उपमितिकरणमुपमानम्
। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर
व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति
श्रुत्वा वन गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ
गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥
न्यायबोधिनी
उपमानं
लक्षयति- उपमितिकरणमिति। उममितिं लक्षय़ति- संज्ञासंज्ञीति। संज्ञा नाम पदम्।
संज्ञी=अर्थः। तयोः सम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः।
उपमानं नाम अतिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः
फलम्। 'गोसदृशो गवयपदवाच्य' इत्याकारकवाक्याद्
गोसदृशावच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्।
दीपिका
उपमानं
लक्षयति ---- उपमितिकरणमिति ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें