तर्कसंग्रहे शब्द परिच्छेदः (न्यायबोधिनी दीपिका हिन्दी व्याख्या सहितः)


आप्तवाक्यं शब्दः  । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ ४८॥
न्यायबोधिनी
शब्दं लक्षयति- आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तौ अनाप्तोच्चरितवाक्येतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नः अर्थः। वस्तुतस्तु पदज्ञानं करणम् । वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम ईश्वरेच्छा, सैव शक्तिरित्यर्थः।
शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासम्बन्धेन शक्याश्रयत्वं शक्यत्वम्। शक्यसम्बन्धो लक्षणा, सा द्विविधा-गौणी शुद्धा चेति। गौणी नाम सादृशविशिष्टे लक्षणा, यथा 'सिंहो मानवक' इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा- जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोषः इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद् गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा। लक्ष्यतावच्छेदकं दध्युपघातकत्वम्। तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां शक्यलक्ष्याणां बोधात्। जहदजहल्लक्षणा वेदान्तिनां मते। सा च शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका। यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात्।
दीपिका
शब्दं लक्षयति --- आप्तेति ॥ आप्तं लक्षयति --- आप्तस्त्विति ॥वाक्यलक्षणमाह ---- वाक्यमिति ॥ पदलक्षणमाह --- शक्तमिति ॥ अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः । सा च पदार्थान्तरमिति मीमांसकाः । तन्निरासार्थमाह --अस्मादिति ॥ डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः । ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थित्वात् । व्यक्तिलाभास्तु आक्षेपादिति केचित् । तत् न, गामान्येत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव संभवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् । शक्तिग्रहश्च वृद्धव्यवहारेण । व्युत्पित्सुर्बालो `गामानय' इत्युत्तमवृद्धवाक्यश्रवणान्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्तजन्यत्वं
निश्चित्य `अश्वमानय गां बधान' इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते । ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य कार्यपरवाक्य एव व्युत्पर्त्तिन सिद्धपर इति चेत् न । ` काश्यां त्रिभुवन्तिलको भूपतिरास्ते ' इत्यादौ सिद्धेऽपि व्यवहारात्, `
विकसितपद्मे मधुकरस्तिष्ठति ' इत्यादौ प्रसिद्धपदसमभिव्यवहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च । लक्षणापि शब्दवृत्तिः । शक्यसंबन्दो लक्षणा । गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते । सैधवादौ लवणाश्वयोः परस्परसंबन्धाभावान्नानाशक्तिकल्पनम् । लक्षणा त्रिविधा -जहल्लक्षणा, अजहल्लक्षणा, जहदजल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा । यथा मञ्चाः क्रोशन्तीति । यत्र वाच्यार्थस्याप्यन्वयः, तत्र अजहदिति । यथा छत्रिणो गच्चन्तीति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र जहदजहदिति । यथा तत्त्वमसीति । गौण्यपि लक्षणैव लक्ष्यमाणगुणसंबन्धस्वरूपा यथा अग्निर्माणवक इति । व्यञ्चनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च । अनुमानादिना अन्यथासिद्धा । तात्पर्यानुपपत्तिर्लक्षणाबीजम् । तत्प्रीतीतीच्छयोच्चरितत्वं तात्पर्यम् । तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् । प्रकरणादिकं तात्पर्यग्राहकम् । द्वारमित्यादौ पिधेहीति शब्दाध्याहारः । ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेत् न । पदविशेषजन्यपदार्थोपस्तिथेः शाब्दज्ञाने हेतुत्वात् । अन्यथा ` घटः कर्मत्वमानयं कृतिः ' इत्यत्रापि शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेषु योगरूढिः । अवयवशक्तिर्योगः । समुदायशक्ती रूढिः । नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः । अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात् । ` इतरान्विते शक्तिः ' इति प्राभाकराः । अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः ।

आकांक्षा  योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः |पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकांक्षा  । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारारणं संनिधिः ॥ ४९॥ आकांक्षादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाश्ण्क्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं साम्निध्याभावात् ॥
न्यायबोधिनी
आकांक्षां लक्षयति- आकांक्षेति। अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधा- भावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्त्वमाकांक्षा। यथा घटमित्यादिस्थले अव्यवहितोत्तरत्वादिसम्बन्धेन अम् पदं घटपदवदित्याकार- काऽम्पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे घटीयं कर्मत्वमिति बोधो जायते। अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात् तादृशशाब्दबोधो न जायते। अतस्तादृशाकांक्षाज्ञानं (तादृश) शाब्दबोधे कारणम्। अर्थाबाध इति। बाधाभावो योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। सन्निधिं निरुपयति- पदानामिति। असहोच्चारितानि=विलम्बेनोच्चारितानि।
     दीपिका
आकांक्षेति ॥ आकाङ्क्षादिज्ञानमित्यर्थः । अन्यथा आकांक्षादिभ्रमाच्छाब्दभ्रमो न स्यात् । आकाङ्क्षां लक्षयति -पदस्येति ॥ योग्यतालक्षणमाह ---- अर्थेति ॥ संनिधिलक्षणमाह- पदानामिति । अविलम्बेन पदार्थोपस्थितिः संनिधिः । उच्चारणं तु तदुपयोगितयोक्तम् ।

वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ वाक्यार्थ्ज्ञानं शब्दज्ञानम् । तत्करणं शब्दः ॥
न्यायबोधिनी
वैदिकमिति। वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकं त्विति। वेदवाक्यभिन्नमित्यर्थः। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्।
     दीपिका
वाक्यं विभजते --- वाक्यमिति ॥ वैदिकस्य विशेषमाह --- वैदिकमीश्वरोक्तत्वादिति ॥ ननु वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत् न । ` वेदः पौरूषेयः वाक्यसमूहत्वात् भारतादिवत् ' इत्यनुमानेन पौरूषेयत्वसिद्धेः । न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात् । ` तस्मात्तेपानात्त्रयो वेदा अजायन्त ' इति श्रुतेश्च । ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत् न, ` उत्पन्नो गकारो विनिष्टो गकार ' इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, ` सोऽयं गकार ' इति प्रत्यभिज्ञायाः ` सीयं दीपज्वाला ' इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वाविशिष्टवाक्यस्यानित्यत्वाच्च । तस्मादीश्वरोक्ता वेदाः । मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रमाण्यम् । स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छारवोत्सन्नेति कल्प्यते । ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति कदापि वर्णानामानुपूर्वीज्ञानासंभवेन बोधकत्वास/न्भवात् । ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञासंभवाच्छब्दो न प्रमाणान्तरमिति चेन्न । अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य शाब्दात्प्रत्येमि ' इत्वनुव्यवसायंसाक्षिकस्य सर्वसंमतत्वात् । नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ` पीनो देवदत्तो दिवा न भुङ्क्ते ' इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न । ` देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् ' इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात् । शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव । ` इह वटे यक्षस्तिष्ठति ' इत्यैतिह्यमपि अज्ञातम्लवक्तृकशब्द एव । चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ॥

अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाध्र्म्वैशिष्ट्यावगाहिज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वेति । मिथ्याज्ञानं विपर्ययः ।  यथा शुक्तौ इदं रजतमिति  व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ॥
न्यायबोधिनी
यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते- संशयेत्यादिना। एकेति। एकधर्मावच्छिन्नविशेष्यतानिरूपितभावाभावप्रकारक- ज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयाप्रसिद्धेः स्थाणुर्वा (पुरुषो वा)इत्यत्र स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिक एव संशय इत्यर्थः।
मिथ्याज्ञानमिति। अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः। व्याप्यारोपेणेति। तर्के व्याप्यस्य व्याप्यकस्य च बाधनिश्चयः कारणम्। अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण तर्कानुत्पत्तेः।
स्मृतिरपि द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था। सर्वेषामनुकूलतया वेदनीयं सुखम्।
न्यायबोधिनी  
सुखं निरूपयतिसर्वेषामिति। इतरेच्छानधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते घटोऽनुकूल इत्याकारकज्ञानदशायम् अनुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्ताद् घटादावतिव्याप्तिरिति। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेति इच्छाविशेषणम्। सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात्।

प्रतिकूलतया वेदनीयं दुःखम्।
न्यायबोधिनी
दुःखं निरूपयतिप्रतिकूलेति। अत्रापीतरद्वेषानधीनद्वेषविषयत्वमिति निष्कृष्टलक्षणम्। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिः तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिवारणायेतरद्वेषानधीनेति द्वेषविशेषणम्। सर्पजन्यदुःखादौ द्वेषात्सर्पेऽपि द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वाद् अन्यद्वेषजन्यद्वेषविषयत्वरूपदुःखलक्षणस्य सर्पादौ नातिव्याप्तिः। फलेच्छा उपायेच्छां प्रति कारणम्अतः फलेच्छावशादुपायेच्छा भवति। एवं फले द्वेषादुपाये द्वेषः।

इच्छा कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्यस्त्वधर्मः।

न्यायबोधिनी
धर्माधर्मौ निरूपयतिविहितेति। वेदविहितेत्यर्थः। निषिद्धेति। वेदःनिषिद्ध इत्यर्थः।

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्ना द्विविधाः। नित्या अनित्याश्च। नित्या ईश्वरस्यानित्या जीवस्य।

न्यायबोधिनी
बुद्ध्यादयोऽष्टाविति। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः।

संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुः भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनः तादवस्थ्यापादकः स्थितिस्थापकः। कटादिपृथिवीवृत्तिः।

न्यायबोधिनी
संस्कारं विभजतेसंस्कार इति। भावनां लक्षयतिअनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनालक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावान्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिःध्वंसं प्रति प्रतियोगिनः कारणत्वेनानुभवध्वंसस्यापि अनुभवजन्यत्वात्अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः।
ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धायथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकबुद्धिः। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिः दण्डी पुरुष इत्याकारिका बुद्धिःतत्र दण्डज्ञानं कारणम्। न हि दण्डमजाननः पुमान् दण्डी पुरुषःइति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं जातंतदन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नंतत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं चस्मृतिं प्रत्यनुभवस्य कारणत्वम्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावनालक्षणस्य यथोक्तदण्डीपुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति चेत्अत्र ब्रूमःअनुभवजन्यत्वं हि अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम्। तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम् अनुभवजन्यत्वमिति फलितम्। अतो नोक्तातिव्याप्तिः। तथा हि दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणतातस्यान्न दण्डानुभवत्वमवच्छेदकंदण्डानुभवादिव दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति अनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य उक्तप्रत्यक्षेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथाहिअनुभवेनैव भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठकारणतायामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावानायं वर्तत इति नासम्भवः।
नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम्। तद्धि अनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायाम् अनुभवध्वंसेऽतिव्याप्तिः प्रसज्यते। तथाहिध्वंसत्वावच्छिन्नं प्रति च प्रतियोगिनः कारणत्वं प्रतियोगत्वेन रूपेणतत्तद्ध्वंसत्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता याऽनुभवनिष्ठा कारणतातस्यां प्रतियोगित्वमवच्छेदकम्। तत्तद्व्यक्तित्वञ्चन त्वनुभवत्वमपीत्यनुभवध्वंसेऽनुभवत्वावच्छिन्नकारणतानिरूपित-कार्यताश्रयत्वरूपानुभवजन्यत्वविरहेण एवातिव्याप्तिवारणसम्भवात् कृतं स्मृतिहेतुत्वविशेषणेनेति चेन्नस्मृतावतिव्याप्तिवारणायैव तदुपादानात्। तथाहिस्मृतिं प्रत्यनुभव एव कारणं न तु स्मृतिरपि। अतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन। तथा च घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणतातस्यां घटानुभवत्वमवच्छेदकम्। तेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यामानत्वाद् अतिव्याप्तिवारणाय स्मृतिहेतुत्वमुक्तम्। न हि स्मृतिर्हेतुःअतो न तत्रातिव्याप्तिरित्यलं पल्लवतल्लजकल्पेष्वनल्पजल्पनेन।

चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुः अपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुः आकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति।
नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति। तद्द्विविधं पराऽपरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि।

न्यायबोधिनी
सामान्यं निरूपयतिनित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्। नित्यत्वविशेषणानुपादाने अनेकसमवेतत्वस्य संयोगादौ सत्त्वात्तत्रातिव्याप्तिस्तद्वारणाय नित्यत्वविशेषणम्। अनेकसमवेतत्वानुपादाने नित्यत्वमात्रोपादाने आकाशादावतिव्याप्तिस्तद्वारणाय अनेकसमवेतत्वम्। अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेत्वमात्रोक्तावाकाशगतैकत्वपरिमाणादौ जलपरमाणुगतरूपादौ चातिव्याप्तिः जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात् समवेतत्वाच्च। अतःअनेकेति समवेतविशेषणम्।

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः।

न्यायबोधिनी
नित्यद्रव्यवृत्तय इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाःअत एव व्यावर्तकाः इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मताप्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः। नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तं प्रकारताविशेषणम्। एतेन व्यावर्तकाइत्यस्य नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्यद्रव्यवृत्तय इति विफलमेवस्वरूपाख्यानस्यापि कृतत्वादिति प्रत्युक्तम्।

नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तौ अयुतसिद्धौयथा अवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति।

न्यायबोधिनी
समवायं निरूपयतिनित्येति। सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम्। ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः।

अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो नेति। सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्।

                                काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
                   अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः।।
न्यायबोधिनी
अत्यन्ताभावं निरूपयतित्रैकालिकेति। प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सति अभावत्वम् अत्यन्ताभावस्य लक्षणम्। ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकभावत्वम्। ध्वंसप्रागभावयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति स्वरूपाख्यानमेवेति बोध्यम्।
अन्योन्याभावं निरूपयतितादात्म्येति। अभावत्रयवारणाय विशेषणम्। घटाभाववान्नेति प्रतीतिविषयघटादिवारणाय विशेष्यम्।
ननु सादृश्यादीनामतिरिक्तपदार्थानामनिरूपणेन न्यूनतेत्यत आहसर्वेषामिति। प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वादजल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः इति न्यायस्यादिमसूत्रे उक्तानां प्रमाणप्रमेयादीनामित्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि घटपटादिरूपत्वेन नातिरिक्तत्वम्। एवमन्येषामप्यूह्यम्।
काणादेति। कणादेस्येदं काणादम्। काणादन्यायमतमिति द्वन्दगर्भकर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताभिन्नव्युत्पत्तिसिद्धिप्रयोजकान्नंभट्टविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः।

Share:

तर्कसंग्रहे उपमान परिच्छेदः (न्यायबोधिनी दीपिका हिन्दी व्याख्या सहितः)


उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वन गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥
 न्यायबोधिनी
उपमानं लक्षयति- उपमितिकरणमिति। उममितिं लक्षय़ति- संज्ञासंज्ञीति। संज्ञा नाम पदम्। संज्ञी=अर्थः। तयोः सम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः। उपमानं नाम अतिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फलम्। 'गोसदृशो गवयपदवाच्य' इत्याकारकवाक्याद् गोसदृशावच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्।
     दीपिका
उपमानं लक्षयति ---- उपमितिकरणमिति ॥

Share:

तर्कसंग्रहे अनुमान परिच्छेदः (न्यायबोधिनी दीपिका हिन्दी व्याख्या सहितः)


अनुमानं द्विविधं स्वार्थं परार्थञ्च।
न्यायबोधिनी
अनुमानं विभजते- स्वार्थमिति।
अनुमानं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः तथाहि स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते अयमेव लिंगपरामर्श इत्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते । तदेत्स्वार्थानुमानम् ।
न्यायबोधिनी
स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम्।
     दीपिका
अनुमानं विभजते -अनुमानमिति । स्वार्थानुमानं दर्शयति स्वयमेवेति । ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं व्याप्तिग्रह इति चेत् न । व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात् ।
 व्यभिचारज्ञानं निश्चयः शङ्का च । तद्विरहः क्वचित्तर्कात्, क्वचित्स्वतः सिद्ध एव । धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः । ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न । वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसंभवात् । तस्मादिति । लिङ्गपरामर्शादित्यर्थः ।

यत्तु स्वयं धूमाग्निमनुमाय परंप्रतिबोधयितुं पञ्चावयव वाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो वह्निमान्धूमत्वाद्यो यो धूमवान्स वह्निमान्यथा महानसः तथा चायं तस्मात्तथेति । अनेन प्रतिपादिताल्लिष्ण्गात्परोऽप्यग्निं प्रतिपद्यते ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धूमवान्स वह्निमान्यथा महानस इत्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् ॥ ४२॥
न्यायबोधिनी
न्यायप्रयोज्यानुमानं परार्थानुमानम्। न्यायत्वं च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। अवयवत्वञ्च प्रतिज्ञाद्यन्यतमत्वम्।
दीपिका
परार्थानुमानमाह ---------- यत्त्विति । यच्छब्दस्य ` तत्परार्थानुमानम् ' इति तच्छब्देनान्वयः । पञ्चावयववाक्यमुदाहरति ----- यथेति । अवयवस्वरूपमाह --------- प्रतिज्ञेति ॥ उदाहृत्वाक्ये प्रतिज्ञादिविभागमाह ------- पर्वतो वह्निमानिति ॥ साध्यवत्तया पक्षवचनं प्रतिज्ञा । पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः । व्याप्तिप्रतिपादकं उदाहरणम् । व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनमुपनयः । हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् । अबाधितत्वादिकं निगमनप्रयोजनम् ।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् ।
तस्मालिङ्गपरामर्शोऽनुमानम् ॥ ४३॥
     दीपिका
अनुमितिकरणमाह --- स्वार्थेति । ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसंभवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत् न, `वह्निव्याप्यवानयम् ' इति शाब्दपरामर्शस्थले परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् । लिङ्गं न करणम्, अतीतादौ व्यभिचारात् । ` व्यापारवत्वकारणं करणम् ' इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम् । तज्जन्यत्वे सति तज्जन्यजनको व्यापारः । अनुमानमुपसंहरति - तस्मादिति।

लिङ्गम् त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यप्तिरेकव्याप्तिः ।
दीपिका
लिङ्गं विभजते --- लिङ्गमिति ॥ अन्वयव्यतिरेकिणं लक्षयति --- अन्वयेनेति ॥ हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः,
तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः ।
न्यायबोधिनी
केवलान्वयिनो लक्षणमाह- अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वयव्याप्तिमत्त्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाधकत्वं हेतोः केवलान्वयित्वम्, साध्य़े केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वम्। तथा च अभावाप्रतियोगिसाध्यकत्वं केवलान्वयिहेतोर्लक्षणम्। एतच्च लक्षणं हेतोर्व्यातिरेकित्वेऽपि संगच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलकारोक्तं लक्षणमुपपन्नम्। न चात्यन्तभावाप्रतियोगित्वरूपकेवलान्वयित्वमाकाशाभावे संयोगाभावे चाव्याप्तमिति वाच्यम्, स्वविरोधवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा चानयोरेकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः।
अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवदिति। अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेक- व्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च।

     दीपिका
केवलान्वयिनो लक्षणमाह -------- अन्वयेति ॥ केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि । (वृत्तिमत्) अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः ।
न्यायबोधिनी
केवलान्वयिनो लक्षणमाह- अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वयव्याप्तिमत्त्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाधकत्वं हेतोः केवलान्वयित्वम्, साध्य़े केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वम्। तथा च अभावाप्रतियोगिसाध्यकत्वं केवलान्वयिहेतोर्लक्षणम्। एतच्च लक्षणं हेतोर्व्यातिरेकित्वेऽपि संगच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलकारोक्तं लक्षणमुपपन्नम्। न चात्यन्तभावाप्रतियोगित्वरूपकेवलान्वयित्वमाकाशाभावे संयोगाभावे चाव्याप्तमिति वाच्यम्, स्वविरोधवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा चानयोरेकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः।
 व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवद् यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्।
दीपिका
केवलव्यतिरेकिणो लक्षणमाह --- व्यतिरेकेति । तदुदाहरति-यथेति । नन्वितरभेदः प्रसिद्धो वा न वा । आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम् । द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः । विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्वयतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् न । जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । तत्र त्रयोधत्वावच्छिन्नभेदात्मक - साध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिद्धया साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति ।
न्यायबोधिनी
केवलव्यतिरेकिणो लक्षणमाह- व्यतिरेकेति। अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम्, यथा पृथिवीति। अत्र पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलाद्यष्टभेदः साध्यः, गन्धवत्त्वं हेतुः। अत्र यद्गन्धवत्तदितरभेदवदित्यन्वयदृष्टान्ताभावाद् गन्धव्यापकेतरभेद- सामानाधिकरण्यरूपान्वयव्याप्तिग्रहासम्भवः। किन्तु यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृह्यते। इममेवार्थं मनसि निधाय यदितरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलमिति ग्रन्थेन मूलकारो व्याप्तिमेव प्रदर्शितवान्। एवंप्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमितरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवी इत्याकारकव्यतिरेकिपरामर्शात् पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविधेयताका पृथिवी इतरभेदवतीत्याकारिकानुमितिर्जायते इति तत्त्वम्।
यथाश्रुतमूलार्थस्तु यथा जलमिति। यज्जलमितरेभ्यो न भिद्यते, इतरभेदाभाववत्, न तद्गन्धवत्, जलमितरभेदाभावव्यापकगन्धा- भाववदित्येवंप्रकारेण गन्धाभावनिरूपिता व्याप्यतेतरभेदाभावे गृह्यत इत्यर्थः। न चेयं तथा। इयं=पृथिवी, तथा=इतरभेदाभावव्यापकगन्धाभाववती न, किन्तु तदभावात्मकगन्धवतीति। तस्मान्न तथेति। तस्मात्=गन्धाभावाभाववत्त्वात्। तच्छब्देन गन्धाभावाभावरूपस्य गन्धस्य परामर्शेन तस्मादिति पञ्चम्यन्ताद् गन्धाभावाभाववत्त्वादित्यर्थोपलब्धिः। न तथा=इतरभेरदाभाववती न, किन्तु इतरभेदाभावाभाववती=इतरभेदवतीत्यर्थः पर्यवसन्नः।
सन्दिग्धसाध्यवान्पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः । निश्चितसाध्यवान्सपक्षः यथा तत्रैव महानसम् । निश्चितसाध्याऽभाववान्विपक्षः यथा तत्रैव महाह्रदः ॥ ४५॥
  न्यायबोधिनी
पक्षलक्षणमाह- सन्दिग्धेति। साध्यप्रकारकसन्देहविशेष्यत्वं पक्षत्वम्। सन्देहश्च पर्वतो वह्निमान्न वा इत्याकारः। इदञ्च लक्षणमनुमितेः पूर्वं साध्यसन्देहो नियमेन जायते, इत्यभिप्रायेण प्राचीनैः कृतम्। गगनविशेष्यकमेघप्रकारकसन्देहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन 'गगनं मेघवदि'त्याकारिकाया गगनवत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकाया अनुमितेर्दर्शनात्प्राचीनलक्षणं विहाय नवीनैः अनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम्।
सपक्षलक्षणमाह- निश्चितेति। साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वं, निश्चयश्च महानसं वह्निमदित्याकारकः।
विपक्षलक्षणामाह- निश्चितसाध्याभावेति। साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षत्वम्। निश्चयश्च ह्रदो वह्न्यभाववानित्याकारकः।
दीपिका
पक्षलक्षणमाह ------- सन्दिग्धेति ॥ ननु श्रवणान्तरभाविमननस्थले अव्याप्तिः । तत्र वेदवाक्यैरात्मनो निश्चित्वेन सन्देहाभावात् । किञ्च प्रत्यक्षेऽपि वह्नौ यत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् । सपक्षलक्षणमाह -------- निश्चितेति | विपक्षलक्षणमाह ----- निश्चितेति ॥

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । सव्यभिचारोऽनैकान्तिकः । स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।
न्यायबोधिनी
एवं सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति- सव्यभिचारेति। हेतुवदाभासन्ते इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः। दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षाऽसिद्धबाधाः। एकज्ञानविषयप्रकृतहेतुतावच्छेदकसम्बन्धेन एतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम्। हेतौ दोषज्ञाने सत्यनुमितिप्रतिबन्धो जायते, व्याप्तिज्ञानप्रतिबन्धो वा। अतो वादिनिग्रहाय वादिनोद्भाविते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमित्यर्थः। सव्यभिचारं विभज्य दर्शयति- साधारणेति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्।
     दीपिका
एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते --सव्यभिचारेति ॥ अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् । सव्यभिचारं विभजते --- स त्रिविध इति
तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः यथा पर्वतो वह्निमान्प्रमेयत्वादिति । प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् ।
न्यायबोधिनी
साधारणत्वं च साध्याभाववद्वृत्तित्वम्। पर्वतो वह्निमान्, प्रमेयत्वादित्यत्र प्रमेयत्वहेतौ वह्न्यभाववद्वृत्तित्वरूपव्यभिचारे ज्ञाते वह्न्यभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
     दीपिका
साधारणं लक्षयति ----- तत्रेति ॥ उदाहरति ---- यथेति ॥

सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ।
न्यायबोधिनी
असाधारण इति। सर्वसपक्षव्यावृत्तत्वं=निश्चतसाध्यवदवृत्तित्वम्। साध्यवदवृत्तित्वं च साध्यासामानाधिकरण्यम्। हेतौ साध्यासामानाधिकरण्ये निश्चिते साध्यसामानाधिकरण्यरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
     दीपिका
असाधारणं लक्षयति ----- सर्वेति ॥

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।
न्यायबोधिनी
अनुपसंहारिणं लक्षयति- अन्वयेति। उभयत्र दृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः। सर्वस्यैव पक्षत्वात्पक्षातिरिक्ताप्रसिद्धेरिति भावः। किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्यकत्वे सति किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्याभावकत्वमेव अनुपसंहारित्वम्। एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्तिज्ञानप्रतिबन्धः फलम्। वस्तुतस्तु अत्यन्ताभावाऽप्रतियोगिसाध्यादिकमेव अनुपसंहारित्वमिति बोध्यम्।
दीपिका
अनुपसंहारिणो लक्षणमाह -------- अन्वयेति ॥

साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।
न्यायबोधिनी
विरुद्धं लक्षयति- साध्याभावव्याप्त इति। साध्याभावव्याप्तिः= साध्याभावनिरूपितव्यतिरेकव्याप्तिः= साध्यव्यापकीभूताभावप्रतियोगि- त्वम्। तथा च पक्षविशेष्यकसाध्याभावव्याप्यहेतुप्रकारकज्ञानात् पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिबन्धः फलम्। एवं सत्प्रतिपक्षेऽपि। विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु विरुद्धहेतोरेकत्वेन सत्प्रतिपक्षहेतोर्द्वित्वेन च ज्ञातव्यः।
     दीपिका
विरूद्धं लक्षयति ----- साध्येति ॥

 साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् । शब्दोऽनित्यः कार्यत्वाद्घटवत् ।
न्यायबोधिनी
सत्प्रतिपक्षे द्वौ हेतू, विरुद्धे एको हेतुरिति भावः। साध्याभावप्रतिहेतुमत्पक्षः सत्प्रतिपक्ष इति यावत्। साध्याभावसाधकहेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्यसूचनमपि।
     दीपिका
सत्प्रतिपक्षं लक्षयति ---- यस्येति ॥

असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।
 न्यायबोधिनी
आश्रयासिद्ध इति। आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः। यथेति। अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्व- विशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम्।
     दीपिका
असिद्धं विभजते --- असिद्ध इति ॥ आश्रयासिद्धमुदाहरति --- गगनेति ॥

स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात् ।
न्यायबोधिनी
स्वरूपासिद्ध इति। स्वरूपसिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानुपपत्त्या परामर्शप्रतिबन्धः फलम्।
     दीपिका
स्वरूपासिद्धमुदाहरति --- यथेति ॥

सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ।
न्यायबोधिनी
व्याप्यत्वसिद्ध इति। प्रकृते धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद् धूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृहीतम्, एवं वह्नेरव्यापकत्वम् आर्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृहीतं, तदेव व्यभिचरितत्वम्। तथा चोपाधिव्यभिचिरतत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोग- व्याप्यभूमव्यभिचारित्वं गृहीतमेव।
अनुमानप्रकारश्च पूर्वानुमानस्थहेतुं पक्षीकृत्य वह्निर्धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात् घटत्वादिवत्। यो यत्साध्यव्यापकव्यभिचारी स सर्वोऽपि साध्यव्यभिचारीति रीत्या बोध्यः। एवं प्रकारेण प्रकृतानुमानहेतुभूते पक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च भूमाभाववद्वृत्तित्वरूपभूमव्यभिचारे गृहीते, वह्नौ भूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
न च व्याप्यत्वासिद्धेः व्यभिचारभेद इति वाच्यम्, भूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धत्वं, धूमाभाववद्वृत्तित्वेन व्यभिचारित्वम् इति भेदात्।
दीपिका
व्याप्यत्वासिद्धस्य लक्षणमाह- सोपाधिक इति ॥ उपाधेर्लक्षणमाह--साध्येति ॥उपादिश्चतुर्विधः केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्यः आर्द्रेन्धनसंयोगः । द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम् । तृतीयो यथा --- प्रागभावो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । चतुर्थो यथा --- प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यते इति बाधितत्वम् ॥ ४६॥
न्यायबोधिनी
यस्येति। यस्य=हेतोः, साध्यस्याभावः साध्याभावः=साध्यबाधः (स च ) प्रमाणान्तरेण=प्रत्यक्षादिप्रमाणेन, पक्षे निश्चितः स बाधित इत्यर्थः। तथा च प्रात्यक्षिकसाध्यबाधितनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम्। बाधितसाध्यकत्वाद् बाधितहेतुः इत्युच्यते।
     दीपिका
बाधितस्य लक्षणमाह ---- यस्येति ॥ अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम् । इतरेषां तु परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरूद्धस्य समानाधिकरण्याभावतया व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया, असाधारणनुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम् । उपाधिस्तु व्यभिचारज्ञानद्वारा
 व्याप्तिज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः । निग्रहस्थानान्तरमिति नवीनाः ॥

Share:

लोकप्रिय पोस्ट

ब्लॉग की सामग्री यहाँ खोजें।

लेखानुक्रमणी

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

संस्कृतसर्जना वर्ष 1 अंक 1

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

Recent Posts

लेखाभिज्ञानम्

अंक (1) अभिनवगुप्त (1) अलंकार (3) आचार्य (1) आधुनिक संस्कृत (1) आधुनिक संस्कृत गीत (1) आधुनिक संस्कृत साहित्य (3) आम्बेडकर (1) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋतु (1) ऋषिका (1) कणाद (1) करक चतुर्थी (1) करण (2) करवा चौथ (1) कर्मकाण्ड (33) कामशास्त्र (1) कारक (1) काल (3) काव्य (4) काव्यशास्त्र (8) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (2) गंगा (1) गया (1) गाय (1) गीतकार (1) गीति काव्य (1) गुरु (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) चरण (1) छन्द (4) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (3) ज्योतिष (13) तद्धित (10) तिङन्त (11) तिथि (2) तीर्थ (3) दर्शन (11) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (12) नक्षत्र (3) नाटक (2) नाट्यशास्त्र (2) नायिका (2) नीति (2) पक्ष (1) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (2) पुरुषार्थोपदेश (1) पुस्तक (2) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (2) योग (6) योग दिवस (2) रचनाकार (3) रस (1) राजभाषा (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (1) राशि (1) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (2) वैचारिक निबन्ध (22) वैशेषिक (1) व्याकरण (15) व्यास (2) व्रत (2) व्रत कथा (1) शंकाराचार्य (2) शतक (1) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (16) संस्कृत आयोग (1) संस्कृत गीतम्‌ (9) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (4) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (1) साहित्यदर्पण (1) सुबन्त (7) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्त्रीप्रत्यय (1) स्मृति (11) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (1) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Kahani (1) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (1) UGC NET/ JRF (4)