रघुवंशम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
रघुवंशम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

रघुवंशम् (चतुर्दशः सर्गः)

 भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।

अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ॥ 1॥

 

उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।

विस्पष्टमस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात्॥ 2॥

 

आनन्दजः शोकजमश्रुबाष्पस्तयोरशीतं शिशिरो बिभेद ।

गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः॥ 3॥

 

ते पुत्रयोर्नैऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्तौ ।

अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम्॥ 4॥

 

क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती ।

स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे॥ 5॥

 

उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।

कृच्छ्रं महत्तीर्ण इव प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या॥ 6॥

 

अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः ।

निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः॥ 7॥

 

सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि ।

तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः॥ 8॥

 

तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव ।

राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत्पुनरुक्तदोषा॥ 9॥

 

स मौलरक्षोहरिभिः ससैन्यस्तूर्यस्वनानन्दितपौरवर्गः ।

विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम्॥ 10॥

 

सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः ।

धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः॥ 11॥

 

प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना ।

वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवाबभासे॥ 12॥

 

श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् ।

प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः॥ 13॥

 

स्फुरत्प्रभामण्डनमानसूयं सा बिभ्रती शाश्वतमङ्गरागम् ।

रराज शुद्धेति पुनः स्वपुर्यै संदर्शिता वह्निगतेव भर्त्रा॥ 14॥

 

वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः ।

बाष्पायमानो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश॥ 15॥

 

कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः ।

तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥ 16॥

 

तथैव सुग्रीवबिभीषणादीनुपाचरत्कृत्रिमसंविधाभिः ।

संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन॥ 17॥

 

सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः ।

शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम्॥ 18॥

 

प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।

सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः ॥ 19॥

 

तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन ।

कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त॥ 20॥

 

पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।

धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम्॥ 21॥

 

सर्वासु मातुष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् ।

षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु॥ 22॥

 

तेनार्थवाल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।

तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेव पुत्री॥ 23॥

 

स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा ।

उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या॥ 24॥

 

तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु ।

प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन्॥ 25॥

 

अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।

आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन॥ 26॥

 

तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् ।

विलज्जमानां रहसि प्रतीतः पप्रच्छ रामां रमणोऽभिलाषम्॥ 27॥

 

सा दष्टनीवारबलीनि हिंस्रैः संबद्धवैखानसकन्यकानि ।

इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि॥ 28॥

 

तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।

आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह॥ 29॥

 

ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।

विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे॥ 30॥

 

स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः ।

सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः॥ 31॥

 

निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।

अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः॥ 32॥

 

कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।

अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे॥ 33॥

 

किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि ।

इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः॥ 34॥

 

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् ।

अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः॥ 35॥

 

स संनिपत्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् ।

कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम्॥ 36॥

 

राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।

मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य॥ 37॥

 

पौरेषु सोऽहं बहुलीभवन्तमपां तरंगेष्विव तैलबिन्दुम् ।

सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुरिव द्विपेन्द्रः॥ 38॥

 

तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।

त्यक्षामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव॥ 39॥

 

अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे ।

छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः॥ 40॥

 

रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।

अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः॥ 41॥

 

तदेव सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः ।

यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः॥ 42॥

 

इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।

न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा॥ 43॥

 

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।

सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश॥ 44॥

 

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।

स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम्॥ 45॥

 

स शुश्रुवान्मातरि भार्गवेन पितुर्नियोगात्प्रहृतं द्विषद्वत् ।

प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया॥ 46॥

 

अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगैः ।

रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे॥ 47॥

 

सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् ।

नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम्॥ 48॥

 

जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।

आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन॥ 49॥

 

सा दुर्निमित्तोपगताद्विषादात्सद्यःपरिम्लानमुखारविन्दा ।

राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः॥ 50॥

 

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् ।

अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्थितया पुरस्तात्॥ 51॥

 

रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य ।

गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः॥ 52॥

 

अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः ।

औत्पातिकं मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार॥ 53॥

 

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।

स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥ 54॥

 

इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः ।

इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत्॥ 55॥

 

सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।

तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः॥ 56॥

 

न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।

आत्मानमेवं स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द॥ 57॥

 

आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।

निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः॥ 58॥

 

सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य चिराय जीव ।

बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम्॥ 59॥

 

श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।

प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति॥ 60॥

 

वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।

मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य॥ 61॥

 

कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।

ममैव जन्मान्तरपातकानां विपाकविस्फूर्जिथुरप्रसह्यः॥ 62॥

 

उपस्थितां पूर्वमपात्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः ।

तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती॥ 63॥

 

निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।

भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने॥ 64॥

 

किंवा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् ।

स्याद्रक्षणीयं यदि मे न तेजस्तदीयमन्तर्गतमन्तरायः॥ 65॥

 

साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये ।

भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥ 66॥

 

नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रतीतः ।

निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया॥ 67॥

 

तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते ।

सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥ 68॥

 

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।

तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि॥ 69॥

 

तामभ्यगच्छद्रुदितानुकारी कविः कुशेध्माहरणाय यातः ।

निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥ 70॥

 

तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे ।

तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिषमित्युवाच॥ 71॥

 

जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।

तन्मा व्यथिष्ठा विषयान्तरस्त्वं प्राप्तासि वैदेहि पितुर्निकेतम्॥ 72॥

 

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।

त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥ 73॥

 

तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते ।

धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥ 74॥

 

तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ।

इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयोविधिस्ते॥ 75॥

 

अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य ।

तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः॥ 76॥

 

पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।

विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्॥ 77॥

 

पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ।

असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम्॥ 78॥

 

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः ।

सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय॥ 79॥

 

तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु ।

निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु॥ 80॥

 

ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः ।

तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥ 81॥

 

तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः ।

वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार॥ 82॥

 

अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता ।

शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय॥ 83॥

 

बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।

कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः॥ 84॥

 

निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः ।

स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास॥ 85॥

 

तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य ।

वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः॥ 86॥

 

सीतां हित्वा दशमुखरिपुर्नोपमेये यदन्यां

तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।

वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः

सा दुर्वारं कथमपि परित्यागदुःखं विषेहे॥ 87॥

 

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ सीतापरित्यागो नाम चतुर्दशः सर्गः ॥

Share:

रघुवंशम् (त्रयोदशः सर्गः) व्याख्या सहित

अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।

रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥1

अन्वयः- अथ गुणज्ञः सः रामाभिधानः हरिः शब्दगुणम् आत्मनः पदं विमानेन विगाहमानः रत्नाकरं वीक्ष्य मिथः जायाम् इति उवाच ।

व्याख्या- अथेति। अथ = लङ्कातः अयोध्यां प्रति प्रस्थानानन्तरम्। जानातीति ज्ञः। इगुपधज्ञाप्रीकिरः कः इत्यनेन कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। गुणज्ञः = गुणं जानाति इति गुणज्ञः, गुणवेत्ता। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। सः = सुप्रसिद्धः। रामाभिधानः = रामनामकः।  हरिः = भगवान् विष्णुः।  शब्दो गुणो यस्य तच्छब्दगुणं = आकाशम्।आत्मनः = स्वस्य। पदम् = स्थानम् विष्णुपदम्, आकाशमित्यर्थः। वियद्विष्णुपदमित्यमरः। शब्दगुणकमाकाशमिति तार्किकाः। विमानेन = पुष्पकविमानेन। विगाहमानः  = प्लवमानः सन्। रत्नाकरं = समुद्रं। वीक्ष्य = विलोक्य, दृष्ट्वा।मिथः = रहसि। मिथोऽन्योन्यं हरस्यपि इत्यमरः। जायां = पत्नीं सीताम् । इति = एवम्, वक्ष्यमानप्रकारेण। उवाच = अकथयत्। रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम्।।१।।  

छन्दः

अत्र उपजातिः छन्दः । इन्द्रवज्रा, उपेन्द्रवज्रा च इत्यनयोः मिश्रणात् उपजातिः छन्दः सञ्जायते । यस्य श्लोकस्य कश्चिद् एकः पादः इन्द्रवज्रायाः तथा अन्यः पादः  उपेन्द्रवज्रायाः भवति तदा उपजातिः छन्दः भवति। अर्थात् यस्मिन् श्लोके द्वौ पादौ भिन्नं भिन्नं छन्दसः भवति तदा उभयोः मिश्रणं कृत्वा सम्पूर्णश्लोकः उपजातिछन्दसः भवति।

इन्द्रवज्रायाः लक्षणम् -

स्यादिन्द्रवज्रा यदि तौ जगौ गः इति इन्द्रवज्रा ॥

तगणः तगणः जगणः गुरुद्वयं चेति।

उपेन्द्रवज्रायाः लक्षणम्-

उपेन्द्रवज्रा जतजास्ततो गौ इति उपेन्द्रवज्रा॥

जगणः तगणः जगणः गुरुद्वयं चेति।

श्लोकेऽस्मिन् चत्वारः पादाः सन्ति-

यदा उभयोः मिश्रणं भवति तदा एव उपजातिः सम्भवति इति। अन्यथा इन्द्रवज्रा तथा च उपेन्द्रवज्रा भवति अस्मिन् त्रयोदशे सर्गे सप्तषष्टितम-पद्य-पर्यन्तं उपजातिः छन्दः अस्ति।

व्याकरणम्

सन्धि-परिचयः

अथ + आत्मनः = अथात्मनः - सवर्णदीर्घसन्धिः।

रत्न + आकरम् = रत्नाकरम् - सवर्णदीर्घसन्धिः।

सः + जायाम् = स जायाम् - विसर्गसन्धिः, विसर्गलोपः।

राम + अभिधानः = रामाभिधानः - सवर्णदीर्घसन्धिः।

रामाभिधानः + हरिः = रामाभिधानो हरिः - विसर्गसन्धिः, उत्वम्।

हरिः + इति = हरिरिति- विसर्गसन्धिः, रुत्वम्।

इति + उवाच = इत्युवाच - यण् सन्धिः 

 धातु-प्रत्ययादि- पद-परिचयः

विगाहमानः - वि + गाह् विलोडने धातुः + शानच् पु. प्र. ए. व.।

वीक्ष्य - वि + ईक्ष् दर्शने धातुः + ल्यप् - अव्ययप्रत्ययः। 

समास-परिचयः-

शब्दगुणम् - शब्दः गुणः यस्य तत् – बहुव्रीहिः।

गुणज्ञः - गुणानां ज्ञः इति – षष्ठीतत्पुरुषः।

रत्नाकरः - रत्नानाम् आकरः - षष्ठीतत्पुरुषः। तं रत्नाकरम्।

रामाभिधानः - 'रामइति अभिधानं यस्य सः इति-बहुव्रीहिः।

वैदेहि पश्यामलयाद् विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।

छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ 2॥

अन्वयः - हे वैदेहि ! आमलयात् मत्सेतुना विभक्तं फेनिलम् अम्बुराशिं छायापथेन विभक्तम् शरत्प्रसन्नम्, आविष्कृतचारुतारम्, आकाशम् इव पश्य।

व्याख्या-  वैदेहोति । हे वैदेहि = सीते ! ( मलयम् अभिव्याप्य इति ) आमलयात् = मलयगिरिपर्यन्तम्, “पञ्चम्यपाङ्परिभिः" ( पा. ३।३।१० ) इति पञ्चमी । पदद्वयं चैतत् । ( मम सेतुः मत्सेतुः, तेन ) मत्सेतुना = ( मन्निर्मापितेन सेतुना,मया रचितेन सेतुना। ) विभक्तं = द्विधाकृतम्, अत्यायत सेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं = फेनवन्तं, "फनादिलच्च" ( पा., ४।२।१९ ) इतीलच् प्रत्ययः । क्षिप्रकरी चायमिति भावः । अम्बुराशिम् =  (अम्बूनां जलानां, राशिः= सञ्चयः अम्बुराशिः, तम् = (समुद्रम् ) छायापथेन = (छायायाः कान्त्याः पन्था = मार्गः, इति छायापथः तेन छायापथेन आकाशगङ्गेतिप्रसिद्धेन ) विभक्तं = द्विधाकृतम्। शरत्प्रसन्नं = ( शरदि शरदूतौ प्रसन्नं =  स्वच्छं ) आविष्कृतचारुतारम् = ( आविष्कृताः चारुताराः यस्मिन् तम् = (प्रकटितदिव्यनक्षत्र समूहम् , प्रकटितशोभनतारकम्) आकाशम् = = गगनम्, नभः । इव = उपमार्थक पदम् इदम्। पश्य = ( विलोकय, अवलोकय ) मम महानयं प्रयास = स्त्वदर्थ इति हृदयम् । छायापथो नाम ज्योतिश्चक्रमध्यवर्ती काश्चित्तिरश्चीनोऽवकाशः ॥ २ ॥

सीते! मलयगिरिपर्यन्तं मन्निर्मितसेतुना द्विधा कृतम् इमं फेनवन्तं आकाशगङ्गया विभक्तं शरनिर्मलं प्रस्फुट-रम्यनक्षत्रं नील नभोमण्डलमिवरावणात् तव उद्धाराय सागरमवलोकया उपमालङ्कारःइन्द्रवज्रा छन्दः । 

कोश: -

फेन: = पिण्डीरोऽब्धिकफः फेन:।

शरत् = स्यादृतौ वत्सरे शरत् ।

प्रसन्नः = प्रसन्नोऽच्छः ।

आकाशम् = वा तु पुंस्याकाश विहायसी ।

चारु = सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।

तारा = नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वाऽस्त्रियाम् । इत्यमरः ।

सन्धि-परिचयः

पश्य + आमलयात् = पश्यामलयात् - स्वरसन्धिः, सवर्णदीर्घः।

आमलयात् + विभक्तम् = आमलयाद्विभक्तम् - व्यञ्जनसन्धिः, जश्त्वम्।

छायापथेन + इव = छायापथेनेव - स्वरसन्धिः , गुणः।

आविः + कृतम् = आविष्कृतम् - विसर्गसन्धिः, सत्वं,षत्वम्।

समास-परिचय:

मत्सेतुना - मम सेतुना इति षष्ठीतत्पुरुषः।

अम्बुराशिम् - अम्बूनां राशिः इति षष्ठीतत्पुरुषः।

छायापथेन - छायायाः पथा इति - षष्ठीतत्पुरुषः।

आविष्कृतचारुतारम् - आविष्कृता चारुताराः यस्मिन् येन वा इति बहुव्रीहिः।

गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।

तदर्थमुर्वीमवधारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ 3॥

 अन्वयःयियक्षोः, गुरोः, मेध्ये, तुरङ्गे, कपिलेन, रसातलं, सङ्क्रमिते ( सति ), तदर्थम् उर्वीम् अवदारयद्भिः नः, पूर्वैः, अयं, परिवर्धितः किल ।

व्याख्या - गुरोरिति । यियक्षोः ( यष्टुमिच्छति यियक्षतीति यियक्षुः, अश्वमेधयज्ञं कर्तुं इच्छुकस्य। (तस्य) = यष्टुमच्छोः । यजेः सन्नन्तात् उप्रत्ययः । गुरोः = पितुः सगरस्य । मेध्ये = अश्वमेधयज्ञीये । तुरङ्गे = अश्वे कपिलेन = ( तन्नामकेन) मुनिना । रसातलं = पातालं । सङ्क्रमिते = (नीते) सति। तदर्थं (तस्मै अश्वाय इति तदर्थ = तदन्वेषणायेत्यर्थः, अश्वार्थम्। उर्वीं = (पृथ्वीं) । अवदारयद्भिः = खनद्भिः। नः = अस्माकं । पूर्वैः = वृद्धैः, पूर्वजैः सगरसुतैः । अयं = समुद्रः। परवर्धित = वृ्द्धिं प्रापितः।  किल = "किल" = इत्यैतिह्ये, निश्चयेन । अतो नः पूज्य इति भावः । यद्यपि तुरङ्गहारी इन्द्रस्तथापि तस्य कपिलसमीपे दर्शनात् स एवेति तेषां संभ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ॥ ३ ।।

सन्धि-परिचयः

गुरोः + यियक्षोः = गुरोर्यियक्षोः - विसर्गसन्धिः, रुत्वम्।

तत् + अर्थम् = तदर्थम् - व्यञ्जनसन्धिः, जश्त्वम्।

किल + अयम् = किलायम् - स्वरसन्धिः, सवर्णदीर्घः।

परिवर्धितः + नः = परिवर्धितो नः - विसर्गसन्धिः , उत्वम्।

 धातु-प्रत्ययादि- पद-परिचयः

यियक्षोः - यज् धातुः + सन् + उ प्रत्ययः - (पुं. 6/1)

सङ्क्रमिते - सम् + क्रम् धातुः + क्तप्रत्ययः- (पुं. 7/1)

अवदारयद्भिः - अव + दृ धातुः (णिजन्तः) + शतृ – (पुं. 3/3)

परिवर्धितः - परि + वृध् + धातुः (णिजन्तः) + क्तप्रत्यः- (पुं. 1/1) 

गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।

अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ 4॥

 अन्वयः-- अर्कमरीचयः, अस्मात्, गर्भं, दधति, अत्र, वसूनि, विवृद्धिम्, अश्नुवते असौ, अबिन्धनं, वह्नि, विभेति, अनेन, प्रह्लादनं, ज्योतिः, अजनि ।

व्याख्या -  गर्भमिति । अर्कमरीचयः  अर्कस्य मरीचयः = सूर्यरश्मयः । अस्मात् = सागरात् । गर्भम् = अन्तः पूर्णताम् । दधति (धारयन्ति) वृष्ट्यर्थमित्यर्थः । अयमर्थो दशमसर्गे 'ताभिर्गर्भ:' इत्यत्र स्पष्टीकृतः अयं लोकोपकारीति भावः । अत्र = सागरे, वसूनि = धनानि धने रत्ने वसु स्मृतम्इति विश्वः । विवृद्धिम् = वर्द्धनम्। अश्नुवते = प्राप्नुवन्ति संपद्वानित्यर्थः । असौ ( अविन्धनं ) आपः = जलानि । इन्धनं = दाह्यं यस्य तद्दाहकं, वह्नि = अग्निम्। बिभर्ति = धारयति।अपकारेऽप्याश्रितं न त्यजतीति भावः । अनेन प्रह्लादनं ( प्र + ह्लाद + ल्यु) = आह्लादकं ज्योतिः । अजनि = जनितम् ।। जनेर्ण्यन्तात्कर्मणि लुङ् । सौम्य इति भावः ॥ ४ ॥

सन्धि-परिचयः

दधति + अर्कमरीचयः = दधत्यर्कमरीचयः - स्वरसन्धिः , यण्।

मरीचयः + अस्मात् = मरीचयोऽस्मात् - विसर्गसन्धिः, उत्वम्।

अस्मात् + विवृद्धिम् = अस्माद्विवृद्धिम् - व्यञ्जनसन्धिः, जश्त्वम्।

अत्र + अश्नुवते = अत्राश्नुवते - स्वरसन्धिः , सवर्णदीर्घः।

अप् + इन्धनम् = अबिन्धनम् - व्यञ्जनसन्धिः , जश्त्वम्।

ज्योतिः + अजनि = ज्योतिरजनि - विसर्गसन्धिः, रुत्वम्।

अजनि + अनेन = अजन्यनेन - स्वरसन्धिः , यण्।

 धातु-प्रत्ययादि- पद-परिचयः

दधति - धा-धातु: + लट् - प्र. पु. बहुवचन।

विवृद्धिम् - वि + वृध्-धातुः + क्तिन् - (स्त्री. 2/1)

अश्रुवते - अश् धातु: + लट् - प्र. पु. एकवचन।

प्रह्लादनम् = प्र + ह्राद्-धातुः + ल्युट् - (नपुं. 1/1)

बिभर्ति- भृ-धातुः + लट् - प्र. पु. एकवचन

अजनि - जन् धातु : (णिजन्तः) लुङ् (कर्मणि)- प्र. पु. एकवचन।

समास-परिचय:

अर्कमरीचयः - अर्कस्य मरीचयः इति षष्ठीतत्पुरुषः।

अबिन्धनम् - आपः इन्धनं यस्य तम् इति बहुव्रीहिः।

तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।

विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ 5॥

 अन्वयः - तां ताम् अवस्थां प्रतिपद्यमानं महिम्रा दश दिशः व्याप्य स्थितं विष्णो: (रूपम्) इव अस्य रूपम् ईदृक्तया इयत्तया वा अनवधारणीयम्।

व्याख्या - तां ताम् = अनेकविधाम् अवस्थाम् = अक्षोभादि अवस्थाम्, स्थितिम्। विष्णुपक्षे सत्त्वाद्यवस्थाम् । प्रतिपद्यमानम् = भजमानम् । महिम्ना = स्वमहत्त्वेन, माहात्म्येन । दश दिशः = काष्ठाः। व्याप्य = पूरयित्वा । स्थितम् = वर्तमानम् । विष्णोः = हरेः । इव = यथा । अस्य = सागरस्य । रूपम् = आकारः (स्वरूपम्) उक्तरीत्या बहुप्रकारत्वाद् व्यापकत्वाच्च। ईदृक्तया = एतादृक्तया । इयत्तया = एतावत्वेन । वा = अथवा । अनवधारणीयम् = अकल्पनीयम् । प्रकारतः परिमाणतश्च दुर्निरूपणीयमस्तीति भावः ।

भावार्थः-

अयं सागरः अनेकविधाम् अवस्थाम् प्राप्य तथैव स्थितमस्ति यथा विष्णुर्यथा दिव्यतेजसा दशदिशो व्याप्य तिष्ठति । एषः समुद्रोऽपि दशसु दिक्षु विस्तृतिं प्राप्य तिष्ठति। अनेन कविना पयोधेः महामहिमत्वं विश्व वन्दनीयत्वं च सूचितम् । उपमालङ्कारः, उपजातिवृत्तञ्च ।

सन्धि परिचयः-

वि + आप्य = व्याप्य - स्वरसन्धिः, यण् ।

दिशः + महिम्ना = दिशोमहिम्ना - विसर्गसन्धिः, उत्वम् ।

विष्णोः + इव = विष्णोरिव - विसर्गसन्धिः, रुत्वम् ।

इव + अस्य = इवास्य - स्वरसन्धिः, सवर्णदीर्घः।

अस्य + अनवधारणीयम् = अस्यानवधारणीयम् - स्वरसन्धिः, सर्वणदीर्घः।

धातु-प्रत्ययादि- पद- परिचयः-

प्रतिपद्यमानम् - प्रति + पद्धातुः + शानच् – (नपुं. 1/1)

व्याप्य - वि + आप्-धातुः + ल्यप् - अव्यय प्रत्ययः ।

स्थितम् – स्था धातुः + क्तप्रत्ययः – (नपुं. 1/1)

महिम्ना – महत् + इमनिच् प्रत्ययः – (नपुं. 1/1)

अनवधारणीयम् नञ् (अ) + अव धृ धातुः (णिजन्तः) + अनीयर् – (नपुं. 1/1)

ईदूक्तया - ईदृश् + तल् प्रत्ययः (तद्धितः) (स्त्री. 3/1)

इयत्तया - इयत् + तल् प्रत्ययः (तद्धितः) (स्त्री. 3/1)

समास परिचयः-

अनवधारणीयम् न अवधारणीयम् इति न तत्पुरुषः ।


नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।

अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ 6॥

 

पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः ।

नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ 7॥

अन्वयः - पक्षच्छिदा, गोत्रभिदाआत्तगन्धाः, शतशः, शरण्यम्, एनं, परेभ्यः उपप्लविनः, नृपाः, धर्मोत्तरं, मध्यमम्, इव, आश्रयन्ते ॥

व्याख्या - पक्षच्क्षिदेति । पक्षच्छिदा = पक्षच्छेदकारिणा,  गोत्रभिदा = इन्द्रेण, आत्तगन्धाः = हृतगर्वाः, अभिभूता इत्यर्थः, शतशः  =  शतं - शतं । शरण्यम्  रक्षणसमर्थम् । एनं  परेभ्यः शत्रुभ्यः । उपप्लविनः भयवन्तः । नृपाः = राजानः। धर्मोत्तरं = धर्मप्रधानम् ।  मध्यमम् = मध्यमभूपालम् । इव = समानं । आश्रयन्ते = आश्रयं कुर्वन्ति ।

भावार्थ:- शतशः पर्वताः इन्द्रेण हृतगर्वाः परेभ्यः शत्रुभ्यः रक्षणसमर्थं भयवन्तः राजानः धर्मप्रधानं राजानं आश्रयं कुर्वन्ति ।

सन्धि-परिचयः

पक्ष + छिदा = पक्षच्छिदा - व्यञ्जनसन्धिः, तुक्, श्चुत्वम्।

शतशः + महीध्राः = शतशो महीध्राः - विसर्गसन्धिः, उत्वम्।

नृपाः + इव = नृपा इव - विसर्गसन्धिः , विसर्गलोपः।

इव + उपप्लविनः = इवोपप्लविनः - स्वरसन्धिः, गुणः।

धर्म + उत्तरम् = धर्मोत्तरम् - स्वरसन्धिः , गुणः।

परेभ्यः + धर्मोत्तरम् = परेभ्यो धर्मोत्तरम् - विसर्गसन्धिः , उत्वम्।

धातु-प्रत्ययादि- पद- परिचयः-

पक्षच्छिदा - पक्ष + छिद् धातुः + क्विप् - पं. तु. ए. व.।

आत्तः - आङ् + दाधातुः + क्तप्रत्ययः - पुं. प्र. ए. व.।

शरण्यम् - शरण + यत् प्रत्ययः (तद्धितः)- पुं. द्वि. ए. व.।

शतशः - शत + शस् प्रत्ययः (तद्धितः) - अव्ययप्रत्ययः।

उपप्लविनः - उपप्लव + इनि प्रत्ययः (तद्धितः)- पुं. प्र. ब. व.।

समास-परिचयः

पक्षच्छिदा - पक्षान् छिनत्ति इति पक्षच्छित् तेन इति उपपद-तत्पुरुषः।

गोत्रभिदा - गोत्रं भिनीत्ति इति गोत्राभिद् तेन इति उपपद-तत्पुरुषः।

आत्तगन्धाः - आत्तः गन्धः यैः ते इति बहुव्रीहिः।

धर्मोत्तरम् - धर्मः उत्तरः यस्य सः, तम् इति-बहुव्रीहिः। 

कोश:-  गरुत्पक्षच्छदा पत्रं पतत्रं च तनूरुहम्। 

'सुत्रामा गोत्रभिद्वज्री बासबो वृत्रहा बुषा

'शरणं गृहरक्षित्रोः

'महोध्रे शिखरिक्ष्माभृद्

'नृपभूप महोक्षितः

'दुरानात्मोत्तमाः परा:

'धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।

'उपर्युदीच्यश्रेषेठेष्वप्युत्तरः' इत्यमरः । 

 [पक्षं छिनत्तीति पक्षच्छिद्तेन— पक्षशातनपरेण]] [गोत्रं भिनतीति गोत्रभिद्तेन] भय "मासूटिव - " (पा० ३।२।६१) इत्यादिना विवत्[आत्तः गन्धो = येते] "अरेश्च विजिगीयो मध् भूम्यनन्तरः" इति कामन्दकआतंबन्धुरिति भावः ॥ ७ ॥

"गन्धो गन्धक आमोदे ले सम्बन्धगवंथोः" इति विश्वः । आत्त गन्धोऽभिभूतः स्यात्" इत्यमरः । महीं धारयन्तीति महीघ्राः पर्वताःमूल विभुजांदित्वात् प्रत्ययः शतं तं शतशः शरण्यः [शरणे साधुः शरण्यःतम्] ] [ धर्मः उत्तरः यस्य सः त.]

 

रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।

अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव ॥ 8

 

मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।

अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धुः ॥ 9॥

 

ससत्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् ।

अमी शिरोभिस्तिमयः सरन्ध्रैरूध्वं वितन्वन्ति जलप्रवाहान् ॥ 10॥

पाठान्तरम्- (विवृताननत्वम्)

 

मातंगनक्रैः सहसोत्पतद्भिर्भिन्नान् द्विधा पश्य समुद्रफेनान् ।

कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ 11॥

 

वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः ।

सूर्यांशुसंपर्कविवृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ 12॥

 

तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।

ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥ 13॥

 

प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद् भ्रमता घनेन ।

आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ 14॥

 

दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।

आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥ 15॥

 

वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।

मामक्षमं मण्डलकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ 16

 

एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।

प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ 17

 

कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् ।

एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ 18

 

क्वचित् पथा संचरते सुराणां क्वचिद् घनानां पततां क्वचिच्च ।

यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ 19॥

 

असौ महेन्द्र-द्विप-दानगन्धिस्त्रिमार्गगा-वीचि-विमर्द-शीतः ।

आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान् मुखे ते ॥ 20॥

 

करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि (तन्वि) कुतूहलिन्या ।

आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ 21॥

 

अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।

अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ 22॥

 

सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।

अदृष्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ 23॥

 

त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे ।

अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ 24॥

 

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन् माम् ।

व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ 25॥

एतद् गिरेर्माल्यवतः पुरस्तादाविर्भत्यम्बरलेखि शृङ्गम् ।

नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ 26॥

 

गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च ।

स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥ 27॥

 

पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् ।

गुहाविसारीण्यतिवाहितानि मया कथंचिद् घनगर्जितानि ॥ 28॥

 

आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।

विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ 29॥

 

उपान्तवानीर-वनोपगूढा-न्यालक्षपारिप्लव-सारसानि ।

दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ 30॥

 

अत्रावियुक्तानि रथङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।

द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्मितमीक्षितानि ॥ 31॥

 

इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् ।

त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥ 32॥

 

अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।

प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥ 33॥

 

एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।

आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ 34॥

 

अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः ।

रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ 35॥

 

भ्रू-भेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।

तस्याविलाम्भःपरिशुद्धिहेतोर्भौमो मुनेः स्थानपरिग्रहोऽयम् ॥ 36॥

 

त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्त-विमान-मार्गम् ।

घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ 37॥

 

एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।

आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ 38॥

 

पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।

समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ 39॥

 

तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।

वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥ 40॥

 

हविर्भुजामेधवतां चतुर्णां मध्ये ललाटन्तपसप्तसप्तिः ।

असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ 41॥

 

अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।

नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ 42॥

 

एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।

सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ 43॥

 

वाचंयमत्वात्प्रणतिं ममैष कम्पेन किञ्चित् प्रतिगृह्य मूर्ध्नः ।

दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि सन्निधत्ते ॥ 44॥

 

अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।

चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ 45॥

पदपरिचयः

अदः आहिताग्नेः शरभङ्गनाम्नः (६।१) पावनं तपोवनं शरण्यम् (२।१) यः (१।१) चिराय (४।१) समिद्भिः (३।१) अग्निं (२।१) सन्तर्प्य (अ॰) मन्त्रपूतां तनुम् (स्त्री॰ २।१) अपि (अ॰) अहौषीत् (हु दानादयोः आदाने च लुङ् प्र॰ एक॰) ।

 

छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।

तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ 46॥

 

धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाङ्गलग्नाम्बुद-वप्र-पङ्कः ।

बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ 47॥

 

एषा प्रसन्नस्तिमितप्रवाहा सरिद् विदूरान्तरभावतन्वी ।

मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ 48॥

 

अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।

यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥ 49॥

 

अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात् फलबन्धिवृक्षम् ।

वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥ 50॥

 

अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।

प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ 51॥

 

वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः ।

निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ 52॥

 

त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।

राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥ 53॥

 

क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा ।

अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ 54॥

 

क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः ।

अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ 55॥


क्वचित् प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।

अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा ॥ 56॥

 

क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।

पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ 57॥

 

समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।

तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ 58॥

 

पुरं निषादाधिपतेरिदं तद् यस्मिन् मया मौलिमणिं विहाय ।

जटासु बद्धास्वरुदत् सुमन्त्रः कैकेयि कामाः फलितास्तवेति ॥ 59॥

 

पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।

ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ 60॥

 

जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् ।

तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ 61॥

 

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।

सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ 62॥

 

सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।

दूरे वसन्तं शिशिरानिलैर्मां तरंगहस्तैरुपगूहतीव ॥ 63॥

 

विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवमुज्जिहीते ।

शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ 64॥

 

अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।

हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ 65॥

 

असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।

वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणिर्भरतोऽप्युपैति ॥ 66॥

 

पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता ।

इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ 67॥

 

एतावदुक्तवति दाशरथौ तदीया-

मिच्छां विमानमधिदेवतया विदित्वा ।

ज्योतिष्पथादवतार सविस्मयाभि-

रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ 68॥

 

तस्मात्पुरःसरविभीषणदर्शनेन

सेवाविचक्षणहरीश्वरदत्तहस्तः ।

यानादवातरददूरमहीतलेन

मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ 69॥

 

इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य

स भ्रातरं भरतमर्घ्यपरिग्रहान्ते ।

पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ

तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ 70॥

 

श्मश्रुप्रवृद्धिजनिताननविक्रियाँश्च

प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।

अन्वग्रहीत् प्रणवतः शुभदृष्टिपातै-

र्वातानुयोगमधुराक्षरया च वाचा ॥ 71॥

 

दुर्जातबन्धुरयमृक्षहरीश्वरो मे

पौलस्त्य एष समरेषु पुरःप्रहर्ता ।

इत्यादृतेन कथितौ रघुनन्दनेन

व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ 72॥

 

सौमित्रिणा तदनु संससृजे स चैन-

मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।

रूढेन्द्रजित्प्रहरणव्रणकर्कशेन

क्लिश्यन्निवास्य भुजमध्यमुरस्थलेन ॥ 73॥

 

रामाज्ञया हरिचमूपतयस्तदानीं

कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।

तेषु क्षरत्सु बहुधा मदवारिधाराः

शैलाधिरोहणसुखान्युपलेभिरे ते ॥ 74॥

 

सानुप्लवः प्रभुरपि क्षणदाचराणां

भेजे रथान् दशरथप्रभवानुशिष्टः ।

मायाविकल्परचितैरपि ये तदीयै-

र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ 75॥

 

भूयस्ततो रघुपतिर्विलसत्पताक-

मध्यास्त कामगति सावरजो विमानम् ।

दोषातनं बुधबृहस्पतियोगदृश्य-

स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥ 76॥

 

तत्रेश्वरेण जगतां प्रलयादिवोर्वीं

वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।

रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्-

            प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ 77॥

 

लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्-

वन्द्यं युगं चरणयोर्जनकात्मजायाः ।

जेष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो-

रन्योन्यपावनमभूदुभयं समेत्य ॥ 78॥


क्रोशार्धं प्रकृतिपुरःसरेण गत्वा

काकुत्स्थः स्तिमितजवेन पुष्पकेण ।

शत्रुघ्नप्रतिविहितोपकार्यमार्यः

साकेतोपवनमुदारमध्युवास ॥ 79॥

 

इति श्रीकविकालिदासकृतौ रघुवंशे महाकाव्ये  

साकेतप्रत्यागमनो नाम त्रयोदशः सर्गः ॥


Share:

अनुवाद सुविधा

Pages

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

© संस्कृतभाषी | जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (19) आधुनिक संस्कृत साहित्य (5) आयुर्वेद (1) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (50) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (23) काव्यशास्त्र (27) काव्यशास्त्रकार (1) किरातार्जुनीयम् (3) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (13) क्त्वा (1) गंगा (1) गया (1) गाय (1) गीति काव्य (2) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (3) नाथ पंथ (8) नायिका (2) नीति (3) न्याय शास्त्र (1) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाणिनीय पद-शिल्प (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (7) प्रत्यभिज्ञा शास्त्र (1) प्रत्यय (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (3) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भारतीय दर्शन (1) भाषा (3) भाषा प्रौद्योगिकी (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) मेघदूतम् (1) योग (5) योग दिवस (2) रघुवंशम् (6) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाक्यशिल्पी (2) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (33) वैशेषिक (1) व्याकरण (53) व्यास (2) व्रत (2) शंकाराचार्य (2) शब्दकोश (3) शरद् (1) शैव दर्शन (2) श्लोक चक्र (1) श्लोकसंधानम् (3) श्लोकान्त्याक्षरी (4) संख्या (1) संचार (1) संस्कार (19) संस्कृत (16) संस्कृत आयोग (1) संस्कृत ऐप (5) संस्कृत कथा (11) संस्कृत गीतम्‌ (56) संस्कृत टूल्स (1) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (2) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (8) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Online Sanskrit Game (1) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit Competition (1) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Shlokantyakshari (2) Shlokasandhanam (1) Student Contest (2) UGC NET/ JRF (4)