संस्कृत-कथा-संग्रहः (भाग 5)

 

कः पापीयान्

लेखकः- ओम् प्रकाश ठाकुरः

महात्मनः बुद्धस्य द्वौ शिष्यौ तस्य दर्शनार्थं स्वनगरात् पदाती प्रस्थितौ यात्रा दीर्घा आसीत् मार्गे धर्मचर्चा कुर्वतोः तयोः समयः सानन्दं याति स्म क्रमशः तौ नदीतीरं प्राप्तौ । तस्याः नद्याः गहने जले मज्जन्तीम् एकां स्त्रियं विलोक्य तौ सम्भ्रान्तौ बभूवतुः तयोः एकतरः शिष्यः अवदत्-अस्याः रक्षा करणीया अपरः अब्रवीत्- अस्माकं धर्मे नारीस्पर्शः सर्वथा वर्जितः अस्ति । अहं तु इमां जलात् न उद्धरिष्यामि। यदि मज्जति, मज्जतु

प्रथमः शिष्यः अपरेण निषिध्यमानः अपि सरिति झम्पां दत्तवान् तां नारीं धृत्वा स्कन्धं च आरोप्य तटम् आनयत् । तस्याः शुश्रूषां कृत्वा स तां स्वस्थाम् अकरोत् ।

यात्रा पुनः प्रारब्धा । समस्ते यात्रामार्गे द्वितीयः शिष्यः नारीरक्षकस्य सहचरस्य निन्दां भर्त्सनां च कुर्वन् अवदत्-त्वं धर्मात् पतितः असि। त्वया नारीस्पर्शं कृत्वा महत् दुरितम् आचरितम् । अस्मात् पापात् तरणोपायः नास्ति अहं तथागताय त्वाम् अन्तरेण सर्वं निवेदयिष्यामि ।

यात्रायाम् अवसितायां तौ भगवन्तं युद्धम् उपेत्य सादरं प्रणामं चक्रतुः । तदनु द्वितीयः शिष्यः स्वसहचरस्य निन्दां कुर्वन् सर्वं वृत्तं निवेदितवान् ।

भगवान् तथागतः सर्वं वृत्तं ध्यानेन शुश्राव प्रप्रच्छ च भद्र ! मज्जन्तीम् नारीं स्कन्धम् आरोप्य जलात् नदीतीरम् आगतवतः अस्य कियान् समयः लग्नः ? सः प्रत्यवदत्, प्रायः पंचदशकलामितः समयः ।

तथागतः पुनः पृष्टवान् नदीतीरात् अत्र आगमने कियान् समयः अलगत्। स प्रत्यवदत् - षड्ढोरामितः कालः।

उत्तरं श्रुत्वा भगवान् बुद्धः अवोचत् - अनेन तु पंचदशकला- पर्यन्तं नारी स्कन्धम् आरोपिता, त्वया तु षड्ढोरापर्यन्तम् । युवयोः कः अधिकं पापीयान् ?

आक्षेपकर्ता निरुत्तरः सञ्जातः । अवगतः तेन मनसः महिमा !

 

नवनवतिचक्रम्

लेखकः- ओम् प्रकाश ठाकुरः

एकस्मिन् ग्रामे एकः निर्धनः जनः प्रतिवसति स्म । स परिश्रमं कृत्वा लब्धैः कतिपयरूप्यकैः स्वपरिवारस्य भरणपोषणम् अकरोत् तस्य यावान् आयः, तावान् एव व्ययः ।

प्रतिदिनं तस्य गृहे दुग्धं, नवनीतम्, अपूपाः स्वादुव्यंजनानि च खाद्यन्ते स्म, किन्तु धनस्य संचयः तेन न कृतः पुनरपि स सपरिवारं सुखेन जीवनयापनं कुरुते स्म ।

तस्य प्रतिवेशी एकः धनिकः आसीत् । तस्य सकाशे बहुधनम् अविद्यत । किन्तु सः कृपणतया स्वजीवननिर्वाहं कुरुते स्म । तस्य भार्या प्रायः स्वपतिम् अवदत् - अवलोक्यतां स्वप्रतिवेशी, यस्य गृहे सदा स्निग्धं भोजनं भुज्यते । एतद्विपरीतम् बहुले धने सत्यपि अस्मद्गृहे रूक्षं भोजनं भक्ष्यते । अस्माकं बालाः स्निग्धभोजनाय स्पृहयन्ति परन्तु न तत् लभन्ते । को लाभः विपुलेन धनेन ?

वारं वारं तद्वचोभिः सन्तक्ष्यमाणः स धनिकः एकदा स्वभार्याम् अवदत्- प्रिये ! शृणु ! अस्य स्निग्धं भोजनं सुखितं जीवनं च तावद् अस्ति, यावत् अयं नवनवतिचक्रे न पतति तस्मिन् पतितः सर्व विस्मरिष्यति ।

पत्नी अपृच्छत् कीदृशं भवति नवनवतिचक्रम् ? सोऽवदत्- अचिरात् ज्ञास्यसि।

रात्रौ तेन धनिकेन तस्य निर्धनस्य प्रतिवेशिनः गृहाङ्गणे नवनवतिरूप्यकाणि एकस्मिन् वस्त्रपुटके निधाय क्षिप्तानि । प्रभाते उत्थाय स निर्धनः अचिन्तितोपनतं धनम् पश्यति, प्रीतो भूत्वा च रूप्यकाणि गणयति रूप्यकाणां संख्या नवनवतिः आसीत् द्विवारं त्रिवारं गणनेऽपि एकोनशतम् एव रूप्यकाणि आसन् ।

निर्धनः चिन्तयति यदि एकं रूप्यकम् अस्मिन् राशौ योज्यते, तदा शतं रूप्यकाणि भविष्यन्ति कुतः प्राप्येत रूप्यकम् ? तत्पत्नी वदति - अद्य रूक्षं भोजनं भक्षयिष्यामः । तेन एकस्य रूप्यकस्य लाभः भविष्यति ।

तस्मिन् दिने निर्धनपरिवारेण दुग्धं, दधि, नवनीतादि न क्रीतम् धनसंग्रहप्रवृत्तिः क्रमेण अवर्धत रूप्यकाणां संख्या क्रमशः वृद्धिम् उपगता । स्निग्धस्य भोजनस्य स्थानं सामान्यभोजनेन लब्धम्

एतद् विलोक्य धनिकः स्वपत्नीं प्राह- प्रिये ! गत्वा पश्य किम् अश्नाति तव प्रतिवेशी इति असौ इदानीम् वयम् इव नवनवतिचक्रम् आरूढः ।

                                                                 परोपदेशे पाण्डित्यम्

लेखकः- ओम् प्रकाश ठाकुरः

एकस्मिन् देवालये एकः कथावाचकः उपदेशं यच्छन् अवदत् यत् क्रोधः मानवस्य परमशत्रुः । एष तु साक्षात् चाण्डालरूपः । क्रोधी नरः मान्यानामपि मानं न करोति । स्वहितस्य अपि हानिं करोति । क्रोधेन राज्यानि नाशितानि । क्रोधेन परिवारस्य शान्तिः विनाश्यते । एतस्मात् चाण्डालात् आत्मा रक्षणीयः - इत्यादि । जनाः परमश्रद्धया तस्य प्रवचनं शुश्रुवुः ।

प्रवचनानन्तरं यदा स कथावाचकः आसनाद् उदतिष्ठत्, जनाः करौ बद्ध्वा तं प्राणमन् श्रोतृषु एकः सम्मार्जकः अपि आसीत् । सः अपि बद्धाजलिः तं ननाम । कथावाचकः प्रसन्नमुद्रः यदा वहिः गन्तुम् ऐच्छत्, तदा जनसम्मर्दवशात् भूमौ पतन्तम् आत्मानं कथंचिद् ररक्ष। पुनरपि स तेन सम्मार्जकेन स्पृष्टः अभवत् ।

तं सम्मार्जकं पुरतः विलोक्य कथावाचकस्य नेत्रे रोषारुणिते जाते। स आक्रोशशब्दैः तम् उच्चैः भर्त्सयन् उवाच - रे नीच ! कथं त्वं मां स्पृष्ट्वा अपवित्रम् अकार्षीः मम वस्त्राणि तव स्पर्शेन अपवित्राणि जातानि गंगाजले स्नानं विना कथं शुद्धिः भविष्यति ? त्वया मम धर्मो नाशितः, समयस्य अपि हानिः कृता ।

एवं तं सम्मार्जकं कुत्सयन् स यदा निकटस्थां गंगां प्रति अचलत् तदा सम्मार्जकः अपि अग्रे अग्रे चलति स्म तं तत्र यान्तं दृष्ट्वा स पण्डितः पुनः साक्रोशं तम् अपृच्छत्-रे दुष्ट ! क्याधुना यासि ?

सम्मार्जकः सविनयम् अवदत् - अहम् अपि गंगां प्रति स्नानाय यामि, यतः अहं क्रोधचाण्डालेन स्पृष्टः अस्मि । स्नानद्वारा आत्मानं पावयितुम् इच्छामि। भवता एव कथायाम् उक्तम् आसीत् यत् क्रोधः चाण्डालः भवति ।

तद्वचनानि श्रुत्वा स पण्डितः लज्जावशाद् आनतशिराः अभवत् ।

 

समयहानिः

लेखकः- ओम् प्रकाश ठाकुरः

 

श्री स्वामी रामतीर्थः यात्राप्रसङ्गेन एकदा ऋषिकेशं गतवान् । एक- स्मिन् दिने सायंकाले असौ गंगातीरे गतागतं कुरुते स्म तत्र सः एकं योगिनम् ददर्श । तत्परिचयं ज्ञातुकामः श्री रामतीर्थः तं पृष्टवान्-भो योगिन् ! कति वर्षाणि भवतः तपसि रतस्य ?

योगी (साभिमानम्) - चत्वारिंशद् वर्षाणि।

रामतीर्थ :-- एतेन दीर्घकालिकेन तपसा भवता का सिद्धिः प्राप्ता ?

योगी - अहं जले स्थले इव चलितुं शक्नोमि ।

रामतीर्थ:- किं भवान् अस्यां गंगायां चलितुं शक्नोति  ?

योगी - अथ किम् यथा भवान् भूमौ चलति तथा अहं जले चलामि।

रामतीर्थः- किं भवान् गंगायाः पारम् अवारम् च गन्तुम् आगन्तुं च शक्नोति ?

योगी – बाढम्। एतत् मम कृते सुकरम् ।

रामतीर्थः- अन्यत् किमपि लब्धं तपसा ?

योगी - या सिद्धिः मया प्राप्ता किं सा महीयसी नास्ति ?

रामतीर्थः- अहं मन्ये, भवता सुदीर्घम् तपः तप्त्वा चतुराणकाः लब्धाः । अत्र धीवरः चतुराणकान् गृहीत्वा लोकान् नौसाहाय्येन गंगापारं नयति आनयति च । किम् एतस्मै लघुफलाय भवता सर्वं जीवनं व्यर्थतां न नीतम् ? नूनम् अमृतसिन्धौ अवगाहनं कृत्वा भवान् सुधां न पीतवान्, शुक्तीः अवचितवान् ।

 

स्वभावपरिवर्तनम्

लेखकः- ओम् प्रकाश ठाकुरः

एकस्मिन् नगरे एकः आपणिकः अवसत् ! ग्राहकैः सह तस्य व्यवहारः अतिमधुरः आसीत् । अतः तस्य ग्राहकाणां संख्या क्रमशः अवर्धत । अल्पेन समयेन स महाधनः जातः । तस्य एकः दशवर्षः पुत्रः अपि तेन सह आपणे अतिष्ठत् ।

एकदा तत्पुत्रस्य स्वभावे काचिद् विकृतिः आगता । स आगतानां ग्राहकाणाम् उष्णीषाणि टोपिकाः वा अवतार्य दूरं क्षिप्त्वा उच्चैः हसति स्म तस्य एतेन कृत्येन ग्राहकाः अप्रसन्नाः जाताः, तेषां संख्या च क्रमशः अपाचीयत । दुःखितेन पित्रा भूयः बोधितः भर्त्सितः ताडितः अपि स बालः स्वभावं न मुमोच अस्याः समस्यायाः समाधाने अक्षमः पिता चिन्ताम् आपेदे ।

एकदा काषायघरः कश्चित् महात्मा तम् उपाययौ । स आपणिकः प्रेम्णा तस्य आतिथ्यं चकार । आतिथेयं चिन्तावशं विलोक्य महात्मा तत्कारणं पप्रच्छ । स सर्वम् अवादीत् ।

महात्मा तं सम्बोधयन् ऊचे, मया कारणं ज्ञातम् अहं तव चिन्ताम् अपनेष्यामि प्रेक्षस्व यत् करोमि किन्तु अस्मिन् कर्मणि अहं वा वालो वा न प्रष्टव्यः न च रोद्धव्यः ।

अग्रिमे दिने स महात्मा उष्णीषं धृत्वा तत्र आयातः बालः यथास्वभावं तस्य उष्णीषम् अवतार्य मार्गे चिक्षेप जहास च । स महात्मा तस्य बालस्य पृष्ठं करेण स्पृशन् प्रेम्णा तम् उवाच - ऊष्णीशं आनीय मम शिरसि बधान । बालः मुदितः सन् तथा अकरोत् ।

अपरेद्युः स महात्मा एकं काष्ठखण्डं परशुं च आनयत्, बालं च अवदत्-परशुना काष्टं छित्त्वा मम समीपे आनय । बालः तथा चकार। एवं सप्ताहं यावत् प्रतिदिन स महात्मा तत्रागत्य तेन बालकेन किंचित् कार्यं कारयति स्म । सप्तभिः अहोभिः एव बालस्य स्वभावः परिवर्तितः अभवत् ।

आपणिकः एतद् वीक्ष्य विस्मितः भूत्वा महात्मानं पप्रच्छ- भगवन् ! कथं दुराग्रही बालः प्रकृतिम् आपन्नः । कृपया विवृणोतु ।

महात्मा अवादीत्-बालाः प्रकृत्या एव किमपि कर्तुम् इच्छन्ति, वयं तेभ्यः अवसरं न दद्मः । इदं कुरु, इदं मा कुरु, इदम् उचितम्, इदम् अनुचितम् - इति वाक्यानि वदन्तः वयं तेषां क्रियाशक्तिं निहन्मः, अतः एव ते विकृतिं यान्ति । मया च कार्येषु नियोजितः अयं बालः मुदा सर्वं चकार प्रकृतिस्थः च अभवत् ।


नीतिकथामकरन्दः से साभार

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)