुभ्यं
यमराजसहोदर ।
यमस्तु
हरते प्राणान् वैद्यः प्राणान् धनानि च ।। १९ ।।
चितां
प्रज्ज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाऽहं
गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥ २० ॥
वैद्यानां
शारदी माता पिता च कुसुमाकरः ।
यमदंष्ट्रा
स्वसा प्रोक्ता हितभुग् मितभुग् रिपुः ॥ २१ ॥
उपाध्यायश्च वैद्यश्च ऋतुकाले वराङ्गना ।
सूतिका
दूतिका चैव कार्यान्ते तृणवन्मता ॥ २२ ॥
सदा
वक्रः सदा क्रूरः सदा पूजामपेक्षते ।
कन्याराशिस्थितो
नित्यं जामाता दशमो ग्रहः ॥ २३ ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें