संस्कृत-कथा-संग्रहः (भाग 4) संस्कृत-कथा-संग्रहः (भाग 5)
संस्कृत-कथा-संग्रहः (भाग 6)
क्षणिकविभ्रमः
कथायाः नाम लेखकः
प्रणय-पिपासा नारायणशास्त्री
खिस्ते
वीरमति: श्रीनारायणाचार्य:
प्रेमरसोद्रेकः पण्डिता क्षमा राव
वासन्ती बटुकनाथशास्त्री
खिस्ते
उग्रवादी शिवजी उपाध्यायः
प्रणय-पिपासा
लेखकः- नारायणशास्त्री खिस्ते
(काशिकराजकीयसंस्कृतमहाविद्यालयस्य
भूतपूर्वः प्रधानाचार्य: , अनेकानां संस्कृतग्रन्थानां प्रणेता व्याख्याकारश्च
वाराणसीवास्तव्यः)
कावेर्या:
पश्चिमे तीरे सुन्दरपुरं नामान्वर्थाभिधानो ग्रामः शोभते । कुबेराचलाख्यस्य
पर्वतस्योपत्यकायां विशाला सहकारवाटी, तामनु सुन्दरपुरग्रामः प्रतिष्ठितः एकतः
कावेरीतीरपरिसरप्रसृता तालतमालनारिकेल्क्रमुकादिविशाल वृक्षराजिपरिरक्षिता
मध्यन्दिनेऽप्यर्कगभस्तिभिरनवाप्तप्रवेशा , झिल्लीझङ्कारनादिता गभीराऽरण्यानी ,
अपरतश्च मल्लिकायूथिकाजातीमालतीबकुलचम्पकपाटला
दिविविधकुसुमद्रुमसमेधमानसौभाग्या । कुबेराचलवर्ति निर्झरसमुत्क्षिप्ताम्भः
क्षोदसमुद्वहनजातजडिमा , भारभुग्न इव मन्दगतिः कल्य
प्रफुल्लोपशल्यकुसुमसमूहपरिमलतस्करः पवनः सन्ततं सेवते सुन्दरपुर वासिसज्जनान् ।
ग्रामेऽस्मिन्
विशेषतो राजन्या निवसन्ति , पञ्चषाण्येव विप्राणां गृहाणि ,
वैश्यानां शूद्राणां च मिलित्वा पञ्चाशदधिकानि
सद्मानि तावन्त्येव राजन्यानाम् । ग्रामाधिपतिर्वीरसिंहः प्रख्यातवीर
क्षत्रियवंशालङ्कारभूतः प्रभूतभूसम्पत्तिमान् दर्शनीयाकृतिः प्रांशुर्विशालवक्षा
वीराग्रणीर्वर्तते। ग्रामीणाः सर्वेऽपि आपन्ना भयदीक्षिते तस्मिन् प्रगाढं
स्निह्यन्ति , बिभ्यति च सुलभकोपात् प्रचण्डशासनात् तस्मात्।
अग्रजातयो विप्राः किल पौरोहित्यवृत्तिमनुतिष्ठन्तः पञ्चमहायज्ञान् यथावद्
वितन्वाना वेदानभ्यस्यन्तोऽग्न्याहिताः सुखेन निवसन्ति
इत्थंविधे
तस्मिन् सुन्दरपुरे ग्रामाधिपतेर्वीरसिंहस्य सूनुः प्रतिकृतिरिव निजपितुः कुमारः
शार्दूलसिंहो यौवनसुलभोत्कलिका समाकुलचेता एकदा प्रसूत्यै स्वपितुः सदनमुपगतां
चिरपोषितां कावेरीपूर्वतीरवर्तिलक्ष्मणपुरग्रामाधिपतेस्तनूजा स्वप्रेयसों
दिक्षुरकटप्रसूतिपुत्रलाभप्रवृतिप्रहष्टान्त मृगयाकपटेन गृहान्निष्क्रम्य
श्वशुरालय गन्तुमियेष ।
तदानीं प्रावृट्कालः प्रवृत्त आसीत्। कावेरी समुत्तीर्येव पूर्वतोरवति
लक्ष्मणपुरमासादयितुं सुशकम्। नान्यः पन्थाः । कावेरी समुत्तरणं विना नान्याः गतिः
। अत्रान्तरे पयोदपटलैनोरन्त्रितं नभः । झञ्झावायुर्वातुमारेभे। एकद्वित्रिक्रमेण
पतन्तो वर्षाविन्दवः क्षणादिव धारासारात्मना वर्षन्ति स्म। निमीलयन्तीव जगन्नयनानि
विद्युन्मध्ये मध्ये व्यद्योतत। न कोऽपि नाविकस्तदानों शतेनापि दित्सितेनान्तरेण
तरणिं मोक्तुमियेष शार्दूलसिंहश्चिरं तान्नाविकाननुनीयाप्यकृतार्थ
प्रबलोत्कलिकापारवश्येन तत्क्षणमेव गन्तुं कृतनिश्चयः क्षत्रियसहजेन साहसेना
ध्यातस्तुरगपृष्ठ एव कावेरीं तर्तुं निरचैषीत् । करे वल्गां धृत्वा प्रवेशितस्तेन
कावेरीजले तुरङ्गमः। स्वामिनो भावं विदन्निव स पशुरविगणय्य विघ्नान चचाल। यावत् स
किञ्चिद्दूरं गच्छति , तावदेवैको महानावर्तो ददृशे । शार्दूलसिंहस्तु
वल्गामाकृष्य जलभ्रमपरिजिहीर्षया किञ्चिदपसृत्य तिर्यग् गन्तुमियेष। किन्तु इदानीं
पाकाभिमुखदुरदृष्टप्रभावान्नु शार्दूलसिंहायुःक्षयानु केनाप्यचिन्त्येन हेतुना
जलौघप्रबलवेगाभिहतोऽवश इव स तुरङ्गमस्तस्मिन्नेव भयानकेऽम्भोभ्रमे न्यपतत् ।
तुरङ्गपर्याणपार्श्ववर्तिलोहपादिकासंयतसोपानत्कपादः शार्दूलसिंहोऽपि सहाश्वेन
प्रणयिनीमिलनोत्कलिकाभिश्च सद्यः पातालमुपानीयत। इत्थं सतुरङ्गस्य तस्य जले
पञ्चत्वं सम्पन्नम्।
तमेव
क्षणमारभ्य संस्कारदेहधारी स प्रबलः पिशाचो भूत्वा कावेरीतीरे परिसरारण्ये बभ्राम
तेन पथा जनानां यातायातं दुष्करं समपद्यत् । प्रायस्तेन पथा गच्छत्सु नैकोऽपि
जीवन् परावर्तते स्म । अध्वगैरथ स मार्ग एव परित्यक्तः न कोऽपि तेन पथा
गच्छत्यागच्छति च। पिशाचोपद्रवस्य नानाविधाः किंवदन्त्यः सर्वतः प्रसृताः कश्चिद्
वदति - दृष्टो मया स पिशाच: , तालप्रांशुर्भीषणास्यः किल स इति । अपरो वदति विपर्यस्तौ
तस्य पादौ , ललन्ती जिह्वा , भृकुटिभीषणं मुखम् ,
अध्वगान् दृष्ट्वा स मुखं व्यादाय धावति।
इत्थंविधाः किंवदन्तीः श्रुत्वा भीतैः पथिकैः स मार्ग एव परित्यक्तः । न कोऽपि ततः
परं तेन मार्गेण गच्छति तन्मार्गपरिसरवर्तिषु क्षेत्रेषु कर्षणादिकार्यं कर्तुं न
केऽपि कर्षका लभ्यन्ते। ग्रामाधिपतेस्तेन महती हानिः समजायत ।
तन्मार्गशोधनपुरस्सरं पिशाचोपद्रवनिराकृतये ग्रामाधिपतिना दशसहस्ररूप्यकात्मकं
पारितोषिकमुद्घोषितम्। पारितोषिकलोभेन ये केचित् साहसेन पुरस्समुपा गतास्तेऽपि
जीवन्तो न पुनः परावृत्ताः
इत्थमेवातीते
कियतिचित् समये दुःखितेन ग्रामाधिपतिना स्वकुलपुरोहितो भट्टसोमदेवः सानुनयं
प्रार्थित: -
भगवन्! आचार्य किं नास्त्येव कञ्चनोपायः तस्य परिशोधनाय पिशाचोद्धरणाय
च ? सत्सु भवादृशेषु तेजोराशिषु सिद्धमन्त्रेषु
ब्राह्मणेषु किं नेदं लज्जास्पदम् ? दशसहस्राणि मया दित्सितं पारितोषिकं किमल्पम् ?
मन्ये सम्प्रति ब्राह्मणानां सिद्धमन्त्रत्वं
विडम्बनमेव ।
श्रुत्वेदं
ग्रामाधिपतेर्वाक्यं विद्ध इव शरेण ब्राह्मण्याधिक्षेपमसहमानोऽन्तः क्रोधेन
ज्वलन्नपि निगूह्य तं भट्टसोमदेवस्तमाह , राजन्! अहमस्मि भवत्पुरोहितः ,
भवदनं भुञ्जानस्यैव पलितं मे शिरः ,
न ममास्तिपारितोषिकप्राप्तेर्लोभः । भवता यद्
ब्राह्मणानां सिद्धमन्त्रत्वं विडम्ब्यते , तदसहमान एवाहं पिशाचोद्धरणे मार्गपरिशोधने च
प्रवृत्तो भवेयमिति।
अथ
विदितभट्टसोमदेवप्रभावस्तस्य पिशाचोद्धरणप्रवृत्ततां दृष्ट्वा दृष्टान्तरङ्गो
ग्रामाधिपतिर्वीरसिंहः सपादोपग्रहं तमाह-गुरो ! क्षम्यतां ममातिक्रमः पिशाचो
द्धरणकार्ये प्रवर्तयितुमेव ब्राह्मण्याधिक्षेपमिषेण मया कोपितो भवान्। सिद्धं च
मम समीहितम्। ब्राह्मणा हि मम पूज्यतमाः । तथापि कुलगुरुर्भवान् मम सर्वस्वमेव ।
यत् किञ्चन मम वैभवं यशश्च तत्सर्वं भवदनुग्रहादेव सम्पन्नमस्तीत्यहं जानामि। मम
दुरुक्तं भवता न मनसि स्थाप्यम् - इति वदन् भूयो भूयः प्राणंसीत् ।
'प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् '
इति नयेन ग्रामाधिपतिं प्रणतं दृष्ट्वैव
दयालोर्ब्राह्मणस्य कोप: क्वापि पलायते स्म ।
अथान्येद्युर्भट्टसोमदेव:
पाथेयस्तस्तरादिग्रन्थिं निवध्य ग्रामाधिपति वीरसिंहमाच्च पिशाचोद्धरणाय प्रतस्थे
। प्रतिष्ठमान विघ्नहराणि कानि जपति स्म।
क्रमेणासौ स्वग्रामसीमानमुल्लङ्घ्य पिशाचाधिष्ठितं धनमाससाद। तावता वियन्मध्यमुपतस्थे भगवान्
भास्वान् । नैदाधोष्मा प्रकर्षेण ववृधे। वायोरनुष्णा शीतस्पर्शतां
प्रतिपादयतस्तार्किकान् परिहसत्रिव ज्वलदङ्गारसङ्काशताप उष्णो वायुवतुमारेभे
पक्षिणोऽपि नोडान्तर्निलीय निभृतं तस्थुः कुत्राप्यलब्धावकाशेव छाया तरुमूलमवालम्बत।
तथाविधे
समये श्रान्तो भट्टसोमदेवो विशश्रमिषुरादेकं विशालाकार सुदूरप्रसृतमूलं वटवृक्षं
ददर्श । तद् दर्शनोत्पन्नहर्षप्रकर्षः कियन्तंचिदध्वानमतीत्य तस्य वटवृक्षस्य
सुदूरप्रसृतासु शाखासु वद्धान् तुरङ्गमानद्राक्षीत् । ' विशश्रमिषवः केचित् पान्था भवेयुः '
इत्यचिन्तयच्च । पुनरस्य चेतसि विकल्पः
समुदभूत् ' पिशाचाधिष्ठतोऽध्वगैः परित्यक्तः
प्रान्तरोऽयमध्वा , कथमत्र पान्थानामागमनं सम्भाव्यते । भवतु यत्
किमपि समीपं गत्वैव सम्यक् परिलक्षयेयम् ' इति निश्चित्य तं वटवृक्षमनुलक्ष्य
भट्टसोमदेवश्चचाल उपगम्य समीपं सकुतूहल मपश्यत्-विशाले वटदुमतले
शोभनोऽनेकवर्णविचित्रः कुथः समास्तीर्णः । तदुपरि दुग्धफेनधवलः प्रच्छदपटः ,
हंसतूलकल्पितान्युपधानानि च सज्जानि ।
वीरासनोपविष्टास्तेजस्विनो वीरा इव लक्ष्यमाणा विंशत्यधिकाः शस्त्रधारिणः पुरुषा
मण्डलाकारेण स्थिताः तेषु मध्ये सुबृहदुपधानालम्बितपृष्ठ एकस्तेषां स्वामीव
लक्ष्यमाणस्तेजस्वी शस्त्रपाणिः पुरुषः । मध्ये राजतं धूमनलिकापात्रं विराजते ।
ततः समुद्भूतः सुगन्धिधूमपरिमलो मोदयतीव मनांसि । भट्टसोमदेव मुपायान्तं दृष्ट्वा
स तेषां शस्त्रिणां स्वामी सोल्लासं प्रणमन्नाह ' आगम्यतां पुरोहितमहाशयाः ?
अद्य सत्यमेव सुदिनं नः ,
इहास्यताम् ' इति स्वासनस्य दक्षिणे समुन्नतमासनान्तरं
निरदीदिशत् । भट्टसोमदेवस्तु तन्मुखात् ' पुरोहित महाशय ' इति सम्बोधनमाकर्ण्य ' कोऽयं मां पुरोहितं भणती ' ति चिन्तयन् तन्मुखं निपुणं निरैक्षिष्ट
अलक्षयच्च स्वग्रामाधिपतेर्वीरसिंहपुत्रस्य शार्दूलसिंहस्य मुखच्छायाम्। सर्वेषां
च तेषां नेत्राण्यपक्ष्मपातानि विभाव्य ' नूनमेते न मानवाः किन्तु देवयोनय एवेति '
निश्चिन्वानो निर्भयचेताः प्रणमतस्तान्
शुभाशीर्भिर भिवर्धयन् निर्दिष्टमासनमध्यरुक्षत् । अथ मुहूर्तं
कुशलप्रश्नादिसंलापं विधाय स शस्त्रधारिस्वामी भट्टसोमदेवमपृच्छत् ' पुरोहितमहोदय ! पट्सु ऋतुषु कतमो भवता
प्रशस्यते। ' चतुरो भट्ट उत्तरयति स्म - भिन्नरुचयो
जनास्तान् तान् ऋतून प्रशंसन्ति , अहन्तु शीतर्तुमेव सर्वश्रेष्ठं मन्ये ,
यतः स हि सर्वविधोपभोगक्षमः । पुनरब्रूत्
शस्त्रिस्वामी- ' कथं वर्षर्तुर्न प्रशस्यते भवता ?'
भट्टः प्रत्याचष्ट-सपङ्को दुर्दिनान्धकारितो
वर्षर्तुः केन गुणेन प्रशस्यताम् ? किञ्च , वर्षर्तुः प्रियामिल नोत्कलिकाकुलानपि यूनो
निर्दयं प्रवृद्धसरिदावर्ते मज्जयतीति घातकप्रकृते वर्षर्तोवर्णनं न मनागपि रोचते
मह्यम् ।
श्रुत्वेदं
भट्टवचनं तत्क्षणमेव चकित इव स शस्त्रिस्वामी भट्टसोमदेवस्य करमादाय तन्मुखं
निरवर्णयत् ।
अत्रान्तरे
पुरुषं परिवेष्ट्यस्थिता शस्त्रपाणयः पुरुषास्तेषां तुरङ्गमाश्च क्षणादन्तर्हिताः।
स भट्टसोमदेवश्चेति द्वावेवावशिष्टौ । अथ स पिशाचो दैन्यविवर्णवदनः सन्
साञ्जलिवन्धं भट्टसोमदेवमाह-गुरो ! प्रियामिलनोत्कण्ठः
प्रबलसंस्काराहितपिशाचशरीरोऽहं पिशाचसमयनियन्त्रणात् नदीमुल्लङ्घयितुम प्रभुरस्मि
। नद्याः परतीरे लक्ष्मणपुरे च मम प्रणयिनी वर्तते, तद्यथा साऽत्रागच्छेत् तथा प्रयतितुं प्रसीदतु
भवान् , तामनालोक्य न मे मुक्तिरस्याः पिशाचयोनेरिति ।
अथ
भट्टसोमदेवस्तथेति पिशाचवचनं स्वीकृत्य ग्रीष्मसमयसुतरां कावेरीमुत्तीर्यं
लक्ष्मणपुरं प्रातिष्ठत। तत्र च स्वग्रामाधिपतिसम्बन्धिनो गेहमासाद्य
निहितस्रस्तरो गृहस्वामिना च सत्कृतो यथावत् स्नानाह्निकभोजनादिकं निर्वर्तयामास ।
अथ
लब्धावसरो रहसि शार्दूलसिंहस्य भार्यामुपेत्य तद्भर्तुः पिशाचभावं तन्मुक्तये
तस्यास्तत्र गमनस्यावश्यकतां च निपुणमवर्णयत् । पतिव्रता शार्दूलसिंहदयिता
पत्युर्मुक्तये तत्र गमनं तत्क्षणमन्वमन्यत । भट्टसोमदेवोक्तं वृत्तं
पित्रोर्निवेद्य पत्युर्मुक्तय आत्मनस्तत्र गमननिश्चयं च प्रकाशयामास
वात्सल्यात्ताभ्यां निवार्यमाणाऽपि दृढ़निश्चया पुत्रं तयोरङ्कपाल्यां निधाय साञ्जलिरभाषत
—‘ मातः! ' तात! युवां वात्सल्यादेव मां निवारयथः ,
पतिव्रताया मम किंकर्तव्यमिति कथं न चिन्त्यते
युवाभ्याम् ? एष मम पुत्रो मया भवतोर्हस्ते निहितः ,
अहं भट्टसोमदेवेन साकं तद् वनं यास्यामि ,
यत्र मे पतिः पिशाचावस्थो मां प्रतोक्षते तं च
तदवस्थाया मुक्तं मयाऽपि निश्चितम् , एष एव पतिव्रताधर्मः ,
न नाम युवाभ्यामेकमपि
निषेधाक्षरमुच्चारयितव्यम् , इत्युक्त्वा स्वपुत्रं पित्रोर्हस्ते निधाय
भट्टेन सह सा प्रातिष्ठत । पूर्ववदेव समुत्तीर्य कावेरों भट्टस्तां तत्
पिशाचाधिष्ठितं वनमानिनाय । तस्य विशालस्य वटतरोरधस्तुरङ्गम मधिरूढा
शार्दूलसिंहच्छायामूर्तिर्ददृशे । हस्तसंज्ञया स्वप्रियां प्रवाहाभिमुख
मागन्तुमादिश्य सा मूर्त्तिरन्तर्हिताऽभूत् । अथ तदादेशानुसारं प्रवाहमवतीर्णा
शार्दूलसिंहपत्नी यावत् पश्यति तावत् प्रवाहान्तःस्थस्वचरणनिकट एव स्वभर्तुः
शार्दूलसिंहस्य मुखच्छायां निरैक्षत। जलक्लिन्नं तस्याश्चेलाञ्चलमादाय वाढं
पिपासितेव सा मूर्तिश्चेलाञ्चल-निष्पीडनोत्थं जलमधीरमपिवत् ।
अथ
परित्यज्य तस्याश्चेलाञ्चलं स पिशाचो मध्येप्रवाहं विलीनो भवन् ददृशे अश्रूयत च
शब्दः - ' पुरोहितमहोदय ! बाढमुपकृतोऽस्मि भवता ,
भवतः शुभाशंसनेन पतिव्रताया अस्याः पुण्येन च
सम्प्रति मुक्तोऽहमस्मि इतः प्रभृति निर्भयमिदं वनं भवेदिति ।
इत्थं
पिशाचीभूतस्य शार्दूलसिंहस्य प्रणयपिपासां शमयित्वा तद् वनं च निर्भयं विधाय
भट्टसोमदेवः स्वग्रामं प्रत्यावर्तत ग्रामाधिपतिना भृशं सत्कृतश्च पारितोषिकत्वेन
लब्धानि दशसहस्ररूप्यकाणि सद्यो निर्धनेभ्यो भिक्षुकेभ्यो विभज्यार्पयत् ।
वीरमति:
लेखकः- श्रीनारायणाचार्य:
(संस्कृतरत्नाकरस्य भूतपूर्वसम्पादकः , जयपुरवास्तव्यः)
गुर्जरदेशे
टुकटोडानामकमेकं राज्यमस्ति । कदाचिदत्र राजाजीनामकः कश्चिच्चावड़ावंशीयो
नरपतिश्शासनमकरोत्। अमुष्य भूपतेरेकः पुत्रोऽभूद , द्वितीया च पुत्री। पुत्रस्य वीरज इति
कन्यायाश्च वीरमतिरिति नामाभवत्। एषा वीरमतिर्बाल्यादेव प्रभृति शस्त्रास्त्रसञ्चालनमभ्यस्यन्ती हयारोहणादिकासु वीरजनोपयुक्तासु सर्वास्वेव कलासु परां प्रौढ़िं प्राप्ता। यद्यप्येषा स्वज्येष्ठभ्रातुर्वीरजात् कनिष्ठाऽभवत् ,
तथापि बहुष्ववसरेषु लक्ष्यवेधविषये-
ततोऽप्यधिकं हस्तलाघवमदर्शयत् । एवमियं स्वीयेन युद्धकलाकौशलेन स्वजनकं नितान्तमतोषयत् । अथैवं लालनपालनाभ्यां पोष्यमाणा वीरमतिः क्रमशः विवाहयोग्या बभूव ।
राजाऽपि च स्वकन्यानुरूपस्य वरस्य प्राप्तये महान्तं प्रयत्नमातिष्ठत्। अन्ततो
मालवाधिपतेरुदयादित्यस्य जगद्देवनामानं कुमारं निजमन:संकल्पितैः सर्वैरपि
गुणैर्भूषितमशृणोत्। ततश्च तेनैव सह तस्याः पाणिग्रहणसंस्कारमकरोत् ।
अस्मिन्नेव
समये सुगृहीतनाम्नोर्भोजविक्रमयोः कुले जातः श्रीमानुदयादित्यनामा
मालवाधिपतिरासीत्। तस्य च द्वे राज्ञावास्ताम्, प्रथमा बघेलनी द्वितीया च सोलङ्किनी । तत्र प्रथमायां बघेलन्यां राज्ञः परं प्रेमाभवत् , सौलंकिन्यां च न। बघेलन्यां रणधवलनामा ज्येष्ठः
सौलंकिन्यां च जगद्देवो नाम कनिष्ठः पुत्रो जातः । रणधवलो यद्यपि ज्येष्ठोऽभूत्
तथापि बुद्धिमान् वीरश्च नासीत् । जगद्देवश्च कनिष्ठत्वेऽपि वीरो बुद्धिमान्
कलाकुशलश्चासीत् । ततश्च यथा यथा सोऽवर्धत् तथा तथा तस्य गुणानां प्रशस्तिः
प्रासरत् , एकां तस्य विमातरं बघेलनीं विहायान्ये सर्वेऽपि
जनास्तस्मिन्नस्निह्यन् । राज्ञोऽपि च तस्मिन् महाननुग्रहोऽभवत्। बघेलन्यै तु यथा
निजतनयस्यायोग्यत्वं नारोचत तथैव ततोऽप्यधिकं वा स्वपत्याः पुत्रस्य योग्यत्वमपि
नारोचत। अतः सा तस्मै नितरामकुप्यत् । परं राजा तस्यामनुरक्तोऽभवत्। अतः सा समये
पुत्रसहिताया: स्वपत्न्याः मिथ्यापवादैस्तस्यै तमरोषयत्। एवं क्रमशो राजानं कोपयन्ती सा
पुत्रसहितो तां सोलङ्किनी शुद्धान्तनामनि ग्रामे प्रैषयत्। यो जगद्देव सहितायै सौलङ्किन्यै
राज्ञा निर्वाहार्थमदीयत। सोलङ्किनी तु धीरा साध्वी चाभूत्। अतः सा तत्रापि सुखं
निवसति स्म। बघेलन्या तु दिने दिने तथा कपटबन्ध आरचितो यथा सौलङ्किन्याः पुत्रस्य
जगदेवस्य राजसभाप्रवेशोऽपि निषिद्धः ।
एवं
कष्टदशायामपि वर्तमानो जगद्देवो विंशतिवर्षवयस्को बभूव। एकस्मिन् दिने
निजन्यायालयोपविष्टायोदयादित्याय राज्ञे कश्चित् सामन्तो जगद्देवस्य हीनावस्थां
व्यजिज्ञपत्। सोऽपि तदाकर्ण्य पुत्रप्रेमार्द्रहृदयः सन् तत्क्षणादेव जगद्देवमाजुहाव। समयातं च तं हीनवेषं विलोक्य सञ्जातकरुणो राजा तस्मै बहूनि महार्हाणि
वस्त्राण्यदापयत्। स्वीयं खड्गं वाजिनं च स्वयं तस्मै प्रादात्, एष च सर्वोऽपि
वृत्तान्तो बघेलन्या अपि कर्णगोचरो बभूव । सा तु तत् श्रुत्वा लब्धाहुतिरनलज्वालेव
नितान्तमदीप्यत । सायं सामायातं स्वस्वामिनं चोवाच "स्वामिन् ज्येष्ठं विहाय
कनिष्ठस्य पुरस्करणं सर्वथा राजनीतिविरुद्धम्। रणधवलश्च भवतो ज्येष्ठः पुत्रोऽस्ति
। अतो भवतः खड्गाश्वयोस्तस्यैवाधिकारोऽस्ति । न तु जगद्देवस्य । अतस्त्वरितं त्वं
स्वीयौ खड्गाश्वौ जगद्देवात्प्रत्यानय , नो चेत् प्रायोपवेशनं मे स्यात्" इति।
तन्निशम्य नरपतिराह "प्रिये यदि कचित्क्षुद्रोऽपि जनः कस्मैचित् किञ्चित्
ददाति तर्हि सोऽपि स्वहस्तदत्तं वस्तु प्रत्यादातुं लज्जते ,
अहं पुनर्नृपतिरस्मि ,
तत्कथमहं स्वहस्तदत्तं वस्तु
प्रत्यानयेयम्" । एवमुक्तवति राज्ञि हठसमारूढा सा राज्ञी सर्वथैव प्राणान्
हातुमुद्यता बभूव। राजा तु तस्यास्तां दशामालोच्य विवशो भूत्त्वा पुरस्कारसहितं
जगद्देवं पुनराकारयामास। पुनरुपस्थितं च तं जगाद - "पुत्र ,
चेत्त्वं मामनुरञ्जयितुमिच्छसि तर्हि मद्दत्तौ
खड्गाश्वौ प्रत्यर्पय ," । जगद्देवस्तु
तदाकर्ण्य खिन्नमनाः सन्नुवाच - "तात नैवं भवदभिलाषः किन्तु मम
विमातुरेवास्तीत्यहं सम्यग्जानामि , अहं राजन्यसूनुरस्मि ,
नाहं धनाभावात्किञ्चिदपि बिभेमि । स्वखड्गस्य
बाहोश्च प्रतापादहं यत्रैव गच्छेयं तत्रैव जीविका लभेयेत्यस्ति मे सुदृढो
विश्वासः । इदानीं यावद् विपदभिभूतोऽप्यहं भवदनुरागमनुस्मरन्नात्र न्यवसम् ,
अद्य च मया सम्यक् परीक्षिता भवत्प्रीतिः।
तदद्य कर्मवशाद्यत्रैव मे गतिर्भविष्यति तत्रैवाहं गमिष्यामि। एष वः खड्गः ,
अयं चाश्वः" इत्युक्त्वा खड्गं
तत्रावस्थाप्य घोटकं व द्वारि विमुच्य जगदेवस्ततः स्थानात् प्रचलितः । स्वयं राज्ञा
तत्सामन्तैश्च बहुधा प्रबोधितोऽपि खड्गाश्वौ दातुं पुनरुक्तोऽपि च न कथंचिद्
विरराम ।
एवं
राजद्वारात् प्रस्थितो जगद्देवः प्रथमं स्वमातुः समीपे गतः। तत्र च सर्वोऽपि
वृत्तान्तस्तस्यै निवेदितः। पुत्रस्य प्रवासोद्योगमः वर्णयन्त्या मातुः सर्वाणि
गात्राणि श्लथानि जातानि, नेत्राभ्यां वाष्पविन्दवोऽपतन्। कण्ठो निरुद्धः मुखं शुष्कम् , शरीरे च वेपथुः सञ्जातः। यथा गहनवनमध्ये विचरतः
कस्यचिदशरणस्यान्धस्य करात् कोऽपि यष्टिकामाहरेत् तथैव जीवनाधारभूतस्य तस्य
पुत्रस्य विश्लेषस्तामखेदयत्। परं किं कुर्यात् सा मन्दभाग्या । नासीत्
कश्चिदुपायो विपद् विनाशाय । अन्ततः सा कथंचिद् हृदयमवस्थाप्य वाष्पविन्दुभ्यः
प्रणमतः पुत्रस्य मूर्धानमभिषिञ्चन्ती जगाद " वत्स यद्यपि त्वद्विश्लेषजः
शोकः काष्ठाग्निरिव दहति मे हृदयम् , तथाऽपि परमसम्मानसुखार्हो राजपुत्रस्त्वमनर्ह:
खल्वमुष्य निरादरस्य । तद् गच्छ , भद्रं ते भूयात्। शिवास्ते सन्तु पन्थानः" । एवं
जननीमनुमान्य , शस्त्राणि संयोज्य ,
वाजिनं समारुह्य देवताः प्रणम्य ,
वाष्पवर्षं वर्षन्त्या मातुः पुनः
पुनर्मुखमवलोकय देवष्टुकटोडाभिधं श्वसुरपुरं प्रति प्रचलितः ।
तत्र
नगरे गतश्च कस्मिंश्चिदुद्याने हयपृष्ठादवतीर्णस्तमश्वं वृक्षमूले बन्धनेन नियुज्य
स्वयन्तत्रैवाशेत । विधिवशादस्मिन्नेव समये राजकुमारी वीरमतिस्तस्मिन्नेवोद्याने
विजिहीर्षुः समागच्छत् । सा चाऽस्य पाणिगृहीती बभूव । आगतैव च सा काञ्चिद्दासीं कानिचित् फलान्यवचेतुं तत्रैव प्रदेशे प्रेषितवती यत्र जगद्देवोऽशयिष्ट।
दृष्टमात्रं च तं दासी पर्यचिनोत् । द्रुततरं प्रतिनिवृत्ता च तं वृत्तान्तं
स्वभर्तृदारिकामश्रावयत् । उद्विग्नमना अपि सा , असम्भवतया प्रतीयमानेषु तद्वचनेष्वविश्वस्य
स्वयं तत्र जगाम। तत्र च जीवितेश्वरमेकाकिनं शयानं दृष्ट्वा वयोवृद्धा दासीर्दूरतः कृत्वा शनैस्तमजागरयत्। जागरितश्च स प्राणप्रियां तां
तत्रोपविष्टामवलोक्य विस्मित इव तस्याः कुशलमापृच्छ्य तथा पृष्टश्च स्वीयं तत्
तस्यै निवेद्य स्वागमनकारणमादितः सर्वमकथयत्। उवाच च "परदेशं यियासतो मे मनो
भवत्या मुखचन्द्रनिरीक्षणाय नितान्तमेवोत्कण्ठितमभवदतोऽत्र समागतोऽध्वश्रमापयापनाय
यथैवात्रोद्यानेऽस्वयं तथैव भवती मां जागरितवती । इदानीं च सम्पन्नमनोभिलाषं
मामनुमन्यतां भवती विदेशगमनाय"। तदाकर्ण्य वीरमतिः प्राह "नाथ न खलु
कदाचिदपि मां विमुच्य भवता गन्तव्यम् , अहं भवतोऽर्द्धाङ्गिनी भवामि। तद्यदि
दक्षिणबाहुसदृशं साहाय्यं कर्तुं न पारयेयं तथाऽपि वामसदृशमवश्यमेव भवत
उपकरिष्यामि। दर्शयिष्यामि च समये समुपस्थिते स्वीयं वीराङ्गनात्वम्। तदनुमन्यतां
मां सहप्रवसनाय स्वामी। किं च भवच्छुभाऽऽगमनवृत्तविनिवेदनाय दास्यो राजप्रासादं गताः सन्ति। तद्भवत्स्वागताय समायातो मे भ्राता , तेन सह राजहर्म्येषु गत्वा द्वित्राणि दिनानि
चात्र विश्रम्यावां सहैव प्रस्थास्यावहे"। एवं ब्रुवत्यामेव तस्यां तस्या
ज्येष्ठो भ्राता वीरजो बहुभिर्जनैर्विविधैश्च वाहनैः सह समायातः तावुभावपि परेण
प्रमोदेनान्योन्यमालिङ्गितवन्तौ । श्यालेन सह राजसदसि गतो जगद्देवो राजजीनामानं
स्वश्वशुरमभिवाद्य कुशलप्रश्नानन्तरं सर्वं स्ववृत्तान्तं निगद्य "श्वोऽहमितः
प्रस्थिताहे" इत्यपि न्यवेदयत् । स्वजामातुस्तानुच्चभावपरिपूर्णान्
विचारानवबुध्य परम-प्रीतो राजा तमाह " इदमपि राज्यं भवति एवास्ति। अतो
भवद्भिरत्रैवावस्थातव्यमित्यस्ति नः परमोऽभिलाषः"। ततो जगद्देवः पुनरब्रवीत्
“ इदमपि गृहं ममैवास्तीति यद्यपि सत्यं वचस्तथापि
विदेशगतेन मया स्वभाग्यपरीक्षाऽवश्यमेव करणीया। अतो मामाज्ञापयतु तातो
विदेशयानाय"। एवमालप्य श्वशुरस्याग्रहवशाज्जगद्देवः कानिचिद्दिनानि तत्रैव
निनाय । प्रस्थानात् पूर्वञ्च सहगमनाग्रहत्यागाय स वीरमतिं बहुशोऽबोधयत्। परं न सा
कथमप्यमन्यत । प्रत्युत "चन्द्रिका चन्द्रस्येव ,
विद्युन्मेघस्येव ,
छाया पुरुषस्येव चाहं भवत्साहचर्यं विहातुं
सर्वथैवासमर्थाऽस्मि। विशेषतश्चास्यां कष्टदशायामित्यब्रवीत्। एवं तां
भक्तिमतीमाग्रहारूढां चावलोक्य श्वशुरश्यालप्रभृतीन् सर्वान् जनानापृच्छ्य ,
वीरमतिमश्वपृष्ठे समारोप्य स्वयं चारुह्य ततः
प्राचलत् । राज्ञा प्रेषिताः केचिदन्ये जना राजसूनुर्वीरजश्च ताभ्यां दम्पतिभ्यां
सह कियद्दूरं गताः निवर्तनकाले वीरज: स्वस्वसृपतिं प्राह "इतः स्थानात् ,
टोडडाग्राम एकेन पथा चतुरः क्रोशान् द्वितीयेन
च विंशतिक्रोशानस्ति। परं लघुः पन्था दुर्गमो दुष्टपशुसमधिष्ठितश्चास्ति ,
तद् भवद्भ्यां दीर्घेणैवाध्वना गन्तव्यम्"
इति। एवं वीरजेन बहुधा बोधितावपि तौ दम्पती बाहुबलाभिमानात् तद्ववचनमनादृत्य
लघुनैव पथा प्रचलितौ। कियद्दूरं गतयोरेव तयोरेका व्याघ्री पुरतः समायात्। तामालोक्य
जगद्देवो वाणेन तच्छिरोऽविध्यत् विद्धशिराश्च सा व्याघ्री जगद्देवशिरसि प्रहारं
दातुं तथा द्रुतमद्रवद्यथा स खड्गबहिष्करणायाऽप्यवसरं न लेभे । वीरमतिस्तु
स्वस्वामिनं मृत्युमुखप्रविष्टमिव मत्वा मध्य एव तां तथाऽताडयद्यथा छित्रमूला लतेव
सा सहसैव भूमावपतत्। कालकवलान्निवारितो जगद्देवस्तु जगद्देवं परमेश्वरं तुष्टाव
स्वसहधर्मिण्या वीरतया च विस्मितः प्रसन्नश्चाभवत् । एवं पतितायामेव व्याघ्रयां
वीरमत्या स्वपतेरिव स्वभार्यायाः साहाय्यं कर्तुकामो व्याघ्र महतो जवात्
तावभिहन्तुमभ्यद्रवत्। आगच्छतस्तस्य शरीरे वीरमत्या वाणे प्ररोपितेऽपि तं
पुनरुत्तिष्ठन्तमवलोक्य जगद्देवस्तं तथा प्राहरत् यथा न स पुनः सकृदप्युत्पतितुं
प्राभवत्। एवमन्योन्यसंदृष्टशौर्यौ तौ जायापती तमध्वानमतिक्रम्य टोडडग्रामे
सम्प्राप्तौ तत्र चैकस्य सरसस्तीरे विश्रमार्थं समुपविष्टौ ।
जगद्देवस्य
श्यालो वीरजस्तु स्वनगरात् प्रतिनिवृत्य यदा तस्य लघुना मार्गेण गमनं पित्रे न्यवेदयत्
तदा स राजाऽत्यन्तमभैषीत् । "हिंस्रपशुविहतयोर्मम पुत्री
जामात्रोर्दाहसंस्कारो वा कर्तव्यः । विहतहिंस्रपश्वोस्तयोः कुशलवृत्तान्तो वा
शीघ्रमानेयः" इत्युक्त्वा च कांश्चिज्जनान् शीघ्रमेव तेनैव पथा प्रैषयत्। गच्छन्तश्च ते जना मार्गे व्याघ्रं व्याघ्रीं च मृते अपश्यन् ,
कञ्चित् पुरुषं काञ्चित् स्त्रियं वा न। तेन
प्रमोदमानास्ते टोडडाग्रामे तावुभावपि सकुशलाववलोक्य ताभ्यां च मार्गेतिवृत्तं
सम्यगवबुध्य पुनश्च प्रतिनिवृत्य तत्सर्वं राज्ञे न्यवेदयन् । स च
स्वपुत्रीपराक्रमकथां निशम्य नितरामहृष्यत् ।
सानन्दं यात्रां कुर्वन्त्यौ
जगद्देववीरमत्यौ तु कतिपयैरेव दिनैः पाटननगरे सम्प्राप्ते। तत्र च सहस्रलिङ्गनाम्नः
सरसस्तटेऽश्वाभ्यामवरुह्य कांश्चित् क्षणान् वृक्षच्छायायां विश्रम्य तत्र पूरे
कानिचिद्दिनान्यवस्थातुं निरणैष्टाम् । ततश्च जगद्देवो वीरमतिं प्राह
"प्रिये! यावदहं नगरे गत्वा कस्यचिद् गृहस्य व्यवस्थां कृत्वा
निर्वत्स्यामि, तावत्त्वमत्रैव सम्यगवहिता तिष्ठ"।
तदाकर्ण्य "ओम् ” इत्युक्तवत्यां वीरमत्यां जगद्देवो पुरं
प्रविष्टो वीरमतिश्च तुरगौ तरुमूले निवध्य स्वयं तत्रैवोपविष्टा।
अस्मिंश्च
पाटनपुरे डूंगरसिंहनामा कश्चित् सङ्करवर्ण: कोटपाल आसीत्। तस्य च परमदुराचारो
लालकुमारो नाम पुत्रो जामोतीनाम्या कयाचिद् वेश्यया मैत्रीमबध्नात्। परमसुन्दर्या
अपि तस्या लावण्येनासन्तुष्यन् स तामुवाच "दयिते यदि त्वं काञ्चित्त्वत्तोऽपि
रूपवत्तरां बालां लभेथास्तर्हि तां मदर्थमानय , तथा कृते त्वामहं बहुलेन धनेन सन्तोषयिष्यामि" इति । तथैव पारितोषिकावाप्ति सम्भावनया सा वेश्या कस्याश्चिद्वराङ्गनाया
गवेषणाय नितान्तमवहिताभवत् । जलाहरणार्थं सहस्रलिङ्गसरस्तटं गता काचित्तस्या एव
वेश्याया दासी तत्रोपविष्टां वीरमतिमपश्यत्। तत्सौन्दर्यसमाकृष्टहृदया च सा तस्याः
समीपे गत्वाऽऽत्मानं पाटननृपतेः सिद्धराजस्य महिष्या दासीं प्रख्याप्य तस्याः
सर्वमपि वृत्तान्तमवजगाम । द्रुततरं च गत्वा स्वस्वामिन्यै जामोतीनाम्न्यै
वेश्यायै न्यवेदयत्। सा तु श्रुत एव तस्मिन् वृत्तान्ते वञ्चनया वीरमतिं लालकुमारेण
सञ्जिगमयिषुः स्वरथमतिशीघ्रं सज्जयामास । स्वयं च महार्हाणि वस्त्राभरणानि परिधाय
तस्मिन्नुपाविशत् । पञ्चविंशतिमश्वारोहांश्च स्वरथस्य पृष्ठतो नीत्वा तस्यैव
सहस्रलिङ्गसरसस्तीरं जगाम । तत्र सम्प्राप्ता च सा दृष्टायामेव वीरमत्यां
परिचितामिव तामुवाच " वत्से ! तव पितुरुदयादित्यस्याहं स्वसास्मि। पाटनराजस्थ
सिद्धराजस्य च महिषी भवामि । जलार्थमागता मे दासी त्वदागमनवृत्तं मामकथयत्। तव
पतिर्जगद्देवोऽपि च राजसदसि सम्प्राप्तोऽस्ति। अतस्त्वदर्थमागतया मया सहास्मिन्
रथपृष्ठे समुपविश्य राजप्रासादेषु गच्छ। अस्मदीयमातिथ्यं चाङ्गीकुरु"।
एवमुक्तवत्यां तस्यां तस्याः सरलैः स्निग्धैश्च वचनैर्वञ्चिता
वीरमतिर्वस्त्राभरणैः सेवकसंधैश्च तां राजमहिषीं मत्वा भाविवशात् तया सह तस्याः
सदनं जगाम । तस्या वेश्यायाः सदनमपि च राजसदनसदृशमेवासीत्। अतस्तत्र गताया अपि
वीरमत्याश्चेतसि न कश्चित्सन्देहः समुदभूत्। परं महति विलम्बे जातेऽपि जगद्देवं
तत्राऽनागतं दृष्ट्वा सा तद्विषये पप्रच्छ। ततश्च तस्या वेश्याया दासीनामेका दासो
बहिर्गत्वा किञ्चित्कालानन्तरं च पुनरेत्य तामुवाच "राजकुमारः श्रीजगद्देवो
राजसेवायां तिष्ठति। ततश्च कथाविच्छेदभयादवसरमनुपलभ्य नागन्तुं शक्नोति"।
एतेनोत्तरेणेषत्परितुष्टा वीरमतिर्भोजनकालपर्यन्तं पुनः प्रतीक्षमाणाऽतिष्ठत्। तस्मिन् समये तु महिषींमन्यया तया वेश्यया बहुशः प्रबोधिताऽपि न बुभुजे ।
तस्यास्तमाग्रहमपनेतुमसमर्था सा कपटमहिषी यदा न कञ्चिदुपायान्तरमपश्यत् तदा
कपटमारचय्य पुनः काञ्चिद्दासीं जगद्देवमाकारयितुं प्राहिणोत् । कपटपटुः सा दासी तु
स्वल्पकालानन्तरं प्रतिनिवृत्य जगद्देवस्य राज्ञा सह भोजनं रात्रौ दशवादनसमये च
तत्राऽऽगमनमख्यापयत् । रात्रौ तु दशवादनसमयेऽपि स्वस्वामिनोऽनागमनात् खिद्यमानां
वीरमतिं सा कपटमहिषी प्रोवाच –“ तव शयनार्थमुपरितनं भवनं सज्जीकृतम्। तत्र च पृष्ठस्थितेन
द्वारेण कुमारो जगद्देवोऽप्यागतः । तद् गच्छ सप्रमोदं स्वपिहि "। तन्निशम्य
पतिदर्शनपर्युत्सुका वीरमति: सहर्षं तत्र मन्दिरे प्रविवेश। तत्र च
स्वामिनमनवलोक्य कञ्चिदन्यमेव च पुरुषं तत्रोपविष्टं विलोक्य तां वञ्चनामबुध्यत। परं न सा विभयाञ्चकार , नाऽपि चाधीराऽभवत्। परमात्मनः
पातिव्रत्यपरिपालनाय कञ्चिदुपायं पर्यालोचयन्तीं सा तस्य मद्यपत्वमवबुध्य
कपटप्रपञ्चेन तं वञ्चयितुमैच्छत्। स्मयमानेव च मन्दिरे प्रविश्य मद्यभाण्डात्
पानपात्रे मद्यं प्रपूर्य तस्मै प्रायच्छत् । तस्याः सुन्दर्याः करेण
मदिरामुपलभ्याऽऽत्मानं धन्यं मन्यमानः स कामुकः झटिति तामपात्। एवं तद्दत्तं
मद्यमितस्ततः प्रक्षिपन्ती स्वदत्तं च तं पाययन्ती सा बुद्धिमती बाला कतिपयैरेव
क्षणैस्तममूर्च्छयत्। मूर्छितस्य च तस्य वक्षसि च्छुरिकां प्रावेशयत् ।
छुरिकाऽऽघातेन मृतं च तं केनचिद्वस्त्रेण प्रावृत्य वातायनद्वारा राजमार्गे
न्यपातयत् । स्वयं च घण्टापथोपरिष्ठं वातायनं विहायान्यानि सर्वाणि
तन्मन्दिरस्थानि द्वाराणि सम्मुद्र्य तत्रैवोपाविशत्। मृतस्य तस्य खड्गं च
स्वसमीपेऽस्थापयत् ।
अत्र च राजमार्गे परिभ्राम्यन् कचिद्रक्षापुरुषः प्रदेशे तत्र
समागतस्ता वस्त्रग्रन्थिमुपलभ्यानुदघाटितामेव तां कोटपालस्य समीपेऽनयत्। तस्या
जामोतीवेश्याया मन्दिरस्याधस्तात् प्राप्तिं चाकथयत्। उद्घाटिताय तस्यां स्वपुत्रशवं विलोक्य परमदुःखितः कोटपालस्तस्मिन्नेव क्षणे तस्या भवनमेत्य तां स्वपुत्रवार्तामपृच्छत् । तथा च तस्योपरितनभवनशायित्वमवगत्य वीरमति समधिष्ठितस्य
भवनस्य द्वारे गत्वा तदुद्घाटनाय शब्दमकरोत्। तन्मध्याच्च वीरमतिः प्राह
"मत्पातिव्रत्यमपजिहीर्षवेऽस्मै मया समुचितो दण्डो दत्तः । अहमेव चामुं शवं राजमार्गेऽक्षेप्सम्"।
वीरमत्यास्तानि
सन्दीपनान्यक्षराण्याकर्ण्य पादाहतो भुजग इव निश्वसन् स कोटपालः स्वभटानादिदेश
"गच्छत वातायनद्वाराऽस्मिन् मन्दिरे प्रविशत। इमां च पतिव्रतामानिनीं केशग्राहं गृहीत्वाऽऽनयत"। स्वामिसमादिष्टा सेवकाश्च मन्दिरमारोढुमयतन्त ।
तानारोहतो विलोक्य भुकुटिविभूषितललाटतटा , शोणीभवन्नेत्रपङ्कजा ,
स्वेदकणसमलङ्कृतवदनसरोरुहा ,
वेपमानाधरा, शुष्यदास्या , सा वीरमतिः रोमकण्टकाङ्किता सती महिषमर्दनं
कर्तुमिच्छन्त्याः कालिकाया इव रूपमास्थाय वातायनपार्श्वेऽतिष्ठत्।
तत्र
च समारोहतः पुरुषस्य शिरः प्रवेशं प्रतीक्षमाणा बाहुभ्यां एवं गृहीत्वा
खङ्गमुन्निनाय आरोढुर्मूर्ध्नि वातायने प्रवृष्ट एव च सा वीरबाला खड्गेन तथा
प्राहरद् यथा छिन्नो मूर्धा मन्दिरे कायश्चाधस्तात् पथि पपात। एवं शिरोघातं घ्नती
सा बाला सद्धर्मबलोद्भूतमिव बलमवाप्य कतिपयैरेव क्षणैर्विंशति पञ्चविंशति वा
पुरुषान् जघान। ततश्च हस्तौ पादौ चास्फालयतामधः पतितानां कायानां शोणितैः शोणितां
तां भुवं विलोक्य तस्य घोरतरस्य कर्मणः साक्षिणां सर्वेषां शिरांसि भ्रान्तानि ,
नेत्राणि निमीलितानि ,
हृदयानि वेपितानि मनांसि च विस्मितान्यभवन्।
विषविसर्प विसर्पन्ती च सा वार्ता क्षणादेव सर्वस्मिन्नपि तस्मिन् पाटनपुरे
प्रासरत्। सिद्धराजोऽपि च तां शुश्राव । श्रुत्वैव च वीरमत्या वीरतया सन्तुष्टो
विस्मितश्च स कोटपालस्य समीपेऽमुं सन्देशं प्राहिणोत् " यावदहं तत्र
नागच्छामि तावत्र किञ्चिदपि वक्तव्यं तस्यै"। वीरमत्यास्तेन हत्याकाण्डेन
सञ्जातवेपथुः कोटपालस्तु ध्वस्तधैर्योऽपि तयाऽऽज्ञया पुनः प्रतिबद्धो नातः परं
किञ्चिदपि कर्तुमशकत्। वीरमतिरपि च मूर्तिमती वीरतेव तथैव तत्र तस्थौ। इदानीमयं
वीरमतिवृत्तान्तोऽत्रैव तिष्ठतु अग्रतोऽग्रत एवं वर्णयिष्यामः । तस्या
पत्युर्जगद्देवस्य वृत्तान्तावगमाय च स्यात् कुतूहलम् ,
तदेव प्रथमं वर्णयामः ।
जगद्देवः
सहस्त्रलिङ्गसरसस्तटान्नगरमगच्छत्। आत्मनिर्वाहयोग्यं किञ्चित्स्थानं वासवेतनेन
स्वायत्तं कृत्वा स्वपत्नीं तत्र नेतुकामः पुनस्तत्रैव सरस्तटे प्रयातः ,
परं तत्र तां नालभत। केवलं तत्र रथनेमिलेखां
पुरुषाणामश्वानां च चरणचिह्नान्यपश्यत्। ततश्च “ केनचिच्छलिता मे मुग्धा वधूः" इति विचार्य
तैः पदचिह्नस्तस्यास्तस्मिन्नेव नगरे प्रवेशमवधार्य परमदुःखितः पुनर्नगरं ययौ। तत्र च सिद्धराजमुपस्थातुकामः स सहसैव स्वस्य तत्सभाप्रवेशं दुष्करमिव मत्वा
कांश्चित्तदध्यक्षानुपातिष्ठत्। तेषामन्यतमेन केनचित् वृत्त्या नियोज्य स
स्वसेवायां गृहीतोऽपि । परं हृन्मर्मव्रण इव स वीरमतिवियोगस्तमपीडयत्। तत्रैव च “ काचित्कुलवधूः स्वपातिव्रत्यपालनाय महान्तं
जनसंक्षयं कृतवती" इति शुश्राव । श्रुत्वैव च तादृशं साहसं स्वपत्न्यामेव
सम्भाव्य " अपि सा स्यान्मे प्रेयसी , अप्यहं तां तत्र द्रक्ष्यामि ,
अप्यनुकूला मे भाग्यदेवताः ,
अपि पुनरप्यहृत पत्नीकस्य मे विफलं जीवनं सफलं
स्यात्" इत्येवमादीन् नानाविधान् विकल्पान् विकल्पयन् स द्रुततरं तत्र
शोणितसिक्तभूतले स्थले ययौ ।
यावज्जगद्देवस्तत्र
प्राप्तस्तावत् पाटनाधिपतिः सिद्धराजोऽपि तत्राऽऽजगाम । तस्या वेश्याया: स्थाने ,
यस्मिन् भवने वीरमतिरभवत्तस्य द्वारदेशमासाद्य
सिद्धराजः प्राह “ अयि चावडावंशभूषणे राजकुमारि ! त्वादृश्याः
पतिव्रतायाः समागमनान्ममेदं पुरं पवित्रं जातम्। अहं तव विक्रमेणात्यन्तं
सन्तुष्टोऽस्मि। अहममुष्य नगरस्य राजा सिद्धराजोऽस्मि अद्यारभ्याहं त्वयि
स्वसुतायामिव व्यवहरिष्यामि। सम्प्रति ते भयं नास्ति तद् ब्रूहि त्वं कुतः
कस्मात्कदा चागताऽसि ? कानि च ते नामालङ्कुर्वन्तीति" तदाकर्ण्य
भवनाभ्यन्तरवर्तिनी वीरमतिः प्राह ‘“ देव! अहं राजजीनाम्नष्टुकटोढाऽधिपतेः पुत्री
राजकुमारस्य वीरजस्य च स्वसाऽस्मि । प्रमारकुलदीपकस्य धारानगरनायकस्योदयादित्यस्य
कनिष्ठपुत्रस्य भार्याऽस्मि । मम स्वामी भृत्त्यर्थमत्र समायातस्तेनैव च सह
ममाप्यागमनं जातम्। मां सहस्रालङ्गतटे विमुच्य मम स्वामी वासगृहान्वेषणाय पुरे
ययौ । अत्रान्तरे चेयं गणिका जामोती मत्समीपे गत्वाऽऽत्मानं राजमहिषीं व्याचख्यौ
। विविधैश्च प्रकारैः प्रत्ययं जनयित्वा मामत्रानिनाय। रात्रौ च मम व्रतस्य भङ्गं कर्तुं कोटपालपुत्रं प्राहिणोत् । स च मया स्वधर्मरक्षार्थं हतः ,
इदानीं यावदत्र मम पतिर्नागच्छेत् तावदहं कथमपि
भवनाद् बहिर्नागमिष्यामि , अथ चेत् कश्चिन्मामितो बलान्निस्सारयिष्यति
तर्हि तेन सह युद्ध्यमानाहमत्रैव प्राणान् त्यक्ष्यामि । एतदाकर्ण्य प्रथमत एव
तत्रोपस्थितो जगद्देवो राज्ञः सिद्धराजस्याग्रतो भूत्वा तं प्राणमत् ,
स्वपत्नीं चावोचत "चावढि ! अहमत्रैव तिष्ठामि।
सम्प्रति त्वं बहिरेहि। वेश्यावञ्चितया त्वया महदुःखमनुभूतम् । परमिदानीं काचिद्
भयसम्भावना नास्ति" इति तन्निशम्य " इयमागच्छामि " इत्यभिधाय सा
सत्वरमेव बहिरागता । तावुभावपि दम्पती तत्रान्योन्यं निरीक्ष्य वाप्यपूरप्लुतलोचनौ
क्षणं सिद्धराजस्य पुरतस्तस्थतुः । तौ विलोक्य सुप्रसन्नमनाः सिद्धराजस्तयोः
स्थानभोजनादिप्रबन्धाय स्वसेवकानादिश्य तं कोटपालं प्राह "त्वमस्य नगरस्य
रक्षार्थं विनियुक्तोऽसि , त्वं च स्वकर्त्तव्यात् प्रमाद्यसीत्येव न ,
किन्तु स्वपुत्रं दुर्वृत्तं विधाय तद् द्वारा
कुलवधूनां धर्मं ध्वंसयसीत्युचित एव तव प्रमादिनः पुत्रवधः " एवमभिधाय तस्य
गृहस्थितं द्रव्यमपहृत्य तं स्वसीम्नो बहिश्चकार। दासीसहितायास्तस्या गणिकाया
नासिकां कर्णौ च कर्त्तयित्वा तामपि तथैव निरगमयत्।
एवं
यथोचितं दण्डविधानं कृत्वा स्वप्रासादं प्रतिनिवृत्तः सिद्धराजो जगद्देवमाहूय तं
वासः प्रभृतिभिर्बहुभिर्वस्तुभिः प्रसादयामास । तस्मै महत् पदं प्रदाय तं
स्वसामन्तेषु नियुयुजे । सोऽयं वीरमत्या एव धर्मस्य पराक्रमस्य प्रभावोऽस्ति
यदचिरादेव जगद्देवस्तादृशमुच्चपदमवाप। पृष्ठतस्तु तेनापि स्वसेवाभिः सिद्धराजस्तथा
परितोषितो यत्क्रमशस्तस्याधिकारं वर्धयन् स स्वल्पैरेव दिनैस्तं स्वसामन्तेषु
सर्वोत्कृष्टे पदे नियुयुजे । आगन्तुकं तं तादृशे महति पदे विलोक्य सर्वे
सामन्तास्तस्मै महतीमसूयामकुर्वन्। तादृशीं स्थितिं दृष्ट्वा तस्य तत्पदयोग्यतां
साधयितुमिच्छुः सिद्धराजः कतिपयदिनान्यवसरं प्रतीक्षमाणोऽतिष्ठत् ,
एकदा कृष्णपक्षस्य तमिस्रायां
प्रासादपृष्ठमधिष्ठितः स क्षणे क्षणे कासाञ्चित् स्त्रीणां क्रन्दनस्य हसनस्य च
शब्दं शुश्राव । श्रुत्वा तदनुसरणाय वास्तविकेतिवृत्तज्ञानाय च सर्वान्
सामन्तानादिदेश तेषु स्वकार्यार्थं प्रस्थितेषु स स्वयमपि सुनिभृतं ताननुससार ।
नगराद् दूरं गत्वा स केवलं जगद्देवमेव यान्तमपश्यदन्यांस्तु न कांश्चिदपि ।
जगद्देवस्तु यस्माद्दिग्देशात्स ध्वनिरायात् तमेव देशं गत्वा श्मशाने सम्प्राप्तः
। तत्र च कांश्चिद् हसन्ती रुदतीश्च स्त्रीर्दृष्ट्वा तासां रोदनस्य हसनस्य च
कारणमपृच्छत् । तत्र रुदत्यः स्त्रिय एवं प्रत्यूचुः "वयममुष्य पाटननगरस्य
देवताः स्मः। श्वो दशवादनसमये राज्ञः सिद्धराजस्य मृत्युर्भविता । तेन चास्माकं
हानिः स्यात् ततो वयं रुदिमः । " ततो हसन्त्यः स्त्रिय ऊचुः । "वयं
देहल्या देवताः स्मः । श्वश्च वयमेतादृशं सर्वविधस्वामिगुणोपेतं राजानं लप्स्यामहे।
इत्यस्ति नः परमः प्रमोदः " तदाकर्ण्यात्यन्तं विषण्णो जगद्देवस्ता इत्थमनुयुक्तवान् –“ किं कश्चिद् राज्ञो वयोवृद्धेरप्युपायोऽस्ति
।" तदुत्तरे "तादृशस्यैव कस्यचिद्वीरस्य शिरोवलिना
पुनस्तस्यायुर्द्वादशवर्षाणि वर्धेतेति" तमूचुः । स्वशिरोदानाय समुद्युक्तो
जगद्देवः सकृत् स्वस्त्रिया मुखमवलोकयितुं ता आपृच्छ्य स्वगृहं ययौ।
तत्र
च स्ववधूं प्रबोध्य सर्वं वृत्तान्तं व्यजिज्ञपत् । सा तु तदाकर्ण्य " यद्ययं
सन्निहितोपायः कायः कस्मैचित् सत्कार्यायोपयुक्तो भवेत् तर्हि नातः परोऽपरो लाभः ।
तदानीमुभावपि स्वशिरसोर्बली दास्यावः । एवमाकर्ण्य " त्वयि मृतायां
बालकयोर्जीवनोपायः कः स्यात्" इत्युक्तवति जगद्देवे सा पुनराह "यथैकस्य
बलिदानाद् द्वादशवर्षाण्यायुर्वर्धते तथैव यदि चतुर्णां बलिदानादष्टचत्वारिंशद्वर्षाणि वर्धेत तर्हि प्रष्टव्यास्ता देव्यः" इति । तदा जगद्देवः
श्मशानं गत्वा ता देवीस्तस्मिन् विषयेऽपृच्छत् । ताश्चाष्टाचत्वारिंशद्वर्षाण्यायुषो
वर्धनमन्वमन्यन्त। ततः स स्वगृहं प्रतिनिवृत्त्य पुत्रौ पत्नी च नीत्वा पुनः
श्मशाने गतः। तत्र च ज्येष्ठपुत्रस्य शिरश्छेदनाय जगद्देवेन खङ्गे उन्नीते देव्यः
प्राहुः "अलमलमेतावता साहसेन । तव सत्त्वं वीर्यं स्वामिभक्तिश्च
परीक्षिता"।
अथ द्वितीये दिने तस्य सर्वस्य वृत्तान्तस्य साक्षाद् द्रष्टा
सिद्धराजः सर्वान् सामन्तान् तं वृत्तान्तमपृच्छत्। तेषां च कृत्रिमाणि
भिन्नभिन्नान्युत्तराण्याकर्ण्य स स्वयं तं सर्वं वृत्तान्तं निगद्य तेषां
सर्वेषां मिथ्यावादित्वं जगद्देवस्य च महोच्चपदयोग्यत्वमाचख्यौ । ततः प्रभृति
जगद्देवो राज्ञः सिद्धराजस्य महतीं कृपामुपलभ्य बहूनि वर्षाणि तत्र ससुखं तस्थौ ।
पुनः कदाचित्सिद्धराजमापृच्छ्य स्वपितरौ द्रष्टुं स्वाश्रयं धारानगरं सपुत्रदारो
निववृते। तत्र च स्वविमातुर्वघेलन्या महान्तं प्रसादममन्यत। यतो यदि सा तं तथा न
निरवासयिष्यत् तर्हि स तां महतीं श्रियं कदापि नालप्स्यत ।
प्रेमरसोद्रेकः
लेखिका- पण्डिता क्षमा राव
"
मा स्म भैषीः पितामह, मा स्म भैषीः । नाहं शिशुरस्मि । त्रयोदश
वर्षीयाद्यास्मि खलु समर्थास्मि रक्षितुमात्मानम् " इति जगादास्पानाम्नी बालिका
काचित् ।
"किन्तु
वत्से ! दिवसोऽवसितप्रायः । सूर्यास्तमनं चेदानीमचिराद् भविष्यति।"
"पितामह!
क्षेत्रबटवे चिरव्यवसायिने किञ्चिद्विश्रान्तिं दातुमिच्छामि । आ भानूदयोन्मेषमजं
पालयन् कृत्स्नं दिनं तिष्ठत्येष क्षेत्रे तत्र गत्वा मेषेभ्य ईषद्दीर्घतरं चरितुमवकाशमपि
दास्यामि । ततञ्च मेषयूथं गोष्टकं नीत्वा द्वारे पिधाय च शीघ्रमेव
पुनरागमिष्यामि।"
"यातु
यथेच्छम् । आत्मानं रक्षितुमलमस्ति सा नास्त्येषा स्तनन्धयी।" इत्यभाणीत्
कृषीवलस्य वृद्धा भार्या ।
"अये मा विस्मर यत्तपस्विन्या हामिदयायममूल्यनिधिरित्यावयो: सर्वथा विश्वस्याजन्मतो
रक्षणार्थमावाभ्यां समर्पितासीद्दारिकेयं किल। पितुर्गेहे न कदापि सा गच्छेदिति
हामिदया निर्दिष्टं मृतेः पूर्वम् । अपि नाम वत्सायाः पितेहायात् । हामिदा
गर्भिण्यासीदित्यपि से न व्यजानात् । " इति स्थविरेण प्रत्युक्तम् ।
उपरि ,
निर्दिष्टसंलापः कयोश्चिद्वृद्धदम्पत्योः
कश्मीरेषु कस्मिंश्चिद् ग्रामे पान्पुरनामनि कृतावासयोर्मध्ये समवर्तिष्ट ।
तदाश्रयार्थमागता हामिदाभिधा काचिदङ्गना परित्यक्ता पत्येति षण्मासान् स्वगेहे
ताभ्यां निवासितासीत् । वर्षांर्धोत्तरं सा प्रासूत कन्यामेकाम् । द्वादशदिनानन्तरे
च तां स्वपालकाभ्यां समर्प्य प्रणाज्ञ्जहौ । सा च बालिका मातृप्रेमामृतरसानभिज्ञा
दम्पतिभ्यां प्राणनिर्विशेषं लालिता , सप्रेम संवर्धिता च पौत्रीनिर्विशेषम्। सेयं
सरोजलोचना कुन्दकुड्मलदन्तपङ्क्तिः प्रवालाधरा चञ्चलालका शिरीषकुसुमकोमला
शारदकौमुदीव रुचिरा धैर्यशीलापि मृदुवचना , धीरापि स्थिरमति: स्नेहनिर्झरसम्प्लुता
दमयन्तीव परदमनशीला क्षमातलागता सुरसुन्दरीव कमनीया कृषीवलस्य क्षेत्रादिकार्येषु
मुदा प्रयस्यन्ती सुखमास्त कश्मीरीयाणामितरासां बालिकानामिव पान्पुरपल्लिका
सुपरिचितासीत्तस्या अपि। विलक्षणोऽभूत्तस्या अनतिक्रान्तशैशवाया अपि स्वान्तर्बोधः
किल। भाविविषयं पूर्वमेव सहजकल्पबुद्ध्या सा व्यजानात् ,
न च कदापि लुप्तधैर्यासीत् दारिकामिमां
सकृदेवावलोक्य तदीयहृदयङ्गमगुणरत्न सम्पत्तिं जनः क्षणादेवोपलक्षितवान् जायापती
स्थविरौ बालिकेयमतिशयित प्रेम्णानवरतं सेवते स्म । प्रतिदिनं परिणतवयस्केन
कृषीवलेन सार्धमस्मा मेषव्रजं रक्षितुं क्षेत्रं याति स्म। परमद्य सन्धिवातकारणाद्
गेहान्निर्गन्तुं नाशकद्वृद्धः । यदा यदा हि स स्तोकमात्रमप्यस्वस्थोऽभूत्तदा तदा
वत्सेयं मृदुवचसा तस्य बहिर्गमनमरुणत् । क्षेत्रबटुं विश्रमयितुं तावदहमेव
क्षेत्रं यास्यामीत्यभ्यधात् पुनः सा सनिश्चयम् , जोषं स्थितस्य पितामहस्यानुमतिर्लब्धा मयेति च
सीवनकर्म मञ्जूषामादाय निर्जगाम मन्दिरात्। शैशवे मातामह्या मुखादाकर्णितां
निद्रागीतिकां मन्दं मन्दमध्वनि गायन्ती क्षेत्रं प्रति सा प्राचलत् ।
अपराह्नसमये
तस्मिन् मृदुलहैमन्तार्करश्मिभिर्विस्तोर्णशालिक्षेत्रं तप्तसुवर्णसवर्णं परितो
विरेजे। निरभ्रं निःशेषतो गगनतलं बृहत्कासार इव समलक्ष्यत । गन्धवाहोऽपि
मान्द्यशैत्यसौरभ्ययुतो विशेषतो बभूवाह्लादकः । न चिरादस्मा मार्गवर्ति
पुरातनमार्तण्डसुरमन्दिरमतिचक्राम। विध्वस्तं देवायतनमिदं क्रूरजाल्मानामवस्कन्दाद्रक्षितुमिव भगवान्मरीचिमाली स्वरश्मिजालं परितः प्रसारयामास। प्राक्तनस्यास्य देवालयस्यान्तर्गताङ्गने चित्रविचित्रच्छायाचित्राणि
विच्छिन्नस्तम्भानां दर्शं दर्शं दारिका किञ्चित्कम्पमाना प्रवारकेण कमनीयावंसौ
समाच्छादयामास । "अलं भिया प्रतिच्छाया एवैताः ।" इत्यात्मानं
सस्मितमाश्वास्य सा क्षेत्रं प्रति तत्वरे। तस्याश्च स्निग्धकोमलमाननकमलं शीतमरुता
प्रफुल्लतां ययौ । न चिरात्सा क्षेत्रमाससाद। पितामहस्य मेषयूथं शाद्वले तृणं
भक्षयत् सुखमास्त। जृम्भमाणं क्षेत्रबटुमभ्युपेत्य साऽब्रवीत्सस्मितम्। "याहि
गेहम्। श्रान्तोऽसि क्षुत्क्षामकण्ठश्च मेषरक्षणं स्वयं करिष्यामि। सूर्यास्तमने च
तान् गोष्ठकं नेष्यामी ' ति ।
"कथं नाम भवतोमेकाकिनीमत्र विजने देशे
विसृज्य गच्छेयमिति माणवकेन मृदुगिरा सविरोधं प्रत्युक्तम् । सा च प्रोच्चैः प्रहस्य
पुनरवादीत्- "नास्मि किमात्मरक्षणक्षमा चिराय त्वयात्रावस्थितम्।
परिश्रान्तोऽसि । क्षुधार्तोऽपि स्याः। याहि गेहं, याहि शीघ्रम्। तवाम्बा
त्वदागमनोत्कणता त्वां प्रतीक्षमाणाऽसहाया स्थिता स्यात्। नास्ति कोऽप्यन्यस्त्वां
विनान्धायास्तस्याः साहाय्यं कर्तुमपूपादिपाकनिष्पत्तौ।" इत्युक्त्वा समीपवर्तिनश्चिनारनामकपादपविशेषस्य मूले स्थापितं तस्यायतदण्डमुद्धृत्य तस्मै प्रददौ। स्थिरबुद्धिरस्मा न
शक्या निश्चयाच्चालयितुमिति जानन् क्षेत्रबटुरनिच्छन्नपि निजालयं गन्तुमुदतिष्ठत्
। " प्रातर्मार्तण्डोदयसमये गोष्ठमागच्छेति सा तमस्मारयत् । तदापि विलम्बमानं
बटुं पुनः साऽभ्यधात् सस्मितम्। "मा चिरयाध्वनि । गृहं याहि सत्वरम् ।
विलम्बं मा कार्षीः प्रातरागमने वर्तते कार्यबाहुल्यं मेषाणां क्षेत्राण्यानयनात्प्रागिति । तदाज्ञां शिरसा प्रतिपद्य माणवकः स्मेराननः प्राचलत्प्रति गेहम्।
अथैकाकिनी
सा चिनारवृक्षविशेषस्याधः शिलायां किलिञ्जं प्रसार्य मञ्जूषां
चोद्घाट्यार्धसमाप्तपलालपादुकाग्रथनोद्यताभूत् । अद्यापि समीपस्थे क्षेत्रे
काश्चिद्योषितः प्रयस्यन्ति स्म । ताभिरस्मामवलोक्य धान्यसंग्रहणे साहाय्यं नो
दीयतामिति समभ्यर्थितम् । शीघ्रं च सा ता अभ्युपायासीत् कार्ये समाप्ते च न्यवर्तत
सा निजासनं द्रुमस्य मूले।
अत्रान्तरे
प्रदोषः प्रत्यासन्नप्रायः । वनिताः सर्वाः स्वस्वगेहं वव्रजुः । अद्वितीया च
बालिकेयं स्थलस्य विविक्ततां न मनागपि व्यचिन्तयत् । विश्रब्धं पादुकागुम्फनोद्यता
गायन्ती मन्दं मन्दं सुखमास्त। समीपवर्तिनि जलाशये सरोजवृन्दं निशागमनाशङ्कया
सामिम्लानत्वमधात्। क्लान्तकूजत्कपोतकुक्कुटादिपतत्रिणः स्वस्वकुलायान्
सान्द्रविटपगतान् समाश्रयन्। दिनमणिः प्रतीचीं सञ्जिगमिषुः
प्रसारितकोमलकरैर्मार्दवं भेजे। सर्वत्र शनैः शनैर्निर्मक्षिकं सञ्जातम् ।
हेमन्तर्तुवशाद्भूयिष्ठाः प्रवासिनो ग्रामनिवासिनश्च शैत्यस्यातिरूक्षतामसहमाना
देशान्तरं प्रायेण व्रजन्ति स्म । तस्मात् पांसुलमार्गेऽस्मिन् ग्रीष्मर्तुवद्
यानानि नावालोक्यन्त सम्प्रति।
अथेस्लामवादनाम्नो ग्रामस्य दिशः समायान्तमस्मा सहसा
कस्यचित् पुरुषस्याकारमद्राक्षीत् । कृत्रिमसन्त्रासेनोद्विग्नेव
विनोदयितुमात्मानमिव च सपदि गुल्मान्तरितविग्रहा तस्थौ। अनुकूलस्थानात्तस्मात्
समीपमागच्छतोऽध्वगस्याकृतिमधिकाधिकस्फुटीभूतामपश्यत्सा सकुतूहलम्। नचिरात्स
पुरुषोऽन्तिकं सम्प्राप्तवान्। निबिडगुल्मावृतां मां द्रष्टुं न प्रभवेदेष इति
प्रतीता वर्त्मनो मध्ये तमुपविशन्तं ददर्श विश्रव्धं च स्थितवती सा ।
पञ्चत्रिंशद्वर्षीयः पथिकः परितो दृष्टिमाक्षिप्य कञ्चुककोषतो नाणककोशमपाकर्षत् ।
पुनश्चेतस्ततो वक्ष्य धनराशिहस्तो गणयितुमारब्धः। क्व नाम हस्तगतधनराशिः
प्रत्यासन्नरजन्यां गन्तुं प्रवृत्तः स्यात्पुरुषोऽयमिति दारिका व्यचिन्तयत्।
नचिराद्धनसञ्चयं कटिबन्धने गोपयामास पान्थस्तत: सोच्छ्वासं समुत्थाय पुरश्चचाल।
शीर्णसुरालयकोणपर्यन्तं दृष्टिगोचरो भूत्वा क्षणाददृश्यतां गतः । म्लानप्रभायां
तस्यां जर्जरायतनमिदमीषद्धूसरपिशाचसादृश्यं भेजे।
तदनु
विश्रब्धमस्मा शिलासनं प्रत्ययासीत्पुनश्च ग्रथनकर्मणि निमग्नाऽभूत्। स्निग्धस्थविरौ
क्षेत्रादिकार्याणि च ध्यायन्त्यास्तस्याः कस्याचिन्मेषशावकस्य रेभणं सहसा
श्रुतिपथे न्यपतत्। सपदि सोत्थाय क्लान्तशावकं स्वबाहुभ्यां समुद्धृत्य चुकूज
समार्दवं प्रेमास्पदीभूतं तं मानुषनिर्विशेषमिव। "अपि निद्रालुस्त्वं वत्स।
अलं रुतेन। नेष्यामि सत्वरं त्वां शयनम् । ” इत्युक्त्वा मृदुलवाचाऽ विशिष्टान्मेषान्
एकीकर्तुं शीशशब्दमकरोत् । समीपवर्तिनं गोष्टकं प्रतियान्तीं तामन्ये मेषा
अन्वगुः। नचिरात्तया विश्रान्तिस्थलमिदं निवेशितकृत्स्नमेषवृन्दं तालकबन्धेन
पिहितम्।
अथापराह्नात्प्रतीक्षमाणो
रजनीनाथो रजन्या समगंस्त दिष्ट्यासीद्दारिकाया मञ्जूषायामग्निशलाकापेटिका यावच्च
सा मार्तण्डदेवतालयमुपागात् तावत्पुरुषयोर्द्वयोः सवेगं विवदमानयोः
स्वरध्वनिस्तस्याः श्रुतिपथे न्यपतत्। केनाप्यनर्थेनावश्यं भवितव्यमत्र तथापि न
मया धैर्यं त्याज्यम्। उद्देशस्यास्य परिचयास्समीपवर्तिनः
कस्यचित्पुराणचिनारतरोरवस्थानं तस्याः स्मृतिपथं समायात् । विशालद्रुमस्यास्य
प्रचण्डकोटरस्तदाकृतिसमानं वपुस्त्रयमपि सम्यग्गोपयितुं पर्याप्त इति व्यजानात् सा
निःशब्दं च तस्मिन् कोटरे ससर्प। अपि भवेतामिमौ भयङ्करौ
पुरुषाधमौ। प्रायः वायव्यप्रान्तवर्तिनौ पापिनौ स्यातामिमौ। एतादृशो दुष्टात्मनोऽधिकृत्य
पितामहोऽसकृदभाषतेति स्मरन्त्याः कोटरस्थितायास्तस्याः श्रुतिपथे
न्यपतत्पुरुषयोरेकस्य वचनं यथा-" अत्रैव खनित्वा निधेयमेतद् यथान्ये न
पश्येयुरिति। कम्पमाना दारिका व्यचिन्तयत्कुतोऽम् नाम संरम्भेण कलहं कुरुत: । प्रायः
कस्यापि ताभ्यां निहतस्यार्भकस्य वपुरुद्दिश्य विवादेनानेन भवितव्यम्। अनयोः
पुरुषयोर्नेदिष्ठापि सुरक्षितेत्यात्मानमभ्यनन्दत् सा । स्वरक्षणार्थं च परमात्मनि
धन्यवादपुरःसरं कृतज्ञतां मुहुर्मुहुर्हृदन्तरे समुदैरयत् । नचिरात् सर्वत्र
निःशब्दता व्यराजत। कल्काच्छादिते कोटरे प्रहृीभूता कुमारिकेयमपसरत्पादशब्दमाकर्णयदचिन्तयच्च । अप्येतौ नु चलतः प्रति मद् गेहम्। नहि नहि
व्रजतोऽमू प्रतीपदिशेति प्रतीता निरुच्छ्वासं किञ्चित्प्रत्यैक्षिष्ट । ततश्च
निपुणं कोटरतो निःसृत्य देवालयं यावत्प्रविशति तावदवगुण्ठितार्तनादमश्रौषीत्सा ।
तस्थौ च स्तब्धा मुहूर्तं विचिन्तयन्ती। कस्यचिदसह्यवेदनार्दितस्य स्वनेनानेन
भवितव्यम् । पितामहो मे न मर्षयिष्यति दुःखितजनाय साहाय्यं न दीयते चेन्मया । स हि
नित्यमेवाज्ञातजनपरिचरणपरोऽस्ति इति विमृश्याप्रमत्ता तमुद्देशं निभृतं
प्रत्यागमनोद्यता सामिश्वासनिरोधकं रुतमश्रौषीत् आर्तनादोऽप्यभूदुच्चा दुच्चतरः
। प्रज्वलितदीपशलाकयाद्राक्षोत्सा पञ्चत्रिंशद्वर्षीयं पुरुषमेकमग्रतः
धनमुद्रापत्राणि गणयन्नचिराद्योऽवलोकितस्तया स एवासीत् पान्थोऽसौ । चीवरेण मुखमस्य
निरुद्धं शरीरं च देवागारस्य स्तम्भे स्थूलरज्ज्वा गाढं निबद्धमासीत् । अप्येष
परमार्थत एव दुःखार्तः स्यादाहोस्विद्दस्युरिति विशङ्कमाना मुहूर्तं निस्पन्दं
तस्थौ सा। ततः क्षणमात्रं विमृश्य शङ्कां च दूरीकृत्य निबद्धपुरुषविमोचनपराभूत् ।
रज्ज्वा ययायं स्तम्भे न्यवध्यत तस्या ग्रन्थीन्निपुणं स्वकररुहाग्रैर्विश्लथयितुं
प्रायतत। बहुलायासवशात् पान्थस्य गुरुकायः सरभसं भूमौ न्यपतत् । अपि मृतोऽयमिति
जिज्ञासया सा विनतवपुस्तदुच्छ्वासं श्रुतवती । यद्ययं दस्युः स्यात् तदस्मद्गृहे
भयावहजनस्य प्रवेशो न खलु शुभावहो भवेदिति श्वासं निरुध्य विमर्शयोर्मध्ये
दोलायमाना मुहूर्तं चिन्ताकुला स्थितवती । प्रायः किञ्चित् स वक्ष्यतीति
प्रत्यैक्षत। परं तदार्तरवमेवाशृणोत् सा केवलम्। परमवेदनया ध्रुवं पीडितोऽस्तीति
प्रतीता च तत्क्लेशं प्रशमयितुं निश्चिकाय ।
अथ तं निपुणमुत्थाप्य शनैः शनैर्मार्गे
प्रवर्तयितुमुपाक्रमत धैर्यशीला दारिकेयम्।
स्निग्धौ पितामहौ संक्षोभवृत्तमिदं सकौतुकमाकर्णयिष्यत इति मनसा कल्पयन्तो
भूयिष्ठमहसत् सा । इतः परं पितामहो न कदापि मामेकाकिनीं बहिर्गन्तुमनुमंस्यते
पितामही च मत्साहसगुणागुणं विजानती शिरः कम्पयिष्यति केवलमिति वितर्कयन्ती
चिरेणासदन्निजावसथं कथमपि क्षताङ्गेन पान्थेन सह । चिरात् प्रवयाः कृषिकः
स्वनिकेतनस्य द्वारि चिन्तापरस्तिष्छन्नास्त । पर्यन्ते तमिस्रायां पथिकं
कञ्चिदाकर्षन्तीं वत्सां निशाम्य तस्य गलदङ्गानि स्थैर्यमापुः ।
अथाध्वगः
समार्दवं वत्सया शुश्रूषितः परिसान्त्वितश्च वृद्धाभ्यां कृतातिथ्यः खट्वायां
स्थितवान्निश्चलो निशि । परेद्यव्यस्मां दर्शं दर्शं साक्षात् कामप्यमानुषीं पश्यन्निव क्षणं स स्तब्धोऽभूत् । वत्साया मृदुवाचं श्रावं श्रावं सहसा स
प्रोच्चैरुदगिरद् " अयि हामिदे ! हामिदे" इति । भ्रान्तिचेतसं तं
मन्वाना तस्य तत्प्रामादिकं वच: सोपहासं वृद्धाभ्यां बालिका निवेदितवती। अनर्थपरम्पराभिभूतः
सङ्कटाद्दारिकयाभिरक्षितो द्वित्रैर्दिनैः प्रकृतिमापन्नः परमकृतज्ञताकुलस्तस्यै
धन्यवादान्मुहुर्मुहुर्व्यतानीत् । धनविनाशं न मनागपि व्यचिन्तयदध्वगोऽयम्। वत्साया
अपरिमितगुणाकृष्टहृदयस्तथामितोपकारभारान्नतो विस्मयस्य परां कोटिमारूढस्तामालोकयन्
सामिपरिम्लानस्मृतिपरम्परया भृशमाकुलोऽभूत्। इतो निर्गमात्प्राङ् मयावश्यं
बालिकायै किमपि पारितोषिकं प्रदेयमिति मनसि कृत्वा स्वमहानुभावं दर्शयितुं
वृद्धकृषीवलायासावाचख्यौ। श्रीनगरमागम्यतां तावद् भवद्दर्शनसुखं च मे दीयताम् ।
गुग्लुनाम्नो नाविकस्य मे गृहनौका सर्वनागरिकाणां विदितास्ति खलु । तस्य
सङ्केतस्थानं प्रष्टव्यम्। भवदीयपौत्री यथार्हमुपग्राह्यं प्रदास्यते मया। अथास्मया
शीघ्रं प्रत्युक्तम्। श्रीनगरमतिदूरस्थं चलितुमक्षमोऽस्ति मे पितामह इति
पथिकस्तामपाङ्गदृशा विलोकयन्नवदद् भवतीं भवत्पितामहं च नगर्यामानयनाय तरणीं प्रेषयिष्यामीति। तन्निमन्त्रणमवगणय्य प्रवयसि तूष्णीं स्थिते पान्थो व्याहरत्पुनः। गतभार्योऽस्मि। अनपत्यासीन्मद्गेहिनी । तस्या वन्ध्यतयातिकुपितस्तां सार्धत्रयोदशवर्षेभ्यः
प्राग्गृहान्निष्कासितवानहम्। नान्यां च कन्यां परिणीतवान्। सन्ति मत्सविधे द्वे
गृहनौके पञ्च तरण्यचेति।
पान्थस्यावशिष्टकथानिवेदनं
नावश्यकम्। सोऽयं सार्धत्रयोदशवत्सरेभ्यः प्राक् शरणागताया हामिदाया भर्ता
पौत्रीकृताया अस्मायाश्च जनितेति झटिति स्थविरौ तर्कयामासतुः । अनेन च तावुभौ
किञ्चित् सम्भ्रान्तौ बभूवतुः तदनु गग्लुः सानुग्रहं स्मेराननो वभाण । भवत्पौत्रों
निमयेन रूप्यकाणां शतद्वयं प्रदातुमिच्छामीति कोपाविष्टेन कृषीवलेन प्रत्युक्तम्।
दीयतां तद्धनं गोक्रय मूल्यार्थमिति । पथिकस्य सुस्थितिं क्षणात्तर्कयामास कृषकः ।
तदनु प्रवासी पुनर्वकुमारभत । मा कुप्यः कन्येयमवाप्स्यति सर्वमेव स्वाभीष्टम्। न
कदापि तस्या अपकरिष्ये। मिष्टान्नेन तां पोषयिष्ये
बोखारादेशोत्पादितदुकूलैर्नवरत्न खचिताभरणैश्च तद्वपुरलङ्करिष्ये । अनपत्यस्य
नयनयुग्मं मे नन्दिनी तव प्रायो जनितनन्दनेनान्दयिष्यतीति।
सञ्जातकुतूहला
निरूपयन्ती प्रवासिनमेष एव मे पितेति न खलु व्यजानादस्मा। कृषीवलस्य पत्नी तस्य
वचनमाकर्ण्य भर्तुः कर्णेऽजपत् । कथं परिणयेन्निजात्मजाम् अयुक्तमेवेति कथय तस्मा
इति स्थविरो दोलायमानमानस: स्थितः व्यचिन्तयच्च वत्सायाः प्रभव एतस्मै निवेदनीयो न
वेति परमासन्नमृत्यवे हामिदायै प्रतिश्रुतमासीदावाभ्यां यन्न कदापि बालिकेयं
तत्पितृसकाशं प्रेषयिष्याव इति । तथापि वत्साया अन्वयो यदि पान्थाय न कथ्यते तर्हि
तस्या यावज्जीवं सुस्थितजीवनसौख्यमपहरिष्यते खलु । इति विमृश्य कृषीवलो s वादीत् नेयं भवते देया। केनचित्कुमारेण हि
तस्या विवाहवाङ्निश्चयः कृतोऽस्तीत्युक्त्वा भार्याया बाहुं कूर्परेणेषत्समचालयत्
। अथ स्वहृदयौदार्यमाविश्चिकीर्षुणा पान्थेनाभिहितम्। निवसतु सा तर्हि दुहितृभावेन
मद्गेहे । पञ्चशतं रूप्यमुद्रा दास्यामि भवते। मृत्युवक्त्रात्परित्रातोऽस्मि तया
। तस्या भावी भर्ता मन्नाविको भवत्विति ।
प्रवया: कृषीवलः पुनर्विममर्श मनसि
उपन्यासोऽयं प्रशस्तः खलु । सर्वथा नोचितं भाविसौख्यमपहर्तुं बालिकायाः ।
अथात्मगेहिनीं पुनस्तत्कर्णे जपिप्यन्तीं कूर्परेणास्पृशत् तूष्णीं तिष्ठेति च तां
व्यजिज्ञपत् ।
अन्ततः
सदसद्विवेकनिपुणोऽपि स्थविरो वत्सामेव निर्णेतुमाज्ञापयत् ।
अथात्यन्तगाढप्रशान्तता व्यराजत प्रकोष्ठेऽस्मिन् ।
कृषिको
भार्याद्वितीयो निरुद्धश्वासो मुहूर्त जोषं तस्थौ । पान्थश्च सोत्कण्ठं
पुरोऽवलम्बमानो दारिकाया वचोऽशृणोत् दीयतां रूप्याणामर्हते जनायान्यस्मै यत्र में
पितामहस्य पितामह्याश्च निवासस्तत्रैव समुचितो ममापि । विद्यते हि दिष्ट्या
पर्याप्तं धनमेतयोः सविधे मत्पोषणार्थमिति सनिश्चयं प्रोच्याग्रे च सपदि
संप्लुत्योच्चैः स्थविरकृषीवलस्याङ्के सुखमुपाविशत्। सहसा विस्मापितो गुग्लुस्तां
निरीक्षमाणस्तस्थौ विलोलालका बालिका साभियोगं च पथिकमालोकयत् ।
अनेकसङ्कल्पविकारपरम्परया तस्य चेतः संग्रथितमभूत् । विवर्णवदनः शिरः कम्पयंश्च
द्वारं प्रति चलिष्यन्नभ्यधात् पथिकः । अयि भोः परवस्तुलोभेन किम्। मदीयभार्या
हामिदा यदि वन्ध्या नाभविष्यत्तदावयोरप्यस्मासमानरूपगुणादि सम्पन्ना
भविष्यद्दारिका इति सदर्प समुदीर्य श्रीनगरस्य विजनेनाध्वना स्वगेहं प्रति सायासं
प्राचलदध्वगः ।
वासन्ती
लेखकः- बटुकनाथशास्त्री खिस्ते
(वाराणसेय संस्कृतविश्वविद्यालये साहित्यविभागाध्यक्षचर:)
[१]
' पुत्रि ! किमित्यत्र मौनमालम्बमाना शून्यदृष्टिर्मनसि
भ्रमता विचारणव्याकुलीकृतेवाद्य प्रतिभाससे ?'
एतदाकर्ण्य सहसैव विचारनिद्रायाः प्रबुद्धा
वासन्ती समीरणोल्लासितं दूकूलमावृण्वती समुत्थाय दीनानाथशर्माणमवादीत् । ' तात! अद्य प्रात: कालादारभ्य वसन्तविषये
रणरणकचेखिद्यमानमानसा तदीयं भागधेयं कष्टकर मेवावलोकयामि '
। वसन्तः किल वासन्त्या ज्यायान् भ्राताऽऽसीत्
। अथ दीनानाथशर्मा किञ्चिद्गम्भीरमिव स्वाकारं विधाय भूयोऽप्यवोचत्- ' पुत्रि! अलं तदीयचिन्तया । स खलु मया बहुशो
विनिवारितोऽपि न तां व्यसनितां त्यजति। सम्प्रति मया भाषणमपि परित्यक्तम्। अद्यैव
पश्य कीदृशं कलहं कृत्वा बहिर्निर्गतः। भगवता पुत्रस्त्वेक एव दत्तः ,
किन्तु सोऽप्येवंविधः । विधेर्विलसितमेतत्।
किमन्यद् ब्रूमहे ' इत्येवं वादिनो दीनानाथशर्मणो वदनमान्तर
विषादजनितेन कालिम्ना समाच्छादितमभूत् । अथ वासन्ती तां पितुरवस्थां विलोक्य
विषयपरिवर्तनेच्छया वातायनादुत्थाय जगाद ‘ षड्वादनसमयो दृश्यते , भवतोऽपि सन्ध्योपास्तेः कालोऽयम्। पक्वप्रायमेव
भवेदशनम् ' इत्युक्त्वाऽभ्यन्तरे प्रविवेश।
[२ ]
दीनानाथशर्मणो गृहं लक्ष्मणपुरे नगरमध्य एवाऽऽसीत् एतेषां गृहे पत्री, एक: पुत्र: , एका कन्या चेति परिवार आसीत् । कन्या वासन्ती बुद्धिमती , सदाचारसम्पन्ना , युक्तायुक्तविवेकाऽभिज्ञा चाऽभूत्। सम्प्रति सा शैशवं समाप्य यौवने पदमाधातुं सन्नवाऽऽसीत्। दीनानाथशर्मा तस्मिन्नेव नगर एकस्मिन्नांग्ल विद्यालये संस्कृताध्यापक आसीत्। वेतनं चासौ अशीतिमुद्वात्मकं लभते स्म । तेनैव द्रव्येण गार्हस्थ्यशकटं यथाकथमपि चलति स्म । पुत्रस्य दुराचरणेन सर्वदैवैतस्य चेतः परितप्यते स्म । कन्यायाश्च विवाहकालमुपस्थितमालोक्य वरान्वेषणे सप्रयत्न आसीदसौ ब्राह्मणः । साम्प्रतिकेषु दिवसेषु दीनानाथशर्मणो मनसि ' दत्ता सुखं प्राप्स्यति वा न वा ' इत्येव विचारो नक्तन्दिवं भ्रमति स्म । सूनोर्दुरवस्थया दीनानाथस्य कन्यैव पुत्रप्रेम्णो भाजनमासीत् दीनानाथस्य पत्नी नवीनाचारानभिज्ञा सरल स्वभावा सदाचारपरायणा मनोरमाऽऽख्यासीत् । तस्या एव चरितं वासन्त्यामपि प्रतिविम्बतमासीत् । वसन्तः प्रथमं मातुः शिक्षया सुशीलो बभूव किन्तु पश्चान्नागरिकविटानां सङ्गत्या कुमार्गमवततार। एतदेवैकं शल्यमासीद्दीनानाथमनसः एतदभावे तदीयं गार्हस्थ्यं सुवर्णमयमभविष्यत् ।
[ ३]
शनै: शनैर्भगवान् भास्करो भुवनतलं स्वकीयभाभिर्भासयन्नभोऽङ्गण मभजत् । प्राभातिकः पवनोऽपि सलीलं विलसन् रुचिपुरुष इव कुसमसौरभमाघ्राय तनुलतांसदेशमालम्ब्य वहति स्म । प्राची तस्मिन् काले सकलेभ्यो जनेभ्य उत्साहसम्पदमर्पयन्ती दानशीला ' सीमन्तिनीव दृश्यते स्म ।
अस्मिन्नेव काले दीनानाथशर्पणो गृहे मङ्गलवाद्यध्वनिरुदतिष्ठत् । आम्! ज्ञातम् , अद्य वासन्त्या विवाहोत्सव आसीत् । अनवरतमन्तर्वहिः प्रविशता निर्गच्छता च जनसम्मर्देन समाकुलमासीद्दीनानाथगृहद्वारम् । सर्वतः सम्प्रवृत्तेऽपि प्रमोदप्रवाहे वासन्त्याः पितरौ कयाचिद् वेदनयाऽऽक्रान्ताविव दृश्येते स्म । अद्य विवाहोत्सवे वसन्तो नागत आसीत् । न जाने स क्व पलायित आसीत् । एतदेव तयोंम्पत्योर्दुःखकारणमभूत् । वासन्त्याः पतिर्माधवनाथः सच्छीलो धनवान्
रूपगुणसम्पन्नो वासन्त्या अनुरूप एवासीत् । वासन्ती जनसम्प कथमपि सहजलज्जाजडया
दृशा तमवेक्ष्य तदीयगुणगरिमाणं वयस्याभ्यः समाकर्ण्य स्वात्मानं धन्यममन्यत ।
किन्तु को जनाति स्म तदा यदस्य विवाहस्य कोदृशो विपाको भवितेति।
अथ
व्यतीते विवाहोत्सवे वासन्ती साश्रुनेत्रत्पला कथमपि पितरों नमस्कृत्य स्वगृहं
प्रातिष्ठत । वासन्त्यां गतायां मनोरमेदमवदत् - ' अस्माकमेक एवाधार आसीज्जीवनस्य ,
सोऽपि गतः पुत्रस्तावत् कीदृशीं पीडामाधत्त इति
वयमेव वेत्तुं पारयामः । हन्त! दौर्भाग्यमस्माकं न जाने कियद् वर्तते । पुत्र
एवास्माकं वंशधूर्धरः तस्मिन्नेवासद्वृत्ते किमिवास्माकं सुखं भवेदिति। '
[
४ ]
पतिगृहे
वर्षद्वयं व्यतीतं समागताया वासन्त्याः । एतावति काले सेव्यमान श्वशुरादिगुरुजनाया
गृहकर्मसम्पादननिपुणाया वासन्त्याः सुखेनैव कालो जगाम । पत्युरपि समधिकं प्रेम
वासन्ती लेभे । कदाचित् पित्रो: स्मृतिराकुलयति स्म तदीयं चेतः । किन्तु
पतिप्रेम्णः प्रभावेण नाधिकं कष्टोत्पादिनी जनकयोः स्मृतिरभूत् ।
किन्तु
नहि सर्वदा सुखमविच्छिन्नमवतिष्ठते कुमित्रसंसर्गान्नु
स्वात्मनोऽविमृश्यकारित्वान्नु , वासन्त्या दुर्भाग्यप्य नियतत्वान्नु ,
माधवनाथो मदिरापानसातत्यमाललम्बे । प्रथमतः
कियन्तिचिद् दिनानि सुगुप्तमसावनुतिष्ठति। स्म तत् कर्म । किन्तु चतुरतरा वासन्ती
सद्य एव तदलक्षयत् । न प्रत्यक्षमुच्चचार पत्युर्मनः क्लेशोदयभिया। भृशमसौ
दुःखसागरे निपतता पत्युरुद्धरणायाहोरात्रं विचारयन्त्येवातिष्ठत् अथैकस्मिन् दिने
विलम्बेनायातं मदबलघूर्णमानचक्षुर्युगलं माधवनाथमवेक्ष्य वासन्ती सद्य एव शयनीये
तमवस्थाप्य तालवृन्तेन शनैः शनैर्वीजयन्ती पत्युः क्रोधाशङ्कया निवार्यमाणेव
मन्दमन्दाक्षरा परिपप्रच्छ- ' नाथ! कोयमद्यत्वे समवलम्बितो भवता पन्थाः ?
अति गर्हणीय: परिहरणीयश्चायम् '
इति अथैतदाकर्ण्य सापराधमिव स्वात्मानं
मन्यमानः शिरोऽप्युन्नमयितुं न शशाक माधवः किन्तु सद्य एव तादृशमात्मनो
विकारमुपसंहृत्य धाट्यमिवाव लम्ब्य जगाद - ' यद् वयं कुर्मस्तत्समीचीनमेव । न कोऽप्यन्त्र भवतीनों
वाचामवसरः ' । एवमभिधाय तत्क्षण माधवी गृहाद् बहिः
कुत्रचिन्निरगात् । वासन्ती तु तत्रैव स्थिता लालाटी लिपि
प्रमाष्टुमिवाश्रुजलसङ्ग्रह तत्पराऽभवत् ।
[५]
' समानशीलव्यसनेषु सख्यम् ' इति न्यायेन दैवयोगान्माधवनाथस्य विटमण्डलीषु
वसन्तेन सह स्वनगरे पानगोष्ठीसौहार्दमुदपद्यत। किन्तु वसन्तः ' भगिनी तिरस्करिष्यति '
इति भयेन माधवनाथस्य गृहं कदाऽपि न गच्छति स्म।
एकदा माधवनाथो वासन्त्या भूयो भूयोऽनुनीयमानः सकोपमभाणीत् ' प्रथमं गत्वा स्वबन्धुराजं निवर्तय।
पश्चान्मामुपदेक्ष्यसि । एतदाकर्ण्य ततः प्रभृति ' कथं वसन्तोऽपि सहैवैतेषाम् ?'
इति द्विगुणमौन्मत्यमनयोर्भविष्यतीति समधिकया
चिन्तया समाक्रान्ताऽभूत्। सकलेऽपि गृहोपकरणे विक्रीते सति ,
शनै शनैर्वासन्त्या आभूषणान्यपि
मदिरागृहोपहारतां जग्मुः। दिनद्वयादारभ्य गृहे लेशोऽपि नासीदशितव्यस्य वस्तुनः ।
चिरन्तनया वृद्धया परिचारिकया वासन्त्याः अवस्थां परिकल्प्य स्वगृहात्
किञ्चिदशितव्यमानीतमासीत् । तच्च कथमपि वासन्त्या दुस्त्यजतया बुभुक्षायाः
निगीर्णम्। माधवस्तु बहोः कालादेव बहिरेव यथाभिलषितं भोजनं विधत्ते स्म ।
वसन्तस्य
समागमेन माधवनाथस्य स्वेच्छाचारित्वं भृशमवर्धत। प्रथमं दिवसान्तर एकवारमपि
माधवनाथो गृहमायाति स्म। इदानीं तु साप्ताहिकमपि गृहागमनं कृच्छ्रेण भवति स्म।
माधवनाथस्य चरितं श्रुत्वा सपत्नीको दीनानाथशर्मा समाधिकमखिद्यत प्रथमत एव
पुत्रविषयकः क्लेश आसोदेव , पुनरेतेन दुहितुदौर्भाग्यगरिम्णा स ववृधे।
एवमुभयतः कष्टमनुभवन् समेधमानाधि परिपीड्यमान आत्मनो
गार्हस्थ्यभविष्यमन्धकारमयमवलोक्य शयनीयमभजत् । माधवनाथोऽपि स्ववपुषि
बहुलदुराचारविधानेन तनिमानमतिसूक्ष्मतया समागमत् संलक्ष्य ,
चैतद् वासन्ती कयाचिन् नूतनया चिन्तया दुःखसागर
आकण्ठं ममज्ज । पुरन्ध्रीणामियमेव चिन्ताऽतिदुर्विषह्या भवति।
यद्धि
वासन्त्या शङ्कितमासीत् , तच्छनैः शनैः सत्यतामुपगन्तुमिव सन्नद्धं
ददृशे। माधवनाथो रोगशय्यां सुष्वाप वासन्त्याः सदाचारपरायणत्वं सकल कष्टसहत्वं च
माधवनाथो न वेत्ति स्मेति न , किन्त्वात्मनो गर्वप्रदर्शनार्थमेकदाऽपि तस्या आदरं न
विदथे। वासन्ती तु सकलमप्यवमानं सहमाना कदापि न खेदयामास माधवीयं मनः ,
वाचा कर्मणा , चेष्टयाऽपि वा।
अथैकस्मिन्
दिने वासन्ती नित्यक्रमानुसारं माधवनाथमुपचरन्ती गृहकर्मणि संलग्नाऽऽसीत्
तादृशीमवेक्ष्य शनकैः ' प्रिये! वासन्ति। '
इत्येवं सगद्गदं शनैराकारयामास। वासन्ती तु
निद्राप्रबुद्धेव तं तादृशम श्रुतपूर्व तदीयं व्याहारमाकर्ण्य साश्रुलोचना
पर्यङ्कस्य समीपमागत्य तृष्णीं तस्थौ । सा तदीयाह्वानस्य प्रत्युत्तरमपि विसस्मार
माधवनाथस्तामागतामवेक्ष्य मुहुत्तं यावत् किमपि वक्तुं न शशाक अथासौ
मस्तकमुन्नमय्योत्थातुं प्रयत्नमकरोत् वासन्ती झटिति तदभिसन्धिं लक्षयित्वा
स्वहस्तावलम्बेन तमुत्थाप्यास्थापयत् । अथ माधवनाथो वासन्त्याः पाणिं रोगकृशे
स्वपाणावादाय साश्रुनेत्रो बभाषे - ' दयिते! बह्रपराद्धं मया , क्षम्यताम् त्वादृशी गृहलक्ष्मीर्मया दुराचारेण
पद्भ्यामताड्यत ! मादृशं- ' मध्य एव तस्य वचनमाक्षिप्य वासन्ती ' नैवमहं नरकगामिनी विधेया '
इति वचनमाभाष्य पत्युर्वदने स्वपाणिपल्लवं
व्यधात् । वासन्त्यास्तपः साफल्यमुपययौ , किन्तु सा रोगराक्षसदंष्ट्राया माधवनाथं
रक्षितुं नाशकत् एकस्मिन् दिने विलपन्तीं वासन्तीं परित्यज्य माधवः शाश्वतं पदं
प्राविशत्।
वसन्तोऽपि
माधवनाथस्य मरणवार्तया समुन्मीलितलोचनोऽभवत् । कतिपयदिवसानन्तरं वसन्तः कथमपि
साहसमवलम्ब्य स्वभगिन्या गृहमाजगाम। किन्तु तत्रत्यैः प्रतिवेशिभिरिदमुक्तं ' यत् पत्युर्मरणानन्तरमल्पीयसैव कालेन सा
कुत्राप्यगमत् ' इति अथ वसन्तः खिन्नमानसः पितरौ सेवमानो मनस आश्वासनाय
तीर्थयात्रायै सहैव पितृभ्यां निर्जगाम । अथ क्रमेणासौ हरिद्वारतीर्थे समाययौ
तत्रैकस्मिन् दिने गङ्गातीरे तेन काऽपि योगिनी दूरतः समायान्ती दृष्टा तां च
समीपमागतां सम्यग् निर्वर्ण्य सहसैव वसन्तवदनात् ' किं वासन्ति ! ' इत्यक्षराणि निर्ययुः साऽपि वसन्तमवेक्ष्य ' किं भ्रातः ! ' इत्युक्त्वा पादयोरपतत्। अथ वसन्त
आचरणमूलात्तामवेक्ष्य ' भगिनि ! किमिदम् ?'
इत्यपृच्छत् । वासन्ती तु सहसैव विहस्याकथयत्।
' को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य
पिधातुमीष्टे ' ।
उग्रवादी
लेखकः- शिवजी उपाध्यायः
(सम्पूर्णानन्दसंस्कृतविश्वविद्यालये
साहित्यविभागेप्राक्तानाऽध्यक्षः)
'एहि मित्र शेरसिंह ! चिराद् दृष्टोऽसि ,
व्यपगतः सकलोऽपि ग्रीष्मावकाशः ,
एतन्मध्ये नैकदापि त्वद्दर्शनं सुलभमभूत् ,
मात्राऽपि नैकधा पृष्टम् ' देवेश शेरसिंहो नायाति ,
किमसौ क्वचिद् गतः '
? मयोत्तरितम् - ' मातुलगृहं प्रस्थितोऽसौ सम्प्रति ततो न
प्रत्यागत इत्यनुमीयते ' । पित्रापि त्वद्विषये जिज्ञासितम् ,
सोऽपि तथैव समाहितः । रञ्जना तु प्रत्यहं
कतिवारं त्वद्विषयिण चर्चा चालयति मित्र ! कदा किलागतोऽसि मातुलगृहात् '
इति देवेशो मासद्वयानन्तरं समागतं प्रियवयस्यं
सहाध्यायिनं च शेरसिंहं सस्नेहमालिङ्गय पप्रच्छ ।
शेरसिंहो
मन्दस्मितिपूर्वकं प्रत्यवोचत्- ' मातुलो मां शीघ्रमागन्तुं नान्वमन्यत ,
विश्वविद्यालयोऽपि सम्प्रत्यातङ्कोपद्रुतो
विघ्निताध्ययनाध्यापन क्रमोऽनुद्घाटित एव अदत्तानुत्तीर्णपरीक्षाणामस्माकं समेषां
छात्राणां भविष्य दन्धकाराच्छन्नं प्रतिपन्नम्। वयं नु खलु किं कुर्याम ?
स्व गच्छेम ? किं निर्णयाम आत्मनो जीवनपथोद्देश्यविशेषविनिश्चयायेति
चिन्ता मामहर्निशं बाधते ' ।
देवेशस्तद्वचः
समाकर्ण्य क्षणं विचिन्त्योच्चैर्विनिःश्वस्य च वयस्य ! सम्यगुच्यते त्वयेति
प्रत्यवदत् योऽयमस्माकं पाञ्चालप्रान्तः सर्वसम्पत्सम्पन्नः
सस्यश्यामलावनिसमृद्धिसमेधितः परस्परसुहृज्जनसामुदायिकसौहार्दस्नेह संवलितश्चासीत्
सोऽयमधुना जातिद्वेषरोषाग्निज्वालावलीढो विद्रोह भावनोद् भावितपार्थक्यवाददूषितो
मिथोऽविश्वासपाशपाशितापकृष्टमनोमालिन्यमूच्छित श्चात्मानं कापथं प्रापयतीति सुमहद्
दुःखास्पदमिदमापतितम् । किमत्र कुर्याम ? वयमिति निर्णेतुं निश्चेतुं च मयापि नैव
पार्यते ।
इमौ देवेशशेरसिंहौ पाञ्चालविश्वविद्यालये स्नातकोत्तरकक्षायामन्तिमे वर्षे
सवाधीयानावास्ताम् । परीक्षासमये अकस्मादेव पाञ्चालप्रान्त उग्रवाद उदभवत्।
तेनातङ्कोपद्रवहिंसाग्निज्वालाप्रसरः सर्वत्र प्रासरत्। तत्कुप्रभावेण सर्वा:
शिक्षणसंस्था उद्योगालया कार्यालयाश्च विनिरुद्धा अभूवन्। उग्रवादिनः
खालिस्ताननाम्ना पाञ्चालं पृथग्देशं स्थापयितुं भारतराष्ट्रमुच्छेत्तुं च
हिंसकमान्दोलनं विद्रोहं विलुण्ठनं निरीहाणां निरागसां च स्त्रीबालवृद्धयुवकानां
हत्याचरणं सर्वेषां सर्वस्वापहरणं च प्रारभन्त । अनेनाकाण्डोद्भूतेनातङ्काग्रताण्डवेन
पाञ्चालधरणी समन्तादकरणीयदुष्कृत्यक्लेशक्रान्ता शान्तिक्षान्तिक्षामक्षामा
क्षपितात्मसौख्यसम्भारा परितोऽपि महाविपदगाधाकूपारापारोत्तालतरङ्गावर्ते
निमग्नाऽन्ववर्तत यच्च स्वर्णमन्दिरं सिक्खजनानां तथाऽन्येषां
श्रद्धानिबद्धादराणां भक्तिभाजां भारतीयानां परमप्रतिष्ठास्पदमास्पदम्,
अकालिनां च सर्वोच्चमञ्चाञ्चितं प्राचां
सिक्खगुरूणां गोविन्दसिंहप्रभृतीनां सिक्खनेतॄणां च गौरवस्मारकं सिक्खवीराणां
रणजीतसिंहादीनां शौर्यकीर्तिस्तम्भभूतं चाभिमन्यते , तदिदानों दुर्दैवादुग्रवादिनां
पार्थक्यपथोन्मादिनां लोकजीवनोद्वाधकानां दिग्भ्रान्तानां युवकानां शरणस्थलं
समजायत । तत्रातङ्कवादिनः सम्भूय शस्त्राणि आग्नेयास्त्राणि लुण्ठनद्रव्याणि
निक्षिपन्ति रक्षन्ति च । स्त्रीबालयुवजनान् बलादपहत्य पशुमारं निघ्नन्ति ,
बाला विधूय बलात्कुर्वन्ति ,
राष्ट्रद्रोहौपयिकयोजनाः कूटकौटिल्य
कपटाचारनीतीश्च परिचालयन्ति । तत्रोपद्रवायोजने राष्ट्रविखण्डने देशद्रोहाचरणे
भारते समन्ततोऽप्यशान्तिसर्जने च प्रतिवेशिपाकादिदेशशासका अन्ये विदेशी
याश्चैतेषां मार्गभ्रष्टानामशिष्टानां दुष्टभावनादूषितानामुग्रवादियुवकानां
लक्षाधिक द्रव्यशस्त्रादिप्रदानपूर्वकं साहाय्यं भीषणाग्नेयास्त्रसञ्चालनप्रशिक्षणं
च विदधति । तदुद्देश्यं चैकमात्रमखण्डभारतराष्ट्रस्य विखण्डनं सर्वदिकं विकास
प्रबाध्य गृहयुद्धजर्जरीकरणद्वारेण पुनः पारतन्त्र्यवशीकरणं नाम प्रतीयते । अनेन
खलु सहसाऽसामयिकोपजातविप्लवविशेषेण सम्पूर्णोऽपि पाञ्चालप्रान्तो नितान्त मुत्पीडितो
दुःखातिशयगभीरगर्ते निपतितो नो मनागपि शान्तिमाकलयति ।
शेरसिंहो देवेशस्य प्रियतरः
सखा सहाध्यायी चेत्युभयोः परस्परं परमा प्रीतिरस्ति देवेशनिर्विशेषं शेरसिंहं
तदीयौ पितरो सस्नेहवहमानमामन्येते । देवेशस्य जननी तस्मै देवेशादप्यधिकं स्निह्यति
। तस्य भगिनी रजना प्रत्येक रक्षापूर्णिमाया देवेशेन यात्रा समं शेरसिंहमपि निज
सोदर बन्धुं जानाना रक्षासूत्र निबध्नाति । सोऽपि शेरसिंहो रञ्जनामौरसों भगिनीं
मन्यमानस्तस्यै सुभृशं स्पृहयति । उभयोर्मित्रयोः स्नेहाधिक्यात्तयोः पारिवारिकः
स्नेहसम्बन्धः सातिशयं व्यवर्धत । शेरसिंहस्य काचित्सोदरा भगिनी नासोत् तेन
तत्स्थानपूयै रञ्जनामेवात्मीयां लघीयसी भगिनीमङ्गीचकार । देवेशशेरसिंहाँ
देहमात्रभिन्नौ मनःप्राणादिना वस्तुतो नितरामपृथग्भूतौ सुहदावभूताम्।
कतिचिद्दिनानि यावदुभी परस्परमुभयोदर्शनं विना अत्युद्विग्नौ जायेते स्म किमधिकेन
सोदरयोर्यावती प्रीतिर्नानुभूयते ततोऽप्यतिशयमनितरसाधारणं सौभ्रात्रमुभयोरभूत् ।
तयोः शेरसिंहात् पण्मासाधिकवयसा ज्येष्ठो द्वाविंशतिवर्षदेशीयो
हृष्टपुष्टबलिष्ठकायकमनीयो नातिप्रलम्बो यौवनोचितोत्साहसाहसश्लाघ्यवलविक्रमो
देवेशः समवयस्केषु स्पृहणीयशीलस्वभावशौर्यशेमुषीको नितान्तमादर भाजनं बभूव
प्रतिश्रेणि सर्वाः परीक्षाः सर्वप्राथम्येनोदतरत् । यथायं देवेशो
युवजनललामस्तथैवास्य हृदयाभिन्नः सुहृदुत्तम: शेरसिंहोऽपि निखिलगुणगणनिलयो
बलबुद्धिविद्याविवेकविकस्वरः शीलसौजन्यधन्यः सुहृत्सु स्ववर्गेषु च सर्वत्र
स्नेहसम्मानार्हः समभवत् । द्वयोरनयोमैत्री तु समेषां स्पृहेर्ष्याश्चर्यविषया
विशेषेणासीत् । शेरसिंहो देवेशापेक्षया किञ्चिदुग्रस्वभावः क्रीडास्पर्धाद्यनेक
बाह्यकर्मोदग्रमानसश्छात्रराजनीत्युन्मुखो नैकविधान्यसामाजिककार्यव्यापृतो
बहुव्यस्ततया शिक्षणे मित्रादीपदून: पराक्रम प्रदर्शने परमप्रवीणः
सक्थिभुजवक्षोबलभरापीनः प्रशस्तनिटिलराजितोष्णीकः समुचितविवर्धितकूर्चक:
श्यामलाङ्गः केशकटकच्छुरिकादिसिक्खन लक्षणोपेतो व्यपेतभीर्भीमकर्मा युवा
असमानपौरुषः समासीत् ।
पाञ्चालोपद्रवेण
शिक्षणसंस्थानामवरोधाद् विश्वविद्यालयो ग्रीष्माव काशादनन्तरमप्यनिश्चितकालं
यावदनुद्घाटित एवावर्तत। विद्यार्थिनामध्ययनं निरुद्धम् ,
कक्षाः क्षपिताः , पाठाः कुण्ठिताः , पुस्तकानि परिहतानि ,
अध्यापकागृहमध्यवात्सुः ,
छात्राः पठनपथच्युता विपथमुरोचकुः । इत्थं
पाञ्चालप्रान्ते समग्र जनजीवनं विशिष्य विद्यार्थिनां भविष्यत्कालस्तमसाच्छन्नश्छिन्नभिन्नो
बभूव।
देवेशः
सौम्यो युवा पितुराज्ञावशंवदस्तदादेशान्निजे पैतृके व्यवसाये कृषिकर्मणि च
प्रदत्तावधानो व्यलगत्। स्वस्य पितुरेकमात्रः पुत्रोऽसौ गार्हस्थभार वोढुं पित्रा
न्ययोज्यत । तेनापि यथानिर्दिष्टं स्थविरस्य पितुः कुलक्रमागतं कर्माविरामं कर्तुं
तच्चिन्तामुक्तं च तं विधातुं तदनुकूलं कार्यानुष्ठानमास्थीयत एवं
जननीजनकभगिनीपरिमितो देवेशपरिवारः सुखसौहार्दसमृद्धिसम्पन्नोऽपि
पाञ्चालदुरुपद्रवजन्यदुष्परिस्थितेर्दारुणे काले कथञ्चित्समयं यापयन् सकष्टं
न्यवसत् ।
शेरसिंहो
मध्ये मध्ये देवेशगृहमागच्छति स्म । देवेशगृहात् तद्गृहे ग्रामान्तरे
नातिदूरमतिष्ठत् देवेशोऽपि शेरसिंहमालपितुमुत्कस्तदागम विलम्बमनुभूय
कदाचित्तद्गृहं याति स्म । एवं गच्छति काले नन्वेकदा शेरसिंहः स्वग्रामात् सुदूरं
नगरान्तरं व्यवसायचिकीर्षया तद्व्याजेन गन्तुकामः पित्रादीना पृच्छ्य प्रययौ। अतिकालं
यावन्नाययौ नापि च तद्वृत्तं किमपि प्रत्यागमत् । एतदर्थं नक्तन्दिवं
चिन्ताकुलस्तज्जनको शोकार्ता तज्जननी तथाऽन्ये च परिजना अजायन्त देवेशोऽपि
तद्विषये अहर्निशं शुशोच-शेरसिंहः क्व गतः ? तस्य किं जातम् ? कस्मिन् सङ्कटे पतितः ?
जीवति वा न वा ? केनापि अपहृतो वञ्चितो वा ?
- इत्यादिचिन्तापरवशो देवेश: शेरसिंहविषयिणीं
वार्तामलभमानो व्यचिन्तयत्। एवमेव तदीयाः पित्रादयोऽपि परिजनाः पर्यचिन्तयन् ।
इतश्च
सुदूरे नगरान्तरे शेरसिंहो विद्रोहिभिरातङ्कवादिभिरुत्पथगामिभिः
हिंसादिदुष्कर्मकारिभी राष्ट्रविखण्डनोन्मुखैः सिक्खयुवकैः कतिपयैः प्रतारितो
द्रव्यादिना प्रलोभितः , सिक्खजाते: प्रशासनोत्पीडनेन परिरक्षणं
कार्यमस्माभिरिति , मिथ्यावचोभिस्तन्मतिं विमोह्य
हिंसकोग्रवादिसमूहे सम्मेलितः । अल्पीयस्यैव काले शस्त्रादिप्रशिक्षणं शेरसिंहः
सम्प्राप्योग्रवादिनां नेतृत्वमध्यग्रहीत् । सुशिक्षितः सुदर्शनः
सौशील्यसद्भावभूषितो बलपराक्रमख्यातो युवजनशीर्षाभिषिक्तो युवकोत्तमो
राष्ट्रप्रेमाविरोऽपि सोऽयं शेरसिंहो हिंसकोग्रवादिनां समूहे बहुप्रलोभाकुर:
सम्मिलितः शनै: शनैः क्रूरकर्माभ्यस्तो निर्दयों निर्घृणो दारुणं भयावहं देवन्दिनं
हिंसादिदुष्कृत्यमाचरितुमारेभे । सर्वाधिकप्राणवत्तया बुद्धिबल पौरुषप्रकृष्टतया च
तेषामुग्रवादिनां शीर्षस्थानमाससाद । शताधिकोग्रवादियुवसमूह: शेरसिंहस्य नेतृत्वे
प्रत्यहं हत्याचरणद्रव्यादिविलुण्ठनापहरणादिदुष्कर्माणि कर्तुं प्रावर्तत ।
शेरसिंहपरिचालितं सङ्घटनमिदं विद्रोहिणां श्लाघ्यतरं मूर्धाभिषिक्तं स्वल्पसमय एवं
चतुरस्रचर्चाविषयी भूतमभूत् तेन खलु प्रबलतरेण साहसिकेन
क्रूरतरकर्माभिमुखेनोग्रवादिना शेरसिंहस्य सङ्घटनेन प्रशासनं प्रबाधितम् ,
जनजीवनं विच्छिन्नम् ,
जनता वित्रस्ता , पाञ्चालभूमिरूपद्रुता समभवत् । सर्वत्राराज्यं
प्राज्यमजायत। प्रत्यहमत्याहितं इत्यादिकं निरपराधानां जनानाम ,
विलुण्ठनं कोषागाराणाम् ,
बलादपहरणं निरीहाणाम् ,
बलात्करणं स्त्रीणाम् ,
उपद्रवणमारक्षिणाम् ,
पङ्गकरणं प्रशासकाधिकारिणाञ्चेत्थमन्यदपि
भीषणतरं दुष्कर्म कुर्वाणं शेरसिंहस्य प्रबलतरं सङ्घटनं सर्वथा
सुरक्षितमप्रभावितमक्षतं सदहर्निशं ववृधे।
प्राप्तवैदेशिकप्रचुरतरवित्तशस्त्रादिसाहाय्यं तदद्वितीयं दुर्जयं चात्मानमगणयत् ।
तत्र शेरसिंहस्यादेश एवं नियामको विधिः , तदतिरिक्तं कश्चित् किमपि कर्तुं मनागपि नं
शक्नोति तस्मिन् सङ्घटने शेरसिंह : सर्वाराध्यः सङ्घाध्यक्षः सर्वोच्चसिंहासनासीनो
राजवत् पर्यपूज्यत । तदाज्ञया तदुग्रवादिनां सङ्घटनं नैकविधानि दुष्कराणि
दुष्कर्माणि योजनापूर्वकमसकृद् विदधानं निभृतं गूढस्थलं शरणीकृत्यावर्तत ।
सीमान्तक्षेत्रे प्रबलं निगूढं निवसदिदं हिंसकोग्रयुवजनसङ्घटनं
प्रभूततरविदेशीयसाहाय्यमधिगम्याधिसंख्य भीषणाग्ने यास्त्रबलमासाद्य केन्द्रीय
प्रान्तीयञ्च प्रशासनं परितोऽपि पङ्गूचकार।
एकस्मिन्नहनि
प्रात:कालिके वृत्तपत्रे एकं सचित्रं वृत्तमवलोक्य देवेशो नितरामाश्चर्यचकितो
विस्फारितेक्षणो जातः । तत्र सविशेषशीर्षकेण मुखपृष्ठ एवेदं प्रकाशितं वृत्तं
मुहुर्मुहुः साश्चर्यमपाठीत्- ' सीमान्तक्षेत्रे उग्रवादिनां नायकः शेरसिंहो
हिंसादिशताधिकापराधान् कुर्वाणो लोकजीवनं प्रशासनं च व्याकुली कृतवानस्ति ,
मृतं वा जीवितं वा तमानेतुं तदावाससङ्केतस्थलं
संसूच्य ग्राहयितुं च यः कोऽपि जनो लक्षरूप्यकपुरस्कारेण प्रशासनेन पुरष्करिष्यते '
इति देवेशो बहुशोऽपि वृत्तमिदं प्रपठ्य तदेव
परिशील्यमानो विचारमग्नोऽभूत् किमिदं चित्रं वार्तापत्रे प्रकाशितं
ममाभिन्नमित्रस्य शेरसिंहस्य ? आहोस्वित्तदा कृतिसदृशस्य कस्यचिदन्यस्य ?
शेरसिंहः क्रूरकर्मोग्रवादिनां नेता
हिंसाद्यपराध व्याप्तमनस्को भवेदिति स्वप्नेऽपि विश्वसितुमनीशोऽस्मि । हन्त ! दैव
! किमिदमापतितम् ? किमघटितं घटते , किमश्रुतं श्रूयते किमदृष्टं दृश्यते - इत्येवं
बहुधा विचिन्तयन् निशि निद्रां नावाप्नोत् ।
अथ
गच्छत्सु केषुचिद् दिवसेषु प्रतिदिनं वार्तापत्रेषु दूरदर्शनाकाशवाणी
प्रभृतिसञ्चारसाधनेषु सहस्रधा चर्चितेषु शेरसिंहनामकर्मसु पूर्वपठितस्य वृत्तस्य
पुष्टिः स्पष्टमभूत् अनेन दुर्वृत्तेन देवेशो नितान्तं खिन्नमानसः
पर्याकुलीभावमापन्नः स्वमित्रविषय एव प्रतिक्षणमाशोचन्नास्त। शनैः
शनैरातङ्कीग्रवादज्वाला समन्तात् पाञ्चालप्रान्ते प्रजज्वाल तत्प्रभावञ्च देवेशस्य
नगरग्रामभूमिमप्यस्पृशत् तत्रापि हिंसादिदुष्कृत्यमुग्रवादिनां प्रवृत्तम् ।
एतदतर्कितं पुरस्तादनायासोपनतं हिंसाचरणमवरोद्धुम् , उग्रवादिनामातङ्कं प्रशमयितुं तत्कृतमन्यायं
प्रतिकर्तुं स्वग्रामनगरसीमारक्षणं संविधातुं च देवेशेन
सच्चारित्र्यसमुदाचारशौर्यसम्भृतानां राष्ट्रियभावनाभावितानां भारतीयताभिमानवतां
राष्ट्रैक्यवादिनां यूनामेका शान्तिसेना सङ्घटिता अनया शान्तिसेनया प्रशासनस्यापि
संरक्षणमधिगतम् । देवेशः सर्वत्र क्षेत्रे समुदघोषयत् –
' उग्रवादिनां सर्वविधमन्याय्यं दुष्कृत्यं
विरोद्धुं तत्प्रतीकार माचरितुं चेयं शान्तिसेना प्रपीडितस्य सर्वस्य
सहायतार्थमहर्निशमुद्यता प्रतितिष्ठति , सत्यामावश्यकतायां झटित्येव
घटनास्थलमुपगत्योग्रवादिनामाततायिनां दमनं प्रशमनं च विधास्यतीति ' । इत्थं देवेशकृतोद्घोषणायां जातायां सत्यां
क्षेत्रवासिनः कथं कथमपि शान्तिमन्वभूवन्। देवेशश्च शान्तिसेनायाः समविभक्तेन दलेन
सह सर्वदा जागरूकः स्वग्रामनगरक्षेत्ररक्षणं कर्तुमुद्युक्तो दिवानिशं व्यचरत्।
एतन्मध्ये
शेरसिंहसङ्घटनस्यातङ्कोऽतितरां प्रसृतिमापत् । तेन सङ्घटने नोग्रवादिनां
विरोधमाचरतां तत्प्रतीपपुरुषाणां राजनेतॄणां समाजशीर्षस्थ सज्जनानामन्येषां
धार्मिकाणां विशिष्टानामधिकारिणां च नामावलिं सूचीनिबद्धां विधाय एकैकशः क्रमेण
पूर्वसूचनाप्रदानपूर्वकं तद्गृह एव ते निहन्यन्ते स्म । एवमातङ्कशङ्कोद्भावित
भयार्तानां प्राय: समेषां तादृक्षाणां विशिष्टपुरुषाणां सुरक्षार्थ
प्रशासनेनारक्षिणो नियोजिताः , तेषां निर्विघ्नं जीवनरक्षणं तेभ्य उग्रवादिभ्यः
कर्तुमशक्यमेवाभूत् । देवेशस्तदीया शान्तिसेना च तदर्थमत्यर्थाभावेन तदुपशमनं
विधातुं सुभृशमचेष्टत। देवेशस्य ग्रामक्षेत्रात्समीपवतिीन नगरप्राय सौविध्यसले
एकस्मिन् समृद्धे ग्रामे एकः स यातनामा धार्मिको विशिष्टः सिक्खसमाजस्य गुरुः प्रतिवसति
स्म। स ह्यातङ्कवादस्यातङ्कवादिनां च हिंसाया अन्यायस्य च
प्रबलप्रतिरोधकस्तदुन्मुलनाय कृतप्रयत्न आसीत्। उग्रवादिनस्तं सिक्खगुरु सपरिवारं
निहन्तुं तदावासे पूर्वसूचनां प्रपयन्। तदारक्षका आरक्षिणस्तत्प्राणरक्षणे तत्परा
अभूवन् । देवेशोऽपि वृत्तमिदमभिज्ञायात्मनः शान्तिसेनया सह सन्नद्धः शस्त्रादिना
बद्धपरिकरस्तदावासमयासीत्। सर्वेऽपि रक्षका निगूढमात्मगोपनपुरस्सरं तत्र तस्थुः
तेषु कृतसन्नाहेषु बहुकालं प्रतीक्षमाणेषु सत्सु निविडे मध्ये निशीथे प्रायशो
विंशतिसंख्याका उग्रवादिनः आधुनिक भीषणास्त्रपाणयस्तत्राजग्मुः। ते च निपुणं
निरीक्ष्य स्वीयं यानं सूदूरं संस्थाप्य तस्य धार्मिकस्य सिक्ख गुरोर्गृहाभ्यन्तरं
प्रदेष्टमैच्छन् पूर्वमाग्नेयवमाख्यशस्त्र प्रहारेण तद्गृहं भस्मीकृत्य ततः
सर्वान् परिजनान् व्यापादयितुमुद्यतास्तेऽभूवन् । उग्रवादिनां क्रूरकर्मणां प्रबलं
भयानकं तत् सैन्यमवलोक्य आरक्षिणो भीतभीता स्तदाक्रमणं प्रतिरोद्धुमशक्ता अजायन्त
। एतस्मिन्नन्तरे भीतांस्तानात्मगुप्तिपरान् रक्षकान् संवीक्ष्य देवेशः
शान्तिसेनाया विश्वस्तबलिष्ठवयस्ययुवकोपेतः पुरः सरीभूय तानुग्रवादिन आह्वयाञ्चकार
। उग्रवादिनां नायकस्तत्प्रतिरोधकं सशस्त्र सवलं युवसमूहमवलोक्य उच्चैरवोचत्- ' भो मूढा युवानः। यूयमपात ,
अन्यथा अनेनास्मद्वैरिणा सिक्खगुरुणा समं
यूयमपि पशुमारं हतिमवाप्यथ ' इति देवेशश्चिरात्परिचितं ध्वनिमाकर्ण्य चकितः
सन् चिन्तयन्नास्त- ' अये एप तु शेरसिंहस्य ध्वनिः प्रतीयते!
किमनेनैव सह योद्धुमद्याहमत्र सन्नद्धोऽस्मि ! एष तु मम प्राणप्रियः सखा ,
एनं वचोभिरेव परिसान्त्वयितुमहमि ,
मद्वचनमुपश्रुत्य शेरसिंहः प्राणानपि निजान्
मह्यमर्पयितुं नैव विमुखीभवेदित्यहं विश्वसिमि । ' यावदित्थं विचिन्तयन् देवेशः क्षणं व्यरमत्
तावदेवोग्रवादिनां नायक:- एक द्विः त्रिरिति दशाङ्कान् गणयित्वा स्वास्त्रेण
गुलिकाप्रहारमकार्षीत्। सा च गुलिकाऽग्रेसरीभूय पुरः स्थितं देवेशं
वक्षोविदारणपूर्वकं भूमौ न्यपातयत् सञ्जातगभीरघातो देवेशो महीमधिपतन्
प्रोच्चैचक्रन्द- अये! मम प्राणेभ्योऽपि प्रियतरसखे! शेरसिंह!...किं कृतवानसि ?
किं मामभिन्नं मित्रं देवेशमपि विस्मृतवानसि ?
शेरसिंहस्तदीयं चीत्कारध्वनिं संश्रुत्य परिचीय
चात्मनः शस्त्रपरिहारपूर्वकं सवेगं समेत्य देवेशस्योपरि-हा! मित्र ! त्वमिह कुत
आगतोऽसीति साक्रन्दं व्याहरन् निपपात मुहुर्मुहुस्तमालिङ्गय सोरस्ताडं तत्रासौ
रोदितुमुपचक्रमे इदं विचित्रं द्वयोर्मित्रयोरुपगूहनात्मकं सङ्गमं परिदृश्य
सर्वेऽपि तत्रत्या उपस्थिता उग्रवादिन आरक्षिणश्च चकितचकिता बभूवुः । शेरसिंह:
सर्वांस्तान् सम्बोध्य प्रत्यवदत् - यूयं पलायध्वम् , अहमिमं स्वीयं सुहदं परिहृत्य क्वापि नेतो
गच्छामि देवेशश्च अचेतनः सन्नातिघातमासाद्य जीवितं न जहाँ । क्रूरतम : शेरसिंह:
परमोग्रवादी मित्रस्य समक्षं शिशुसदृशं रुदन् आरक्षिभिर्नि गृहीतः।
कतिपयमासानन्तरं चिकित्सालये देवेशः स्वास्थ्यलाभमवाप्य कारागारे स्वकीयं
हृदयाभिन्नं मित्रं शेरसिंहं साक्षात्कर्तुमसकृदगमत्। वार्तापत्रेषु प्रकाशितम् –
' उग्रवादी शेरसिंहो निगृहीतः ,
देवेशो लक्षरूप्यकपुरस्कारेण सभाजयिष्यते '
इति।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें