गौरीश्रवः केतकपत्रभंगमाकृष्य हस्तेन ददन्मुखाग्र ।
विघ्नं मुहूर्ताकलितद्वितीयदंतप्ररोहो हरतु द्विपास्यः ॥ १ ॥
क्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् ।
अनन्तदैवज्ञसुतः स रामो मुहूर्तचिन्तामणिमातनोति ॥ २॥
तिथीशा वह्निकौ गौरी गणेशोऽहिर्गुहो रविः ।
शिवो दुर्गांतको विश्वे हरिः कामः शिवः शशी ॥ ३ ॥
अथ तिथीनां नंदादिसंज्ञाः सफला उपजातिकयाह –
नंदा च भद्रा च जया च रिक्ता पूर्णेति तिथ्योऽशुभमध्यशस्ताः ।
सितेऽसिते शस्तसमाधमाः स्युः सितज्ञभौमाकिगुरो च सिद्धाः ॥ ४ ॥
अथ रव्यादिवारेषु यथाक्रमं निषिद्धतिथीन्निषिद्धनक्षत्राणि च शालिन्याह –
नंदा भद्रा नंदिकाख्या जया च रिक्ता भद्रा चैव पूर्णा मृतार्कात् ।
याम्यं त्वाष्ट्रं वैश्वदेवं धनिष्ठार्यम्णं ज्येष्ठांत्यं रवेर्दग्धभं स्यात्
॥ ५ ॥
अथ क्रकचादिनिद्योगाननुष्टुभाह –
षष्ठ्यादितिथयो मन्दाद्विलोमं प्रतिपदबुधे ।
सप्तम्यर्केऽधमाः षष्ट्याद्यामाश्च रदधावने ॥ ६ ॥
अथ कृत्यविशेषेषु निषिद्धतिथीनिन्द्रवंशाछन्दसाह-
षष्ठ्यष्ठमीभूतविधुक्षयेषु नो सेवेत ना तैलपले क्षरं रतम् ।
नाभ्यञ्जनं विश्वदशद्विके तिथौ धात्रीफलैः स्नानममाद्रिगोष्वसत् ॥ ७ ॥
अथ सूर्यादिवारेषु दग्धादियोगचतुष्टयमिन्द्रवज्रोपजातिकाभ्यामाह-
सूर्येशपञचाग्निरसाष्टनन्दा वेदाङ्गसप्ताश्विगजांङ्कशैलाः ।
सूर्याङ्गसप्तोरगगोदिगीशा दग्धा विषाख्याश्च हुताशनाश्च ॥ ८ ॥
सूर्यादिवारे तिथयो भवन्ति मघाविशाखाशिवमूलवह्निः ।
ब्राह्मं करोऽर्काद्यमघण्टकाश्च शुभे विवर्ज्या गमने त्ववश्यम् ॥ ९ ॥
अथ चैत्रादिमासे शून्यास्तिथीः शार्दूलविक्रीडितेनानुष्टुप्पूर्वाद्वन चाह –
भाद्रे चन्द्रदृशौ नभस्यनलनेत्रे माधवे द्वादशी
पौषे वेदशरा इषे दशशिवा मार्गेऽद्रिनागा मधौ ।
गोऽष्टौ चोभयपक्षगाश्च तिथयः शून्या बुधैः कीर्तिता
ऊर्जाषाढतपस्यशुक्रतपसां कृष्णे शराङ्गाब्धयः ॥ १० ॥
शक्राः पञ्च सिते शक्राद्याग्निविश्वरसाः क्रमात् ।
अथ तिथिनक्षत्रसम्बन्धिदोषान्सार्द्धनुष्टुब्द्वयेनाह –
तथा निन्द्यं शुभे सार्प द्वादश्यां वैश्वमादिमे ॥ ११ ॥
अनुराधा द्वितीयायां पञ्चम्यां पित्र्यभं तथा ।
त्र्युत्तराश्च तृतीयायामेकादश्यां च रोहिणी ॥ १२ ॥
स्वातीचित्रे त्रयोदश्यां सप्तम्यां हस्तराक्षसे ।
नवभ्यां कृतिकाष्टाम्यां पूभा षष्ठ्यां च रोहिणी ।॥ १३ ॥
अथ चैत्रादिमासेषु क्रमाच्छून्यनक्षत्राण्यनुष्टुब्द्येनाह –
कदास्रभे त्वाष्टवायू विश्वेज्यौ भगवासवौ ।
वैश्वश्रुती पाशिपौष्णे अजपादग्निपित्र्यभे ॥ १४ ॥
चित्राद्वीशौ शिवाश्व्यर्काः श्रुतिमूले यमेन्द्रभे ।
चेत्रादिमासे शून्याख्यास्तारा वित्तविनाशदाः ॥ १५॥
अथ चैत्रादिमासेषु शून्यराशीनुष्टुभाह –
घटो झषो गौर्मिथुनं मेषकन्यालितौलिनः ।
धनुः कर्को मृगः सिंहश्चैत्रादौ शून्यरशयः ॥ १६ ॥
अथ विषमतिथिषु दग्धलग्नानीद्रवज्रयाह –
पक्षादितस्त्वोजतिथौ घटेणौ मृगेन्द्रनक्रौ मिथुनाङ्गने च ।
चापेन्दुभे कर्कहरी हयान्त्यौ गोऽन्त्यौ च नेष्टे तिथिशून्यलग्ने ॥ १७ ॥
अथैषां दुष्टयोगानां शुभकृर्यावद्यकतवे सति परिहारं नारदयचने्नंवाह –
तिथयो मासशून्याश्च शून्यलग्नानि यान्यपि ।
मध्यदेशे विवर्ज्यानि न दूष्याणीतरेषु तु ॥ १८ ॥
पङ्ग्वन्धकाणलग्नानि मासशून्याश्च राशयः ।
गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिता ॥
१९ ॥
अथ समस्तशुभकार्येषु सिद्धिदानपि हस्तार्कादियोगांस्तिथिविशेषेणातिनिंद्याननुष्टुब्द्वयेनाह
–
वर्जयेत्सर्वकार्येषु हस्ताकं पञ्चमीतिथौ ।
भौमाश्विनीं च सप्तश्यां षष्ठ्यां चन्द्रन्दैवं तथा ॥ २० ॥
वुधानुराधामष्टम्यां दशम्यां भृगुरेवतीम् ।
नवम्यां गुरुपुष्यं चैकादश्यां शनिरोहिणीम् ॥ २१ ॥
अथ भौमाश्विनीत्यादिकान् सिद्धियोगान् कार्यविशेषऽतिर्निद्याननुष्टुभाह –
गृहप्रवेशे यात्रायां विवाहे च यथाक्रमम् ।
भौमाश्विनीं शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ २२ ॥
अथानन्दादीनष्टाविंशतियोगान् शालिन्युपजातिभ्यामाह –
आनन्दाख्यः कालदण्डश्च धूम्रो धाता सौम्यो ध्वांक्षकेतू क्रमेण ।
श्रीवत्साख्यो वज्रकं मुद्गरश्च छत्रं मित्रं मानसं पद्मलुम्बौ ॥ २३ ॥
उत्पातसृत्यू किल काणसिद्धी शुभोऽमृताख्यो मुसलो गदश्च ।
मातङ्गरक्षश्चरसुस्थिराख्यप्रवर्धमानाः फलदाः स्वनाम्ना॥ २४ ॥
अथैते योगाः कथं ज्ञेया इत्यनुष्टुमाह-
दास्रादर्के मृगादिन्दौ सार्पाद्भौमे कराद्बुधे ।
मैत्राद्गुरो भृगौ वैश्वाद्गण्या मन्दे च वारुणात् ॥ २५ ॥
अथानन्दादिषु ये दुष्टयोगास्तैषां कियता सत्यावश्यकत्वे परिहार इति शालिन्याह –
ध्वांक्षे वज्रे मुद्गरे चेषुनाड्यो वर्ज्या वेदा: पद्मलुम्बे गदेऽश्वाः ।
धूम्रे काणे मौसले भूद्वंयं द्वे रक्षोमृत्यूत्पातकालाश्च सर्वे ॥ २६॥
अथ दोषापवादभूतान् रवियोगाननुषुटुभाह –
सूर्यभाद्वेदगोतर्कदिग्विश्वनखसम्मिते ।
चन्द्रर्क्षे रवियोगाः स्युर्दोषसङ्घविनाशकाः ॥ २७॥
अथ सूर्यादिवारेषु नक्षत्रविशेषैः सिद्धियोगानिंद्रवज्रोपजातिभ्यामाह –
सूर्येऽर्कमूलोत्तरयुष्यदास्रं चन्द्रे श्रुतिब्राह्मशशीज्यमैत्रम् ।
भौमेऽश्ब्यहिर्बुश्न्यकृशानुसार्पं ज्ञे ब्राह्ममैत्रार्ककृशानुचान्द्रम् ॥ २८
॥
जीवेऽन्त्यमैत्राश्व्यदितीज्यधिष्ण्यं शुक्रेऽन्त्यमैत्राश्व्यदितिश्रवोभम् ।
शनौ श्रुति ब्राह्मसमीरभानि सर्वार्थसिद्ध्यै कथितानि पूर्वैः ॥ २९ ॥
अथोत्पातमृत्युकाणसिद्धियोगान् शालिन्याह –
द्वीशात्तोयाद्वासवात्पौष्णभाच्च ब्राह्मात्पुष्यादर्यमर्क्षाद्युगर्क्षैः ।
स्यादुत्पातो मृत्युकाणौ च सिद्धिर्वारेऽर्काद्ये तत्फलं नामतुल्यम् ॥ ३० ॥
अथ दुष्टयोगानां देशभेदेन परिहारमनुष्टुभाह –
कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः ।
हुणवङ्गखशेष्वेव वर्ज्यास्त्रितयजास्तथा ॥ ३१ ॥
अथ समस्तशुभकृस्ये वर्ज्यपदार्थान् शार्दूलविक्रीडितेनाह –
सर्वस्मिन्विधुपापयुक्तनुलवावर्धे निशाह्नोर्घटी-
त्र्यंशं वै कुनवांशकं ग्रहणतः पूर्वं दिनानां त्रयम् ।
उत्पातग्रहतोऽद्र्यहांश्च शुभदोत्पातैश्च दुष्टं दिनं
णण्मासं ग्रहभिन्नभं त्यज शुभे यौद्धं तथोत्पातभम् ।॥ ३२ ॥
अथ ग्रासभेदेन कियत्संख्याकेषु ग्रहणीयनक्षत्रनिषेध तथा प्रागादिदिवसांश्च निषिद्धानि
–
नेष्टं ग्रहर्क्ष सकलार्धपादग्रासे क्रमात्तर्कगुणेन्दुमासान् ।
पूर्व परस्तादुभयोस्त्रिघस्रग्रस्तेऽस्तगे वाप्युदितेऽर्धखण्डे ॥ ३३ ।।
अथ सामान्यतोऽवश्यं वर्ज्यानि पंचांगदूषणादीनि वसम्ततिलकयानुष्टुभा चाह । जन्मर्क्षमास
तिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वर्ज्या इति द्वितीयश्लोकेनान्वयः । तान्
पदार्थानाह –
जन्मर्क्षमासतिथयो व्यतिपातभद्रा वैधृत्यमापितृदिनानि तिथिक्षयर्द्धी ।
न्यूनाधिमासकुलिकप्रहरार्धपात विष्कम्भवज्रघटिकात्रयमेव वर्ज्यम् ॥ ३४ ॥
परिधार्धं पञ्च शूले षट् च गण्डातिगण्डयोः ।
व्याघाते नव नाड्यश्च वर्ज्याः सर्वेषु कर्मषु ॥ ३५ ॥
अथ पक्षरन्ध्रतिथीरावश्यकत्वे सति तन्निष्ठवर्ज्यघटी –
वेदाङ्गाष्टनवार्केन्द्रपक्षरन्ध्रतिथौ त्यजेत् ।
वस्वङ्कमनुतत्त्वाशाशरा नाडीः पराः शुभाः॥ ३६ ॥
अथ कुलिककालवेलायमघण्टकण्टकदोषाननुष्टुभाह –
कुलिकः कालवेला च यमघण्टश्च कण्टकः ।
वाराद्विघ्ने क्रमान्मन्दे बुधे जीवे कुजे क्षणः ॥ ३७ ॥
अथ सूर्यादिवारेषु शिष्याणां सद्य एव दोपज्ञानार्थ दुर्मुहूर्तादिनामकान्
मुहूर्तान् –
सूर्ये षट्स्वरनागदिङ्मनुमिताश्चन्द्रेऽब्धिषट्कुञ्जरा-
ङ्कार्काविश्वपुरन्दराः क्षितिसुते व्द्यब्घ्यग्नितर्को दिशः ।
सौम्ये व्द्यब्धिगजाङ्कदिङ्मनुमिता जीवे द्विषङ्भास्कराः
शक्राख्यास्तिथयः कलाश्च भृगुजे वेदेषुतकग्रहाः ॥३८॥
दिग्भास्करा मनुमिताश्च शनौ शशिद्वि-
नागा दिशो भवदिवाकरसम्मिताश्च ।
दुष्टः क्षणः कुलिककण्टककालवेलाः
स्युश्चार्धयामयमघण्टगताः कलांशाः ॥३९॥
अथ विवाहादिशुभकृत्ये होलिकाष्टकनिषेधमनुष्टुभाह –
विपाशैरावतीतीरे शुतुद्रयाश्च त्रिपुष्करे ।
विवाहादिशुभे नेष्टं होलिकाप्राग्दिनाष्टकम् ॥४०॥
अथ मृत्युयोगादिदुष्टयोगपरिहारमादृ –
मृत्युक्रकचदग्धादीनिन्दौ शस्ते शुभाञ्जगुः ।
केचिद्यामोत्तरं चान्ये यात्रायामेव निन्दितान् ॥४१॥
अथ पुनरप्यपवादं –
अयोगे सुयगोऽपि चेत्स्यात्तदानीमयोगं निहत्यैष सिद्धिं तनोति ।
परे लग्नशुद्ध्या कुयोगादिनाशं दिनार्धोत्तरं विष्टिपूर्वं च शस्तम् ॥४२॥
अथ भद्रानिषिद्धेति पूर्वभुक्तं तदधुना प्रस्तावात्तन्निषिद्धकालं –
शुक्ले पूर्वार्धेऽष्टमीपञ्चदश्योर्भद्रैकादश्यां चतुर्थ्या परार्धे ।
कृष्णेऽन्त्यार्धे स्यात्तृतीयादशम्योः पूर्वे भागे सप्तमीशम्भुतिथ्योः ॥ ४३ ॥
अथ चतुर्थ्यादितिथिभद्रायां मुखपुच्छविभागादिकं –
पञ्चद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शरा
विष्टेरास्यमसद्गजेन्दुरसरामाद्रयाश्विवाणाब्धिषु ।
यामेष्वन्त्यघटीत्रयं शुभकरं पुच्छ तथा वासरे
विष्टिस्तिथ्यपरार्धजा शुभकरी रात्रौ तु पूर्वार्धजा ॥४४॥
अथ भद्रानिवासं तत्फलं –
कुम्भकर्कद्वये मर्त्ये स्वर्गेऽब्जेऽजात्त्रयेऽलिगे ।
स्त्रीधनुर्जूकनक्रेऽधो भद्रा तत्रैव तत्फलम् ॥ ४५ ॥
एवं महता ग्रन्थसन्दर्भेण पञ्चाङ्गदूषणान्युक्तान्यधुना कालाशुद्धौ
निषेध्यवस्तूनि –
वाप्यारामतडागकूपभवनारम्भप्रतिष्ठे व्रता-
रंभोत्सर्गवधूप्रवेशनमहादानानि सोमाष्टके ।
गोदानाग्रयणप्रपाप्रथमकोपाकर्मवेदव्रतं
नीलोद्वाहमथातिपन्नशिशुसंस्कारान् सुरस्थापनम् ।॥ ४६॥
दीक्षामौञ्जिविवाहमुण्डनमपूर्वं देवतीर्थेक्षणं
संन्यासाग्निपरिग्रहौ नृपतिसंन्दर्शाभिषेको गमम् ।
चातुर्मास्यसमावृती श्रवणयोर्वेधं परीक्षां त्यजेद्-
वृद्धत्वास्तशिशुत्व इज्यसितयोर्न्यूनाधिमासे तथा ॥ ४७॥
अथ सिंहस्थगुर्वादिदोषान् –
अस्ते वर्ज्य सिंहनक्रस्थजीवे वर्ज्यं केचिद्वक्रगे चातिचारे ।
गुर्वादित्ये विश्वघस्रेऽपि पक्षे प्रोचुस्तद्वद्दन्तरत्नादिभूषाम् ॥४८॥
अथ सिंहस्थगुरौः प्रकारत्रयेण –
सिंहे गुरौ सिंहलवे विवाहो नेष्टोऽथ गोदोत्तरतश्च यावत् ।
भागीरथीयाम्यतटे हि दोषो नान्यत्र देशे तपनेऽपि मेषे ॥ ४९॥
अथ सिहराशिगतगुरु निषेधवाक्यानां प्रतिप्रसववाक्यानां च निर्गलितार्थम् –
मघादिपञ्चपादेषु गुरुः सर्वत्र निन्दितः ।
गङ्गागोदान्तरं हित्वा शेषाङ्घ्रिषु न दोषकृत् ॥
मेषेऽर्के सन् व्रतोद्वाहौ गङ्गागोदान्तरेऽपि च ।
सर्वः सिंहगुरुर्वर्ज्यः कलिङ्गे गौडगुर्जरे ॥ ५१ ॥
अथ मकरस्थितगुरोः प्रकारद्वयेन परिहारं –
रेवापूर्वे गण्डकीपश्चिमे च शोणस्योदग्दक्षिणे नीच ईज्यः ।
वर्ज्यो नायं कौङ्कणे मागधे च गौडे सिन्धौ वर्जनीयः शुभेषु ॥ ५२ ॥
अथ लुप्तसंवत्सरदोषापवादं वंशस्यवृत्तेनाह –
गोऽजान्त्यकुम्भेतरभेऽतिचारगो नो पूर्वराशिं गुरुरेति वक्रितः ।
तदा विलुप्ताब्द इहातिनिन्दितः शुभेषु रेवासुरनिम्नगान्तरे ।।५३।।
अथ ग्रहाणां होरां वक्ष्यति सा च वारप्रवृत्त्यधीना । तदर्थे वारप्रवृत्तिम् –
पादोनरेखापरपूर्वयोजनैः पलैर्युतोनास्तिथयो दिनार्द्धतः ।
ऊनाधिकास्तद्विवरोद्भवैः पलैरूर्ध्व तथाऽधो दिनपप्रवेशनम् ॥ ५४॥
अथ वारप्रवृत्तिप्रयोजनपुरःसरां होराम् –
वारादेर्घटिका द्विघ्नाः स्वाक्षहृच्छेषर्वाजताः ।
सैकास्तष्टा नगैः कालहोरेशा दिनपात्क्रमात् ॥ ५५॥
अथ कालहोरा प्रयोजनौचित्यम् –
वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य !
कुर्याद्दिक्छूलादिचिन्त्यं क्षणेषु नैवोल्लङ्घ्यः पारिघश्चापि दण्डः ॥ ५६ ॥
अथ कार्यमात्रनिषिद्धान्मन्वादीन्युगादींश्च –
मन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी
ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्ये शिवाः ।
भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्याः सिते
गोऽग्नी बाहुलराधयोर्मदनदर्शौ भाद्रमाघासिते ॥ ५७॥
इति दैवज्ञानन्तसुतदैवज्ञरामज्योतिर्विद्विरचिते
मुहूर्तचिन्तामणौ शुभाशुभप्रकरणं प्रथमं समाप्तम् ॥
अथ नक्षत्रप्रकरणम्
अथ नक्षत्रप्रकरणं व्याख्यायते । तत्रादौ नक्षत्राणां
प्रसिद्धत्वादेवावक्तव्यतायां सिद्धायां तत्स्वामिनः –
नासत्यान्तकवह्निधातृशशभृद्रुदादितीज्योरगा
ऋक्षेशाः पितरो भगोऽर्यमरवी त्वष्टाशुगाश्च क्रमात् ।
शक्राग्नी खलुमित्रशक्रनिऋतिक्षीराणि विश्वे विधि-
र्गोविन्दो वसुतोयपाजचरणाहिर्बुध्न्यपूषाभिधा: ॥ १ ॥
अथ ध्रुवगणं तत्कृत्यं –
उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् ।
तत्र स्थिरं बीजगेहशान्त्यारामादि सिद्धये ॥२॥
अथ चरगणं तत्कृत्यं –
स्वात्यादित्ये श्रुतेस्त्रीणि चन्द्रश्चापि चरं चलम् ।
तस्मिन् गजादिकारोहो वाटिकागमनादिकम् ॥ ३ ॥
अथोग्रगणम् –
पूर्वात्रयं याम्यमधे उग्रं क्रूरं कुजस्तथा ।
तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादि सिद्ध्यति ॥४ ॥
अथ मिश्रगणनम् –
विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम् ।
तत्राग्निकार्यं मिश्रं च वृषोत्सर्गावि सिद्धये ॥ ५ ॥
अथ लघुगणम् –
हस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा ।
तस्मिन् पण्यरतिज्ञानं भूषाशिल्पकलादिकम् ॥ ६ ॥
अथ मृदुगणम् –
मृगान्त्यचित्रामित्रक्षं मृदु मैत्रं भृगुस्तथा ।
तत्र गीताम्बरक्रीडामित्र कार्यं विभूषणम् ॥ ७ ॥
अथ तीक्ष्णगणम् –
मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् ।
तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥ ८॥
अथाधोमुखोर्ध्वतिर्यङ्मुखनक्षत्राणींद्र –
मूलाहिमिश्रोग्रमधोमुखं भवेदूर्ध्वास्यमार्द्रेज्यहरित्रयंध्रुवम् ।
तिर्यङ्मुखं मैत्रकरानिलादिति-ज्येष्ठाश्विभानीदृशकृत्यमेषु सत् ॥ ९॥
अथ प्रवालदन्तशंखसुवर्णवस्त्रपरिधानमुहूर्त –
पौष्णध्रुवाश्विकरपञ्चकवासवेज्यादित्येप्रवालरदशङ्खसुवर्णवस्त्रम् ।
धार्यं विरिक्तशनिचन्द्रकुजेऽहि न रक्तंभौमे ध्रुवादितियुगे सुभगा न दध्यात्
॥१०॥
अथ वस्त्रस्य नवधाविभक्तस्य दग्धादिदोषे शुभाशुभ फलम् –
वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा-
मध्यत्र्यंशगता नरास्तु सदशे पाशे च मध्यांशयोः ।
दग्धे वास्फुटितेऽम्बरे नवतरे पङ्कादिलिप्ते न स-
द्रर्क्षोऽशे नृसुरांशयोः शुभमसत्सर्वांशके प्रान्ततः ।॥ ११॥
अथ क्वचिद्दुष्टदिनेऽपि वस्त्रपरिधानम् –
विप्राज्ञया तथोद्वाहे राज्ञा प्रीत्यार्पितं च यत् ।
निन्द्येऽपि घिष्ण्ये-वारादौ वस्त्रं धार्यं जगुर्बुधाः ॥ १२॥
अथ लतापादपारोपणराजदर्शनमद्यगोक्रयविक्रयमुहूर्त्तान् –
राधामूलमृदुघ्रु वर्क्षवरुणक्षिप्रैर्लतापादपा-
रोपोऽथो नृपदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैः ।
तीक्ष्णोग्राम्बुपभेषु मद्यमुदितं क्षिप्रांत्यवह्नींन्दुभा-
दित्येन्द्राम्बुपवासवेषु हि गवां शस्तः क्रयो विक्रयः ॥१३॥
अथ पशूनां रक्षामुहर्ते स्थितिनिवेशयानमुहूर्त चेन्द्रवंशेनाह –
लग्ने शुभे चाष्टमशुद्धिसंयुते रक्षा पशूनां निजयोनिभे चरे ।
रिक्ताष्टमीदर्शकुजश्रवोध्रुवत्वाष्ट्रेषु यानं स्थितिवेशनं न सत् ।१४॥
अथौषधसूच्योर्मुहूर्तम् –
भैषज्यं सल्लघुमृदुचरे मूलभे द्व्यङ्गलग्ने
शुक्रेन्द्व्यज्ये विदि च दिवसे चापि तेषां रवेश्च ।
शुद्धे रिःफद्युनमृतिगृहे सत्तिथौ नौ जनेर्भे
सूचीकर्माप्यदितिवसुभे तक्षमेत्राश्विधिष्ण्ये ॥ १५ ॥
अथ क्रयविक्रयनक्षत्रेपू परम्परनिषेधं वदन् क्रयविक्रयनक्षत्राण्य –
क्रयर्क्षे विक्रयो नेष्टो विक्रयर्क्षे क्रयोऽपि न ।
पौष्णाम्बुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः ॥ १६ ॥
अथ विक्रयविपण्योर्मूहूर्त्तौ –
पूर्वाद्वीशकृशानुसार्पयमभे केन्द्रत्रिकोणे शुभैः
षट्त्र्यायेष्वशुभ्भैर्विना घटतनुं सन्विक्रयः सत्तिथौ ।
रिक्ताभौमघटान्विना च विपणिर्मैत्रध्रुवक्षिप्रभै-
र्लग्ने चन्द्रसिते व्ययाष्टरहितैः पापैः शुभैद्वर्यायखे ॥ १७ ॥
अथाश्वहस्तिमुहूर्त्तान् –
क्षिप्रान्त्यवस्विन्दुमरूज्जलेशा-दित्येष्वरिक्तारदिने प्रशस्तम् ।
स्याद्वाजिकृत्यं त्वथ हस्तिकार्यं कुर्यान्मुदुक्षिप्रचरेषु विद्वान् ॥ १८॥
अथ भूषाघटनादिमुहूर्त –
स्याद्भूषाघटनं त्रिषुष्करचरक्षिप्रध्रुवे रत्नयुक्
तत्तीक्ष्णोग्रविहीनभे रविकुजे मेवालिसिंहे तनौ ।
तन्मुक्तासहितं चरध्रुवमृदुक्षिप्रे शुभे सत्तनौ
तीक्ष्णोग्राश्विमृगे द्विदैवदहने शस्त्रं शुभं घट्टितम् ॥ १९ ॥
अथ मुद्रापातनवस्त्रक्षालनमुहूर्त –
मुद्राणां पातनं सद्ध्रुवमृदुचरक्षिप्रभैर्वीन्दुसौरे
घस्रे पूर्णाजयाख्ये न च गुरुभृगुजास्ते विलग्ने शुभैःस्यात् ।
वस्त्राणां क्षालनं सद्वसुहयदिनकृत्पञ्चकादित्यपुष्ये
नो रिक्तापर्वषष्ठीपितृदिनरविजज्ञेषु कार्यं कदापि ॥२०॥
अथ खड्गादिधारणं शय्याद्युपभोगं च –
सन्धार्याः कुन्तवर्मेष्वसनशरक्वपाणासिपुत्र्यो विरक्ते
शुक्रेज्यार्केऽह्नि मैत्रध्रुवलघुसहितादित्यशाक्रद्रिदैवे ।
स्युर्लग्ने हि स्थिराख्ये शशिनि च शुभदृष्टे शुभैः केन्द्रगैः स्या-
द्भोगः शय्यासनादेर्ध्रुवमृदुलघुहर्यन्तकादित्य इष्टः ॥ २१ ॥
अथाधकादिनक्षत्राणि –
अन्धाक्षं वसुपुष्यधातृजलभद्वीशार्यमान्त्याभिधं
मन्दाक्षं रविविश्वमैत्रजलपाश्लेषाश्विचाद्रं भवेत् ।
मध्याक्षं शिवपित्रजैकचरणत्वाष्ट्रेन्द्रविध्यन्तकं
स्वक्षं स्वात्यदितिश्रवोदहनभाहिर्बुध्न्यरक्षोभगम् ॥ २२ ॥
अथांधादिनक्षत्राणां फलानि –
विनष्टार्थस्य लाभोऽन्धे शीघ्रं मन्दे प्रयत्नतः ।
स्याददूरे श्रवणं मध्ये श्रुत्याप्ती न सुलोचने ॥ २३ ॥
अथ धनप्रयोगे निषिद्धनक्षत्राणि –
तीक्ष्णमिश्रध्रुवोग्रैर्यद्द्रव्यं दत्तं निवेशितम् ।
प्रयुक्तं च विनष्टं च विष्ट्यां पाते न चाप्यते ॥ २४ ॥
अथ जलाशयखनननृत्यारम्भयोर्मुहूर्त्तै –
मित्रार्कध्रुववासवाम्बुपमघातोयान्त्यपुष्येन्दुभिः
पापैर्हीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ ।
आप्ये सर्वजलाशयस्य खननं व्यम्भोमघैः सेन्द्रभै-
स्तैर्नृत्यं हिबुके शुभैस्तनुगृहे ज्ञेऽब्जे ज्ञराशौ शुभम् ॥ २५ ॥
अथ सेवकस्य स्वामिसेवायां मुहूर्तम् –
क्षिप्रे मैत्रै वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे ।
योनेर्मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्या स्वामिन: सेवकेन ॥ २६॥
अथ द्रव्यप्रयोगऋणग्रहणमुहूर्तं –
स्वात्यादित्यमृदुद्विदैवगुरुभे कर्मत्रयाश्वे चरे
लग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः ।
नारे ग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केऽह्नि य-
त्तद्वंशेषु भवेद्टणं न च बुधे देयं कदाचिद्धनम् ॥ २७ ॥
अथ हलप्रवहणमूहूर्त –
मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैविनार्कं शनिं
पापैर्हींनबलैर्विषौ जललवे शुक्रे विधौ मांसले ।
लग्ने देवगुरौ हलप्रवहणं शस्तं न सिंहे घटे
कर्काजेणधटे तनौ क्षयकरं रिक्तासु वष्ट्यां तथा ॥२८॥
अथ बीजोप्तिमुहूर्तफणिचक्रहलचक्राणि –
एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना
बीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः ।
रामेन्द्वग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिता-
द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्सन्ति च ॥ २९ ॥
अथ शिरोमोक्षणविरेकादिधर्मक्रियामुहूर्तान् –
त्वाष्ट्रान्मित्रकभाद्द्वयेऽम्बुपलघुश्रोत्रे शिरामोक्षणं
भौमार्केज्यदिने विरेकव मनाद्यं स्याद्बुधार्की विना ।
मित्रक्षिप्रचरध्रुवे रविशुभाहे लग्नवर्गे विदो
जीवस्यापि तनौ गुरौ निगदिता धर्मक्रिया तद्बले ॥३०॥
अथ धान्यच्छेदमुहूर्तं –
तीक्ष्णाजपादकरवन्हिवसुश्रुतीन्दु-
स्वातीमघोत्तरजलान्तकतक्षपुष्ये।
मन्दाररिक्तरहिते विवसेऽतिशस्ता
धान्यच्छिदा निगदिता स्थिरभं विलग्ने ॥३१॥
अथ कणमर्दनसस्यरोपणमुहूर्तौ –
भाग्यार्यमश्रुतिमघेन्द्रविधातृमूल-
मैत्रान्त्यभेषु कथितं कणमर्दनं सत् ।
द्वीशाजपान्निर्ऋतिधातृशतार्यमर्क्षे
सस्यस्य रोपणमिहार्किकुजौ विना सत् ॥ ३२॥
अथ धान्यस्थितिधान्यवृद्धिमुहूर्तौ –
मिश्रोग्ररौद्रभुजगेन्द्रविभिन्नभेषु
कर्काजतौलिरहिते च तनौ शुभाहे ।
धान्यस्थितिः शुभकरी गदिता ध्रुवेज्य-
द्वीशेन्द्रदस्रचरभेषु च धान्यवृद्धिः ॥ ३३ ॥
अथ शान्तिकपौष्टिकादिकृत्येषु मुहूर्तम् –
क्षिप्रध्रुवान्त्यचरमैत्रमघासु शस्तं
स्याच्छान्तिकं च सह मङ्गलपौष्टिकाभ्याम् ।
खेऽर्के विधौ सुखगते तनुगे गुरौ नो
मौढ्यादिदुष्टसमये शुभदं निमित्ते ॥ ३४ ॥
अथ होमाहुतेः शुद्धमुहूर्तम् –
सूर्यभात्त्रित्रिभे चान्द्रे सूर्यविच्छुक्रपङ्गव: ।
चन्द्रारेज्यागुशिखिनो नेष्टा होमाहुतिः खले ॥३५॥
अथ यद्दिने होमश्चिकीर्षितस्तद्दिने वह्निवासवशेन शुभाशुभफलम् –
सैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्रिवासः ।
सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ॥ ३६ ॥
अथ प्रतिवर्षोत्पन्नवान्नभक्षणमुहूर्तम् –
नवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम् ।
विना नन्दाविषघटीमधुपौषाकिभूमिजान् ॥३७॥
अथ नौकाघटनमुहूर्तम् –
याम्यत्रयविशाखेन्द्रसार्पपित्र्येशभिन्नभे ।
भूग्विज्यार्कदिने नौकाघटं सत्तनौ शुभम् ॥३८॥
अथ वीरसाधनाभिचारयोर्मुहूर्तम् –
मूलार्द्राभरणीपित्र्यमघे सौम्ये घटे तनौ ।
सुखे शुक्रेऽष्टमे शुद्धे सिद्धिर्वीराभिचारयोः ॥३९॥
अथ रोगनिर्मुक्तस्नानमुहूर्ते –
ब्यन्त्यादितिध्रुवमघानिलसार्पधिष्ण्ये, रिक्ते तिथौ चरतनौ विकवीन्दुवारे ।
स्नानं रुजा विरहितस्य जनस्य शस्तं, हीने विधौ खलखगैर्भवकेन्द्रकोणे ॥४०॥
अथ शिल्पविद्यामुहूर्तम् –
मृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा खलग्नेगे ।
विधौ ज्ञजीववर्गस्थे शिल्पविद्या प्रशस्यते ॥४१॥
अथ सन्धानमुहूर्त्तम् –
सुरेज्यमित्रभाग्येषु चाष्टम्यां तैतिले हरौ ।
शुक्रदृष्टे तनौ सौम्यवारे सन्धानमिष्यते ॥४२॥
अथ परोक्षामुहूर्तम् –
त्यक्त्वाष्टभूतशनिविष्टिकुजाञ्जनुर्भ-
मासौ मृतौ रविविधू अपि भानिनाड्यः ।
द्व्यङ्गे चरे तनुलवे शशिजीवतारा
शुद्धौ करादितिहरीन्द्रकपे परीक्षा ॥४३ ॥
अथ सामान्यतः समस्तशुभकार्येषु लग्नशुद्धिम् –
व्ययाष्टशुद्धोपचये लग्नगे शुभदृग्युते।
चन्द्रे त्रिषड्दशायस्थे सर्वारम्भः प्रसिद्धयति ॥४४॥
अथ नक्षषेषु ज्वरोत्पत्तौ सत्यां तन्निवृत्तौ दिनसंख्यादिकं द्वितीयः –
स्वातीन्त्रपूर्वाशिवसार्पभे मृतिर्ज्वरेऽन्त्यमैत्रे स्थिरता भवेद्रुजः ।
याम्यश्रवोवारुणतक्षभे शिवा घस्रा हि पक्षौ द्रव्यधिपार्कवासवे ॥
मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्यार्यमेज्यादितिधातृभे नगाः ।
मासोऽब्जवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः ॥४५-४६॥
अथ शीघ्ररोगमरणे विशिष्टं योग द्वितीयः –
रौद्राहिशाक्राम्बुपयाम्यपूर्वाद्विदेववस्वग्निषु पापवारे।
रिक्ताहरिस्कन्ददिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः ॥ ४७ ॥
अथ प्रेतदाहमुहूर्त प्रेतदाहादिनिषिद्धदिनं च –
क्षिप्राहिमूलेन्द्रहरीशवायुभे प्रेतक्रिया स्याज्झषकुम्भगे विधौ ।
प्रेतस्य दाहं यमदिग्गमं त्यजेच्छय्यावितानं गृहगोपनादि च ॥ ४८॥
अथ काष्ठ-गोमयपिण्डादीनां संग्रहमूहूर्तम् –
सूर्यर्क्षाद्रसभैरधः स्थलगतैः पाको रसैः संयुतः
शीर्षे युग्ममितैः शवस्य दहनं मध्ये युगैः सर्पभीः।
प्रागाशादिषु वेदभैः स्वसुहृदां स्यात्सङ्गमो रोगभीः
क्वाथादेः करणं सुखं च गदितं काष्ठाविसंथापने ॥४९॥
अथ त्रित्रिषुष्करयोगं सफलम् –
भद्रातिथी रविजभूतनयार्कवारे द्वीशार्यमाजचरणादितिवह्निवैश्वे ।
त्रैषुष्करो भवति मृत्युविनाशवृद्धौत्रैगुण्यदो द्विगुणकृद्वसुतक्षचान्द्रे ॥
५०॥
अथ शवप्रतिकृतिदाहे निषिद्धकालम् –
शुक्रारार्किषु दर्शभूतमदने नन्दासु तीक्ष्णोग्रमे
पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने ।
याम्येऽब्दात्परतश्च पातपरिघे देवेज्यशुक्रास्तके
भद्रावैधृतयोः शवप्रतिकृतेर्दाहो न पक्षे सिते ॥५१॥
अन्यदपि –
जन्मप्रत्यरितारयोर्मृतिसुखान्त्येऽब्जे च कर्तुर्नसन्
मध्यो मैत्रभगादितिध्रुवविशाखाद्वयङ्घ्रिभेज्ञेऽपि ।
श्रेष्ठोऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा
त्वाशौचात्परतो विचार्यमखिलं मध्ये यथासम्भवम् ॥ ५२॥
अथ नक्षत्रसम्बन्धेन मुहूर्त्तानुक्त्वा नक्षत्रप्रसंगान्नक्षत्रविशेषोत्पन्नस्याभुक्तमूलदोषमनेकविधम्
–
अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हि नारदः ।
वसिष्ठ एकद्विघटीमितं जगौ बृहस्पतिस्त्वेकघटीप्रमाणकम् ।॥ ५३ ॥
अथान्यदपि सफलम् –
अथोचुरन्ये प्रथमाष्टघट्यो मूलस्य शाक्रान्तिमपञ्चनाडयः ।
जातं शिशुं तत्र परित्यजेद्वा मुखं पितास्याष्टसमा न पश्येत् । ५४ ।
अथ प्रसङ्गान्मूलाश्लेषाजातस्य बालस्य चरणवशेन शुभाशुभफलम् –
आद्ये पिता नाशमुपैति मूल पादे द्वितीये जननी तृतीये ।
धनं चतुर्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत्स्यादहिभे विलोमम् ॥ ५५ ॥
अथ मूलनिवासं सफलम् –
स्वर्ग शुचिप्रौष्ठ पदेषमाघे भूमौ नभः कार्त्तिकचैत्रपौषे ।
मूलं ह्यधस्तात्तु तपस्यमार्गवैशाखशुक्रेष्वशुभं च तत्र ।॥ ५६ ॥
अथ मूलप्रसंगाद्दुष्टेषु गण्डान्तादिनिमित्तेषु सत्सु जातस्यारिष्टं
सपरिहारम् –
गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे
सङ्कान्तिव्यतिपातवैधृतिसिनीवालीकुहूदर्शके ।
वज्रे कृष्ण चतुर्दशीषु यमघण्टे दग्धयोगे मृतौ
विष्टौ सोदरभे जनिर्न पितृभे शस्ता शुभा शान्तितः ॥५७॥
अथ नक्षत्रप्रसाङ्गादेवाश्विन्यादिभानां तारकामानम् –
त्रित्र्यङ्गपञ्चाग्निकुवेदवह्नयः शरेषुनेत्राश्विशरेन्दुभूकृताः ।
वेदाग्निरुद्राश्वियमाग्निवह्नयोऽब्धयः शतं द्विद्विरदा भतारकाः ॥ ५८ ॥
अथाश्विन्यादीनामाकृतिम् –
अश्व्यादिरूपं तुरगास्ययोनिक्षरोन एणास्यमणिर्गृंहं च ।
पृषत्कचक्रे भवनं च मञ्चः शय्याकरो मौक्तिकविद्रुमं च ।। ५९ ।।
तोरणं बलिनिभं च कुण्डलं सिंहपुच्छगजदन्तमञ्चकः ।
त्र्यस्रि च त्रिचरणाभमर्दलो वृत्तमञ्चयमलाभमर्दलाः ॥६०॥
अथ जलाशयारामदेवप्रतिष्ठामुहूर्त्तं सपादोपजातिकया तत्र च समान्यतो लग्नशुद्धिं
देवताविशेषाणां लग्नविशेषं च पादोनोपजातिकाभ्यामाह-
जलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङकगुक्रे ।
दृश्ये मृदुक्षिप्रचरध्रुवे स्यात् पक्षे सिते स्वर्क्षतिथिक्षणे वा ॥६१॥
रिक्तारवर्जे दिवसेऽतिशस्ता शशाङ्कपापैस्त्रिभवाङ्गसंस्थैः ।
व्यष्टान्त्यगैः सत्खचरैर्मृगेन्द्रे सूर्यो घटे को युवतौ च विष्णुः ॥६२॥
शिवो नृयुग्मे द्वितनौ च देव्यः क्षुद्राश्चरे सर्व इमे स्थिरर्क्षे ।
पुष्ये ग्रहा विघ्नपयक्षसर्प-भूतादयोऽन्त्ये श्रवणे जिनश्च ॥६३॥
इति दैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ नक्षत्रप्रकरणं समाप्तम्
॥
अथ संक्रान्तिप्रकरणम्
घोरार्कसङ्क्रमणमुग्ररवौ हि शूद्रान् ध्वाङ्क्षी विशो लघुविधौ च चरर्क्षभौभे ।
चौरान् महोदरयुता नृपतीन् ज्ञमैत्रे मन्दाकिनी स्थिरगुरौ सुखयेच्च मन्दा ॥१॥
विप्रांश्च मिश्रभभृगौ तु पशूंश्च मिश्रतीक्ष्णार्कजेऽन्त्यजसुखा खलु राक्षसी
च ।
अथ दिनरात्रिविभागेन संक्रांत्यशुभफलमुत्तरायणदक्षिणायनसंज्ञां च –
त्र्यंशे दिनस्य नृपतीन् प्रथमे निहन्ति मध्ये द्विजानपि विशोऽपरके च शूद्रान्
॥ २॥
अस्ते निशाप्रहरकेषु पिशाचकादीन् नक्तंचरानपि नटान् पशुपालकांश्च ।
सूर्योदये सकललिङ्गिजनं च सौम्ययाम्यायनं मकरकर्कटयोर्निरुक्तम् ॥३॥
अथावशिष्टतादृशसंक्रान्तीनां षडशीतिमुखाः संज्ञा –
षडशीत्याननं चापनृयुक्कन्याझषे भवेत् ।
तुलाजौ विषुवं विष्णुपदं सिंहालिगोघटे ॥ ४ ॥
तासां संज्ञानां फलानि, तत्र स्नानदानादि च-
स च गौणकाल: प्रतिनिधिरित्यतो गौणकालम् –
संक्रान्तिकालादुभयत्र नाडिकाः पुण्या मताः षोडशषोडशोष्णगोः ।
निशीथतोऽर्वागपरत्र सङ्क्रमे पूर्वापराहान्तिमपूर्वभागयोः ॥ ५ ॥
अर्द्धरात्रसमये संक्रमणे मकरकर्कूटयोश्च विशेषम् –
पूर्णे निशीथे यदि संक्रमः स्याद्दिनद्वयं पुण्यमथोदयास्तात् ।
पूर्व परस्ताद्यदि याम्यसौम्यायने दिने पूर्वपरे तु पुण्ये ।। ६ ॥
अथार्द्धोदयास्तादिति वचनस्यापवादम् –
सन्ध्या त्रिनाडीप्रमितार्कबिम्बा दर्द्धोदितास्तादध ऊर्ध्वमत्र ।
चेद्याम्यसौम्ये अयने क्रमात्स्तः पुण्यौ तदानीं परपूर्वधस्रौ ॥ ७ ॥
अथ पूर्वापर षोडश घटिकाः पुण्या इति पूर्व सामान्येनोक्तम् । इदानीं
विष्णुपदादिषु संक्रमेषु विशेषम् –
याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः ।
षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः ॥८॥
सर्वग्रहसंक्रान्तिषु पुण्यकालनिर्णयसंग्रहः, मतान्तरखण्डनं च-
अथ रविरयनांशसंक्रांतिकालमभिधायेदानीं सायनांशसंक्रांतिषु पुण्यकालम् –
तथायनांशाः खरसाहताश्च स्पष्टार्कगत्या विहृता दिनाद्यैः ।
मेषादितः प्राक्चलसंक्रमाः स्युर्दाने जपादौ बहुपुण्यदास्ते ॥ ९॥
अथ संक्रान्त्युपयोगित्वाज्जघन्यबृहत्समनक्षत्राणि –
समं मृदुक्षिप्रवसुश्रवोऽग्निमघात्रिपूर्वास्रपभं बृहत्स्यात् ।
ध्रुवद्विदैवादितिभं जघन्यं सार्पाम्बुपार्द्रानिलशाक्रयाम्यम् ॥१०॥
अथ संज्ञाप्रयोजनम् –
जघन्यभे संक्रमणे मुहूर्ताः शरेन्दवो १५ बाणकृता ४५ बृहत्सु ।
खराम ३० सङ्ख्याः समभे महर्धसमर्धसाम्यं विधुदर्शनेऽपि ॥ ११ ॥
अथ प्रसङ्गात्कर्कसंक्रान्ताबब्दविंशोपकान् –
अर्कादिवारे सङ्क्रान्तौ कर्कस्याब्दविंशोपकाः ।
दिशो नखा गजाः सूर्या धृत्योऽष्टादश सायकाः ॥ १२ ॥
अथ कोदृशस्य रवेः संक्रमो जातस्तत्फलम् –
स्यात्तैतिले नागचतुष्पदे रविः सुप्तो निविष्टस् तुगरादिपञ्चके ।
किंस्तुघ्न ऊर्ध्वः शकुनौ सकौलवे नेष्टः समः श्रेष्ठ इहावर्षर्घणे ॥ १३॥
अथ रविसंक्रान्तेः करणपरत्वेन वाहनवस्त्रायुधभक्ष्यलेपनजातिपुष्पाणि
सफलानि -
सिंह्यव्याघ्रवराहरासभगजा वाहद्विषद्घोटकाः
श्वाऽजो गौश्चरणायुधश्च बवतो वाहा रवेः संक्रमे ।
वस्त्रं इवेतसुपीतहारितकपाण्ड्वारक्तकालासितं
चित्रं कम्बलदिग्घनाभमथ शस्त्रं स्याद्भुशुण्डी गदा ।॥ १४॥
खड्गो दण्डशरासतोमरमथो कुन्तश्च पाशोऽङ्कुशो-
ऽस्त्रं बाणस्त्वथ भक्ष्यमत्रपरमान्नं भक्षपक्वान्नकम् ।
दुग्धं दध्यपि चित्रितान्नगुडमध्वाज्यं तथा शर्कर-
थो लेपो मृगनाभिकुङ्कुममथो पाटीरमृद्रोचनम् ॥ १५ ॥
यावश्चोतुमदो निशाञ्जनमथो कालागुरुश्चन्द्रको
जातिर्दैवतभूतसर्पविहगाः पश्वेणविप्रास्ततः ।
क्षत्री वेश्यकशूद्रसङ्करभवाः पुष्पं च पुंनागकं
जातीबांकुलकेतकानि च तथा विल्वार्कदूर्वाम्बुजम् ॥ १६ ॥
स्यानमल्लिका पाटलिका जपा च
सङ्क्रान्तिवस्त्राशनवाहनादेः ।
नाशश्च तद्वृत्त्युपजीविनां च
स्थितोपविष्टस्वपतां च नाशः ॥१७॥
अथ संक्रान्तिवशेन प्रतिमनुष्यं शुभाशुभफलम् –
सङ्क्रान्तिधिष्ण्याधरधिष्ण्यतस्त्रिभे स्वभे निरुक्तं गमनं ततोऽङ्गभे ।
सुखं त्रिभे पीडनमङ्गर्भेऽशुकं त्रिभेऽर्थहानी रसभे घनागमः ॥ १८ ॥
अथ कार्यविशेषे बलं सामान्यतः संक्रममाणग्रहबलं च –
नृपेक्षणं सर्वकृतिश्च सङ्गरः शास्त्रं विवाहो गमदीक्षणे रवेः ।
वीर्येऽथ ताराबलतः शुभो विधुर्विधोर्बलेऽर्कोऽर्कबले कुजादयः ॥ १९ ॥
अथाधिमासक्षयमासयोः संक्रान्त्यधीनत्वात्तयोर्निर्णयः प्रस्तूयते तत्र
तल्लक्षणम् –
स्पष्टार्कसङ्क्रान्तिविहीनचांद्रो मासोऽधिमासः क्षयमासकस्तु ।
द्विसङ्क्रमस्तत्र विभागयोस्तस्तिथेर्हि मासौ प्रथमान्त्यसञ्ज्ञौ ॥ २० ॥
इति श्रीदैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्त चिन्तामणौ संक्रान्तिप्रकरणं
समाप्तम् ॥
अथ गोचरप्रकरणम्
अथ गोचरप्रकरणं व्याख्यायते । तत्र जन्मराशितः प्रोक्तनिषिद्धस्थानस्थितेदानीत्तनग्रहवशेन
शुभाशुभनिरूपणं गोचर इत्युच्यते । तत्र ग्रहाणां गोचरफलं शुभाशुभरूपम् –
सूर्यो रसान्त्ये खयुगेऽग्निनन्दे शिवाक्षयोर्भौंमशनी तमश्च ।
रसाङकयोर्लाभशरे गुणान्त्ये चन्द्रोऽम्बराब्धौ गुणनन्दयोश्च ॥ १ ॥
लाभाष्टमे चाद्यशरे रसान्त्ये नागद्वये ज्ञो द्विशरेऽब्धिरामे ।
रसाङ्कयोर्नागविधौ खनागे लाभव्यये देवगुरुः शराब्धौ ॥ २॥
द्वयन्त्ये नवांऽऽशे द्विगुणे शिवाहौ शुक्र: कुनागे द्विनगेऽग्निरूपे ।
वेदाम्बरे पञ्चनिधौ गजेषौ नन्देशयोर्भानुरसे शिवाग्नौ ॥ ३ ॥
क्रमाच्छुभो विद्ध इति ग्रहः स्यात् पितुः सुतस्यात्र न वेधमाहुः ।
दुष्टोऽपि खेटो विपरीतवेधाच्छुभो द्विकोणे शुभदः सितेऽजः ॥ ४ ॥
अथ द्विविधवेधे मतद्वयम् –
स्वजन्मराशेरिह वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः ।
हिमाद्रिविन्ध्यान्तर एव वेधो न सर्वदेशेष्विति काश्यपोक्तिः ॥५॥
अथ गोचप्रस्तावात् ग्रहणनक्षत्रफलं ग्रहणीयराहुगोचरफलं ग्रहाणामशुभप्रतीकारं च
दुष्टग्रहणदर्शननिषेधं च –
जन्मर्क्षे निधनं ग्रहे जनिभतो घातः क्षतिः श्रीर्व्यथा
चिन्ता सौख्यकलत्रदौस्थ्यमृतयः स्युर्माननाशः सुखम् ।
लाभोऽपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगो-
दानं शान्तिरथो ग्रहं त्वशुभदं नो वीक्ष्यमाहुः परे ॥ ६ ॥
अथ चन्द्रबले विशेषम् –
पापान्तः पापयुग्द्यूने पापाच्चन्द्रः शुभोऽप्यसत् ।
शुभांशे वाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सन् ॥ ७ ॥
अथ चन्द्रबलस्य विधानान्तरम् –
सितासितादौ सद्दुष्टे चन्द्रे पक्षौ शुभावुभौ ।
व्यत्यासे चाशुभौ प्रोक्तौ सङ्कटेऽव्जबलं त्विदम् ॥ ८।॥
अथ ग्रहाणां दौष्ट्यपरिहारपूर्वकं तुष्टिसंपादनार्थं नवरत्नसमुदायधारणम् –
वज्रं शुक्रेऽब्जे सुमुक्ता प्रवालं भौमेऽगौ गोमेदमार्कौ सुनीलम् ।
केतौ वैदूर्यं गुरौ पुष्पकं ज्ञे पाचिःप्राङ्माणिक्यमर्के तु मध्ये ॥ ९ ॥
अथ सति द्रव्यसामर्थ्ये नवरत्नसमुदायधारणस्य शक्यत्वात्तदुक्त्वेदानीमसति
द्रव्यसामर्थ्ये यद्ग्रहकृतं दौष्ट्यं तद्ग्रहरत्नधारणम् –
माणिक्यमुक्ताफलविद्रुमाणि गारुत्मकं पुष्पकवज्रनीलम् ।
गोमेदवौदूर्यकमर्कतः स्यू रत्नान्यथो ज्ञस्य मुदे सुवर्णम् ॥ १०॥
अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्पमूल्यानि रत्नानि ताराबलं च
–
धार्यं लाजावर्त्तकं राहुकेत्वो रौप्यं शुक्रेन्द्वोश्च मुक्ता गुरोस्तु ।
लौहं मन्दस्यारभान्वोः प्रवालं तारा जन्मर्क्षात्त्रिरावृत्तितः स्यात् ॥ ११ ॥
अथ शेषक्रमेण सकलास्तारा संज्ञा –
जन्माख्यसम्पद्विपदः क्षेमप्रत्यरिसाधकाः
वध मैत्रातिमौत्राः स्युस्तारा नामसदृक्फलाः ॥ १२ ॥
अथावश्यकृत्ये दुष्टताराणां प्रकारद्वयेन परिहारं –
मृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मस्वथो
दद्यात्प्रत्यरितारकासु लवणं सर्वो विपत्प्रत्यरिः ।
मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयऽशका
नादिप्रान्त्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः॥ १३ ॥
अथ चन्द्रावस्था वक्ष्यति, तद्गणनोपायम् –
षष्टिघ्नं गतभं भुक्तघघटीयुक्तं युगाहतम् ।
शराब्धिहृल्लब्धतोऽर्कशेषेऽवस्थाः क्रियाद्विधोः ॥ १४ ॥
अथ द्वादशावस्थानामानि सफलानि –
प्रवासनाशौ मरणं जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः ।
ज्वराख्यकम्पस्थिरता ह्यवस्था मेषात्क्रमान्नामसदृक्फला स्युः ॥ १५ ॥
अथ ग्रहाणां वैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च –
लाजाकुष्ठबलाप्रियङ्गुधनसिद्धार्थैर्निशादारुभिः
पुङ्खालोध्रयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाघहृत् ।
धेनुः कम्ब्वरुणो वृषश्च कनकं पीताम्बरं घोटकः
श्वेतो गौरसिता महासिरज इत्येता रवेर्दक्षिणाः॥ १६॥
अथ सूर्यादयो ग्रहा गन्तव्यराशेः प्राक् कियद्भिर्दिनैः फलं दद्युरित्येतद् –
सूर्यारसौम्यास्फुजितोऽक्षनागसप्ताद्रिघस्रान्विधुरग्निनाडीः ।
तमोयमेज्यास्त्रिरसाश्विमासान् गन्तव्यराशेः फलदाः पुरस्तात् ॥ १७॥
अथ प्रसङ्गादावश्यकमङ्गलयात्राकृत्येषु कर्त्तव्येषु सत्सु तिथ्यादिविषयकदुष्टयोगसद्भावे
तद्दोषनिवारणार्थं दानम् –
दुष्टे योगे हेम चन्द्रे च शङ्खं धान्यं तिथ्यर्द्धे तिथौ तण्डुलांश्च ।
वारे रत्नं भे च गां हेम नाड्यां दद्यात्सिन्धूत्थं च तारासु राजा ॥१८॥
अथात्र गोचरप्रसङ्गात्सूर्यादयो ग्रहाः राश्यन्तरगताः संतः कदा
शुभाशुभफलदातारो भवन्ति तथा चन्द्रमासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सति
फलविशेषं च –
राश्यादिगौ रविकूजौ फलदौ सितेज्यौ
मध्ये सदा शशिसुतश्चरमेऽब्जमन्दौ
अध्वान्नवह्निभयसन्मतिवस्त्रसौख्य-
दुःखानि मासिजनिभे रविवासरादौ ॥ १९ ॥
इति दैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्त्तचिन्तामणौ गोचरप्रकरणं समाप्तम् ॥
अथ संस्कारप्रकरणम्
आद्यं रजः शुभं माघमार्गंराधेषफाल्गुने ।
ज्येष्ठश्रावणयोः शुक्ले सद्वारे सत्तनौ दिवा ॥ १ ॥
अथ प्रथमे रजोदर्शनं शुभनक्षत्राणि –
श्रुतित्रयमृदुक्षिप्रध्रुवस्वातौ सिताम्बरे
मध्यं च मूलादितिभे पितृमिश्रे परेष्वसत् ॥२॥
भद्रानिद्रासंक्रमे दर्शरिक्तासन्ध्याषष्ठीद्वादशीवैधृतेषु
रोगेऽष्टम्यां चन्द्रसूर्योपरागे पाते चाद्यं नो रजोदर्शनं सत् ॥३॥
हस्तानिलाश्विमृगमैत्रवसुध्रुवाख्यैः शक्रान्वितैः शुभतिथौ शुभवासरे च ।
स्नायादथार्तववती मृगपौष्णवायुः हस्ताश्विधातृभिररं लभते च गर्भम् ॥४॥
गण्डान्तं त्रिविधं त्यजेन्निधनजन्मर्क्षे च मूलान्तकं
दास्रं पौष्णमथोपरागदिवसं पातं तथा वैधृतिम् ।
पित्रोः श्राद्धदिनं दिवा च परिघाद्यर्धं स्वपत्नीगमे
भान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम् ॥५॥
भद्राषष्ठीपर्वरिक्ताश्च सन्ध्याभौमार्कार्कीनाद्यरात्रीश्चतस्रः ।
गर्भाधानं त्र्युत्तरेन्द्वर्कमैत्रब्राह्मस्वातीविष्णुवस्वम्बुपे सत् ॥६॥
केन्द्रत्रिकोणेषु शुभैश्च पापैस्त्र्यायारिगैः पुंग्रहदृष्टलग्ने ।
ओजांशगेऽब्जेऽपि च युग्मरात्रौ चित्रादितीज्याश्विषु मध्यमं स्यात् ॥७॥
जीवार्कारदिने मृगेज्यनिर्ऋतिश्रोत्रादितिब्रध्नभै-
रिक्तामार्करसाष्टवर्ज्यतिथिभिर्मासाधिपे पीवरे ।
सीमन्तोऽष्टमषष्ठमासि शुभदैः केन्द्रत्रिकोणे खलै-
र्लाभारित्रिषु वा ध्रुवान्त्यसदहे लग्ने च पुंभांशके ॥८॥
मासेश्वराः सितकुजेज्यरवीन्दुसौरि चन्द्रात्मजास्तनुपचन्द्रदिवाकराः स्युः ।
स्त्रीणां विधोर्बलमुशन्ति विवाहगर्भ संस्कारयोरितरकर्मसु भर्तुरेव ॥९॥
पूर्वोदितैः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा ।
मासेऽष्टमे विष्णुविधातृजीवैर्लग्ने शुभे मृत्युगृहे च शुद्धे ॥१०॥
तज्जातकर्मादि शिशोर्विधेयं पर्वाख्यरिक्तोनतिथौ शुभेऽह्नि ।
एकादशे द्वादशकेऽपि घस्रे मृदुध्रुवक्षिप्रवरोडुषु स्यात् ॥११॥
पौष्णध्रुवेन्दुकरवातहयेषु सूती-स्नानं समित्रभरवीज्यकुजेषु शस्तम् ।
नार्द्रात्रयश्रुतिमघान्तकमिश्रमूलत्त्वाष्ट्रे ज्ञसौरिवसुषड्रविरिक्ततिथ्याम्
॥१२॥
मासे चेत्प्रथमे भवेत्सदशनो बालो विनश्येत्स्वयं
हन्यात्स क्रमतोऽनुजातभगिनीमात्रग्रजान् द्व्यादिके ।
षष्ठादौ लभते हि भोगमतुलं तातात्सुखं पुष्टतां
लक्ष्मीं सौख्यमथो जनौ सदशनो वोर्ध्वं स्वपित्रादिहा ॥१३॥
दोलारोहेऽर्कभात्पञ्चशरपञ्चेषुसप्तभैः ।
नैरुज्यं मरणं कार्श्यं व्याधिः सौख्यं क्रमाच्छिशोः ॥१४॥
दन्तार्कभूपधृतिदिङ्मितवासरे स्याद्वारे शुभे मृदुलघुध्रुवभैः शिशूनाम् ।
दोलाधिरूढिरथ निष्क्रमणं चतुर्थ मासे गमोक्तसमयेऽर्कमितेऽह्नि वा स्यात् ॥१५॥
कवीज्यास्तचैत्राधिमासे न पौषे जलं पूजयेत्सूतिका मासपूर्त्तौ ।
बुधेन्द्वीज्यवारे विरिक्ते तिथौ हि श्रुतीज्यादितीन्द्वर्कनैर्ऋत्यमैत्रैः ॥१६॥
रिक्तानन्दाष्टदर्शं हरिदिवसमथो सौरिभौमार्कवारा-
ल्लग्नं जन्मर्क्षलग्नाष्टमगृहलवगं मीनमेषालिकं च ।
हित्वा षष्ठात्समे मास्यथ हि मृगदृशां पञ्चमादोजमासे
नक्षत्रैः स्यात् स्थिराख्यैः समृदुलघुचरैर्बालकाऽन्नाशनं सत् ॥१७॥
केन्द्रत्रिकोणसहजेषु शुभैः खशुद्धे लग्ने त्रिलाभरिपुगैश्च वदन्ति पापैः ।
लग्नाष्टषष्ठरहितं शशिनं प्रशस्तं मैत्राम्बुपानिलजनुर्भमसच्च केचित् ॥१८॥
क्षीणेन्दुपूर्णचन्द्रेज्यज्ञभौमाऽर्काऽऽर्किभार्गवैः ।
त्रिकोणव्ययकेन्द्राष्टस्थितैरुक्तं फलं ग्रहैः ॥१९॥
भिक्षाशी यज्ञकृद्दीर्घजीवी ज्ञानी च पित्तरुक् ।
कुष्ठी चान्नक्लेशवातव्याधिमान् भोगभागिति ॥२०॥
पृथ्वीवराहमभिपूज्य कुजे विशुद्धेऽरिक्ते तिथौ व्रजति पञ्चममासि बालम् ।
बद्ध्वा शुभेऽह्नि काटसूत्रमथ ध्रुवेन्दु ज्येष्ठर्क्षमैत्रलघुभैरुपवेशयेकौत्कौ
॥२१॥
तस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीं च ।
स्वर्णं रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा ॥२२॥
वारे भौमार्किहीने ध्रुवमृदुलघुभैर्विष्णुमूलादितीन्द्र-
स्वातीवस्वभ्युपेतैर्मिथुनमृगसुताकुम्भगोमीनलग्ने ।
सौम्यैः केन्द्रत्रिकोणैरशुभगगनगैः शत्रुलाभत्रिसंस्थै-
स्ताम्बूलं सार्धमासद्वयमितसमये प्रोक्तमन्नाशने वा ॥२३॥
हित्वैतांश्चैत्रपौषावमहरिशयनं जन्ममासं च रिक्तां
युग्माब्दं जन्मतारामृतुमुनिवसुभिः सम्मिते मास्यथो वा ।
जन्माहात्सूर्यभूपैः परिमितदिवसे ज्ञेज्यशुक्रेन्दुवारे
ऽथौजाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधः प्रशस्तः ॥२४॥
संशुद्धे मृतिभवने त्रिकोणकेन्द्रव्त्र्यायस्थैः शुभखचरैः कवीज्यलग्ने ।
पापाख्यैररिसहजायगेहसंस्थैर्लग्नस्थे त्रिदशगुरौ शुभावहः स्यात् ॥२५॥
गीर्वाणाऽम्बुप्रतिष्ठापरिणयदहनाधानचौलोपवीत-
क्षोणीपालाभिषेकोदवसितदिशनं नैव याम्यायने स्यात् ।
नो वा बाल्यास्तवार्द्धे सुरगुरुसितयोर्नैव केतूदये स्यात्
पक्षं वार्द्धं च केचिज्जहति तमपरे यावदीक्षां तदुग्रे ॥२६॥
पुरः पश्चाद् भृगोर्बाल्यं त्रिदशाहं च वार्द्धकम् ।
पक्षं पञ्चदिनं ते द्वे गुरोः पक्षमुदाहृते ॥२७॥
ते दशाहं द्वयोः प्रोक्ते कैश्चित्सप्तदिनं परैः ।
त्र्यहं त्वात्ययिकेऽप्यन्यैरर्द्धाहं च त्र्यहं विधोः ॥२८॥
चूडावर्षात्तृतीयात्प्रभवति विषमेऽष्टार्करिक्ताद्यषष्ठी-
पर्वोनाहे विचैत्रोदगयनसमये ज्ञेन्दुशुक्रेज्यकानाम् ।
वारे लग्नांशयोश्चास्वभनिधनतनौ नैधने शुद्धियुक्ते
शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषट्त्रिस्थपापैः ॥२९॥
क्षीणचन्द्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपङ्गुताज्वराः ।
स्युः क्रमेण बुधजीवभार्गवैः केन्द्रगैश्च शुभमिष्टतारया ॥३०॥
पञ्चमासाधिके मातुर्गर्भे चौलं शिशोर्न सत् ।
षञ्चवर्षाधिकस्येष्टं गर्भिण्यामपि मातरि ॥३१॥
तारादौष्ट्येऽब्जे त्रिकोणोच्चगे वा क्षौरं सत्स्यात्सौम्यमित्रस्ववर्गे ।
सौम्ये भेऽब्जे शोभने दुष्टतारा शस्ता ज्ञेया क्षौरयात्रादिकृत्ये ॥३२॥
ऋतुमत्याः सूतिकायाः सूनोश्चौलादि नाऽऽचरेत् ।
ज्येष्ठापत्यस्य न ज्येष्ठे कैश्चिन्मार्गेऽपि नेष्यते ॥३३॥
दन्तक्षौरनखक्रियाऽत्र विहिता चौलोदिते वारभे
पातंग्याररवीन्विहाय नवमं घस्रं च सन्ध्यां तथा ।
रिक्तां पर्व निशां निरासनरणग्रामप्रयाणोद्यत-
स्नाताभ्यक्तकृताशनैर्नहि पुनः कार्या हितप्रेप्सुभिः ॥३४॥
क्रतुपाणिपीडमृतिबन्धमोक्षणे क्षुरकर्म च द्विजनृपाज्ञयाचरेत् ।
शववाहतीर्थगमसिन्धुमज्जनक्षुरमाचरेन्न खलु गर्भिणीपतिः ॥३५॥
नृपाणां हितं क्षौरभे श्मश्रुकर्म दिने पञ्चमे पञ्चमेऽस्योदये वा ।
षडग्निस्त्रिमैत्रोऽष्टकः पञ्चपित्र्योऽब्दतोऽब्ध्यर्यमा क्षौरकृन्मृत्युमेति ॥३६॥
गणेशविष्णुवाग्रमाः प्रपूज्य पञ्चमाब्दके
तिथौ शिवार्कदिग्द्विषट्शरत्रिके रवावुदक् ।
लघुश्रवोऽनिलान्त्यभादितीशतक्षमित्रभे
चरोनसत्तनौ शिशोर्लिपिग्रहः सतां दिने ॥३७॥
मृगात्कराच्छ्रुतेस्त्रयेऽश्विमूलपूर्विकात्रये
गुरुद्वयेऽर्कजीववित्सितेऽह्नि षट्छरत्रिके ।
शिवार्कदिग्द्विके तिथौ ध्रुवान्त्यमित्रभे परैः
शुभैरधीतिरुत्तमा त्रिकोणकेन्द्रगैः स्मृता ॥३८॥
विप्राणां व्रतबन्धनं निगदितं गर्भाञ्जनेर्वाऽष्टमे
वर्षे वाप्यथ पञ्चमे क्षितिभुजां षष्ठे तथैकादशे ।
वैश्यानां पुनरष्टमेऽप्यथ पुनः स्याद् द्वादशे वत्सरे
कालेऽथ द्विगुणे गते निगदिते गौणं तदाहुर्बुधाः ॥३९॥
क्षिप्रध्रुवाहिचरमूलमृदुत्रिपूर्वा-
रौद्रेऽर्कविद्गुरुसितेन्दुदिने व्रतं सत् ।
द्वित्रीषुरुद्ररविदिक्प्रमिते तिथौ च
कृष्णादिमत्रिलवकेऽपि न चापराह्णे ॥४०॥
कवीज्यचन्द्रलग्नपा रिपौ मृतौ व्रतेऽधमाः ।
व्ययेऽब्जभार्गवौ तथा तनौ मृतौ सुते खलाः ॥४१॥
व्रतबन्धेऽष्टषड्रिष्फवर्जिताः शोभनाः शुभाः ।
त्रिषडाये खलाः पूर्णो गोकर्कस्थो विधुस्तनौ ॥४२॥
विप्राधीशौ भार्गवेज्यौ कुजार्कौ राजन्यानामोषधीशो विशां च ।
शूद्राणां ज्ञश्चान्त्यजानां शनिः स्याच्छाखेशाः स्युर्जीवशुक्रारसौम्याः ॥४३॥
शाखेशवारतनुवीर्यमतीव शस्तं शाखेशसूर्यशशिजीवबले व्रतं सत् ।
जीवे भृगौ रिपुगृहे विजिते च नीचे स्याद्वेदशास्त्रविधिना रहितो व्रतेन ॥४४॥
जन्मर्क्षमासलग्नादौ व्रते विद्याधिको व्रती ।
आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे ॥४५॥
बटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः ।
श्रेष्ठो गुरुः खषट्त्र्याद्ये पूजयाऽन्यत्र निन्दितः ॥४६॥
स्वोच्चे स्वभे स्वमैत्रे वा स्वांशे वर्गोत्तमे गुरुः ।
रिष्फाष्टतुर्यगोऽपीष्टो नीचारिस्थः शुभोऽप्यसत् ॥४७॥
कृष्णे प्रदोषेऽनध्याये शनौ निश्यपराह्णके ।
प्राक्सन्ध्यागर्जिते नेष्टो व्रतबन्धो गलग्रहे ॥४८॥
क्रूरो जडो भवेत्पापः पटुः षट्कर्मकृद्बटुः ।
यज्ञार्थभाक् तथा मूर्खो रव्याद्यंशे तनौ क्रमात् ॥४९॥
विद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः ।
चन्द्रे स्वलवे बहुदुःखयुतः कर्णादितिभे धनवान्स्वलवे ॥५०॥
राजसेवी वैश्यवृत्तिः शस्त्रवृत्तिश्च पाठकः ।
प्राज्ञोऽर्थवान् म्लेच्छसेवी केन्द्रे सूर्यादिखेचरैः ॥५१॥
शुक्रे जीवे तथा चन्द्रे सूर्यभौमाऽर्किसंयुते ।
निर्गुणः क्रूरचेष्टः स्यान्निर्घृणः सद्युते पटुः ॥५२॥
विधौ सितांशगे सिते त्रिकोणगे तनौ गुरौ ।
समस्तवेदविद् व्रती यमांशगेऽतिनिर्घृणः ॥५३॥
शुचिशुक्रपौषतपसां दिगश्विरुद्रार्कसङ्ख्यसिततिथयः ।
भूतादित्रितयाष्टमि सङ्क्रमणं च व्रतेष्वनध्यायाः ॥५४॥
अर्कतर्कत्रितिथिषु प्रदोषः स्यात्तदग्रिमैः ।
रात्र्यर्धसार्धप्रहरयाममध्यस्थितैः क्रमात् ॥५५॥
प्राग्ब्रह्मौदनपाकाद् व्रतबन्धानन्तरं यदि चेत् ।
उत्पातानध्ययनोत्पत्तावपि शान्तिपूर्वकं तत्स्यात् ॥५६॥
वेदक्रमाच्छशिशिवाहिकरत्रिमूलपूर्वासु पौष्णकरमैत्रमृगादितीज्ये ।
ध्रौवेषु चाश्विवसुपुष्यकरोत्तरेशकर्णे मृगान्त्यलघुमैत्रधनादितौ सत् ॥५७॥
नान्दीश्राद्धोत्तरं मातुः पुष्पे लग्नान्तरे न हि ।
शान्त्या चौलं व्रतं पाणिग्रहः कार्योऽन्यथा न सत् ॥५८॥
विचैत्रव्रतमासादौ विभौमास्ते विभूमिजे ।
छूरिकाबन्धनं शस्तं नृपाणां प्राग्विवाहतः ॥५९॥
केशान्तं षोडशे वर्षे चौलोक्तदिवसे शुभम् ।
व्रतोक्तदिवसादौ हि समावर्तनमिष्यते ॥६०॥
इति दैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ
पञ्चमं संस्कारप्रकरणं समाप्तम् ॥
अथ विवाहप्रकरणम्
भार्या त्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः ।
तस्माद्विवाहसमयः परिचिन्त्यते हि तन्निघ्नतामुपगताः सुतशीलधर्माः ॥१॥
आदौ सम्पूज्य रत्नादिभिरथ गणकं वेदयेत्स्वस्थचित्तं
कन्योद्वाहं दिगीशानलहयविशिखे प्रश्नलग्नाद्यदीन्दुः ।
दृष्टो जीवेन सद्यः परिणयनकरो गोतुलाकर्कटाख्यं
वा स्यात्प्रश्नस्य लग्नं शुभखचरयुतालोकितं तद्विदध्यात् ॥२॥
विषमभांशगतौ शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यतः ।
रचयतो वरलाभमिमौ यदा युगलभांशगतौ युवतिप्रदौ ॥३॥
षष्ठाष्टस्थः प्रश्नलग्नाद्यदीन्दुर्लग्ने क्रूरः सप्तमे वा कुजः स्यात् ।
मूर्ताविन्दुः सप्तमे तस्य भौमो रण्डा सा स्यादष्टसंवत्सरेण ॥४॥
प्रश्नतनोर्यदि पापनभोगः पञ्चमगो रिपुदृष्टशरीरः ।
नीचगतश्च तदा खलु कन्या सा कुलटा त्वथवा मृतवत्सा ॥५॥
यदि भवति सितातिरिक्तपक्षे तनुगृहतः समराशिगः शशाङ्कः ।
अशुभखचरवीक्षितोऽरिरन्ध्रे भवति विवाहविनाशकारकोऽयम् ॥६॥
जन्मोत्थं च विलोक्य बालविधवायोगं विधाय व्रतं
सावित्र्या उत पैप्पलं हि सुतया दद्यादिमां वा रहः ।
सल्लग्नेऽच्युतमूर्तिपिप्पलघटैः कृत्वा विवाहं स्फुटं
दद्यात्तां चिरजीविनेऽत्र न भवेद्दोषः पुनर्भूभवः ॥७॥
प्रश्नलग्नक्षणे यादृशापत्ययुक् स्वेच्छया कामिनी तत्र चेदाव्रजेत् ।
कन्यका वा सुतो वा तदा पण्डितैस्तादृशापत्यमस्या विनिर्दिश्यते ॥८॥
शङ्खभेरीविपञ्चीरवैर्मङ्गलं जायते वैपरीत्यं तदा लक्षयेत् ।
वायसो वा खरः श्वा शृतालोऽपि वा प्रश्नलग्नक्षणे रौति नादं यदि ॥९॥
विश्वस्वातीवैष्णवपूर्वात्रयमैत्रैर्वभ्वाग्नेयैर्वा करपीडोचितऋक्षैः ।
वस्त्रालङ्कारादिसमेतैः फलपुष्पैः सन्तोष्यादौ स्यादनु कन्यावरणं हि ॥१०॥
धरणिदेवोऽथवा कन्यकासोदरः शुभदिने गीतवाद्यादिभिः संयुतः ।
वरवृतिं वस्त्रयज्ञोपवीतादिना ध्रुवयुतैर्वह्निपूर्वात्रयैराचरेत् ॥११॥
गुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् ।
रविशुद्धिवशाच्छुभो वराणामुभयोश्चन्द्रविशुद्धितो विवाहः ॥१२॥
मिथुनकुम्भमृगाऽलिवृषाजगे मिथुनगेऽपि रवौ त्रिलवे शुचेः ।
अलिमृगाजगते करपीडनं भवति कार्तिकपौषमधुष्वपि ॥१३॥
आद्यगर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः ।
नोचितोऽथ विबुधैः प्रशस्यते चेद् द्वितीयजनुषोः सुतप्रदः ॥१४॥
ज्येष्ठद्वन्द्वं मध्यमं सम्प्रदिष्टं त्रिज्येष्ठं चेन्नैव युक्तं कदापि ।
केचित्सूर्यं वह्निगं प्रोज्झ्य चाऽऽहुर्नैवाऽन्योन्यं ज्येष्ठयोः
स्याद्विवाहः ॥१५॥
सुतपरिणयात्षण्मासान्तः सुताकरपीडनं
न च निजकुले तद्वद्वा मण्डनादपि मुण्डनम् ।
न च सहजयोर्देये भ्रात्रोः सहोदरकन्यके
न सहजसुतोद्वाहोऽब्दार्धे शुभे न पितृक्रिया ॥१६॥
वध्वा वरस्याऽपि कुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम् ।
मासोत्तरं तत्र विवाह इष्यते शान्त्याऽथवा सूतकनिर्गमे परैः ॥१७॥
चूडा व्रतं चाऽपि विवाहतो व्रताच्चूडा च नेष्टा पुरुषत्रयान्तरे ।
वधूप्रवेशाच्च सुताविनिर्गमः षण्मासतो वाऽब्दविभेदतः शुभः ॥१८॥
श्वश्रूविनाशमहिजौ सुतरां विधत्तः कन्याऽसुतौ निऋतिजौ श्वशुरं हतश्च ।
ज्येष्ठाभजाततनया स्वधवाग्रजं च शक्राग्निजा भवति देवरनाशकर्त्री ॥१९॥
द्वीशाद्यपादत्रयजा कन्या देवरसौख्यदा ।
मूलान्त्यपादसार्पाद्यपादजाते तयोः शुभौ ॥२०॥
वर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् ।
गणमैत्रं भकूटं च नाडी चैते गुणाधिकाः ॥२१॥
द्विजा झषालिकर्कटास्ततो नृपा विशोऽङ्घ्रिजाः ।
वरस्य वर्णतोऽधिका वधूर्न शस्यते बुधैः ॥२२॥
हित्वा मृगेन्द्रं नरराशिवश्याः सर्वे तथैषां जलजास्तु भक्ष्याः ।
सर्वेऽपि सिंहस्य वशे विनाऽलिं ज्ञेयं नराणां व्यवहारतोऽन्यत् ॥२३॥
कन्यर्क्षाद्वरभं यावत् कन्याभं वरभादपि ।
गणयेन्नवहृच्छेषे त्रीष्वद्रिभमसत्स्मृतम् ॥२४॥
अश्विन्यभ्युपयोर्हयो निगदितः स्वात्यर्कयोः कासरः
सिंहो वस्वजपाद्भयोः समुदितो याम्यान्त्ययोः कुञ्जरः ।
मेषो देवपुरोहितानलभयोः कर्णाम्बुनोर्वानरः
स्याद्वैश्वाभिजितोस्तथैव नकुलश्चान्द्राब्जयोन्योरहिः ॥२५॥
ज्येष्ठामैत्रभयोः कुरङ्ग उदितो मूलार्द्रयोः श्वा तथा
मार्जारोऽदितिसार्पयोरथ मघायोन्योस्तथैवोन्दुरुः ।
व्याघ्रो द्वीशभचित्रयोरपि च गौरर्यम्णबुध्न्यर्क्षयो-
र्योनिः पादगयोः परस्परमहावैरं भयोन्योस्त्यजेत् ॥२६॥
मित्राणि द्युमणेः कुजेज्यशशिनः शुक्रार्कजौ वैरिणौ
सौम्यश्चास्य समो विधोर्बुधरवी मित्रे न चास्य द्विषत् ।
शेषाश्चास्य समाः कुजस्य सुहृदश्चन्द्रेज्यसूर्याः बुधः
शत्रुः शुक्रशनी समौ च शशभृत्सूनोः सिताहस्करौ ॥२७॥
मित्रे चऽस्य रिपुः शशी गुरुशनिक्ष्माजाः समा गीष्पते-
र्मित्राण्यर्ककुजेन्दवो बुधसितौ शत्रू समः सूर्यजः ।
मित्रे सौम्यशनी कवेः शशिरवी शत्रू कुजेज्यौ समौ
मित्रे शुक्रबुधौ शनेः शशिरविक्ष्माजा द्विषोऽन्यः समः ॥२८॥
रक्षोनराऽमरगणाः क्रमतो मघाहिवस्विन्द्रमूलवरुणानलतक्षराधाः ।
मूर्वोत्तरात्रयविधातृयमेशभानि मैत्रादितीन्दुहरिपौष्णमरुल्लघूनि ॥२९॥
निजनिजगणमध्ये प्रीतिरत्युत्तमा स्यादमरमनुजयोः सा मध्यमा सम्प्रदिष्टा ।
असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टो दनुजविबुधयोः स्याद्वैरमेकान्ततोऽत्र ॥३०॥
मृत्युः षडष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे ।
द्विर्द्वादशे निर्धनत्वं द्वयोरन्यत्र सौख्यकृत् ॥३१॥
प्रोक्ते दुष्टभकूटके परिणयस्त्वेकाधिपत्ये शुभो
ऽथो राशीश्वरसौहृदेऽपि गदितो नाड्यृक्षशुद्धिर्यदि ।
अन्यर्क्षैऽशपयोर्बलित्वसस्रिते नाड्यृक्षशुद्धौ तथा
ताराशुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः ॥३२॥
मैत्र्यां राशिस्वामिनोरंशनाथद्वन्द्वस्यापि स्याद्गणानां न दोषः ।
खेटारित्वं नाशयेत्सद्भकूटं खेटप्रीतिश्चापि दुष्टं भकूटम् ॥३३॥
ज्येष्ठारौद्रार्यमाम्भःपतिभयुगयुगं दास्रभं चैकनाडी
पुष्येन्दुत्वाष्ट्रमित्रान्तकवसुजलभं योनिबुध्ने च मध्या ।
वाय्वग्निव्यालविश्वोडुयुगयुगमथो पौष्णभं चापरास्या-
द्दम्पत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः ॥३४॥
पौष्णेशशाक्राद्रससूर्यनन्दा पूर्वार्द्धमध्यापरभागयुग्मम् ।
भर्ता प्रियः प्राग्युजि भे स्त्रियाः स्यान्मध्ये द्वयोः प्रेम परे प्रिया
स्त्री ॥३५॥
अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् ।
सर्पाखुमृगावीनां निजपञ्चमवैरिणामष्टौ ॥३६॥
राश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव ।
नाडीदोषो नो गणानां च दोषो नक्षत्रैक्ये पादभेदे शुभं स्यात् ॥३७॥
सेव्याधमर्णयुवतीनगरादिभं चेत्पूर्वं हि भृत्यधनिभर्तृपुरादिसद्भात् ।
सेवाविनाशधननाशनभर्तृनाशग्रामादिसौख्यहृदिदं क्रमशः प्रदिष्टम् ॥३८॥
कुजशुक्रसौम्यशशिसूर्यचन्द्रजाः कविभौमजीवशनिसौरयो गुरुः ।
इह राशिपाः क्रियमृगास्यतौलिकेन्दुभतो नवांशविधिरुच्यते बुधैः ॥३९॥
समगृहमध्ये शशिरविहोरा ।
विषमभमध्ये रविशशिनोः सा ॥४०॥
शुक्रज्ञ जीवशनिभूतनयस्य बाण शैलाष्टपञ्चविशिखाः समराशिमध्ये ।
त्रिंशांशको विषमभे विपरीतमस्माद् द्रेष्काणकाः प्रथमपञ्चनवाधिपानाम् ॥४१॥
स्याद् द्वादशांश इह राशित एव गेहं
होराऽथ दृक्कनवमांशकसूर्यभागाः ।
त्रिंशांशकश्च षडिमे कथितास्तु वर्गाः
सौम्यैः शुभं भवति चाऽशुभमेव पापैः ॥४२॥
ज्येष्ठापौष्णभसार्पभान्त्यघटिकायुग्मं च मूलाश्विनी-
पित्र्यादौ घटिकाद्वयं निगदितं तद्भस्य गण्डान्तकम् ।
कर्काल्यण्डजभान्ततोऽर्धघटिका सिंहाश्वमेषादिगा
पूर्णान्ते घटिकात्मकं त्वशुभदं नन्दातिथेश्चादिमम् ॥४३॥
लग्नात्पापाघृज्वनृजू व्ययार्थस्थौ यदा तदा ।
कर्तरी नाम सा ज्ञेया मृत्युदारिद्र्यशोकदा ॥४४॥
चन्द्रे सूर्यादिसंयुक्ते दारिद्र्यं मरणं शुभम् ।
सौख्यं सापत्न्यवैराग्ये पापद्वययुते मृतिः ॥४५॥
जन्मलग्नभयोर्मृत्युशाशौ नेष्टः करग्रहः ।
एकाधिपत्ये राशीशमैत्र्ये वानैव दोषकृत् ॥४६॥
मीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेहदोषकृत् ।
अन्योन्यमित्रत्ववशेन सा वधूर्भवेत्सुतायुर्गृहसौख्यभागिनी ॥४७॥
मृतिभवनांशो यदि च विलग्ने तदधिपतिर्वा न शुभकरः स्यात् ।
व्ययभवनं वा भवति तदंशस्तदधिपतिर्वा कलहकरः स्यात् ॥४८॥
खरामतो ३० ऽन्त्यादितिवह्निपित्र्यभे खवेदतः ४० के रदत ३२ श्च सार्पभे ।
खबाणतो ५० ऽश्वे धृतितो १८ ऽर्यमाम्बुपे कृते २० र्भगत्वाष्ट्रभविश्वजीवभे ॥४९॥
मनो-१४ र्द्विद्वैवानिलसौम्यशाक्रभे कुपक्षतः २१ शैवकरेऽष्टितो-१६ जभे ।
युगाश्वितो २४ बुध्न्यभतोययाम्यभे खचन्द्रतो १० मित्रभवासवश्रुतौ ॥५०॥
मूलेऽङ्गबाणा ५६ द्विषनाडिकाः कृता-४ वर्ज्याः शुभेऽथो विषनाडिका ध्रुवाः ।
निघ्ना भभोगेन खतर्क ६० भाजिताः स्पष्टा भवेयुर्विषनाडिकास्तथा ॥५१॥
गिरिशभुजगमित्राः पित्र्यवस्वम्बुविश्वेऽभिजिदथ च विधाताऽपीन्द्र इन्द्रानलौ च
।
निरृतिरुदकनाथोऽप्यर्यमाथो भगः स्युः क्रमश इह मुहूर्ता वासरे बाणचन्द्राः ॥५२॥
शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवकौ ।
विष्ण्वर्कत्वाष्ट्रमरुतो मुहूर्ता निशि कीर्त्तिताः ॥५३॥
रवावर्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चाभिजित्स्यात् ।
गुरौ तोयरक्षो भृगौ ब्रह्मपित्र्ये शनावीशसार्पौ मुहूर्ता निषिद्धाः ॥५४॥
निर्वेधैः शशिकरमूलमैत्रपित्र्य ब्राह्मान्त्योत्तरपवनैः शुभो विवाहः ।
रिक्ताऽमारहिततिथौ शुभेऽह्नि वैश्व-प्रान्त्यांघ्रिः
श्रुतितिथिभागतोऽभिजित्स्यात् ॥५५॥
वेधोऽन्योन्यमसौ विरिञ्च्यभिजितोर्याम्यानुराधर्क्षयो-
र्विश्वेन्द्वोर्हरिपित्र्ययोर्ग्रहकृतो हस्तोत्तराभाद्रयोः ।
स्वातीवारुणयोर्भवेन्निरृतिभादित्योस्तथोफान्त्ययोः
खेटे तत्र गते तुरीयचरणाद्योर्वा तृतीयद्वयोः ॥५६॥
शाक्रेज्ये शतभानिले जलशिवे पौष्णार्यमर्क्षे वसु-
द्वीशे वैश्वसुधांशुभे हयभगे सार्पानुराधे तथा ।
हस्तोपान्तिमभे विधातृविधिभे मूलादिती त्वाष्ट्रभा,
जाङ्घ्री याम्यमघे कृशानुहरिभे विद्धेऽद्रिरेखे मिथः ॥५७॥
ऋक्षाणि क्रूरविद्धानि क्रूरभुक्तादिकानि च ।
भुक्त्वा चन्द्रेण मुक्तानि शुभार्हाणि प्रचक्षते ॥५८॥
ज्ञराहुपूर्णेन्दुसिताः स्वपृष्ठे भं सप्तगोजातिशरैर्मितं हि ।
संलत्तयन्तेऽर्कशनीज्यभौमाः सूर्याष्टतर्काग्निमितं पुरस्तात् ॥५९॥
हर्षणवैधृतिसाध्यव्यतिपातकगण्डशूलयोगानाम् ।
अन्ते यन्नक्षत्रं पातेन निपातितं तत्स्यात् ॥६०॥
पञ्चास्याजौ गोमृगौ तौलिकुम्भौ कन्यामीनौ कर्क्यली चापयुग्मे ।
तत्राऽन्योन्यं चन्द्रभान्वोर्निरुक्तं क्रान्तेः साम्यं नो शुभं मङ्गलेषु ॥६१॥
व्याघातगण्डव्यतिपातपूर्व शूलान्त्यवज्रे परिघातिगण्डे ।
एकार्गलाख्यो ह्यभिजित्समेतो दोषः शशी चेद्विषमर्क्षगोऽर्कात् ॥६२॥
शराष्टदिक्शक्रनगातिधृत्यस्तिथिधृतिश्च प्रकृतेश्च पञ्च ।
उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबाह्लिकानाम् ॥६३॥
पातोपग्रहलत्तासु नेष्टोऽङ्घ्रिः खेटपत्समः ।
वारस्त्रिघ्नोऽष्टभिस्तष्टः सैकः स्यादर्धयामकः ॥६४॥
शक्रार्कदिग्वसुरसाब्ध्यश्विनः कुलिका रवेः ।
रात्रौ निरेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितः ॥६५॥
चापान्त्यगे गोघटगे पतङ्गे कर्काजगे स्त्रीमिथुने स्थिते च ।
सिंहालिगे नक्रध्टे समाः स्युस्तिथ्यो द्वितीयाप्रमुखाश्च दग्धाः ॥६६॥
लग्नाच्चन्द्रान्मदनभवनगे खेटे न स्यादिह परिणयनम् ।
किं वा बाणाशुगमितलवगे जामित्रं स्यादशुभकरामिदम् ॥६७॥
एकार्गलोपग्रहवातलत्ताजामित्रकर्तर्युदयास्तदोषाः ।
नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा ॥६८॥
उपग्रहर्क्षं कुरुबाह्लिकेषु कलिङ्गवङ्गेषु च पातितं भम् ।
सौराष्ट्रशाल्वेषु च लत्तितं मं त्यजेत्तु विद्धं किल सर्व देशे ॥६९॥
शशाङ्कसूर्यर्क्षयुतेर्भशेषे खं भूयुगाङ्गानि दशेशतिथ्यः ।
नागेन्दवोऽङ्केन्दुमिता नखाश्चेद्भवन्ति चैते दशयोगसञ्ज्ञाः ॥७०॥
वाताभ्राग्निमहीपचोरमरणं रुम्बज्रवादाः क्षति-
र्योगाङ्के दलिते समे मनुयुतेऽयौगे तु सैकेऽर्धिते ।
भं दास्रादथ सम्मितास्तु मनुभी रेखाः क्रमात्संलिखेद्
वेधोऽस्मिन् ग्रहचन्द्रयोर्न शुभदः स्यादेकरेखास्थयोः ॥७१॥
लग्नेनाढ्या याततिथ्योऽङ्कतष्टाः शेषे नागद्व्यब्धितर्केन्दुसंख्ये ।
रोगो वह्नी राजचौरौ च मृत्युर्बाणश्चायं दाक्षिणात्यप्रसिद्धः ॥७२॥
रसगुणशशिनागाब्ध्याढ्यसंक्रान्तियातां शकमितिरथ तष्टाऽङ्कैर्यदा षञ्च शेषाः ।
रुगनलनृपचौरा मृत्युसञ्ज्ञश्च बाणो नवहृतशरशेषे शेषकैक्ये सशल्यः ॥७३॥
रात्रौ चौररुजौ दिवा नरपतिर्वह्निः सदा सन्ध्योः
मृत्युश्चाथ शनौ नृपो विदि मृतिर्भौमेऽग्निचौरौ रवौ ।
रोगोऽथ व्रतगेहगोपनृपसेवायानपाणिग्रहे
वर्ज्याश्च क्रमतो बुधे रुगनलक्ष्मापालचौरा मृतिः ॥७४॥
त्र्याशं त्रिकोणं चतुरस्रमस्तं पश्यन्ति खेटाश्चरणाभिवृद्ध्या ।
मन्दो गुरुर्भूमिसुतः परे च क्रमेण सम्पूर्णदृशो भवन्ति ॥७५॥
यदा लग्नांशेशो लवमथ तनुं पश्यति युतो
भवेद्वाऽयं वोढुः शुभफलमनल्पं रचयति ।
लवद्यूनस्वामी लवमदनभं लग्नमदनं
प्रपश्येद्वा वध्वाः शुभमितरथा ज्ञेयमशुभम् ॥७६॥
लवेशो लवं लग्नपो लग्नगेहं प्रपश्येन्मिथो वा शुभं स्याद्वरस्य ।
लवद्यूनपॐऽशद्युनं लग्नपोऽस्तं मिथो वेक्षते स्याच्छुभं कन्यकायाः ॥७७॥
लवपतिशुभमित्रं वीक्षतेंऽशं तनुं वा
परिणयनकरस्य स्याच्छुभं शास्त्रदृष्टम् ।
मदनलवपमित्रं सौम्यमंशद्युनं वा
तनुमदनगृहं चेद्वीक्षते शर्म वध्वाः ॥७८॥
विषुवायनेषु परपूर्वमध्यमान्दिवसांस्त्यजेदितरसङ्क्रमेषु हि ।
घटिकास्तु षोडश शुभक्रियाविधौ परतोऽपि पूर्वमपि सन्त्यजेद्बुधः ॥७९॥
देवद्व्यङ्कर्तवोऽष्टाष्टौ नाड्योऽङ्काः खनृपाः क्रमात् ।
वर्ज्याः सङ्क्रमणेऽर्कादेः प्रायोऽर्कस्यातिनिन्दिताः ॥८०॥
घस्रे तुलाली बधिरौ मृगाश्वौ रात्रौ च सिंहाजवृषा दिवान्धाः ।
कन्यानृयुक्कर्कटका निशान्धा दिने घटोऽन्त्यो निशि पङ्गुसंज्ञः ॥८१॥
बधिरा धन्वितुलालयोऽपराह्णे मिथुनं कर्कटकोऽङ्गना निशान्धाः ।
दिवसान्धा हरिगोक्रियास्तु कुब्जा मृगकुम्भान्तिमभानि सन्ध्ययोर्हि ॥८२॥
दारिद्र्यं बधिरतनौ दिवान्धलग्ने वैधव्यं शिशुमरणं निशान्धलग्ने ।
पंग्वङ्गे निखिलधनानिनाशमीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः ॥८३॥
कार्मुकतौलिककन्यायुग्मलवे झषगे वा ।
यर्हि भवेदुपयामस्तर्हि सती खलु कन्या ॥८४॥
अन्त्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा ।
नो चरलग्ने चरलवयोगं तौलिमृगस्थे शशभृति कुर्यात् ॥८५॥
व्यये शनिः खेऽवनिजस्तृतीये भृगुस्तनौ चन्द्रखला न शस्ताः ।
लग्नेट् कविर्ग्लौश्च रिपौ मृतौ ग्लौर्लग्नेट्शुभाराश्च मदे च सर्वे ॥८६॥
त्र्यायाष्टषट्सु रविकेतुतमोऽर्कपुत्रा-
स्त्र्यायारिगः क्षितिसुतो द्विगुणायगोऽब्जः ।
सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्ट-
त्रिद्यूनषड्व्ययगृहान् परिहृत्य शस्तः ॥८७॥
पापौ कर्तरिकारकौ रिपुगृहे नीचास्तगौ कर्तरी-
दोषो नैव सितेऽरिनीचगृहगे तत्षष्ठदोषोऽपि न ।
भौमेऽस्ते रिपुनीचगे नहि भवेद्भौमोऽष्टमो दोषकृन्
नीचे नीचनवांशके शशिनि रिःफाष्टारिदोषोऽपि न ॥८८॥
अब्दायनर्तुतिथिमासभपक्षदग्ध
तिथ्यन्धकाणबधिराङ्गमुखाश्च दोषाः ।
नश्यन्ति विद्गुरुसितेष्विह केन्द्रकोणे
तद्वच्च पापविधुयुक्तनवांशदोषः ॥८९॥
केन्द्रे कोणे जीव आये रवौ च लग्ने चन्द्रे वाऽपि वर्तोत्तमे वा ।
सर्वे दोषा नाशमायान्ति चन्द्रे लाभे तद्वद्दुर्मुहूर्तांशदोषाः ॥९०॥
त्रिकोणे केन्द्रे वा मदनरहिते दोषशतकं हरेत्सौम्यः शुक्रो द्विगुणमपि लक्षं
सुरगुरुः ।
भवेदाये केन्द्रेऽङ्गप उत लवेशो यदि तदा समूहं दोषाणां दहन इव तूलं शमयति ॥९१॥
द्वौ द्वौ ज्ञभृग्वोः पञ्चेन्दौ रवौ सार्धत्रयो गुरौ ।
रामा मन्दागुकेत्वारे सार्धैकैकं विशोपकाः ॥९२॥
श्वश्रूः सितोऽर्कः श्वशुरस्तनुस्तनुर्जामित्रपः स्याद्दयितो मनः शशी ।
एतद्बलं सम्प्रतिभाव्य तान्त्रिकस्तेषां सुखं सम्प्रवदेद्विवाहतः ॥९३॥
कृष्णे पक्षे सौरिकुजार्केऽपि च वारे वर्ज्ये नक्षत्रे यदि वा स्यात् करपीडा ।
सङ्कीर्णानां तर्हि सुतायुर्धनलाभ-प्रीतिप्राप्त्यै सा भवतीह स्थितिरेषा ॥९४॥
गान्धर्वादिविवाहेऽर्काद्वेद-४ नेत्र-२ गुणे-३ न्दवः-१ ।
कु-१ युगा-४ ङ्गा-३ ग्नि-३ भू-१ रामा-३ स्त्रिपद्यां न शुभाः शुभाः ॥९५॥
विधोर्बलमवेक्ष्य वा दलनकण्डनं वारकं गृहाङ्गणविभूषणान्यथ च वेदिकामण्डपान् ।
विवाहविहितोडुभिर्विरचयेत्तथोद्वाहतो न पूर्वमिदमाचरेत् त्रिनवषण्मिते वासरे ॥९६॥
हस्तोच्छ्राया वेदहस्तैः समन्तात्तुल्या वेदी सद्मनो वामभागे ।
युग्मे घस्रे षष्ठहीने च पञ्चसप्ताहे स्यान्मण्डपोद्वासनं सत् ॥९७॥
सूर्येऽङ्गनासिंहधटेषु शैवे स्तम्भोऽलिकोदण्डभृगेषु वायौ ।
मीनाजकुम्भे निरृतौ विवाहे स्थाप्योऽग्निकोणे वृषयुग्मकर्के ॥९८॥
नास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिन्ता
नो वा वारो न च लवविधिर्नो मुहूर्तस्य चर्चा ।
नो वा योगो न मृतिभवनं नैव जामित्रदोषो
गोधूलिः सा मुनिभिरुदिता सर्वकार्येषु शस्ता ॥९९॥
पिण्डीभूते दिनकृति हेमन्तर्तौ स्यादर्धास्ते तपसमये गोधूलिः ।
सम्पूर्णास्ते जलधरमालाकाले त्रेधा योज्या सकलशुभे कार्यादौ ॥१००॥
अस्तं याते गुरुदिवसे सौरे सार्के
लग्नान्मृत्यौ रिपुभवने लग्ने चेन्दौ ।
कन्यानाशस्तनुमदमृत्युस्थे भौमे
वोढुर्लाभे धनसहजे चन्द्रे सौख्यम् ॥१०१॥
मेषादिगेऽर्केऽष्टशरा नगाक्षाः सप्तेषवः सप्तशरा गजाक्षाः ।
गोक्षाः खतर्काः कुरसाः कुतर्काः क्वङ्गानि षष्टिर्नवपञ्च भुक्तिः ॥१०२॥
संक्रान्तियातघस्राद्यैर्मतिर्निघ्नी खषट्-६० हृता ।
लब्धेनांशादिना योज्यं यातर्क्षं स्पष्टभास्करः ॥१०३॥
तनोरिष्टांशकात् पूर्वं नवांशा दशसंगुणाः ।
रामाप्ताः लब्धमंशाद्यं तनोर्वर्गादिसाधने ॥१०४॥
अर्काल्लग्नात्सायनाद्भोग्यभुक्तैर्भागैर्निध्नात्स्वोदयात्खाग्निभक्तात् ।
भोग्यं भुक्तं चान्तरालोदयाढ्यं षष्ट्या भक्तं स्वेष्टनाड्यो भवेयुः ॥१०५॥
चेल्लग्नाऽर्कौ सायनावेकराशौ तद्विश्लेषघ्नोदयः खाग्निभक्तः ।
स्वेष्टः कालो लग्नमूनं यदाऽर्काद्रात्रेः शेषोऽर्कात्सषड्भान्निशायाम् ॥१०६॥
उत्पातान्सह पातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा
चन्द्रेज्योशनसामथास्तमयनं तिथ्याः क्षयर्द्धी तथा ।
गण्डान्तं च सविष्टिसंक्रमदिनं तन्वंशपास्तं तथा
तन्वंशेशविधूनथाष्टरिपुगान् पापस्य वर्गांस्तथा ॥१०७॥
सेन्दुक्रूरखगोदयांशमुदयास्ताशुद्धिचण्डायुधान्
खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् ।
बाणोपग्रहपापकर्तरि तथा तिथ्यृक्षवारोत्थितं
दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ॥१०८॥
क्रूराक्रान्तविमुक्तभं ग्रहणभं यत्क्रूरगन्तव्यभं
त्रेधोत्पातहतं च केतुहतभं सन्ध्योदितं भं तथा ।
तद्वच्च ग्रहभिन्नयुद्धगतभं सर्वानिमान्सन्त्यजे-
दुद्वाहे शुभकर्मसु ग्रहकृतान् लग्नस्य दोषानपि ॥१०९॥
मेषादिराशिजवधूवरयोर्बटोश्च
तैलादिलापनविधौ कथिताऽत्र सङ्ख्या ।
शैलादिशः शरदिगक्षनगाद्रिबाण-
बाणाक्षबाणगिरयो विबुधैस्तु कैश्चित् ॥११०॥
इति श्रीदैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ
षष्ठं विवाहप्रकरणं समाप्तम् ॥
अथ वधूप्रवेशप्रकरणम्
समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले ।
शुभः परस्ताद्विषमाद्बमासदिनेऽक्षवर्षात्परतो यथेष्टम् ॥१॥
ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले ।
वधप्रवेशः सन्नेष्टो रिक्तारार्के बुधे परैः ॥२॥
ज्येष्ठे पतिज्येष्ठमथाधिके पतिं हन्त्यादिमे भर्तृगृहे वधूः शुचौ ।
श्वश्रूं सहस्ये श्वशुरं क्षये तनुं तातं मधौ तातगृहे विवाहतः ॥३॥
इति श्रीदैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ
वधूप्रवेशप्रकरणं समाप्तम् ॥
अथ द्विरागमनप्रकरणम्
चरेदथौजहायने घटालिमेषगे रवौ रवीज्यशुद्धियोगतः शुभग्रहस्य वासरे ।
नृयुग्ममीनकन्यकातुलावृषे विलग्नके द्विरागमं लघुध्रुवे चरेऽस्रपे मृदूडुनि ॥१॥
दैत्येज्यो ह्यभिमुखदक्षिणे यदि स्याद् गच्छेयुर्न हि शिशुगर्भिणीनवोढाः ।
बालश्चेद्व्रजति विपद्यते नवोढा चेद्वन्ध्या भवति च गर्भिणी त्वगर्भा ॥२॥
नगरप्रवेशविषयाद्यपद्रवे करपीडने विबुधतीर्थयात्रयोः ।
नृपपीडने नववधूप्रवेशने प्रतिभार्गवो भवति दोषकृन्न हि ॥३॥
पित्र्ये गृहे चेत्कुचपुष्पसम्भवः स्त्रीणां न दोषः प्रतिशुक्रसम्भवः ।
भृग्वङ्गिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा ॥४॥
इति श्रीदैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ
अष्टमं द्विरागमनप्रकरणं समाप्तम् ॥
अथाग्न्याधानप्रकरणम्
स्यादग्निहोत्रविधिरुत्तरगे दिनेशे मिश्रध्रुवान्त्यशशिशक्रसुरेज्यधिष्ण्ये ।
रिक्तासु नो शशिकुजेज्मभृगौ न नीचे नास्तं गते न विजिते न च शत्रुगेहे ॥१॥
नो कर्कनक्रझषकुम्भनवांशलग्ने नोऽब्जे तनौ रविशशीज्यकुजे त्रिकोणे ।
केन्द्रर्क्षषट्त्रिभवगे च परैस्त्रिलाभ षट्खस्थितैर्निधनशुद्धियुते विलग्ने ॥२॥
चापे जीवे तनुस्थे वा मेषे भौमेऽम्बरे द्युने ।
षट्त्र्यायेऽब्जे रवौ वा स्याज्जाताग्निर्यजति ध्रुवम् ॥३॥
इति श्रीदैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ
नवममग्न्याधानप्रकरणं समाप्तम् ॥
अथ राजाभिषेकप्रकरणम्
राजाभिषेकः शुभ उत्तरायणे गुर्विन्दुशुक्रैरुदितैर्बलान्वितैः ।
भौमार्कलग्नेशदशेशजन्मपैर्नो चैत्ररिक्तारनिशामलिम्लुचे ॥१॥
शाक्रश्रवः क्षिप्रमृदुध्रुवोडुभिः शीर्षोदये वोयचये शुभे तनौ ।
पापैस्त्रिषष्ठायगतैः शुभग्रहैः केन्द्रत्रिकोणायधनत्रिसंस्थितैः ॥२॥
पापैस्तनौ रुङ्निधने मृतिः सुते पुत्रार्तिरर्थव्ययगैर्दरिद्रता ।
स्यात्खेऽलसो भ्रष्टपदो द्युनाम्बुगैः सर्वं शुभं केन्द्रगतैः शुभग्रहैः ॥३॥
गुरुर्लग्नकोणे कुजोऽरौ सितः खे स राजा सदा मोदते राजलक्ष्म्या ।
तृतीयायगौ सौरिसूर्यौ खबन्ध्वोर्गुरुश्चेद्धरित्री स्थिरा स्यान्नृपस्य ॥४॥
इति श्रीदैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्तचिन्तामणौ
दशमं राजाभिषेकप्रकरणं समाप्तम् ॥
अथ यात्राप्रकरणम्
यात्रायां प्रविदितजन्मनां नृपाणां दातव्यं दिवसमबुद्धजन्मनां च ।
प्रश्नाद्यैरुदयनिमित्तमूलभूतैर्विज्ञाते ह्यशुभशुभे बुधः प्रदद्यात् ॥१॥
जननराशितनू यदि लग्नगे तदधिपौ यदि वा तत एव वा ।
त्रिरिपुखायगृहं यदि वोदयो विजय एव भवेद्वसुधापतेः ॥२॥
रिपुजन्मलग्नभमथाधिपौ तयोस्तत एव वोपचयसद्म चेद्भवेत् ।
हिबुके द्युनेऽथ शुभवर्गकस्तनौ यदि मस्तकोदयगृहं तदा जयः ॥३॥
यदि पृच्छितनौ वसुधा रुचिरा शुभवस्तु यदि श्रुतिदर्शनगम् ।
यदि पृच्छति चादरतश्च शुभग्रहदृष्टयुतं चरलग्नमपि ॥४॥
विधुकुजयुतलग्ने सौरिदृष्टेऽथ चन्द्रे मृतिभमदनसंस्थे लग्नगे भास्करेऽपि ।
हिबुकनिधनहोराद्यूनगे चापि पापे सपदि भवति भङ्गः प्रश्नकर्तुस्तदानीम् ॥५॥
त्रिकोणे कुज्ञात्सौरिशुक्रज्ञजीवा यदैकोऽपि वा नो गमोऽर्काच्छशी वा ।
बलीयांस्तु मध्ये तयोर्यो ग्रहः स्यात् स्वकीयां दिशं प्रत्युताऽसौ नयेच्च ॥६॥
प्रश्ने गम्यदिगीशात्खेटः पञ्चमगो यः ।
बोभूयाद्बलयुक्तः स्वामाशां नयतेऽसौ ॥७॥
धनुर्मेषसिंहेषु यात्रा प्रशस्ता शनिज्ञोशनोराशिगे चैव मध्या ।
रवौ कर्कमीनालिसंस्थेऽतिदीर्घा जनुःपञ्चसप्तत्रिताराश्च नेष्टाः ॥८॥
न षष्ठी न च द्वादशी नाऽष्टमी नो सिताद्या तिथिः पूर्णिमाऽमा न रिक्ता ।
हयादित्यमैत्रेन्दुजीवान्त्यहस्तश्रवोवासवैरेव यात्रा प्रशस्ता ॥९॥
न पूर्वदिशि शक्रभे न विधुसौरिवारे तथा
न चाजपदभे गुरौ यमदिशीनदैत्येज्ययोः ।
न पाशिदिशि धातृभे कुजबुधेऽर्यमर्क्षे तथा
न सौम्यककुभि व्रजेत्स्वजयजीवितार्थी बुधः ॥१०॥
पूर्वाह्णे ध्रुवमिश्रभैर्न नृपतेर्यात्रा न मध्याह्नके
तीक्ष्णाख्यैरपराह्णके न लघुभैर्नो पूर्वरात्रे तथा ।
मित्राख्यैर्न च मध्यरात्रिसमये चोग्रैस्तथा नोचरै
रात्र्यन्ते हरिहस्तपुष्यशशिभिः स्यात्सर्वकाले शुभा ॥११॥
पूर्वाग्निपित्र्यान्तकतारकाणां भूपप्रकृत्युग्रतुरङ्गमाः स्युः ।
स्वातीविशाखेन्द्रभुजङ्गमानां नाड्यो निषिद्धा मनुसम्मिताश्च ॥१२॥
पूर्वार्धमाग्नेयमघानिलानां त्यजेद्धि चित्राहियमोत्तरार्धम् ।
नृपः समस्तां गमने जयार्थी स्वातीं मघां चोशनसो मतेन ॥१३॥
तमोभुक्तताराः स्मृता विश्वसङ्ख्याः शुभो जीवपक्षो मृतश्चापि भोग्याः ।
तदाक्रान्तभं कर्तरीसंझमुक्तं ततोऽक्षेन्दुसङ्ख्यं भवेद्ग्रस्तनाम ॥१४॥
मार्तण्डे मृतपक्षगे हिमकरश्चेज्जीवपक्षे शुभा
यात्रा स्याद्विपरीतगे क्षयकरी द्वौ जीवपक्षे शुभा ।
ग्रस्तर्क्षं मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी
यायीन्दुः स्थितिमान् रविर्जयकरौ तौ द्वौ तयोर्जीवगौ ॥१५॥
स्वात्यन्तकाहिवसुपौष्णकरानुराधा-
दित्यध्रुवाणि विषमास्तिथयोऽकुलाः स्युः ।
सूर्येन्दुमन्दगुरवश्च कुलाकुला ज्ञो
मूलाम्बुपेशविधिभं दशषड्द्वितिथ्यः ॥१६॥
पूर्वाश्वीज्यमघेन्दुकर्णदहनद्वीशेन्द्रचित्रास्तथा
शुक्रारौ कुलसंज्ञकाश्च तिथयोऽर्काष्टेन्द्रवेदैर्मिताः ।
यायी स्यादकुले जयी च समरे स्थायी च तद्वत्कुले
सन्धिः स्यादुभयोः कुलाकुलगणे भूमीशयोर्युध्यतोः ॥१७॥
स्युर्धर्मे दस्रपुष्योरगवसुजलपद्वीशमैत्राण्यर्थे
याम्याजाङ्घ्रीन्द्रकर्णादितिपितृपवनोडून्यथो भानि कामे ।
वह्न्यार्द्राबुÞयचित्रानिरृतिविधिभगाख्यानि मोक्षेऽथ रोहि-
ण्याप्येन्द्वन्त्यर्क्षविश्वार्यमभदिनकरर्क्षाणि पथ्यादिराहौ ॥१८॥
धर्मगे भास्करे वित्तमोक्षे शशी वित्तगे धर्ममोक्षस्थितः शस्यते ।
कामगे धर्ममोक्षार्थगः शोभनो मोक्षगे केवलं धर्मगः प्रोच्यते ॥१९॥
पौषे पक्षत्यादिका द्वादशैवं तिथ्यो माघादौ द्वितीयादिकास्ताः ।
कामात्तिस्रः स्युस्तृतीयादिवच्च याने प्राच्यादौ फलं तत्र वक्ष्ये ॥२०॥
सौख्यं क्लेशो भीतिरर्थागमश्च शून्यं नैः स्वं निःस्वता मिश्रता च ।
द्रव्यक्लेशो दुःखमिष्टाप्तिरर्थो लाभः सौख्यं मङ्गलं वित्तलाभः ॥२१॥
लाभो द्रव्याप्तिर्धनं सौख्यमुक्तं भीतिर्लाभो मृत्युरर्थागमश्च ।
लाभः कष्टद्रव्यलाभौ सुखं च कष्टं सौख्यं क्लेशलाभौ सुखं च ॥२२॥
सौख्यं लाभः कार्यसिद्धिश्च कष्टं क्लेशः कष्टात्सिद्धिरर्थो धनं च ।
मृत्युर्लाभो द्रव्यलाभश्च शून्यं शून्यं सौख्यं मृत्युरत्यन्तकष्टम् ॥२३॥
तिथ्यृक्षवारयुतिरद्रिगजाग्नितष्टा स्थानत्रयेऽत्र वियति प्रथमेऽतिदुःखी ।
मध्ये धनक्षतिरथो चरमे मृतिः स्यात् स्थानत्रयेऽङ्कयुजि सौख्यजयौ निरुक्तौ ॥२४॥
रवेर्भतोऽब्जभोन्मितिर्नगावशेषिता द्व्यगा ।
महाडलो न शस्यते त्रिषण्मिता भ्रमो भवेत् ॥२५॥
शशाङ्कभं सूर्यभतोऽत्र गण्यं पक्षादितिथ्या दिनवासरेण ।
युतं नवाप्तं नगशेषकं चेत्स्याद्धिंवरं तद्गमनेऽतिशस्तम् ॥२६॥
भूपञ्चाङ्कद्व्यङ्गदिग्वह्निसप्तवेदाष्टेशार्काश्च घाताख्यचन्द्रः ।
मेषादीनां राजसेवाविवादे वर्ज्यो युद्धाद्ये च नान्यत्र वर्ज्यः ॥२७॥
आग्नेयत्वाष्ट्रजलपपित्र्यवासवरौद्रभे ।
मूलब्राह्माजपादर्क्षे पित्र्यमूलाजभे क्रमात् ॥२८॥
रुषद्व्यग्न्यग्निभूरामद्व्यब्ध्यग्न्यब्धियुगाग्नयः ।
घातचन्द्रे धिष्ण्यपादा मेषाद्वर्ज्या मनीषिभिः ॥२९॥
गोस्त्रीझषे धाततिथिस्तु पूर्णा भद्रा नृयुक्कर्कटकेऽथ नन्दा ।
कौर्प्याजयोर्नक्रधटे च रिक्ता जया धनुःकुम्भहरौ न शस्ताः ॥३०॥
नक्रे भौमो गोहरिस्त्रीषु मन्दश्चन्द्रा द्वन्द्वेऽर्कोऽजभे ज्ञश्च कर्के ।
शुक्रः कोदण्डालिमीनेषु कुम्भे जूके जीवो घातवारा न शस्ताः ॥३१॥
मघाकरस्वातिमैत्रमूलश्रुत्यम्बुपान्त्यभम् ।
याम्यब्राह्मेशसार्पञ्च मेषादेर्घातभं न सत् ॥३२॥
भूमिद्व्यब्ध्यद्रिदिक्सूर्याङ्गाष्टाङ्केशाग्निसायकाः ।
मेषादिघातलग्नानि यात्रायां वर्जयेत्सुधीः ॥३३॥
नवभूम्यः शिववह्नयोऽक्षविश्वेऽर्ककृताः शक्ररसास्तुरङ्गतिथ्यः ।
द्विदिशोऽमावसवश्च पूर्वतः स्युस्तिथयः सम्मुखवामगा न शस्ताः ॥३४॥
कौबेरीतो वैपरीत्येन कालो वारेऽर्काद्ये सम्मुखे तस्य पाशः ।
रात्रावेतौ वैपरीत्येन गण्यौ यात्रायुद्धे सम्मुखे वर्जनीयौ ॥३५॥
भानि स्थाप्यान्यब्धिदिक्षु सप्तसप्तानलर्क्षतः ।
वायव्याग्नेयदिक्संस्थं पारिघं नैव लङ्घयेत् ॥३६॥
अग्नेर्दिशं नृप इयान्पुरुहूतदिग्भैरेवं प्रदक्षिणगता विदिशोऽथ कृत्ये ।
आवश्यकेऽपि परिघं प्रविलङ्घ्य गच्छेच्छूलं विहाय यदि दिक्तनुशुद्धिरस्ति ॥३७॥
मैत्रार्कपुष्याश्विनभैर्निरुक्ता यात्रा शुभा सर्वदिशासु तज्ज्ञैः ।
वक्री ग्रहः केन्द्रगतोऽस्य वर्गो लग्ने दिनं चास्य गमेनिषिद्धम् ॥३८॥
सौम्यायने सूर्यविधू तदोत्तरां प्राचीं व्रजेत्तौ यदि दक्षिणायने ।
प्रत्यग्यमाशां च तयोर्दिवानिशं भिन्नायनत्वेऽथ वधोऽन्यथा भवेत् ॥३९॥
उदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाऽथ ककुब्भसङ्घे ।
त्रिधोच्यते सम्मुख एव शुक्रो यत्रोदितस्तां तु दिशं न यायात् ॥४०॥
वक्रास्तनीचोपगते भृगोः सुते राजा व्रजन् याति वशं हि विद्विषाम् ।
बुधोऽनुकूलो यदि तत्र सञ्चलन् रिपूञ्जयेन्नैव जयः प्रतीन्दुजे ॥४१॥
यावच्चन्द्रः पूषभात्कृत्तिकाद्ये पादे शुक्रोऽन्धो न दुष्टोऽग्रदक्षे ।
मध्येमार्गमार्गवास्तेऽपि राजा तावत्तिष्ठेत्सम्मुखत्वेऽपि तस्य ॥४२॥
कुम्भकुम्भांशकौ त्याज्यौ सर्वथा यत्नतो बुधैः ।
तत्र प्रयातुर्नृंपतेरर्थनाशः पदे पदे ॥४३॥
अथ मीनलग्न उत वा तदंशके चलितस्य वक्रमिह वर्त्म जायते ।
जनिलग्रजन्मभपती शुभग्रहौ भवतस्तदा तदुदये शुभो गमः ॥४४॥
जन्मराशितनुतोऽष्टमेऽथवा स्वारिभाच्च रिपुभे तनुस्थिते ।
लग्नगास्तदधिपा यदाऽथवा स्युर्गतं हि नृपतेर्मृतिप्रदम् ॥४५॥
लग्ने चन्द्रे वाऽपि वर्गोत्तमस्थे यात्रा प्रोक्ता वाञ्छितार्थैकदात्री ।
अम्भोराशौ वा तदंशे प्रशस्तं नौकायानं सर्वसिद्धिप्रदायि ॥४६॥
द्विग्द्वारभे लग्नगते प्रशस्ता यात्राऽर्थदात्री जयकारिणी च ।
हानिं विनाशं रिपुतो भयं च कुर्यात्तथादिक्प्रतिलोमलग्ने ॥४७॥
राशिः स्वजन्मसमये शुभसंयुतो यो यः स्वारिभान्निधनगोऽपि च वेशिसञ्ज्ञः ।
लग्नोपगः स गमने जयदोऽथ भूपयोगैर्गमो विजयदो मुनिभिः प्रदिष्टः ॥४८॥
सूर्यः सितो भूमिसुतोऽथ राहुः शनिः शशी ज्ञश्च बृहस्पतिश्च ।
प्राच्यादितो दिक्षु विदिक्षु चापि दिशामधीशाः क्रमतः प्रदिष्टाः ॥४९॥
केन्द्रे दिगधीशे गच्छेदवनीशः ।
लालाटिनि तस्मिन्नेयादरिसेनाम् ॥५०॥
प्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतः
कर्मस्थोऽथ तमो नवाष्टमगृहे सौरिस्तथा सप्तमे ।
चन्द्रः शत्रुगृहात्मजेऽपि च बुधः पातालगो गीष्पति-
र्वित्तभ्रातृगृहे विलग्नसदनाल्लालाटिकाः तीर्तिताः ॥५१॥
मृगे गत्वा शिवे स्थित्वाऽदितौ गच्छञ्जयेद्रिपून् ।
मैत्रे प्रस्थाय शाक्रे हि स्थित्वा मूले व्रजंस्तथा ॥५२॥
प्रस्थाय हस्तेऽनिलतक्षधिष्ण्ये स्थित्वा जयार्थी प्रवसेद् द्विदैवे ।
वस्वन्त्यपुष्ये निजसीम्नि चैकरात्रोषितः क्ष्मां लभतेऽवनीशः ॥५३॥
उषःकालो विना पूर्वां गोधूलिः पश्चिमां विना ।
विनोत्तरां निशीथः सन् याने याम्यां विनाऽभिजित् ॥५४॥
लग्नाद्भावाः क्रमाद्देहकोशधानुष्कवाहनम् ।
मन्त्रोऽरिर्मार्ग आयुश्च हृद्व्यापाराऽऽगमव्ययाः ॥५५॥
केन्द्रे कोणे सौम्यखेटाः शुभाः स्युर्याने पापास्त्र्यायषट्खेषु चन्द्रः ।
नेष्टो लग्नान्त्यारिरन्ध्रे शनिःखेऽस्ते शुक्रो लग्नेट् नगान्त्यारिरन्ध्रे ॥५६॥
योगात्सिद्धिर्धरणिपतीनामृक्षगुणैरपि भूदेवानाम् ।
चौराणां शुभशकुनैरुक्ता भवति मुहूर्तादपि मनुजानाम् ॥५७॥
सहजे रविर्दशमभे शशी तथा शनिमङ्गलौ रिपुगृहे सितः सुते ।
हिबुके बुधो गुरुरपीह लग्नगः स जयत्यरीन्प्रचलितोऽचिरान्नृपः ॥५८॥
भ्रातरि सौरिर्भूमिसुतो वैरिणि लग्ने देवगुरुः ।
आयगतेऽर्के शत्रुजयश्चेदनुकूलो दैत्यगुरुः ॥५९॥
तनौ जीव इन्दुर्मृतौ वैरिगोऽर्कः ।
प्रयातो महीन्द्रो जयत्येव शत्रून् ॥६०॥
लग्नगतः स्याद् देवपुरोधाः ।
लाभधनस्थैः शेषनभोगैः ॥६१॥
द्यूने चन्द्रे समुदयगेऽर्के जीवे शुक्रे विदि धनसंस्थे ।
ईदृग्योगे चलति नरेशो जेता शत्रून् गरुड इवाहीन् ॥६२॥
वित्तगतः शशिपुत्रो भ्रातरि वासरनाथः ।
लग्नगते भृगुपुत्रे स्युः शलभा इव सर्वे ॥६३॥
उदये रविर्यदि सौरिररिगः शशी दशमेऽपि ।
वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥६४॥
तनौ शनिकुजौ रविर्दशमभे बुधो भृगुसुतोऽपि लाभदशमे ।
त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥६५॥
समुदयगे विबुधगुरौ मदनगते हिमकिरणे ।
हिबुकगतौ बुधभृगुजौ सहजगताः खलखचराः ॥६६॥
त्रिदशगुरुस्तनुगो मदने हिमकिरणो रविरायगतः ।
सितशशिजावपि कर्मगतौ रविसुतभूमिसुतौ सहजे ॥६७॥
देवगुरौ वा शशिनि तनुस्थे वासरनाथे रिपुभवनस्थे ।
पञ्चमगेहे हिमकरपुत्रः कर्मणि सौरिः सुहृदि सितश्च ॥६८॥
हिमकिरणसुतो बली चेत्तनौ त्रिदशपतिगुरुर्हि केन्द्रस्थितः ।
व्ययगृहसहजारिधर्मस्थितो यदि च भवति निर्बलश्चन्द्रमाः ॥६९॥
अशुभखगैरनवाष्टमदस्थैर्हिबुकसहोदरलाभगृहस्थः ।
कविरिह केन्द्रगगीष्पतिदृष्टो वसुचयलाभकरः खलु योगः ॥७०॥
रिपुलग्नकर्महिबुके शशिजे परिवीक्षिते शुभनभोगमनैः ।
व्ययलग्नमन्मथगृहेषु जयः परिवर्जितेष्वशुभनामधरैः ॥७१॥
लग्ने यदि जीवः पापा यदि लाभे कर्मण्यपि वा चेद्राज्याधिगमः स्यात् ।
द्यूने बुधशुक्रौ चन्द्रो हिबुके वा तद्वत्फलमुक्तं सर्वैर्मुनिवर्यैः ॥७२॥
रिपुतनुनिधने शुक्रजीवेन्दवो ह्यथ बुधभृगुजौ तुर्यगेहस्थितौ ।
मदनभवनगश्चन्द्रमा वाऽम्बुगःशशिसुतभृगुजान्तर्गतश्चन्द्रमाः ॥७३॥
सितजीवभौमबुधभानुतनूजास्तनुमन्मथारिहिबुकत्रिगृहे चेत् ।
क्रमतोऽरिसोदरखशात्रवहोराहिबुकायगैर्गुरुदिनेऽखिलखेटैः ॥७४॥
सहजे कुजो निधनगश्च भार्गवो मदने बुधो रविररौ तनौ गुरुः ।
अथ चेत्स्युरिज्यसितभानवो जलत्रिगता हि सौरिरुधिरौ रिपुस्थितौ ॥७५॥
एको ज्ञेज्यसितेषु पञ्चमतपःकेन्द्रेषु योगस्तथा
द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः ।
योगे क्षेममथाधियोगगमने क्षेमं रिपूणां वधं
चाथो क्षेमयशोवनीश्च लभते योगाधियोगे व्रजन् ॥७६॥
इषमासि सिता दशमी विजया शुभकर्मसु सिद्धिकरी कथिता ।
श्रवणर्क्षयुता सुतरां शुभदा नृपतेस्तु गमे जयसन्धिकरी ॥७७॥
चेतोनिमित्तशकुनैः खलु सुप्रशस्तैर्ज्ञात्वा विलग्नबलमुर्व्यधिपः प्रयाति ।
सिद्धिर्भवेदथ पुनः शकुनादितोऽपि चेतोविशुद्धिरधिका न च तां विनेयात् ॥७८॥
व्रतबन्धनदेवताप्रतिष्ठाकरपीडोत्सवसूतकासमाप्तौ ।
न कदापि चलेदकालविद्युद्घनवर्षातुहिनेऽपि सप्तरात्रम् ॥७९॥
महीपतेरेकदिने पुरात् पुरे यदा भवेतां गमनप्रवेशकौ ।
भवारशूलप्रतिशुक्रयोगिनीर्विचारयेन्नैव कदापि पण्डितः ॥८०॥
यद्येकस्मिन् दिवसे महीपतेर्निर्गमप्रवेशौ स्तः ।
तर्हि विचार्यः सुधिया प्रवेशकालो न यात्रिकस्तत्र ॥८१॥
प्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ ।
नक्षत्रे च तथा वारे नैव कुर्यात्कदाचन ॥८२॥
अग्निं हुत्वा देवतां पूजयित्वा नत्वा विप्रानर्चयित्वा दिगीशम् ।
दत्त्वा दानं ब्राह्मणेभ्यो दिगीशं ध्यात्वा चित्ते भूमिपालोऽधिगच्छेत् ॥८३॥
कुल्माषांस्तिलतण्डुलानपि तथा माषांश्च गव्यं दधि
त्वाज्यं दुग्धमथैणमांसमपरं तस्यैव रक्तं तथा
तद्वत्पायसमेव चाषपललं मार्गं च शाशं तथा
षाष्टिक्यं च प्रियंग्वपूपमथवा चित्राण्डजान् सत्फलम् ॥८४॥
कौर्भं सारिकगोधिकं च पललं शाल्यं हविष्यं हया-
द्यृक्षे स्यात्कृसरान्नमुद्गमपि वा पिष्टं यवानां तथा ।
मत्स्यान्नं खलु चित्रितान्नमथवा दध्यन्नमेवं क्रमा-
द्भक्ष्याभक्ष्यमिदं विचार्य मतिमान् भक्षेत्तथाऽऽलोकयेत् ॥८५॥
आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम् ।
भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् ॥८६॥
रसालां पायसं काञ्जीं शृतं दुग्धं तथादधि ।
पयोऽशृतं तिलान्नं च भक्षयेद्वारदोहदम् ॥८७॥
पक्षादितोऽर्कदलतण्डुलवारिसर्पिः श्राणा हविष्यमपि हेमजलं त्वपूपम् ।
भुक्त्वा व्रजेद्रुचकमम्बु च धेनुमूत्रं यावान्नपायसगुडानसृगन्नमुद्गान् ॥८८॥
उद्धृत्य प्रथमत एव दक्षिणांध्रिं द्वात्रिंशत्पदमधिगत्य दिश्ययानम् ।
आरोहेत्तिलघूतहेमताम्रपात्रं दत्त्वाऽऽदौ गणकवराय च प्रगच्छेत् ॥८९॥
प्राच्यां गच्छेद्गजेनैव दक्षिणस्यां रथेन हि ।
दिशि प्रतीच्यामश्वेन तथोदीच्यां नरैर्नृपः ॥९०॥
देवगृहाद्वा गुरुसदनाद्वा स्वगृहान्मुख्यकलत्रगृहाद्वा ।
प्राश्य हविष्यं विप्रानुमतः पश्यच्छृण्वन्मङ्गलमेयात् ॥९१॥
कार्याद्यैरिह गमनस्य चेद्विलम्बा भूदेवादिभिरुपवीतमायुधं च ।
क्षौद्रं चामलफलमाशु चालनीयं सर्वेषां भवति यदेव हृत्प्रियं वा ॥९२॥
गेहाद्गेहान्तरमपि गमस्तर्हि यात्रेति गर्गः
सीम्नः सीमन्तरमपि भृगुर्बाणविक्षेपमात्रम् ।
प्रस्थानं स्यादिति कथयतेऽथो भरद्वाज एवं
यात्रा कार्या बहिरिह पुरात्स्याद्वसिष्ठो ब्रवीति ॥९३॥
प्रस्थानमत्र धनुषां हि शतानि पञ्च केचिच्छतद्वयमुशन्ति दशैव चान्ये ।
सम्प्रस्थितो य इह मन्दिरतः प्रयातो गन्तव्यदिक्षु तदपि प्रयतेन कार्यम् ॥९४॥
प्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठेत्
सामन्तः सप्तरात्त्रं तदितरमनुजः पञ्चरात्रं तथैव ।
ऊर्ध्वं गच्छेच्छुभाहेऽप्यथ गमनदिनात्सप्तरात्राणि पूर्वं
चाशक्तौ तद्दिनेऽसौ रिपुविजयमना मैथुनं नैव कुर्यात् ॥९५॥
दुग्धं त्याज्यं पूर्वमेव त्रिरात्रं क्षौरं त्याज्यं पञ्चरात्रं च पूर्वम् ।
क्षौद्रं तैलं वासरेऽस्मिन्वमिश्च त्याज्यं यत्नाद्भूमिपालेन नूनम् ॥९६॥
भुक्त्वा गच्छति यदि चेत्तैलनुडक्षारपक्वमांसानि ।
विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥९७॥
यदि मास्सु चतुर्षु पौषमासादिषु वृष्टिर्हि भवेदकालवृष्टिः ।
पशुमर्त्यपदाङ्किता न यावद्वसुधा स्यान्न हि तावदत्र दोषः ॥९८॥
अल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूया-
ञ्जीभूतानां निर्घोषे वृष्टौ वा जातायां भूपः ।
सूर्येन्द्वोर्बिम्बे सौवर्णे कृत्वा विप्रेभ्यो दद्याद्
दुःशाकुन्ये साज्यं स्वर्णं दत्वा गच्छेत्स्वेच्छाभिः ॥९९॥
विप्राश्वेभफलान्नदुग्धदधिगोसिद्धार्थपद्माम्बरं
वेश्यावाद्यमयूरचाषनकुला बद्धैकपश्वामिषम् ।
सद्वाक्यं कुसुमेक्षुपूर्णकलशच्छत्राणि मृत्कन्यका
रत्नोष्णीषसितोक्षमद्यसमुतस्त्रीदीप्तवैश्वानराः ॥१००॥
आदर्शाञ्जनधौतवस्त्ररजका मीनाज्यसिंहासनं ।
शावं रोदनवर्जितं ध्वजमधुच्छागास्त्रगोरोचनम् ।
भारद्वाजनृयानवेदनिनदा माङ्गल्यगीताङ्कुशा
दृष्टाः सत्फलदाः प्रयाणसमये रिक्तो घटः स्वानुगः ॥१०१॥
बन्ध्या चर्म तुषास्थि सर्पलवणाङ्गारेन्धनक्लीबविट्
तैलोन्मत्तवसौषधारिजटिलप्रव्राट्तृणव्याधिताः ।
नग्नाभ्यक्तविमुक्तकेशपतिता व्यङ्गश्रुधार्ता असृक्
स्त्रीपुष्पं सरठः स्वगेहदहनं मार्जारयुद्धं क्षुतम् ॥१०२॥
काषायी गुडतक्रपङ्कविधवाकुब्जाः कुटुम्बे कलि-
र्वस्त्रादेः स्खलनं लुलायसमरं कृष्णानि धान्यानि च ।
कार्पासं वमनं च गर्दभरवो दक्षेऽतिरुट् गर्भिणी
मुण्डार्द्राम्बरदुर्वचोऽन्धबधिरोदक्यो न दृष्टाः शुभाः ॥१०३॥
गोधाजाहकसूकराहिशशकानां कीर्तनं शोभनं
नो शब्दो न विलोकनं च कपिऋक्षाणामतो व्यत्ययः ।
नद्युत्तारभयप्रवेशसमरे नष्टार्थसंवीक्षणे
व्यत्यस्ताः शकुना नृपेक्षणविधौ यात्रोदिताः शोभनाः ॥१०४॥
वामाङ्गे कोकिला पल्ली पोतकी सूकरी रला ।
पिङ्गला छुच्छुका श्रेष्ठाः शिवाः पुरुषसंज्ञिताः ॥१०५॥
छिक्करः पिक्कको भासः श्रीकण्ठो वानरो रुरुः ।
स्त्रीसञ्ज्ञकाः काकऋक्षश्वानः स्युर्दक्षिणाः शुभाः ॥१०६॥
प्रदक्षिणगताः श्रेष्ठा यात्रायां मृगपक्षिणः ।
ओजा मृगा व्रजन्तोऽतिधन्या वामे खरस्वनः ॥१०७॥
आद्येऽपशकुने स्थित्वा प्राणानेकादश व्रजेत् ।
द्वितीये षोडश प्राणांस्तृतीये न क्वचिद्व्रजेत् ॥१०८॥
यात्रानिवृत्तौ शुभदं प्रवेशनं मृदुध्रुवैः क्षिप्रचरैः पुनर्गमः ।
द्वीशेऽनले दारुणभे तथोग्रभे स्त्रीगेहपुत्रात्मविनाशनं क्रमात् ॥१०९॥
अयनर्क्षमासतिथिकालवासरोद्भवशूलसम्मुखसितज्ञदिक्कपाः ।
भृगुवक्रतादिपरिघाख्यदण्डको युवतीरजोऽप्यशुचितोत्सवादिकम् ॥११०॥
मृतपक्षरिक्तरवितर्कसंख्यकास्तिथयश्च सौरिरविभौमवासराः ।
अपि वामपृष्ठगविधुस्तथाडलोवसुपञ्चकाभिजिदथापि दक्षिणे ॥१११॥
लग्ने जन्मर्क्षतन्वोर्मृतिगृहमहितर्क्षाच्च षष्ठं तदीशा
वा लग्ने कुम्भमीनर्क्षनवलवतनू चापि पृष्ठोदयं च ।
पृष्ठाशासंस्थमृक्षं दशमशनिरथो सप्तमे चापि काव्यः
केन्द्रे वक्राश्च वक्रिग्रहदिवसविवाहोक्तदोषाश्च नेष्टाः ॥११२॥
इति श्री दैवज्ञानन्तसुतदैवज्ञरामविरचिते मुहूर्त्तचिन्तामणौ यात्राप्रकरणं
समाप्तम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें