अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
रत्नाकरं
वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥1॥
अन्वयः- अथ गुणज्ञः सः रामाभिधानः हरिः शब्दगुणम् आत्मनः पदं विमानेन विगाहमानः रत्नाकरं वीक्ष्य मिथः जायाम् इति उवाच ।
व्याख्या- अथेति। अथ = लङ्कातः अयोध्यां प्रति प्रस्थानानन्तरम्। जानातीति ज्ञः। इगुपधज्ञाप्रीकिरः कः इत्यनेन कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। गुणज्ञः = गुणं जानाति इति गुणज्ञः, गुणवेत्ता। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। सः = सुप्रसिद्धः। रामाभिधानः = रामनामकः। हरिः = भगवान् विष्णुः। शब्दो गुणो यस्य तच्छब्दगुणं = आकाशम्।आत्मनः = स्वस्य। पदम् = स्थानम् विष्णुपदम्, आकाशमित्यर्थः। वियद्विष्णुपदमित्यमरः। शब्दगुणकमाकाशमिति तार्किकाः। विमानेन = पुष्पकविमानेन। विगाहमानः = प्लवमानः सन्। रत्नाकरं = समुद्रं। वीक्ष्य = विलोक्य, दृष्ट्वा।मिथः = रहसि। मिथोऽन्योन्यं हरस्यपि इत्यमरः। जायां = पत्नीं सीताम् । इति = एवम्, वक्ष्यमानप्रकारेण। उवाच = अकथयत्। रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम्।।१।।
छन्दः
अत्र उपजातिः
छन्दः । इन्द्रवज्रा, उपेन्द्रवज्रा च इत्यनयोः मिश्रणात् उपजातिः छन्दः सञ्जायते
। यस्य श्लोकस्य कश्चिद् एकः पादः इन्द्रवज्रायाः तथा अन्यः पादः उपेन्द्रवज्रायाः भवति तदा उपजातिः छन्दः भवति।
अर्थात् यस्मिन् श्लोके द्वौ पादौ भिन्नं भिन्नं छन्दसः भवति तदा उभयोः मिश्रणं
कृत्वा सम्पूर्णश्लोकः उपजातिछन्दसः भवति।
इन्द्रवज्रायाः
लक्षणम् -
स्यादिन्द्रवज्रा
यदि तौ जगौ गः इति इन्द्रवज्रा ॥
तगणः तगणः
जगणः गुरुद्वयं चेति।
उपेन्द्रवज्रायाः
लक्षणम्-
उपेन्द्रवज्रा
जतजास्ततो गौ इति उपेन्द्रवज्रा॥
जगणः तगणः
जगणः गुरुद्वयं चेति।
श्लोकेऽस्मिन्
चत्वारः पादाः सन्ति-
यदा उभयोः मिश्रणं
भवति तदा एव उपजातिः सम्भवति इति। अन्यथा इन्द्रवज्रा तथा च उपेन्द्रवज्रा भवति
अस्मिन् त्रयोदशे सर्गे सप्तषष्टितम-पद्य-पर्यन्तं उपजातिः छन्दः अस्ति।
व्याकरणम्
सन्धि-परिचयः
अथ + आत्मनः =
अथात्मनः - सवर्णदीर्घसन्धिः।
रत्न + आकरम्
= रत्नाकरम् - सवर्णदीर्घसन्धिः।
सः + जायाम् =
स जायाम् - विसर्गसन्धिः, विसर्गलोपः।
राम + अभिधानः
= रामाभिधानः - सवर्णदीर्घसन्धिः।
रामाभिधानः +
हरिः = रामाभिधानो हरिः - विसर्गसन्धिः, उत्वम्।
हरिः + इति =
हरिरिति- विसर्गसन्धिः, रुत्वम्।
इति + उवाच = इत्युवाच - यण् सन्धिः।
धातु-प्रत्ययादि- पद-परिचयः
विगाहमानः -
वि + गाह् विलोडने धातुः + शानच् – पु. प्र. ए. व.।
वीक्ष्य - वि
+ ईक्ष् दर्शने धातुः + ल्यप् - अव्ययप्रत्ययः।
समास-परिचयः-
शब्दगुणम् - शब्दः गुणः यस्य तत् – बहुव्रीहिः।
गुणज्ञः - गुणानां ज्ञः इति – षष्ठीतत्पुरुषः।
रत्नाकरः - रत्नानाम् आकरः - षष्ठीतत्पुरुषः। तं रत्नाकरम्।
रामाभिधानः - 'राम' इति अभिधानं यस्य सः इति-बहुव्रीहिः।
वैदेहि पश्यामलयाद्
विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव
शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ 2॥
अन्वयः - हे वैदेहि ! आमलयात् मत्सेतुना विभक्तं फेनिलम् अम्बुराशिं छायापथेन विभक्तम् शरत्प्रसन्नम्, आविष्कृतचारुतारम्, आकाशम् इव पश्य।
व्याख्या- वैदेहोति । हे वैदेहि = सीते ! ( मलयम् अभिव्याप्य इति ) आमलयात् = मलयगिरिपर्यन्तम्, “पञ्चम्यपाङ्परिभिः" ( पा. ३।३।१० ) इति पञ्चमी । पदद्वयं चैतत् । ( मम सेतुः मत्सेतुः, तेन ) मत्सेतुना = ( मन्निर्मापितेन सेतुना,मया रचितेन सेतुना। ) विभक्तं = द्विधाकृतम्, अत्यायत सेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं = फेनवन्तं, "फनादिलच्च" ( पा., ४।२।१९ ) इतीलच् प्रत्ययः । क्षिप्रकरी चायमिति भावः । अम्बुराशिम् = (अम्बूनां जलानां, राशिः= सञ्चयः अम्बुराशिः, तम् = (समुद्रम् ) छायापथेन = (छायायाः कान्त्याः पन्था = मार्गः, इति छायापथः तेन छायापथेन आकाशगङ्गेतिप्रसिद्धेन ) विभक्तं = द्विधाकृतम्। शरत्प्रसन्नं = ( शरदि शरदूतौ प्रसन्नं = स्वच्छं ) आविष्कृतचारुतारम् = ( आविष्कृताः चारुताराः यस्मिन् तम् = (प्रकटितदिव्यनक्षत्र समूहम् , प्रकटितशोभनतारकम्) आकाशम् = = गगनम्, नभः । इव = उपमार्थक पदम् इदम्। पश्य = ( विलोकय, अवलोकय ) मम महानयं प्रयास = स्त्वदर्थ इति हृदयम् । छायापथो नाम ज्योतिश्चक्रमध्यवर्ती काश्चित्तिरश्चीनोऽवकाशः ॥ २ ॥
सीते! मलयगिरिपर्यन्तं मन्निर्मितसेतुना द्विधा कृतम् इमं फेनवन्तं आकाशगङ्गया विभक्तं शरनिर्मलं प्रस्फुट-रम्यनक्षत्रं नील नभोमण्डलमिव, रावणात् तव उद्धाराय सागरमवलोकया उपमालङ्कारः, इन्द्रवज्रा छन्दः ।
कोश: -
फेन: = पिण्डीरोऽब्धिकफः फेन:।
शरत् = स्यादृतौ वत्सरे शरत् ।
प्रसन्नः = प्रसन्नोऽच्छः ।
आकाशम् = वा तु पुंस्याकाश विहायसी ।
चारु = सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।
तारा = नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वाऽस्त्रियाम् ।
इत्यमरः ।
सन्धि-परिचयः
पश्य + आमलयात् = पश्यामलयात् - स्वरसन्धिः, सवर्णदीर्घः।
आमलयात् + विभक्तम् = आमलयाद्विभक्तम् - व्यञ्जनसन्धिः,
जश्त्वम्।
छायापथेन + इव = छायापथेनेव - स्वरसन्धिः , गुणः।
आविः + कृतम् = आविष्कृतम् - विसर्गसन्धिः, सत्वं,षत्वम्।
समास-परिचय:
मत्सेतुना - मम सेतुना इति षष्ठीतत्पुरुषः।
अम्बुराशिम् - अम्बूनां राशिः इति – षष्ठीतत्पुरुषः।
छायापथेन - छायायाः पथा इति - षष्ठीतत्पुरुषः।
आविष्कृतचारुतारम् - आविष्कृता चारुताराः यस्मिन् येन वा इति बहुव्रीहिः।
गुरोर्यियक्षोः
कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।
तदर्थमुर्वीमवधारयद्भिः
पूर्वैः किलायं परिवर्धितो नः ॥ 3॥
व्याख्या - गुरोरिति । यियक्षोः ( यष्टुमिच्छति यियक्षतीति यियक्षुः, अश्वमेधयज्ञं कर्तुं इच्छुकस्य। (तस्य) = यष्टुमच्छोः । यजेः सन्नन्तात् उप्रत्ययः । गुरोः = पितुः सगरस्य । मेध्ये = अश्वमेधयज्ञीये । तुरङ्गे = अश्वे कपिलेन = ( तन्नामकेन) मुनिना । रसातलं = पातालं । सङ्क्रमिते = (नीते) सति। तदर्थं (तस्मै अश्वाय इति तदर्थ = तदन्वेषणायेत्यर्थः, अश्वार्थम्। उर्वीं = (पृथ्वीं) । अवदारयद्भिः = खनद्भिः। नः = अस्माकं । पूर्वैः = वृद्धैः, पूर्वजैः सगरसुतैः । अयं = समुद्रः। परवर्धित = वृ्द्धिं प्रापितः। किल = "किल" = इत्यैतिह्ये, निश्चयेन । अतो नः पूज्य इति भावः । यद्यपि तुरङ्गहारी इन्द्रस्तथापि तस्य कपिलसमीपे दर्शनात् स एवेति तेषां संभ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ॥ ३ ।।
सन्धि-परिचयः
गुरोः + यियक्षोः = गुरोर्यियक्षोः
- विसर्गसन्धिः, रुत्वम्।
तत् + अर्थम् = तदर्थम् -
व्यञ्जनसन्धिः, जश्त्वम्।
किल + अयम् = किलायम् -
स्वरसन्धिः, सवर्णदीर्घः।
परिवर्धितः + नः =
परिवर्धितो नः - विसर्गसन्धिः , उत्वम्।
धातु-प्रत्ययादि- पद-परिचयः
यियक्षोः - यज् धातुः + सन् + उ प्रत्ययः - (पुं. 6/1)
सङ्क्रमिते - सम् + क्रम् धातुः + क्तप्रत्ययः- (पुं. 7/1)
अवदारयद्भिः - अव + दृ
धातुः (णिजन्तः) + शतृ – (पुं. 3/3)
परिवर्धितः - परि + वृध् +
धातुः (णिजन्तः) + क्तप्रत्यः- (पुं. 1/1)
गर्भं
दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
अबिन्धनं
वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ 4॥
व्याख्या - गर्भमिति । अर्कमरीचयः अर्कस्य मरीचयः = सूर्यरश्मयः । अस्मात् = सागरात् । गर्भम् = अन्तः पूर्णताम् । दधति (धारयन्ति) वृष्ट्यर्थमित्यर्थः । अयमर्थो दशमसर्गे 'ताभिर्गर्भ:' इत्यत्र स्पष्टीकृतः अयं लोकोपकारीति भावः । अत्र = सागरे, वसूनि = धनानि “धने रत्ने वसु स्मृतम्” इति विश्वः । विवृद्धिम् = वर्द्धनम्। अश्नुवते = प्राप्नुवन्ति संपद्वानित्यर्थः । असौ ( अविन्धनं ) आपः = जलानि । इन्धनं = दाह्यं यस्य तद्दाहकं, वह्नि = अग्निम्। बिभर्ति = धारयति।अपकारेऽप्याश्रितं न त्यजतीति भावः । अनेन प्रह्लादनं ( प्र + ह्लाद + ल्यु) = आह्लादकं ज्योतिः । अजनि = जनितम् ।। जनेर्ण्यन्तात्कर्मणि लुङ् । सौम्य इति भावः ॥ ४ ॥
सन्धि-परिचयः
दधति + अर्कमरीचयः =
दधत्यर्कमरीचयः - स्वरसन्धिः , यण्।
मरीचयः + अस्मात् = मरीचयोऽस्मात्
- विसर्गसन्धिः, उत्वम्।
अस्मात् + विवृद्धिम् =
अस्माद्विवृद्धिम् - व्यञ्जनसन्धिः, जश्त्वम्।
अत्र + अश्नुवते =
अत्राश्नुवते - स्वरसन्धिः , सवर्णदीर्घः।
अप् + इन्धनम् = अबिन्धनम्
- व्यञ्जनसन्धिः , जश्त्वम्।
ज्योतिः + अजनि =
ज्योतिरजनि - विसर्गसन्धिः, रुत्वम्।
अजनि + अनेन = अजन्यनेन -
स्वरसन्धिः , यण्।
धातु-प्रत्ययादि- पद-परिचयः
दधति - धा-धातु: + लट् -
प्र. पु. बहुवचन।
विवृद्धिम् - वि + वृध्-धातुः + क्तिन् - (स्त्री. 2/1)
अश्रुवते - अश् धातु: +
लट् - प्र. पु. एकवचन।
प्रह्लादनम् = प्र + ह्राद्-धातुः + ल्युट् - (नपुं. 1/1)
बिभर्ति- भृ-धातुः + लट् -
प्र. पु. एकवचन।
अजनि - जन् धातु : (णिजन्तः) लुङ् (कर्मणि)- प्र. पु. एकवचन।
समास-परिचय:
अर्कमरीचयः - अर्कस्य मरीचयः इति षष्ठीतत्पुरुषः।
अबिन्धनम् - आपः इन्धनं यस्य तम् इति बहुव्रीहिः।
तां तामवस्थां
प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयमीदृक्तया
रूपमियत्तया वा ॥ 5॥
व्याख्या - तां ताम् = अनेकविधाम् अवस्थाम् = अक्षोभादि अवस्थाम्, स्थितिम्। विष्णुपक्षे सत्त्वाद्यवस्थाम् । प्रतिपद्यमानम् = भजमानम्
। महिम्ना = स्वमहत्त्वेन, माहात्म्येन । दश दिशः = काष्ठाः। व्याप्य = पूरयित्वा ।
स्थितम् = वर्तमानम् । विष्णोः = हरेः । इव = यथा । अस्य = सागरस्य । रूपम् =
आकारः (स्वरूपम्) उक्तरीत्या बहुप्रकारत्वाद् व्यापकत्वाच्च। ईदृक्तया =
एतादृक्तया । इयत्तया = एतावत्वेन । वा = अथवा । अनवधारणीयम् = अकल्पनीयम् ।
प्रकारतः परिमाणतश्च दुर्निरूपणीयमस्तीति भावः ।
भावार्थः-
अयं सागरः अनेकविधाम् अवस्थाम् प्राप्य तथैव स्थितमस्ति यथा विष्णुर्यथा दिव्यतेजसा दशदिशो व्याप्य तिष्ठति । एषः समुद्रोऽपि दशसु दिक्षु विस्तृतिं प्राप्य तिष्ठति। अनेन कविना पयोधेः महामहिमत्वं विश्व वन्दनीयत्वं च सूचितम् । उपमालङ्कारः, उपजातिवृत्तञ्च ।
सन्धि परिचयः-
वि + आप्य = व्याप्य -
स्वरसन्धिः, यण् ।
दिशः + महिम्ना = दिशोमहिम्ना
- विसर्गसन्धिः, उत्वम् ।
विष्णोः + इव = विष्णोरिव
- विसर्गसन्धिः, रुत्वम् ।
इव + अस्य = इवास्य - स्वरसन्धिः,
सवर्णदीर्घः।
अस्य + अनवधारणीयम् = अस्यानवधारणीयम्
- स्वरसन्धिः, सर्वणदीर्घः।
धातु-प्रत्ययादि- पद- परिचयः-
प्रतिपद्यमानम् - प्रति +
पद्धातुः + शानच् – (नपुं. 1/1)
व्याप्य - वि + आप्-धातुः +
ल्यप् - अव्यय प्रत्ययः ।
स्थितम् – स्था धातुः +
क्तप्रत्ययः – (नपुं. 1/1)
महिम्ना – महत् + इमनिच्
प्रत्ययः – (नपुं. 1/1)
अनवधारणीयम् नञ् (अ) + अव
धृ धातुः (णिजन्तः) + अनीयर् – (नपुं. 1/1)
ईदूक्तया - ईदृश् + तल्
प्रत्ययः (तद्धितः) (स्त्री. 3/1)
इयत्तया - इयत् + तल्
प्रत्ययः (तद्धितः) (स्त्री. 3/1)
समास परिचयः-
अनवधारणीयम् न अवधारणीयम्
इति न तत्पुरुषः ।
नाभिप्ररूढाम्बुरुहासनेन
संस्तूयमानः प्रथमेन धात्रा ।
अमुं
युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ 6॥
पक्षच्छिदा
गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः ।
नृपा
इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ 7॥
अन्वयः - पक्षच्छिदा, गोत्रभिदा, आत्तगन्धाः, शतशः, शरण्यम्, एनं, परेभ्यः उपप्लविनः, नृपाः, धर्मोत्तरं, मध्यमम्, इव, आश्रयन्ते ॥
व्याख्या - पक्षच्क्षिदेति । पक्षच्छिदा = पक्षच्छेदकारिणा, गोत्रभिदा = इन्द्रेण, आत्तगन्धाः = हृतगर्वाः, अभिभूता इत्यर्थः, शतशः = शतं - शतं । शरण्यम् = रक्षणसमर्थम् । एनं = परेभ्यः शत्रुभ्यः । उपप्लविनः भयवन्तः । नृपाः = राजानः। धर्मोत्तरं = धर्मप्रधानम् । मध्यमम् = मध्यमभूपालम् । इव = समानं । आश्रयन्ते = आश्रयं कुर्वन्ति ।
भावार्थ:- शतशः पर्वताः इन्द्रेण हृतगर्वाः परेभ्यः शत्रुभ्यः रक्षणसमर्थं भयवन्तः राजानः धर्मप्रधानं राजानं आश्रयं कुर्वन्ति ।
सन्धि-परिचयः
पक्ष + छिदा =
पक्षच्छिदा - व्यञ्जनसन्धिः, तुक्, श्चुत्वम्।
शतशः +
महीध्राः = शतशो महीध्राः - विसर्गसन्धिः, उत्वम्।
नृपाः + इव =
नृपा इव - विसर्गसन्धिः , विसर्गलोपः।
इव +
उपप्लविनः = इवोपप्लविनः - स्वरसन्धिः, गुणः।
धर्म +
उत्तरम् = धर्मोत्तरम् - स्वरसन्धिः , गुणः।
परेभ्यः +
धर्मोत्तरम् = परेभ्यो धर्मोत्तरम् - विसर्गसन्धिः , उत्वम्।
धातु-प्रत्ययादि-
पद- परिचयः-
पक्षच्छिदा -
पक्ष + छिद् धातुः + क्विप् - पं. तु. ए. व.।
आत्तः - आङ् +
दाधातुः + क्तप्रत्ययः - पुं. प्र. ए. व.।
शरण्यम् - शरण
+ यत् प्रत्ययः (तद्धितः)- पुं. द्वि. ए. व.।
शतशः - शत +
शस् प्रत्ययः (तद्धितः) - अव्ययप्रत्ययः।
उपप्लविनः -
उपप्लव + इनि प्रत्ययः (तद्धितः)- पुं. प्र. ब. व.।
समास-परिचयः
पक्षच्छिदा -
पक्षान् छिनत्ति इति पक्षच्छित् तेन इति उपपद-तत्पुरुषः।
गोत्रभिदा - गोत्रं भिनीत्ति इति गोत्राभिद् तेन इति उपपद-तत्पुरुषः।
आत्तगन्धाः -
आत्तः गन्धः यैः ते इति बहुव्रीहिः।
धर्मोत्तरम् -
धर्मः उत्तरः यस्य सः, तम् इति-बहुव्रीहिः।
कोश:- गरुत्पक्षच्छदा पत्रं पतत्रं च तनूरुहम्।
'सुत्रामा गोत्रभिद्वज्री बासबो वृत्रहा बुषा'
'शरणं गृहरक्षित्रोः'
'महोध्रे शिखरिक्ष्माभृद्'
'नृपभूप महोक्षितः'
'दुरानात्मोत्तमाः परा:'
'धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
'उपर्युदीच्यश्रेषेठेष्वप्युत्तरः' इत्यमरः ।
[पक्षं छिनत्तीति पक्षच्छिद्, तेन— पक्षशातनपरेण]] [गोत्रं भिनतीति गोत्रभिद्, तेन] भय "मासूटिव - " (पा० ३।२।६१) इत्यादिना विवत्, [आत्तः गन्धो = येते] "अरेश्च विजिगीयो मध् भूम्यनन्तरः" इति कामन्दक, आतंबन्धुरिति भावः ॥ ७ ॥
रसातलादादिभवेन
पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छमम्भः
प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव ॥ 8॥
मुखार्पणेषु
प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः
पिबत्यसौ पाययते च सिन्धुः ॥ 9॥
ससत्वमादाय
नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् ।
अमी शिरोभिस्तिमयः
सरन्ध्रैरूध्वं वितन्वन्ति जलप्रवाहान् ॥ 10॥
पाठान्तरम्- (विवृताननत्वम्)
मातंगनक्रैः
सहसोत्पतद्भिर्भिन्नान् द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया
य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ 11॥
वेलानिलाय
प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्यांशुसंपर्कविवृद्धरागैर्व्यज्यन्त
एते मणिभिः फणस्थैः ॥ 12॥
तवाधरस्पर्धिषु
विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
ऊर्ध्वाङ्कुरप्रोतमुखं
कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥ 13॥
प्रवृत्तमात्रेण
पयांसि पातुमावर्तवेगाद् भ्रमता घनेन ।
आभाति
भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ 14॥
दूरादयश्चक्रनिभस्य
तन्वी तमालतालीवनराजिनीला ।
आभाति वेला
लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥ 15॥
वेलानिलः
केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।
मामक्षमं
मण्डलकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ 16॥
एते वयं
सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता
मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ 17॥
कुरुष्व
तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् ।
एषा
विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ 18॥
क्वचित् पथा
संचरते सुराणां क्वचिद् घनानां पततां क्वचिच्च ।
यथाविधो मे
मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ 19॥
असौ महेन्द्र-द्विप-दानगन्धिस्त्रिमार्गगा-वीचि-विमर्द-शीतः
।
आकाशवायुर्दिनयौवनोत्थानाचामति
स्वेदलवान् मुखे ते ॥ 20॥
करेण
वातायनलम्बितेन स्पृष्टस्त्वया चण्डि (तन्वि) कुतूहलिन्या ।
आमुञ्चतीवाभरणं
द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ 21॥
अमी
जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते
चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ 22॥
सैषा स्थली
यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृष्यत
त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ 23॥
त्वं रक्षसा
भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन् वक्तुमशक्नुवत्यः
शाखाभिरावर्जितपल्लवाभिः ॥ 24॥
मृग्यश्च
दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन् माम् ।
व्यापारयन्त्यो
दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ 25॥
एतद् गिरेर्माल्यवतः
पुरस्तादाविर्भत्यम्बरलेखि शृङ्गम् ।
नवं पयो यत्र
घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ 26॥
गन्धश्च
धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च ।
स्निग्धाश्च
केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥ 27॥
पूर्वानुभूतं
स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् ।
गुहाविसारीण्यतिवाहितानि
मया कथंचिद् घनगर्जितानि ॥ 28॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र
विभिन्नकोशैः ।
विडम्ब्यमाना
नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ 29॥
उपान्तवानीर-वनोपगूढा-न्यालक्षपारिप्लव-सारसानि
।
दूरावतीर्णा
पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ 30॥
अत्रावियुक्तानि
रथङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि
दूरान्तरवर्तिना ते मया प्रिये सस्मितमीक्षितानि ॥ 31॥
इमां
तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् ।
त्वत्प्राप्तिबुद्ध्या
परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥ 32॥
अमूर्विमानान्तरलम्बिनीनां
श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्व्रजन्तीव
खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥ 33॥
एषा त्वया
पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।
आनन्दयत्युन्मुखकृष्णसारा
दृष्टा चिरात्पञ्चवटी मनो मे ॥ 34॥
अत्रानुगोदं
मृगयानिवृत्तस्तरंगवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा
स्मरामि वानीरगृहेषु सुप्तः ॥ 35॥
भ्रू-भेदमात्रेण
पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भौमो
मुनेः स्थानपरिग्रहोऽयम् ॥ 36॥
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्त-विमान-मार्गम्
।
घ्रात्वा
हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ 37॥
एतन्मुनेर्मानिनि
शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति
पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ 38॥
पुरा स
दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।
समाधिभीतेन
किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ 39॥
तस्यायमन्तर्हितसौधभाजः
प्रसक्तसंगीतमृदङ्गघोषः ।
वियद्गतः
पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥ 40॥
हविर्भुजामेधवतां
चतुर्णां मध्ये ललाटन्तपसप्तसप्तिः ।
असौ
तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ 41॥
अमुं
सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
नालं विकर्तुं
जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ 42॥
एषोऽक्षमालावलयं
मृगाणां कण्डूयितारं कुशसूचिलावम् ।
सभाजने मे
भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ 43॥
वाचंयमत्वात्प्रणतिं
ममैष कम्पेन किञ्चित् प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां
पुनः सहस्रार्चिषि सन्निधत्ते ॥ 44॥
अदः शरण्यं
शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
चिराय
संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ 45॥
पदपरिचयः
अदः आहिताग्नेः शरभङ्गनाम्नः (६।१) पावनं तपोवनं शरण्यम् (२।१) यः (१।१) चिराय
(४।१) समिद्भिः (३।१) अग्निं (२।१) सन्तर्प्य (अ॰) मन्त्रपूतां तनुम् (स्त्री॰
२।१) अपि (अ॰) अहौषीत् (हु दानादयोः आदाने च – लुङ् प्र॰ एक॰) ।
छायाविनीताध्वपरिश्रमेषु
भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनामधुना
सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ 46॥
धारास्वनोद्गारिदरीमुखोऽसौ
शृङ्गाङ्गलग्नाम्बुद-वप्र-पङ्कः ।
बध्नाति मे
बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ 47॥
एषा
प्रसन्नस्तिमितप्रवाहा सरिद् विदूरान्तरभावतन्वी ।
मन्दाकिनी
भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ 48॥
अयं
सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी
मयावतंसः परिकल्पितस्ते ॥ 49॥
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्
फलबन्धिवृक्षम् ।
वनं
तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥ 50॥
अत्राभिषेकाय
तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
प्रवर्तयामास
किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ 51॥
वीरासनैर्ध्यानजुषामृषीणाममी
समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया
विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ 52॥
त्वया
पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव
गारुडानां सपद्मरागः फलितो विभाति ॥ 53॥
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी
यष्टिरिवानुविद्धा ।
अन्यत्र माला
सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ 54॥
क्वचित्खगानां
प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः ।
अन्यत्र
कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ 55॥
क्वचित् प्रभा
चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र
शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा ॥ 56॥
क्वचिच्च
कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि
विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ 57॥
समुद्रपत्न्योर्जलसंनिपाते
पूतात्मनामत्र किलाभिषेकात् ।
तत्त्वावबोधेन
विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ 58॥
पुरं
निषादाधिपतेरिदं तद् यस्मिन् मया मौलिमणिं विहाय ।
जटासु
बद्धास्वरुदत् सुमन्त्रः कैकेयि कामाः फलितास्तवेति ॥ 59॥
पयोधरैः
पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः
कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ 60॥
जलानि या
तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् ।
तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः
पुण्यतरीकृतानि ॥ 61॥
यां
सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव
मानसं मे संभावयत्युत्तरकोसलानाम् ॥ 62॥
सेयं मदीया
जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।
दूरे वसन्तं
शिशिरानिलैर्मां तरंगहस्तैरुपगूहतीव ॥ 63॥
विरक्तसंध्याकपिशं
पुरस्ताद् यतो रजः पार्थिवमुज्जिहीते ।
शङ्के
हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ 64॥
अद्धा श्रियं
पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
हत्वा
निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ 65॥
असौ
पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः
सह चीरवासा मामर्घ्यपाणिर्भरतोऽप्युपैति ॥ 66॥
पित्रा
विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता ।
इयन्ति
वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ 67॥
एतावदुक्तवति
दाशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथादवतार
सविस्मयाभि-
रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ 68॥
तस्मात्पुरःसरविभीषणदर्शनेन
सेवाविचक्षणहरीश्वरदत्तहस्तः ।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ 69॥
इक्ष्वाकुवंशगुरवे
प्रयतः प्रणम्य
स भ्रातरं भरतमर्घ्यपरिग्रहान्ते ।
पर्यश्रुरस्वजत
मूर्धनि चोपजघ्रौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ 70॥
श्मश्रुप्रवृद्धिजनिताननविक्रियाँश्च
प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत् प्रणवतः
शुभदृष्टिपातै-
र्वातानुयोगमधुराक्षरया च वाचा ॥ 71॥
दुर्जातबन्धुरयमृक्षहरीश्वरो
मे
पौलस्त्य एष समरेषु पुरःप्रहर्ता ।
इत्यादृतेन
कथितौ रघुनन्दनेन
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ 72॥
सौमित्रिणा
तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्यन्निवास्य भुजमध्यमुरस्थलेन ॥ 73॥
रामाज्ञया
हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।
तेषु क्षरत्सु
बहुधा मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे ते ॥ 74॥
सानुप्लवः
प्रभुरपि क्षणदाचराणां
भेजे रथान् दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि
ये तदीयै-
र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ 75॥
भूयस्ततो
रघुपतिर्विलसत्पताक-
मध्यास्त कामगति सावरजो विमानम् ।
दोषातनं
बुधबृहस्पतियोगदृश्य-
स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥ 76॥
तत्रेश्वरेण
जगतां प्रलयादिवोर्वीं
वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
रामेण
मैथिलसुतां दशकण्ठकृच्छ्रात्-
प्रत्युद्धृतां
धृतिमतीं भरतो ववन्दे ॥ 77॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं
तद्-
वन्द्यं युगं चरणयोर्जनकात्मजायाः ।
जेष्ठानुवृत्तिजटिलं
च शिरोऽस्य साधो-
रन्योन्यपावनमभूदुभयं समेत्य ॥ 78॥
क्रोशार्धं
प्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास ॥ 79॥
इति श्रीकविकालिदासकृतौ
रघुवंशे महाकाव्ये
साकेतप्रत्यागमनो
नाम त्रयोदशः सर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें