संस्कृत-कथा-संग्रहः (भाग 6)

 

को वा निर्णेष्यति

लेखकः - डॉ० बलभद्र प्रसाद शास्त्री

 

सुनीता पुस्तकपेटिका स्कन्धेऽवलम्ब्य समयेन विद्यालयं गन्तुं गृहान्निर्गत्य प्रचलिता । एकहस्ते तया मध्याह्नपारणापात्रं गृहीतम्, येनानया पारणा विधीयते । अष्टमकक्षाया इयं बालिका स्वकीयगृहपरिवेशवीथिकामुल्लंघ्य नगरस्य प्रधानपथे समागता इतः असौ नगरवाहनमारुह्य प्रत्यहं विद्यालयं गच्छति। अद्य तस्या विद्यालये मासिकपरीक्षा वर्तते।

प्रमुखपथमागत्य सुनीतया यद् दृश्यमालोकितम् तेन तस्या: पादतलाद् भूमिरेव स्खलिता मार्गं परितो भीषणः जनसंमर्दः आसीत् । प्रदर्शनं कुर्वाणा जना: प्रशासनव्यवस्थावरोधाय सन्नद्धा आसन् । भयाकुला आपणस्वामिनो व्यापारिणः स्वापणान् समावृतकपाटान् अकुर्वन्। सर्वत्र लगुडहस्ताः शस्त्रधारिणः आरक्षिणोऽपि व्यवस्थाविधाने सन्नद्धा वर्तन्ते स्म ।

अद्य प्रातर्भ्रमणार्थं गच्छन् एको वृद्धनागरिको मुख्यमार्गे वाहनदुर्घटनया मृतः। अतः, आक्रोशपरा नागरा जनसुरक्षार्थम् आन्दोलनार्थमुद्यता आसन् ।

सुनीता इदानीं किं करोतु, सा निश्चेतुमेव नाशकत्। तस्या नगरवाहनमपि नागतमासीत् । विद्यालयात् निवर्तमानया तया तु अद्य मातुः कृते औषधिरपि क्रेतव्या अस्ति । यतः माता रोगवशात् विष्टरे पतिता, पिता जराजीर्णकलेवर: चलितुमेवाशक्तो वर्तते।

तदैव सहसा जनसंमर्दमध्यात् अराजकतत्त्वैः इष्टिकाप्रहार: प्रारब्ध: । क्रुद्धैः दुर्जनैः आपणद्वाराणि भग्नानि। सामग्री लुंठिता बहुशः अग्निसात् कृताः । सुनीता साश्चर्यं लुण्ठितसामग्रीसहितं पलायमानं स्वप्रतिवेशिनं बुद्धसेनम् अपश्यत् । अस्य धूर्ततां सठतां सर्वे जना जानन्ति । अतः सुनीता तमालोक्य आत्मानं गोपयन्ती एकतोभूत्वा स्थिता।

हिंसापरं जनान्दोलनं वीक्ष्य रक्षार्थम् आरक्षिभिः लगुडप्रहारः प्रारब्धः । इतस्ततः पलायनपरा अपि आरक्षिणामुपरि इष्टिकाप्रहारान् अकुर्वन् ।

अहो " एकत: इष्टिका प्रहार:, अपरतो लगुडप्रहार: आत्मानं गोपयन्ती स्थिता सुनीता किं करोतु ? कथं सा विद्यालयं गच्छेत् यानं चापि नागतम् इति चिन्तातुरा सा यानदिशां विलोकनपरासीत्। अहो समागतं नगरवाहनम् " सहसा तस्या मुखान्निर्गतम्। परमेतत् किम् ? सहसा क्रुद्धैर्जनैः नगरयानमाक्रान्तम्। यात्रिणः कथमपि निर्गत्य इतस्ततः पलायिताः। हिंसापरै: अराजकतत्त्वैः नगरवाहनमग्निसात् कृतम्। सुनीताया सन्मुखे एव तस्या प्रियं वाहनं भस्मीभूतम् ।

अधुना कथं सा विद्यालयं गमिष्यति ? तया निर्णीतम् - नैतत् सामान्यदृश्यम्। अतः गृहं प्रति पलायनमेवोचितम् । इति निश्चित्य यदैव सा निवृत्ता तदैव, तीव्रागतेन पाषाणखण्डेन शिरसि ताडिता विसंज्ञीभूय पतन्ती जनेनैकेन अवलम्बिता । असौ रामदीन तस्या प्रतिवेशी शुभचिन्तकः, यो भाग्यात् तद्वाहनादवतीर्य इत एवावासं प्रति पलायनपर आसीत् । तेन सुनीता सुरक्षिता तद्गृहं प्रापिता ।

साधारणमान्दोलनम् अराजकतत्त्वदुष्कृत्यैः हिंसकमभूत्। अनेके जना आरक्षकाश्च आहताः। अधिकारिभिः बलप्रयोगेन आन्दोलने प्रमुखा वन्दीकृताः, आहताः चिकित्सार्थं प्रेषिताः ।

कतिचिद् दिवसै: सुनीता स्वस्थाऽभवत् परं रोगशय्योपरि पतितैव सा पितरं पृष्टवती तात! इमे जनाः कथं स्वराष्ट्रसम्पत्तिं नाशयन्ति, स्वकीयजीवनं - साधनानि भस्मीकुर्वन्ति स्वजनानेव मारयन्ति । "

"दीनानाथ: सुनीताया पिता, यः स्वाधीनतान्दोलनेषु नितरां सम्बद्ध आसीत्। आंग्लशासने बहुवारं बन्दीभूतः स्वाधीनतासंग्रामसेनानी असौ सुनीतायाः प्रश्नेन विचलितोऽभूत्, आकाशं पश्यन् क्वापि विलीन इवावोचत्-

"एतत् ते सौभाग्यम् सुनीते ! यत् त्वम् स्वाधीनराष्ट्रे समुत्पन्नाऽसि। अत्राधुना न कोऽपि राजा, न क्वापि निरङ्कुशं शासनम्। अत्र नियमाः संविधानसंबद्धाः, शासका जनैः निर्वाचिताः, नीति: अहिंसात्मिका, आधारवाक्यम् "सत्यमेव जयते।।"

'तत् किमर्थमान्दोलनम्, विरोधप्रदर्शनम् "सुनीता पुनः प्रश्नपरा अजायत।

"विचारस्वातन्त्र्यम्, जनजागरणम् जनतन्त्रराष्ट्रे यथावश्यकम् समुचितम्, जनाकाँक्षाप्रदर्शनाय, जनहिताय, चापि उचितमेव वत्से" पिताऽवोचत् ।

"परमियं हिंसा, अग्निदाहः, सम्पत्तिविनाशः" प्रश्नमुद्रया तया पुनरुक्तम् ।

" एतत् वत्से ! केवलासामाजिकतत्त्वानामेव कृत्यम् । ते जनान्दोलने प्रच्छन्नरूपेण प्रविश्य स्वार्थसाधने रताः तथा दुष्कृत्यानि कुर्वन्ति यथा आन्दोलनस्य उद्देश्यमेव निष्फलं जायते। हिंसया किमपि उद्देश्यं नैव पूर्यते।

     इयं भारतभूमिः रत्नगर्भा, महापुरुष जननी। रामेणात्र लोकमर्यादा स्थापिता । कृष्णेन कर्मयोगः प्रदत्तः । गौतमबुद्धेन "अहिंसा परमो धर्मः" उपदिष्टः । नानकमहाभागेन सर्वजनसमभावभावना प्रतिपादिता, राष्ट्रपिता महात्मा गाँधिमहाभागः सत्याग्रहम् अहिंसां च विश्वहिते मन्त्ररूपेण उपादिशत् । " इति पित्रा गम्भीरमुद्रया सम्यक् प्रतिपादितम् ।

"सत्यमेतत् तु मयापि ज्ञायते यद् गांधिमहाभागेन अहिंसयैव अस्य राष्ट्रस्य स्वाधीनता अधिगता।" सुनीताऽवोचत्।

"सुष्ठु ज्ञातं वत्से ! आङ्ग्लशासकै: ताडिता अपि अस्यानुयायिनः कदापि अहिंसा नात्यजन् । "

रामदीनोऽपि तत्र सुनीताया स्वास्थं ज्ञातुमागत आसीत् दीनानाथस्य विचारमाकर्ण्यावोचत्-श्रीमन्, इदानीं राष्ट्रे जनतन्त्रं शासनमास्ते । तदा शासनं जनाकाँक्षां कथं न पूरयति ?

दीनानाथः किञ्चिद् विहस्यावोचत्- जानासि न वा आंग्लशासकाः कीदृशीं विपन्नावस्थां विधाय राष्ट्रम् अत्यजन्, अत्र वस्त्रादीनि जीवनसाधनान्यपि नैवासन् पर्याप्तानि। समस्त-जनाकाँक्षापूर्तिस्तु राष्ट्रस्य पूर्णविकासेन एव संभाव्यते । तथापि शासनं, विकासकार्यैः जनाकाँक्षामेव पूरयति। राष्ट्रपतिमहाभागेन पूर्णविकासाय आगामिविंशतिवर्षाणां लक्ष्यं निर्धारितम् एतच्चापि सर्वेषां सार्थक -प्रयासेन सम्भविष्यति।

परं तात ! स्वाधीनभारते अधुना यद् भूयते, यादृशी हिंसा वा जायते, तदर्थं कस्य दोष: ?

जडतायाः अज्ञानतमसः, स्वार्थवृत्तेः, संकीर्णमनोविकारस्यैव दोषः, य सर्वं विस्मरति । अद्यापि बहवो जना नागरिकधर्मे अशिक्षिताः सन्ति । अतः  ईदृशी लोकदृष्टिः अधिकारं याचते, कर्त्तव्यम् उपेक्षते। परदोष-दर्शने अनुरक्ता जनाः सर्वत्र असन्तोषमेव पश्यन्ति । इत्थम् आन्दोलने हिंसया, अग्निदाहेन च एकतः सम्पत्तिविनाशो जायते, अपरतः राष्ट्रस्य विकासगतिरपि कुण्ठिता भवतिइत्युक्त्वा पिता मौनीभूतः ।

"अस्मिन् गम्भीर-विषये बहु विवेचितं तात ! रोगशय्यापि मदीया ज्ञानशाला संजाता।" प्रसन्नमुद्रया सुनीतया स्वीकृतम् ।

समयानन्तरं नगरे सर्वत्र शान्तिः संभूता । सुनीतापि यथापूर्वं पुस्तकपेटिकां स्कन्धेऽवलम्ब्य हस्ते मध्याह्नपारणापत्रं नीत्वा विद्यालयं प्रस्थिता। अद्यावधि माता रुग्णा एव वर्तते, सा तस्याः कृते विद्यालयात् निवर्तमाना औषधिमपि आनेस्यति।

मुख्यमार्गमागत्य तया सर्वत्र दृष्टिः पातिता परं कुत्रापि नगरवाहनं नासीत्। पूर्वनगरवाहनस्य तु कंकालमेव तत्रावर्तत। अधुना किं कुर्यात् सुनीता। अतः तया विचारितम् मन्ये नव्यवाहनस्य व्यवस्था नैव वर्तते परं विद्यालयं तु गन्तव्यमेव" अतः विलम्बभयात् तया तदानीं साधिकं धनं प्रदाय रिक्शावाहनं कृतम्। विवशतया तया मातुः कृते औषधिक्रयार्थमानीतानि रूप्यकाणि रिक्साकृते दत्तानि ।

मातुः औषधिम् उपेक्ष्य विवशा अष्टमकक्षाया बालिका सुनीता रिक्सावाहनमारुह्य साश्रुमुखी विद्यालयं गच्छन्ती व्यचारयत्-

किमधिगतं जनैरनेन वाहनाव्याघातेन। किमेतन्नासीत् ऐषां वाहनम् । किं नासीत् तेषां कृते तेषामेव धनेन क्रीतं वाहनम्। तथापि जनैर्दग्धमेतत्।

किमत्र जडतैव कारणम् ? अज्ञानमेव कारणम् ? असन्तोष एव कारणम् ? वा अन्यच्चापि कारणम्। केन वा विधीयते सत्यान्वेषणम्। को वा निर्णेष्यति अस्मिन् जनतन्त्रराष्ट्रे, इति विचारचक्रेण सहैव तस्या रिक्साचक्रं गतिमाप्नोत् ।


प्रत्यावर्तनम्

लेखिका-  श्रीमती आभा झा

 

मध्यरात्रि:- अनुराधा सहसैव दूरभाषं श्रुतवती - हला! आम्! अनुराधा ब्रवीमि। भवान् क:?

-हन्त! दुःखदः समाचार;! परम् एतावत: दूरत: अहं किं कर्तुं शक्नोमि? आनन्द:? स: न तिष्ठति मया सह। न जाने स: कुत्र अस्ति? न जाने सः किमर्थं भवतः न सूचितवान्? मम मातृगृहे सर्वे जानन्ति आवयोः पार्थक्यविषये। त्यजतु मातुल! नायम् अवसर: एतादृशानां कथानाम् । भवान् मातरं पृच्छतु स: कतिदिनेभ्य: तया सह वार्तां न कृतवानस्ति? कृतवानस्ति चेत् केन दूरभाषक्रमाङ्केन? प्रयासं करोतु सम्पर्कसाधनस्य। इति कथयन्ती अनुराधा वार्तां समापितवती।

दिनद्वयानन्तरम् यदा सा चिकित्सालये रोगिणां परीक्षणं कुर्वन्ती आसीत्, तदैव पुनः तस्या: दूरभाषयन्त्रस्य घण्टिका ध्वनिता। तस्याः चिकित्सा- सहायिका पृष्टवती- 'भारतात् कोऽपि सम्भाषणं कर्तुमिच्छति, किं भवती वार्तां कर्तुं शक्नोति? अनुराधा तां निर्दिष्टवती- 'तस्य नाम दूरभाषसंख्यां च पृच्छतु, अहम् स्वकार्यं समाप्य तेन सह वार्तां करिष्यामि इति विज्ञापयतु। '

रोगिणां परीक्षणकालेऽपि सा चिन्तयन्ती आसीत् यत् कार्यस्य समये क: भवितुं शक्नोति? मम पितरौ तु कदापि कार्यालयसमये वार्तां न कुरुत:। तर्हि ?-

 -किम् आनन्द:? ,, स: जर्मनी इत्यत्र फ्रैंकपर्ट मध्ये अस्ति इति तु अहं जानामि, परं  स: तत्र कुत्र वसति? कुत्रास्ति तस्य आवासः? का वा तस्य दूरभाष- संख्या? अहं किमपि न जानामि ! किमर्थं ज्ञास्यामि? कः सम्बन्ध तेन सह? परं तस्य माता? किम् अहितं कृतं तया? न जाने तस्या: का दशा अस्ति ? न जाने सा आनन्देन सह संपर्कं साधयितुं समर्थाऽभवत् न वा? परमहं किमर्थं चिन्तयामि ?जानातु  सातस्याः पुत्रः वा ! परं तस्य पिता-सः दिवङ्गतः। गृहे माता एकाकिनी। पुत्रस्य कोऽपि समाचार: न ज्ञायते-

अनिच्छन्ती अपि सा विचाराणां जाले आबद्धा जाता। बहुयत्नेन सा आत्मानं सन्तुलितां दर्शयन्ती कार्यजातं सम्पादितवती । कार्यं समाप्य चिकित्सासहायिकया प्रदत्तां दूरभाषसंख्यामपश्यत्। किञ्चित् कालं विचार्य सा तस्मिन् क्रमाङ्के अङ्गुलिकां चालयामास।

रुदन्ती आनन्दस्य माता अवोचत्- 'पुत्रि! तव पिता दिवङ्गतः। आनन्दस्य चापि कोऽपि समाचारः न प्राप्यते। सः कुत्रास्ति, किं करोति, किमर्थं वार्तां न करोति, किमपि न जानाम्यहम्? तस्य पिता पुत्रस्य प्रतीक्षायां निबद्धदृष्टिः स्वशरीरमपि तत्त्याज, तस्य अन्त्येष्टिः अपि अभवत् । कोऽपि नास्ति मम समीपम् । तव मातुलः एव सर्वां व्यवस्थां कृतवान्। सः एव उक्तवान् युवयोः पार्थक्यविषये । कदा घटिता इयं घटना ?'

'मातः! भवती धैर्यं धारयतु। अधुना नास्ति अवसरः एतादृशानां कथानाम् । एकवर्षपूर्वमेव आवयोः विवाह-सम्बन्ध: विच्छिन्नः ।'

'परं त्वमपि मां  किमपि न सूचितवती ।किमर्थं युवयो: संबंध: समाप्त:? कदा समाप्त:?'

'मातः ! भवती आनन्दस्य माता। आनन्दः भवतीं न सूचितवान् इत्यपि अहं न जाने। पर यदि भवती किमपि न जानाति, तर्हि एकवारमपि वर्षमध्ये मया सह न जल्पितवती? एकवारमपि मद्विषये किमपि ज्ञातुम् इच्छा न जाता? अहं तु चिन्तयामिस्म-भवती आवयो: सम्बंध- विषये सर्वं जानाति, अतएव मया सह न जल्पति ।'

'परं किमभवत् पुत्रि? किं कारणं जातं येन युवां पार्थक्यं स्वीकृतवन्तौ ?

'मातः! त्यज एनां वार्ताम्। बहु प्रयत्नेन अहम् तं दुःस्वप्नं विस्मृतवती अस्मि। अधुना अवसरः अपि नास्ति। भवत्याः कृते मम हृदये समवेदना अस्ति। दिवङ्गतपितु: आत्मा शान्तिमाप्नोतु इत्यहं प्रार्थये ।'

इत्युक्त्वा सा वार्ताक्रमं समापितवती। परं विचारशृङ्खलाया: बहि: आगन्तुं नाशक्नोत् ।श्वश्रू: अश्रूणि, तस्या: वचांसि, तस्या: असहायता च  वारम्वारं तस्या: हृदयम् आन्दोलितमकुर्वन्। अस्यां विचलितमनोदशायां सार्धैकवर्षपूर्वं घटिताः घटना: चलचित्रवत् नेत्रयो:  समक्षम् आगता:-

चिकित्सकीयाध्ययनस्य अन्तिम: वर्ष:! पितरौ तस्या: विवाहार्थं चिन्तितौ! वरान्वेषणात् पूर्वं ताभ्याम् सह आलाप:! स्पष्टवचसा अनुराधायाः कथनम्- 'मातः! पितः ! मदर्थं वरान्वेषणं कुरुथ: चेत् य: विदेशे तिष्ठति तस्यैव अन्वेषणं कुरुतम्। अहं विशिष्टचिकित्सकीयोपाधिं प्राप्तुं अमेरिकां प्रति गन्तुमिच्छामि ,तत्रैव च वृत्तिं कर्तुमिच्छामि ।'

'पुत्रि! अध्ययनार्थं गन्तुमिच्छसि चेत् गच्छ। येनकेनापि प्रकारेण अहं यात्राव्ययस्य व्यवस्थां करिष्यामि। परं तत्रैव वस्तुमिच्छसि इति मह्यं न रोचते।इतोSपि मातृभूमे: अपि ऋणं भवति। तद् ऋण-शोधनं अकृत्वैव विदेशं पलायिष्यसे? '- पिता स्पष्टरूपेण उक्तवान् ।

'अथ किम्? भारते विशिष्टाध्ययनं कृत्वा, भारतस्य संरचनाया: लाभं गृहीत्वा स्वकौशलस्य प्रदर्शनं विदेशे करिष्यसि इति अनुचितं प्रतीयते मामपि'- मातापि अवोचत्।

'मातः! त्यज उचितानुचितकथाम् ।अहम् भारतस्य ऋणं न जानामि ‌‌। अवश्यम् भवतो: ऋणं जानामि। उच्चशिक्षां गृहीत्वा अहं स्वजीवनं सुखमयं कर्तुमिच्छामि चेत् किमनुचितम् ? अमेरिकादेशे चिकित्सालये अत्याधुनिकानि उपकरणानि विद्यन्ते, चिकित्सकानां कृते बहूनि सौविध्यानि सन्ति, प्रचुरं धनमस्ति । अत्र किमस्ति ? निर्धनता, साधनहीनता, सर्वत्र  कुत्सिता राजनीति:, भ्रष्टाचार:....

अपरतश्च मम मनसि विदेशे वासं कुर्वतः वरस्य एव स्वप्न: विद्यते। अतएव यदि भवन्तौ प्रयासं कुरुतः, तदर्थमेव कुरुताम्। एकेनैव पथा उभावपि कार्ये साधयिष्येते। '

पुत्र्याः स्पष्टं वचः आकर्ण्य पितरौ तूष्णीम् अतिष्ठताम् ।

      पुनः विवाहसंस्थामाध्यमेन आनन्दस्य प्रस्तावः आगतः। सः अमेरिकादेशे वसतिस्म।वृत्त्या अपि चिकित्सकः अस्ति, तस्य पिता भारते एव महाविद्यालये पाठयति, वंशश्चापि कुलीनः । इतोऽधिकं किं वाञ्छति कापि कन्या । यथासंभवं परीक्षणं कृत्वा कारयित्वा च अनुराधायाः सम्मत्या विवाहसम्बन्धः निश्चितः । मासद्वयाभ्यन्तर्गतमेव आनन्देन सह अनुराधायाः परिणयः सम्पन्नः । मासमेकं सुखस्य दोलायां दोलन्ती सा पत्या सह अमेरिकां प्रति प्रस्थिता । तत्र एकमासाभ्यन्तरमेव विशिष्टाध्ययनाय  तत्र चिकित्सकीयमहाविद्यालये हृदय रोगविभागे प्रवेशं लब्धवती। तदनन्तरं तस्याः दिनचर्या अतीव व्यस्ता जाता। गृहात् महाविद्यालयगमनम्, गृहमागत्यापि गहनमध्यनम् । आनन्दः मितभाषी आसीत्। सोऽपि स्वकार्ये व्यापृतः तिष्ठति स्म । प्रति रविवासरं सा स्वपितृभ्यां सार्द्धं दूरभाषेण जल्पति स्म, परम् आनन्दः कदा स्वपितृभ्यां साकं वार्तां करोति स्म ,सा कदापि नावगच्छत्। शीघ्रमेव तया ज्ञातं यत् आनन्दस्य द्वे रूपे वर्तेते - तया सह निवसन् आनन्दः अपेक्षते परंपरां पालयतु अनुराधा, पत्युः आज्ञां पालयतु अनुराधा, वृथा प्रश्नं न पृच्छतु अनुराधा- परं गृहात् बहिः तस्य भिन्नमेव व्याक्तित्वमस्ति। उच्छृंखल:, पाश्चात्यसंस्कृतिपोषक:, मर्यादाविहीन: व्यवहार:, मदिरापानरतः! कस्मिन् विश्वसतु अनुराधा? स्वमनोव्यथां कस्य समक्षं प्रकटयतु अनुराधा ? नास्ति काऽपि अन्तरङ्गसखी, न काऽपि प्रतिवेशिनी, न वा निजभाषा-भाषमाणाः जनाः !  पितरं प्रति निवेदयतु? ,न तौ वृथैव चिन्तितौ भविष्यत:। विदेशीय: पति: तस्याः स्वप्नः आसीत्। पितरौ तु विवाहपर्यन्तं शङ्काकुलौ आस्ताम्।   एवमेव शुष्कं एकरसं च  दिनं व्यतीतं भवति स्म। अनुराधाया: प्रवासस्य  मासत्रयमेव जातमासीत्, सहसैव एका विदेशिनी गृहे प्राविशत्, अनुराधां च आग्नेयदृष्ट्या पश्यन्ती यद् रहस्योद्घाटनं कृतवती, तद् तयोः सम्बन्धसमाप्ते: अन्तिमः कीलः आसीत्।  आनन्दः पूर्वत: एव विवाहितः आसीत्। अधुना किमपि नावशिष्टं कथनाय प्रश्नोपस्थापनाय च । सा तत्क्षणमेव गृहं त्यक्त्वा स्वसहपाठिन्याः गृहमगच्छत् ,तां च वस्तुस्थितिं निवेद्य कतिपयदिनेभ्य: शरणं याचितवती। सा विदेशिनी सखी तां न्यायार्थं आरक्षिकार्यालयं गन्तुमकथयत्,परं अनुराधा तत्सर्वं कर्त्तुं मानसिकरूपेण सबला नासीत्। येनकेनापि प्रकारेण आत्मानम् आश्वास्य सा अंशकालिकां वृत्तिं कृत्वा आजीविकाया: अध्ययनस्य च व्ययवहने समर्था जाता।

   कतिपयदिनानन्तरं सा स्वपितरं स्व-वैवाहिकसम्बन्धस्य समाप्ते: विषये सूचितवती। दुःखितौ पितरौ वारंवारं भारतं प्रत्यावर्तुं कथितवन्तौ,परं मध्ये एव अध्ययनं त्यक्त्वा भारतं प्रत्यावर्त्तुं सा सन्नद्धा नाभवत्।सा अकथयत्- 'पितः! आनन्दः मां त्यक्त्वान् ,इत्यस्मात् कारणात् अहम् अध्ययनं त्यजानि? नैव ,अहम् अत्रैव अध्ययनं कृत्वा वृत्तिं लप्स्ये। भवन्तौ अपि अत्रैव आनेष्यामि। भवन्तौ मम चिन्तां मा कुरुताम्।' एवमेवाभवत्। वर्षाभ्यन्तरे  एव सा विशिष्टोपाधिं प्राप्य तत्रैव चिकित्सालये कार्यं कर्तुमारब्धवती ।षण्मासात् सा अत्रैव सेवाकार्यं करोति। तस्याः दिनचर्या नियमिता अस्ति अधुना। सा सेवा कार्यं कृत्वा श्रान्ता भवति, गृहमागत्य भोजनं पचति, खादति, स्वपिति, नास्ति तस्याः जीवने कोऽपि अभावः ।एकवर्षानन्तरं यदा सा भारतं गमिष्यति पितरौ अपि सहैव आनेष्यति इति तस्या: मनसि दृढ़: विचार: वर्तते।

 परमद्य! किमिदं जातम्? आनन्दस्य मातु: दुःखेन सा किमर्थं दु:खिता अस्ति? तस्याः अश्रूणि किमर्थं तस्य मनः उद्वेलयन्ति? वारम्वारम् स्वपित्रो: चित्रं किमर्थं समक्षमायाति? दैवदुर्विपाकात् तस्या: मातृगृहे एवं भवति तर्हि ? तस्या: पिता हृदयरोगी अस्ति,सा च हृदयरोगविशेषज्ञा,परं मध्ये महत् भौगोलिकं पार्थक्यम्! सा रात्रौ निद्रामपि न लेभे ।

रात्रौ बहुचिन्तनं कृत्वा स्वमतिं स्थिरीकृत्य एकं निश्चयमकरोत्। अपरस्मिन् दिने सा अधिकारिणे स्वत्यागपत्रं दत्तवती। आश्चर्यचकितः सः पृष्टवान् -'काऽपि वाधा अस्ति अत्र? किमपि काठिन्यम् अनुभवसि? किमर्थं देदीप्यमानं भविष्यं त्यक्त्वा भारतं प्रति गन्तुम् इच्छसि ? भवती पुनः एकवारं चिन्तयतु, यदि मनसि निश्चयः दृढ:, तर्हि अहं तव त्यागपत्रम् अग्रेसरं करिष्यामि ।अद्य एकवारं पुनः चिन्तयतु-

दृढस्वरेण अनुराधा उक्तवती-'महोदय'! सम्यक् चिन्तितं मया। देशेऽस्मिन् अध्ययनस्य वृत्तेश्च अनुभवः प्राप्तः मया। अधुना मम देशः माम् आह्वयति। अहं तत्रैव सेवाकार्यं करिष्यामीति चिन्तयित्वैव त्यागपत्रं लिखितवती ।भवान् मम पत्रं अग्रे प्रेषयतु। अहम् अतः परम् मासद्वयम् कार्यं सम्पादयिष्यामि । पुनः मम प्रत्यावर्तनं भविष्यति स्वदेशं प्रति, स्वनगरं प्रति, स्वपितरं प्रति'

आनन्दातिरेकेन सा तत्क्षणमेव पित्रा सह दूरभाषयन्त्रेण सम्पर्कं कृतवती-

पितः ! मासद्वयानन्तरम् अहं स्वदेशम् आगमिष्यामि। भवान् प्रसन्नोऽस्ति खलु !!

'आम् पुत्रि! अतीव प्रसन्नोऽस्मि। वर्षद्वयानन्तरं त्वम् अत्र आगमिष्यसि ? कतिदिनपर्यन्तम् अत्र स्थास्यसि पुत्रि ?' -'पितः ! अहम् आगच्छामि। स्वदेशमागच्छामि, आजीवनं तत्रैव स्थास्यामि । मम प्रत्यावर्तनं भवति- - प्रत्यावर्तनम्।


नास्त्यैकः प्रद्युम्नः

लेखिका-  श्रीमती आभा झा

        "मातः! मातः! क्वासि मातः? रक्ष माम् जननि! मां रक्ष!

      किमभवत् पुत्र? अहमत्रैवास्मि वत्स,किमर्थं भीतोऽसि त्वम्? कोऽपि दुःस्वप्नः दृष्टः त्वया? मयि स्थिते कः त्वां पीडयितुमपि चिन्तयति?

   स्वेदक्लिन्नं पुत्रं सान्त्वयन्ती माता स्वयमपि उद्विग्ना जाता। निद्राभङ्गानन्तरमपि आशुतोषः आतंकितः सन् इतस्ततः अपश्यत्। शनैः शनैः मातुः क्रोड़े स्वशिरः निधाय निद्रां जगाम।

   प्रातःकालेऽपि विद्यालयगमनाय अप्रस्तुतं तनयं वीक्ष्य स्नेहेन तं लालयन्ती जननी उवाच-

'पुत्र आशुतोष! द्वित्राभ्यां दिनाभ्यां पश्यामि यत् त्वं सुस्थः नासि,किमपि कथयितुं वाञ्छसि,परं बलात् आत्मानं वारयसि। का समस्या त्वाम् अतितरां बाधते,मां विज्ञापय,नूनमेव अहं तव साहाय्यं करिष्यामि।'

'नास्ति काऽपि समस्या मातः,रात्रौ दुःस्वप्नवशात् निद्राभङ्गः जातः,तदनन्तरं सम्यक् रूपेण शयनं नाभवत्,अतः वपुः शिथिलः इव प्रतीयते।अद्याहं विद्यालयं गन्तुं नोत्सहे ,गृहे एव विश्रामं करिष्यामि चेत् स्वस्थो भविष्यामि।'

'त्वम् अस्वस्थः असि? चिकित्सकम् आह्वयानि? शिरसि पीड़ा अस्ति ? उदरे वेदना वा? ज्वरः तु न प्रतिभाति?' इति वदन्ती चिन्ताकुला माता तस्य मस्तकं हस्तेन स्पृशति।

 मातुः व्यग्रतां विलोक्य आशुतोषः ईषत् स्मितं कुर्वन् अकथयत्- 'अलमलं चिन्तया जननि! अहम् स्वस्थोऽस्मि,केवलं शैथिल्यम् अनुभवामि,प्रायः निद्राभङ्गकारणात्। भवती चिन्तां विहाय कार्यालयं गच्छतु,अहमपि विश्रामं करिष्यामि चेत् स्वस्थो भविष्यामि।'

', , त्वं स्वस्थः नासि, अहं कार्यालयं गच्छानि? अहं कार्यालये अवकाशार्थं दूरभाषेण सूचयामि,त्वमपि चिकित्सकं प्रति गन्तुं सन्नद्धो भव।सः एव सम्यक् निरीक्षणं कृत्वा,रक्तादीनां परीक्षणं विधाय वक्ष्यति काऽस्ति समस्या?,तव जनकः अपि नास्ति अत्र नोचेत् सः एव त्वां चिकित्सकं प्रति नयेत्..'

  'मा बिभेहि जननि,ईदृशीं तादृशीं वा आशङ्कां मा पालय।अहम् स्वस्थोऽस्मि...,' येनकेनापि प्रकारेण मातरं समाश्वास्य सः तां कार्यालयं प्रेषितवान्।

 तस्याः गमनानन्तरं सः निद्रां लब्धुं बहु प्रयतितवान्, परमसमर्थो जातः। प्रायः दशदिनात् सः यस्मिन् द्वन्द्वे जीवति स्म,तस्य किशोरमनः तं सोढुम् अशक्तं जातमासीत्।दिवसे बलात् अनुभूत: अनाचारः रात्रावपि भयं जनयतिस्म। "किं करवाणि? कथं लज्जास्पदमिदं वृत्तान्तं मातरं कथयानि?,परं कथमहं पीड़ामिमां दूरीकर्तुं क्षमः भवानि? दुर्दान्ताश्च ते वरिष्ठाः छात्राः मां दुर्बलं मत्वा पुनः मां पीडयिष्यन्ति,विद्यालयप्रशासनं सूचयामि चेत् ते मां हस्यन्ति, किमपि कर्तुं शक्नुवन्ति ते।कमपि न कथयामि चेत् तेषां व्यवहारः मां विक्षिप्तं विधास्यति। सप्ताहं व्यतीतम्- ते मां बलात् शौचालयं नयन्ति, मम मुखे किञ्चित् अपेयं बलात् पाययन्ति, मया सह अकरणीयमाचरन्ति, ततःपरं मम गात्राणि शिथिलानि भवन्ति, पठने रुचिः न जागर्ति, अध्यापकाः अपि तर्जयन्ति, अद्य तु जननी अपि सन्देहान्विता जाताकिं करवाणि.."एकवारं तु आत्मघातस्यापि विचारः मनसि समुद्भूतः,परमनेन विचारेणैव स: भयाद् कम्पयामास ।  तस्मिन्नेव क्षणे द्वारघण्टिकायाः ध्वनिः तस्य चिन्तनक्रमे व्याघातमजनयत्। असमयं कः आगतवानिति चिन्तयन् सः द्वारछिद्रात् बहिः अपश्यत्, पितरं च तत्र दृष्ट्वा सोल्लासं द्वारमुद्घाटयामास।

"पितः,भवान् परश्वः आगमिष्यतीति जननी सूचितवती,परं सहसैव..

'आम् पुत्र,श्वः भविता गोष्ठी अपरिहार्यकारणवशात् स्थगिता,अतः अहमत्र प्राप्तः। परं त्वं कथमनुभवसि अधुना? तव माता सूचितवती यत् त्वं स्वस्थः नासि,किमभवत्?

'न किञ्चित्, न किञ्चित्, केवलं शैथिल्यमनुभवामि,ईषत् कम्पमानः आशुतोषः अब्रवीत्। पिता ध्यानेन तस्य मुखं दृष्टवान्,तस्य शरीरं स्पृष्टवान्,पुनः गभीरस्वरेणोक्तवान्- "पुत्र,विद्यालये किमपि अघट्यं घटितं खलु? कोऽपि त्वां पीडयति वा? शिरः उत्थाय विज्ञापय मां,सप्ताहपूर्वं यं प्रसन्नवदनं पुत्रं त्यक्त्वा अहं गतःआसम् सः तु नासि त्वम्?'

अधुना आशुतोषः आत्मानं वारयितुं न शशाक। रुदन् सः स्व वक्षसि निगूढां सर्वां वेदनां पितुः समक्षमुद्घाटयामास। ईषत् कालं पिता हतबुद्धिः इव शब्दशून्यः सञ्जातः। पुनः करणीयं निश्चित्य सर्वप्रथमं अमानुषिकात्याचारं सहमानं कोमलं पुत्रं समालिङ्ग्य तं प्रबोधितवान्,पुनः विद्यालयं गन्तुं सन्नद्धोऽभवत्। विद्यालयं गन्तुं प्रस्तुतं जनकं दृष्ट्वा भयेन  चीत्कारं कृतवान् स:

'-मा,मैवम् पितः,ते मां हस्यन्ति…'

'न वत्स! इतःपरं कोऽपि त्वां पीडितुं न शक्नोति,मयि विश्वसिहि।'

 ततः सः सर्वप्रथमं स्व आरक्षिनिदेशकं मित्रं प्रति गत्वा सर्वं वृत्तान्तं निवेद्य, तेनैव सह च विद्यालयं गत्वा प्रधानाचार्यं सर्वं घटनाचक्रं सूचितवान्। सोऽपि सहयोगं कुर्वन् सर्वस्मिन् शौचालये गुप्तरूपेण चित्राङ्कनयन्त्रं स्थापितवान्। अन्येद्युः पिता पुत्रं समाश्वास्य, सामान्यवत् व्यवहर्तुं निर्दिश्य विद्यालयं प्रेषितवान्। तेषां छात्राणां, अनाचारग्रासानां च कोमलबालकानां चित्राणि चित्राङ्कनयन्त्रे समागतानि,तानि च आधारीकृत्य ते चत्वारोऽपि छात्राः आरक्षिबलेन गृहीताः । तेषां सुदृढ़ा अपि पारिवारिकी- सामाजिकी च  स्थितिः तान् त्रातुं नाशक्नोत्।

ततःपरं पित्रोः स्नेहः,परामर्शकानां च नियमितः उपचारः आशुतोषं विगतजीवनस्य भयंकरानुभवात् बहिः आनयताम्। सः सामान्यवत् स्वाध्ययने व्यापृतोऽभवत्।

परं हन्त! किमेवं जातः? सप्तवर्षीयः छात्रः  प्रद्युम्न: विद्यालये हतः! समाचारपत्रे वार्तामिमां पठित्वा आशुतोषस्य नेत्रयोः अश्रूणि बहिरागतानि,सुप्ता च वेदना पुनः कष्टं जनयामास।"अहम् भाग्यशाली आसम्,यः यथासमयम् अन्यायकृद्भ्यो रक्षितः,परमनेके हतभागिनः अद्यापि अनाचारस्य ग्रासाः भवन्ति, अमानुषिकात्याचारं सोढुं विवशाः भवन्ति"। कथं समाप्तिमेष्यति शोषणस्य परंपरेयं.......


निर्भयासि त्वम्

लेखिका-  श्रीमती आभा झा

 

'अभियुक्त सुहास: सश्रमम्आजीवनकारावासदण्डं प्राप्स्यति' इति न्यायाधीशस्य निर्णयं श्रुत्वा न्यायालये स्थित: जनसम्मर्द: हर्षोल्लासेन मत्त: जात:। परं तस्मिन्नेव न्यायपरिसरे  एकस्मिन् कोणे स्थिता नन्दिनी एकं दीर्घं नि:श्वासं त्यक्त्वा सर्वमेव घटनाचक्रं स्मरन्ती अपरे एव संसारे विचरति स्म। चलचित्रवत् पञ्चवर्षान्तराले घटितम् सर्वमेव वृत्तं तस्याः स्मृतिपटले आगच्छति स्म-

स्वप्नसंसारे जीवन्ती नन्दिनी,उत्साह-ओज-सम्पन्ना नन्दिनी,भविष्यस्य स्वर्णमयं स्वप्नं साकाररूपं कर्तुं अध्ययने व्यापृता नन्दिनी, विद्यालये- महाविद्यालये च परीक्षायां प्रथमस्थानाधिकारिणी नन्दिनी, शिक्षणेतरगतिविधिषु चापि स्वनैपुण्यं प्रदर्शयन्ती नन्दिनी, भविष्ये प्रशासनिकाधिकारी भविष्यामीति लक्ष्यं दधाना नन्दिनी,पितु: स्नेहाधिकारिणी नन्दिनी, मातु: जीवनस्य आधारभूता नन्दिनी कुत्रास्ति अधुना?

अधुना तु अस्ति विपरीतपरिस्थितिपादाहता, न्यायार्थं सुदीर्घं संघर्षं कुर्वन्ती, न्यायस्य आकांक्षायां बहुप्रतीक्षारता, कालस्य निर्ममं प्रहारं सहमाना, अंधकारमयस्य भविष्यस्य कालिमां ललाटे धारयन्ती नन्दिनी? कुत्रास्ति बाल्यकालस्य तारुण्यस्य वा दीप्ति: तस्या:, कुत्राऽस्ति वा यौवनस्य कान्ति:? तस्याः व्यक्तित्वम् पूर्णतः परिवर्तितम् खलु!

सा कदापि न विस्मरति तां रात्रिं या कालरात्रि इव तस्याः जीवनस्य स्वरूपमेव परिवर्तितवती। स्नातकोत्तर -परीक्षायां विश्वविद्यालये प्रथमं स्थानं प्राप्य नन्दिनी तस्याः पितरौ चापि हर्षवारिधौ निमग्नाः आसन्। प्रतिवेशिनश्चापि वर्धापनानि प्रदातुं क्रमशः आगच्छन्ति स्म । तस्मिन्नेव दिने तस्याः सर्वाणि मित्राणि सन्ध्याकाले गृहं प्राप्तानि । मातापित्रो: अनुज्ञामधिगत्य ते सर्वेऽपि सफलतामिमां प्रसन्नतामिमां च सहभोजने अनुभवितुं रात्रिभोजनं कर्त्तुं कनाटप्लेस इति स्थानं गतवन्तः ।भोजनं कुर्वन्तः आनन्दोल्लासं च अनुभवन्तः द्वादशवादनं संवृत्तम् । सर्वेऽपि प्रसन्नमनसा स्वगृहं प्रत्यावर्त्तुं सन्नद्धाः । नन्दिन्याः पार्श्वे नासीत् स्वकारयानम् ।सा दूरभाषयन्त्रेण भाटकस्य कारयानम् आहूतवती । आनन्दपारावारे निमज्जन्ती सा न जानाति स्म कारचालकस्य कुत्सिता दृष्टिः तस्याः शीलं हन्तुं प्रवृत्ताऽस्ति सञ्जाता। एकाकिनीं नन्दिनीं सः बलात् एकान्तं स्थानं नीत्वा तस्याः शीलहरणं कृत्वा, मूर्च्छितां च तां तत्रैव क्षिप्त्वा पलायमास।

बहुकालानन्तरं चेतनां प्राप्य सा स्वस्थितिम् अनुभूय अपमानस्य ज्वालायां भृशं जाल्वल्यमाना किं कर्तव्यमिति विचिन्त्य येन- केन प्रकारेण आरक्षिकार्यालयं प्राप्तवती । प्रातः चतुर्वादने दमितमानां शीर्णवस्त्रां च एकाकिनीं नन्दिनीं दृष्ट्वा आरक्षिणः अपि सहानुभूतिं न प्रदर्शितवन्तः, अपितु अनर्गलप्रश्नेन तस्याः व्यथां वर्धितवन्तः एव । FIR (प्रथम सूचना प्रतिवेदनं) लेखितुम् अपि ते सन्नद्धा: नासन् । परम् अपमानस्य अग्निः तस्याः साहसं न्यूनीकर्तुम् नाशक्नोत्। यदा सा वारम्वारम् प्रतिवेदनं लेखितुमकथयत् तदा विवशीभूय ते प्रतिवेदनं लिखितवन्तः । ततः एव  सा अधिकारिणाम् अनुमतिं प्राप्य स्वपितरं दूरभाषेण स्वदुर्दशाविषये सूचितवती।

पुत्र्याः प्रतीक्षायाम् आतुरौ उद्विग्नौ च पितरौ नन्दिन्याः सकरुणं रवं श्रुत्वा अवसन्नौ अभूताम् । कथञ्चित् तौ आरक्षिकार्यालयं प्राप्तवन्तौ। एकः आरक्षी तौ दृष्ट्वा निर्लज्जतया भर्त्सितवान् -'भवान् कीदृशः पिता अस्ति, भवती च कीदृशी माता ? एकाकिनीं युवतीं पुत्री मध्यरात्रौ भ्रमणस्य अनुमतिं दत्तवन्तौ ? अधुना स्वाधुनिकतायाः स्वतन्त्रतायाः च फलं भुंक्ष्वताम्। आरक्षिणः निर्ममं वचः श्रुत्वा पित्रोः शिरसी नते जाते।

शोकाकुलौ पितरौ दुर्वहपीडामनुभवन्तीं पुत्रीं गृहम् आनीतवन्तौ, सर्वं च दौर्भाग्यं तूष्णीं सोढुं कथितवन्तौ। समाजे अपकीर्ति: भविष्यति, भविष्यस्य योजना धराशायिनी भविष्यति, विवाहसम्बन्धे अपि अवरोधमानेष्यति अपमानस्य कथेयम्,सर्वे त्वामेव अपराधिनीं मन्स्यन्ते, इत्यादय: सर्वे तर्का: निरर्थका: आसन् तस्या: कृते।सा दृढस्वरेण उक्तवती- 'पित:! भवानेव माम् 'अन्यायकृद्भ्यो न भेतव्यम्' इति शिक्षितवान्, 'अत्याचारस्य  प्रतिरोध: कर्त्तव्य:' इति निर्दिष्टवान्। अधुना स्वापकीर्तिभयात् तूष्णीं तिष्ठेयम् तर्हि एवमेव अत्याचारिण:, स्त्रीणां शीलहन्तार: बलात्कारिणः स्वपशुत्वं पोषयिष्यन्ति, अन्यायं कृत्वाऽपि अजेय: स्यामीति चिन्तयिष्यन्ति। मात:! मम सहायतां कुरु। त्वं स्त्री असि मात:! मम पीडां अनुभव!

तस्या: इमां दशां दृष्ट्वा मातु: कर्त्तव्यचेतना जागरिता- सत्यं कथयसि पुत्रि! त्वया सह यः कोऽपि दुर्वृत्तम् आचरितवान् स: नूनमेव दण्डं प्राप्स्यति। वयम् न्यायार्थं संघर्षं करिष्याम:। पिता- 'परं माधवि! जना: किं कथयिष्यन्ति? सर्वे अस्मान् एव दोषिण: मंस्यन्ते ।यथा स: आरक्षी प्रश्नं करोति स्म ,तथैव अन्येऽपि अस्माकं पालन-पोषणे शङ्काम् उत्थापयिष्यन्ति! माता-'किमन्येषां  प्रश्नभयात्  वयं स्वपुत्र्या: कष्टस्य अवहेलनां करवाम?नन्दिन्याः कोऽस्ति दोष:? सा आवयो: अनुज्ञामधिगत्य बहि: गतवती आसीत्। सा एकाकिनी अपि नासीत्। तस्या: मित्राणि सहैव आसन्। अपरञ्च, तस्या: स्त्रीत्वम् अपमानितं लाञ्छितं च। सा शोषिताऽपि तूष्णीं तिष्ठेत्, निर्दोषाऽपि सा लज्जां कुर्यात्? दोषिण:  निर्द्वन्द्वं विचरन्तु! इदं न भविष्यति ! अहम् स्वपुत्र्याः अपमानस्य कृते दोषिणे दण्डप्रदानाय प्रयत्नं करिष्यामि!

मातु: साहसं दृष्ट्वा रुदन्ती नन्दिनी आशापूर्णदृष्ट्या पितरं पश्यति । समाजापकीर्तिभयात् दोलायमानस्य पितु: द्विविधा अपगता। सोऽपि तस्याः निर्णयस्य समर्थनं कृतवान्।

परं संघर्षस्यः मार्गः नासीत् सुकर:। अपरस्मिन् दिने एव समाचारपत्रस्य मुखपृष्ठे तस्याः अपमानस्य कथा लिखिता आसीत्-' विश्वविद्यालयस्य स्नातकोत्तरपरीक्षायां प्रथमस्थानं लभमाना छात्रा बलात्कृता। समाचारमिदं सर्वेषां बन्धुवान्धवानां प्रतिवेशिनां च वास्तविकताया:  परीक्षकं संवृत्तम्। ते सङ्क्रामकरोगवत् तेषां सान्निध्यात् दूरं प्रयाताः। सत्यमेव कथ्यते-

उत्सवे व्यसने प्राप्ते दुर्भिक्षे राष्ट्रविप्लवे ।

राजद्वारे श्मशाने च यस्तिष्ठति स बान्धव:‌।।

प्रतिवेशिनां सम्बन्धिनाञ्च परिवर्तितव्यवहारं वीक्ष्य माता भृशं दु:खिता जाता।पिता  ताम् आश्वासयन् उवाच-"ये केवलं सुखस्य सहयात्रिणः आसन् तेषां साहचर्यात् मुक्ति: एव वरम्। सत्यमेव विपत्तिः सौजन्यस्य परिचयं कारयति। ये वास्तवाः स्वजनाः सन्ति ते सम्बन्ध -रक्षणे अनुत्साहं न दर्शयिष्यन्ति यतः "सम्पत्तौ च विपत्तौ च महतामेकरूपता।"

संघर्ष: प्रारब्ध:। पितु: नन्दिन्याश्च कानिचन मित्राणि एव संघर्षपथस्य सहयात्रिणः आसन् । संघर्ष: सुदीर्घ: आसीत्। तस्याः सहपाठिनः कालान्तरे स्वजीवनव्यापारे संलग्नाः। परं तेषां समर्थनं सहयोग: प्रेरणाप्रदानि वचांसि च तस्याः साहसं दृढनिश्चयं च दृढीकुर्वन्ति स्म । तथापि नन्दिन्याः कृते प्रत्येकं दिनं युगवत् आसीत्। एकतः मानभङ्गस्य व्यथा, अपरतः समाजस्य अपमानजनक: व्यवहार:! सा यत्रैव गच्छति स्म, पृष्ठतः मन्दस्वरेण तस्या: उन्मुक्तव्यवहारोपरि आक्षेप: भवति स्म।

ततःपरं यद् यद् अभवत् तत् सर्वं अपमानस्य पराकाष्ठाजनकम् आसीत्। अभियुक्तस्य कारागृहक्षेपणम्, चिकित्सालये परीक्षणम्, आरक्षिकार्यालये पुनःपुनः अनर्गलप्रश्नानाम् उत्तरप्रदानम् समाचारपत्रेषु दूरदर्शनेषु चापि घटनाया: मुहुर्मुहु: आवर्तनम् ,महिलायोगादीनां वाचिकसहानुभूतिव्याजेन प्रचारस्य प्रक्रिया, प्रतिवेशिनां प्रश्नाङ्किता सन्देहान्विता च दृष्टि:, न्यायालयस्य चापि सुदीर्घा प्रक्रिया, अधिवक्तृणां निर्लज्ज: प्रश्न:, सर्वमेव एतावतीं पीड़ां जनयति स्म यां जननी सोढुं न शशाक। एकस्यां रात्रौ सा हृदयाघातेन दिवङ्गता। मातु: मृत्यु: नन्दिनीं सर्वथा असहायामकरोत्। अधुना नासीत् कोऽपि यस्या: क्रोडे सा स्वपीड़ां विसृज्य, स्वाश्रूणि विमुञ्च्य हृदयभारम् अपनयितुं शक्नोति स्म। दुःसह: अयम् आघात: नन्दिनीम् अवसादस्य गंभीरे गर्ते अपातयत्। पितु: प्रबोधकवचांसि अपि तस्या: कृते निरर्थकानि आसन्। एकदा सा आत्मघातस्यापि प्रयासं कृतवती ,परं काले एव उपचारे जाते सा स्वस्था जाता। ततः परम् पिता तां नियमपूर्वकं मनोचिकित्सकं प्रति नयति स्म । नियमितोपचारेण तस्या: मानसिकं स्वास्थ्यं सम्यक् जातम्। तदा सा अनुभूतवती यत् तस्या: मनोदौर्बल्यम् अन्यायस्य प्रतिकाराय आरब्धे तस्या: संघर्षमार्गे बाधकं भविष्यति,सममेव पत्नीशोकविह्वलस्य पितु: पीडावर्धकमपि!

सा आत्मबलं संयोज्य साहसेन स्वकर्त्तव्यं निर्धारितवती।स्वाध्याये लेखने चापि सा आत्मानं व्यस्तामकरोत्।तस्या: मातृस्वसा अपि ,या लेखिका आसीत्, तस्या: मनस: दौर्बल्यं दूरीकर्तुं तां निरन्तरं लेखनाय प्रेरयामास। सा पुरुषाणामत्याचारेण पीडितानां स्त्रीणां जीवनविषये अध्ययनम् अनुसंधानञ्च  प्रारभत्।पीडितानां नारीणां वृत्तं पठित्वा तस्याः मनस: आक्रोश: नितरां वर्धितः ।तस्यामेव मनोदशायां सा अन्वभवत् यत् देशे एकमेव निर्भयाकाण्ड: नाभवत्। अनेका: बालिका:, किशोर्य:, युवतयः, प्रौढ़ा: किंवा वृद्धा: अपि निष्करुण-पाशविक बलात्कारेण तिरस्कृता: भवन्ति । वर्षद्वयाभ्यन्तरे सा स्वानुभूतथ्यं संगृहीतां च सामग्रीं सङ्कल्य पुस्तकाकारं कृतवती। पुस्तकस्य शीर्षकमासीत्-

'निर्भयाऽसि त्वम् 'पुस्तकमिदम् अखिलेऽपि देशे जनान् आन्दोलितान् अकरोत् । पुस्तकस्य आरम्भस्य पंक्तिरियम् अतीव हृदयद्राविका आसीत्-' बलात्कारपीडिताया: केवलं शरीरमेव न लाञ्छितं भवति, अपितु अपमानित: भवति तस्याः आत्मा, भग्नं भवति तस्या: हृदयम्, ध्वस्तो भवति समेषां परिवाजनानां मान-सम्मान:, खण्डितः भवति आत्मविश्वास:, धराशायिनी भवति भविष्यस्य योजना, धूलिधूसरित: भवति स्वप्नसंसारः। '

किमपि दण्डविधानं किमपि नियमं वा अस्याः क्षते: पूर्तिं न कर्तुं शक्नोति ।

पुस्तकस्य प्रकाशनेन समं प्रबुद्धजनानां सहानुभूतिं प्राप्य तस्याः आत्मविश्वासः वर्धितः । पत्रकाराणामपि पुनः पुनः दुर्घटनाया: अस्याः  विषये लेखनेन, समाचारपत्रे दूरदर्शनादिषु च घटनाया:  प्रकाशनेन न्यायप्रकियाऽपि तीव्रतरा अभवत् । "मीडिया" इत्यस्यैव प्रभाव: आसीत् यत् अद्य 'नन्दिनी- प्रकरणे न्यायस्य घोषणा भविता' इति सर्वे जानन्ति स्म । तस्मादेव कारणात् न्यायालयस्य बहि: महान् जनसम्मर्द: आसीत्।

अद्य सा संघर्षस्य फलं प्राप्तवती, परं बहु मूल्यं प्रदाय-  सर्वमिदं चिन्तयन्ती नन्दिनी वार्धक्येन नमितस्कन्धस्य पितुः स्पर्शेन चेतनामलभत्। पितुः चिन्तितां दृष्टिं वीक्ष्य हृदि साहसमपि संचारयामास।

'चलतु । पितः ! गृहम् चलावः। अद्य एकस्य अध्यायस्य पटाक्षेपोऽभवत् । अपरः अस्ति जीविकोपार्जनार्थम् मम प्रयासस्य अध्याय:। अहम् तं प्रयासमपि सफलं करिष्यामीति निश्चयः ।'

सुतायाः आत्मविश्वासपूर्णं वचः श्रुत्वा पितुः अक्षिणी अश्रुप्लाविते जाते, परम् तेषु अश्रुषु अवसादः नासीत्, आसीत्  आशा-

' सत्यमेव आशा जीवति सर्वदा '

ऋणमुक्तिः

लेखिका-  श्रीमती आभा झा

 

ट्रिंग... ट्रिंग.. अरुणिमा दास महोदया वदति खलु?

"आम्, अरुणिमा भणामि, भवान् कः ? कृपया स्व नाम वदतु। "

"महोदये!।मम नाम प्रकाशः अस्ति। परं नाम्ना माम् अभिज्ञातुं न शक्ष्यति भवती। भवतां जीवने अनेके विद्यार्थिनः आगतवन्तः स्यु:, तेषु एव एकं मत्वा मया सह वार्तां करोतु कृपया। अहं भवत्याः प्रशंसकोऽस्मि, कृपाकांक्षी चापि। बहुकाठिन्येन भवत्याः दूरवाणी-क्रमाङ्कः प्राप्तः मया । भवत्याः अनुमतिः स्यात् चेत् एकवारं दर्शनं कर्तुमिच्छामि।" "अहम् स्वास्थ्यकारणात् बहिः न गच्छामि, यदि भवान् मेलितुमिच्छति, मम गृहम् आगन्तुं शक्नोति!"

"अवश्यमेव महोदये! किमहं श्वः आगच्छानि? स्वरे उत्साहातिरेकः आसीत्।"

"आगन्तुमर्हति भवान् । अहम् गृहे एव तिष्ठामि। "

कोऽपि प्राक्तनः छात्रः मेलितुमिच्छतीति अरुणिमा अचिन्तयत्। मध्ये- मध्ये कोsपि छात्रः छात्रा वा आगत्य स्वसफलताविषये सूचयति, स्वकार्तज्ञ्यं चापि निवेदयति । इयं तस्या: जीवनस्य सामान्या एव घटना।परं, तस्मिन् दिने अरुणिमा अतीव प्रसन्ना भवति । यथा स्वसन्ततेः सफलता पित्रोः कृते आनन्ददायिका भवति, तथैव छात्राणां सफलता शिक्षकाणां कृते गौरवप्रदात्री। एतेन आनन्देन सह केनापि सह आलापस्य तस्याः तृषाऽपि शाम्यतिस्म, यतः पत्युः मृत्योरनन्तरं सा संपूर्णत: एकाकिनी सञ्जाता आसीत्। सेवाकाले सा सदैव छात्राणां सम्मर्दे स्वकालं यापयति:स्म । सेवानिवृत्त्यनन्तरं पत्या सह कालं यापयन्ती अपि सा विद्यार्थिभि: सह सम्पृक्तैवासीत्। वर्षमेकमेव व्यतीतमासीत्, यदा कालस्य क्रूर: आघातः हृदयाघातव्याजेन पतिमपि अपहृतवान्। एकमात्रः पुत्रः अमेरिकादेशस्य चाकचिक्यं त्यक्त्वा स्वदेशं प्रत्यावर्त्तुं नासीत् सन्नद्धः। सः वारम्वारं भारतदेशं परिहाय अमेरिकादेशं प्रति आगन्तुं मात्रे निवेदयतिस्म, परम् अरुणिमा स्वपरिवेशं त्यक्तुम् उद्यता नाभवत्।

            गृहे सर्वं सुखसौविध्यमासीत्। यानचालक:, पाचकः अन्ये चापि अनुगताः सेवकाः परिवारजन इव वसन्तिस्म, तथापि स्वजनानाम् अभावः तु आसीदेव ।पुत्रः प्रतिसप्ताहं दूरभाषयन्त्रेण वार्तां करोतिस्म ।परं तया संक्षिप्तवार्तया मातुः मनसः तृषा न शाम्यतिस्म ।प्रतिवेशिन: गृहम् आगच्छन्तु, गृहमागत्य गल्पादिना मनोविनोदं कुर्वन्तु, इति अवधारणा महानगरीयसंस्कृतौ नास्त्येव । प्रतिदिनं सायंकाले सेविकया सह समीपस्थम् उद्यानं गच्छति, तत्रापि यन्त्रवत् स्मितहास्यस्य आदानप्रदानम् अवश्यमेव भवतिपरम् एतस्मात् अतिरिच्य गल्पस्य अवकाशः कस्य पार्श्वे आसीत्?      अस्मिन् नीरसे जीवने यदा कोऽपि छात्रः प्रशंसक: वा मेलितुमागच्छति, तस्याः मनः शिशुरिव उत्फुल्ल: भवति। अद्यापि कस्यापि अपरिचितस्यापि आगमनसूचनामधिगत्य अरुणिमा प्रसन्ना अस्ति। सत्यमेव बुभुक्षा केवलं खाद्य-पदार्थस्य न भवति, स्वजनदर्शनस्यापि भवति, पिपासा केवलं पेयपदार्थस्य न भवति, भवति स्वभावनायाः आदान-प्रदानस्य ,कस्यापि आत्मीयजनस्य समक्षं स्वानुभूतेः प्रकटनस्य, स्वसुखवितरणस्य, स्वदुःखस्य अभिव्यक्तेः अपि आवश्यकता भवत्येव। अस्मिन् परिप्रेक्ष्ये जीवनस्य चतुर्थे वयसि अरुणिमा दरिद्रा जाता आसीत्।

     अपरस्मिन् दिने नियते काले एकः श्यामवर्णः युवा आगतः आगत्य च श्रद्धया अरुणिमायाः चरणस्पर्शं कृतवान्- "महोदया!भवती मम पथप्रदर्शिका, भवती मम गुरुः, भवती एव मम देवता, मम जीवनस्य अन्धकारस्य अपहर्त्री! भवत्याः कृपयैव मम अभिज्ञानमस्ति ,मम परिचयः अस्ति ,मम सम्मानः अस्ति…..- इत्येवं वदन् सः भावातिरेकेण रुद्धवाक् अभवत् ।

स्नेहेन तं युवानं स्वचरणाभ्याम् उत्थापयन्ती अरुणिमा तं पार्श्वस्थितायाम् उत्पीठिकायाम् उपवेश्य सेविकां तं जलं पाययितुं निर्दिष्टवती ।कतिपयक्षणानन्तरं तम् आश्वस्तं दृष्ट्वा अपृच्छत्-"हे वत्स! त्वं कस्मिन् विद्यालये मम छात्र: आसीः ? कदा अहं त्वां पाठितवती?मम स्मृतिपटले त्वं नासि, संभवतः वार्धक्यकारणात् मम स्मरणशक्तिः क्षीणा सञ्जाताऽस्ति । '

"महोदये! सर्वं वक्ष्यामि, तदर्थमेव भवत्याः सकाशम् आगतोऽस्मि।न कथयिष्यामि चेत् कथं मनसि शान्तिमागमिष्यति ? सुदीर्घा कथा वर्तते मम जीवनस्य। किमहं भवत्याः अर्धहोरापर्यन्तं कालं गृहीतुं शक्नोमि?"

"अवश्यमेव वत्स!मम पार्श्वे समयाभावः नास्ति। भवान् यत्किमपि वक्तुमिच्छति वक्तुमर्हति। भवादृशाः कृतज्ञा: छात्राः अद्यापि वर्तन्ते, इति दृष्ट्वा मम मनः अतीव प्रमुदितं जातमस्ति ।"

"महोदये!भवती पञ्चदशवर्षपूर्वं प्रतिदिनं कारयानेन अहिंसास्थलमार्गेण कुत्रापि गच्छतिस्म, इति स्मरति खलु?"

आम्, सम्यक् रूपेण स्मरामि। तदा मम निवासः छतरपुरग्रामे आसीत्, कार्यस्थलं च साकेतनगरे। अहं तत्रैव सर्वोदय विद्यालये पाठनकार्यं करोमि स्म। स एव मार्ग: आसीत् मम आवागमनस्य। परं त्वं किमर्थं पृच्छसि ?"

'महोदये! अहम् अहिंसास्थलं निकषैव स्वपरिवारेण सह भिक्षायाचनां करोमि स्म। संभवतः तदा मम आयुः सप्तवर्षाणि आसीत्। मम अग्रजा, अनुज:, अनुजा चापि तदेव कार्यं कुर्वन्ति स्म। यदा कोऽपि वाहनः तत्र विरमति स्म, वयं धावित्वा तत्र गत्वा करुणस्वरेण भिक्षायाचनां कुर्मः स्म । अधिसंख्यकाः वाहनचालकाः अस्माकं भिक्षापात्रे रुप्यकाणि क्षिप्त्वा स्वदयाशीलतां प्रकटयन्ति स्म। परं भवती कदापि अस्मभ्यं भिक्षां न दतवती, एकवारं द्विवारं वा किमपि भोज्यपदार्थं मात्रे अयच्छत् । वारम्वारम् अस्मान् तत्रैव भिक्षाटनं कुर्वन्तः दृष्ट्वा भवती मातरम् आहूय  एकदा अकथयत् -"भाग्यहीने!किमर्थं भिक्षाटनं कृत्वा आत्मना सह स्वशिशूणामपि जीवनं नरकतुल्यं करोषि ? किमर्थ श्रमं न करोषि ?"

" कः दास्यति अस्मभ्यं आजीविकाम्?कः अस्मासु विश्वासं दर्शयिष्यति ?"

"अनेकाः संस्थाः सन्ति, याः त्वत् सदृशानां जनानां कृते पुनर्वासस्य व्यवस्थां कुर्वन्ति, आजीविकायाः अवसरं यच्छन्ति । अहं त्वां तत्र नेष्यामि ।'

            परं मम जननी तव कथनम् अश्रुत्वैव अपशब्दभाषणम् आरब्धवती। परं भवती मम मातुः बुद्धिपरिवर्तनस्य प्रयासं न त्यक्तवती ।एकदा भवती कठोरतया अवदत्-"त्वं स्वजीवनं विनाशितवती, परम् एतेषां जीवनं मा विनाशय। बालकान् विद्यालयं प्रेषय। तेभ्यः जीवननिर्माणस्य अवसरं प्रदेहि । यदि त्वं स्वयं इमान् विद्यालयं न प्रेषयिष्यसि चेत् मह्यं प्रयच्छ, अहमेतेषां पठन-पाठनस्य व्यवस्थां करिष्यामि। अद्यत्वे अनेकाः संस्थाः एतादृशानां बालकानां कृते शिक्षाप्रदानस्य व्यवस्थां कुर्वन्ति।"

परं भवत्याः अमृतमयं कथनं मम मातुः कर्णविवरं न स्पृशति स्म ।सा भवतीं दूरतः एव वीक्ष्य अपशब्दभाषणमारभते स्म -"हुं, केवलं भाषणम् !कारयानेन चलति, स्ववैभवं प्रदर्शयति, परं दरिद्रेभ्यः स्वल्पमपि धनं प्रयच्छेदिति दया हृदि नास्ति। सर्वदैव भाषणं करोति।विद्यालयं प्रेषयानि बालकान्! कथं प्रेषयानि! कथमस्माकम् उदरं भरिष्यति! वयं सर्वे मिलित्वा भिक्षा-याचनां कुर्मश्चेत् उदरपूर्तिः भवति । सा काऽस्ति उपदेष्ट्री ? मम संतति-विषये निर्णयस्य ममाधिकारः अस्ति, सा का? "हुं..

मम माता प्रतिदिनं भवत्याः अपमानं करोति स्म, परं तथापि भवती स्वभाषणात् न विरमति स्म । वारम्वारं भवत्याः मुखात् विद्यालयस्य चर्चामाकर्ण्य मम बालमनसि अपि अध्ययनस्योत्कण्ठा जागृता। पूर्वतोsपि बसयानेन गच्छन्तः सुसज्जिता: छात्रा: मम हृदि स्पृहां जनयन्ति स्म । एकस्मिन् दिने अहं मातरमकथयम्- "मातः । अहमपि पठितुमिच्छामि। मह्यं भिक्षाटनं न रोचते। माम् कस्मिन्नपि विद्यालये प्रवेशं दापय।'

मम मुखात् निर्गतं वचः निशम्य मम माता उन्मत्ता इव माम् यष्टिकया ताडयन्ती इदमेव वदन्ती आसीत्-

'वयं भिक्षुकाः स्म:। अस्माकं कृते नास्ति विद्यालयः । नास्ति शिक्षायाः प्रकाशः! शिक्षा धनवतां विलासः अस्ति, विद्यालयगमनस्य स्वप्नमपि मा पालय !भिक्षाटनमेव अस्मादृशानां वर्तमानः, भविष्यश्चापि ।"

 यदा मां ताडयन्ती सा श्रान्ता जाता, तदा ममाग्रजा मां समाश्वासयन्ती उक्तवती-भ्रात:! किमर्थ मातरि रोषं जनयसि ? पश्य, कथं क्षतविक्षतोऽसि सञ्जातः! वयं भिक्षुकाः स्मः। अन्येषां भाषणेन अस्माकं जीवनं न परिवर्तयिष्यति, भ्रातः ।"

परं मम मनसि झञ्झावातः समुपजातः आसीत् । रात्रौ यदा सर्वे सुप्ताः आसन्, उन्मतः इव अहं तस्मात् स्थानात् पलायितः । रात्रिपर्यन्तं पदाति: चलन् कुत्र प्राप्तः अहं न जानामि स्म । मम माता मां पुनः तस्मिन्नेव नरके नेष्यति इति भयात् अहमेकस्मिन् बसयाने आरूढवान्। यदा चिटिकापत्रार्थं बसयानस्य कर्मचारी समीपमागच्छत, अहं निरुपायतया रोदितुमारब्धवान् । मम रुदनं श्रुत्वा एकः भद्रपुरुषः मम चिटिकापत्राय कर्मचारिणे धनं दत्तवान्, मां च समाश्वास्य मद्विषये अपृच्छत् । तस्य भद्रजनस्य स्नेहयुतेन व्यवहारेण विगलितोऽहं तस्मै सर्वं वृतान्तं न्यवेदयम्। सः अवदत्- "वत्स!यदि त्वं मया साकं गन्तुमिच्छसि चेत् चलितुमर्हसि। अहं कोटद्वारे निवसामि ।तत्र तव‌ शिक्षाव्यवस्थां  कर्तुं प्रयतिष्ये, प्रतिदाने त्वं गृहकार्यसम्पादने मम पत्न्याः सहयोग कर्तुं शक्ष्यसि?”

अहं अध्यययनलालसां शमयितुं किमपि कर्तुं सन्नद्धः आसम् । तस्य भद्रजनस्य प्रस्ताव: मत्कृते अयाचितं सुफलमासीत् । अहं तेन सार्द्धमगच्छम्, सोत्साहेन तस्य गृहकार्यं सम्पाद्य गृहपतिसकाशमागच्छामि स्म । सः षण्मासाभ्यन्तरं माम् अक्षरबोधं कारयित्वा सर्वकारीयविद्यालये प्रवेशं दापयामास ।मम वयः प्रथमकक्षायाःबालकानामपेक्षया अधिकमासीत्, अतः प्रधानाध्यापकस्य निर्देशानुसारं कठिनं परिश्रमं कृत्वा वर्षद्वये चतुर्थकक्षायाम् अगच्छम् । मम कठिन: परिश्रमः, मम अभिभावकस्य स्नेहपूर्ण: व्यवहारः मह्यं नववर्षाभ्यन्तरे एव द्वादशकक्षायाः प्रमाणपत्रं दापयामास । मम अङ्कतालिकां दृष्ट्वा मम कृपालुः पालकः उक्तवान्- "वत्स, त्वं सर्वं गृहकार्यं कृत्वाऽपि पञ्चाशीतिप्रतिशतमितम् अइकमधिगत्य स्वप्रतिभां प्रमाणितवानसि। त्वं उच्च शिक्षां लब्धुम् समुत्सुकः अपि असि, परमत्र उच्च शिक्षाव्यवस्था नास्ति। त्वमधुना देहलीं गच्छ ।कुत्रापि अंशकालिकं कार्यं कृत्वा उच्चशिक्षाग्रहणस्य स्वप्नं पूरय ।मम एकः परिचितः तत्रास्ति, तत्कृते अहमेकं पत्रं यच्छामि, सः यथाशक्ति तव साहाय्यं करिष्यति। "

एवमेवाभवत्। नववर्षानन्तरम् अहं पुनः देहलीनगरं प्राप्तवान्। मम पालकस्य परिचितजनस्य सहयोगेन एकस्मिन् प्रतिष्ठाने प्रहरिणः वृत्तिः लब्धा मया। स्वतंत्ररूपेण स्नातकपरीक्षायाः प्रपत्रं प्रपूर्य एकाग्रचितेन अध्ययनमारब्धवानहम्। स्नातकपरीक्षां समुत्तीर्य प्रतियोगिपरीक्षाः सम्मुखीकुर्वन् चतुर्थे प्रयासे अहम् एकस्मिन् बैंकप्रतिष्ठाने परिवीक्षाधिकारी इति पदं प्राप्तवान्। वृत्तिं प्राप्य सर्वप्रथममहं स्वशरणदातारं प्रति अगच्छम् ।सोऽपि अतीव प्रसन्नः अभवत्। सःमत्कृते यत् कृतवान् तस्य प्रतिदानम् नास्ति संभवम्, परं मध्ये- मध्ये तत्र गच्छामि, तयोः सेवां शुश्रूषां च करोमि, ताभ्याम् उपहारादिकं प्रयच्छामि। एतेन मम मनसि शान्तिः भवति, मम पालकौ चापि प्रसन्नौ भवतः ।

परं मम जीवनमपि परिवर्तयितुं शक्यते इति बीजमन्त्रप्रदात्री भवती मम मनसि सदैव सर्वोच्चासने विराजमाना आसीत् । तादृशी देवी, यस्याः अहं नाम अपि न जानामि स्म. गृहसंकेतस्य तु कथैव का?

यदैव जीवने एकं ससम्मानं पदं प्राप्य व्यवस्थितः जातोऽहम्, भवत्याः दर्शनस्य, भवत्याः चरणस्पर्शस्य उत्कण्ठा प्रतिदिनं वृद्धिंगता ।भवती एव सूर्यस्य प्रथमकिरण इव मम हृदि आशा जागृतवती आसीत् यत् वयमपि सामान्यमनुष्यवत् जीवनं यापयितुं शक्नुमः, शिक्षां गृहीतुं पारयामः, स्वप्नं द्रष्टुं शक्नुम:, इति भावोन्मेषस्य हेतुः भवती एव आसीत्, मम मनस: अज्ञानान्धकारस्य अपहर्त्री आसीत्। भवत्याः दर्शनं विना, स्वकृतज्ञताज्ञापनं विना मम जीवन व्यर्थमस्तीति अहं भवत्याः अन्वेषणमारब्धवान्, परं कथम्?

परं सत्यमेव कथ्यते- "यस्य कोsपि सहायक: न भवति, भगवान् एव तस्य सहायतां करोति । कार्यालयस्य स्वच्छताक्रमे एका प्राचीना पत्रिका दृष्टा मया। तस्यां अभिज्ञातमिव चित्रं वीक्ष्य मम मन: आनन्दातिरेकेण नर्तितुमारभत्‌। मम इष्टदेव्याः- भवत्याः -एव चित्रमासीत्। मत्कृते कार्यालये नियमितकार्य- संपादनं दुष्करं जातम् ।अर्धावकाशं स्वीकृत्य गृहमागतवान् । औत्सुक्याधिक्येन भवत्या लिखितां कथां पठितवान्। अन्ते भवत्याः गृहसंकेत:, दूरभाषक्रमांक: च लिखित: आसीत्। परं पत्रिकायाः प्रकाशनं सप्तवर्षपूर्वमभवत् इति दृष्ट्वा निराशः अभवम्-न जाने दूरभाषक्रमांकः परिवर्तित: भवेत् न वा ? भवती तत्रैव निवसति न वा? तथापि दूरभाषं कृत्वा प्रयत्नकरणे का हानि:, इति चिन्तयित्वा दूरभाषं कृतवान्। विधाता मम सहायक: आसीत्। भवती एव वार्तां कृतवती । मम जन्म सफलं जातम्। भवत्याः दर्शनेन अधन्योऽहं धन्यो जातः, भवत्याः अमूल्यवचः मम पथप्रदर्शकं सञ्जातम्, भवत्याः प्रबोधनेनैव मत्सदृशः पाषाणः स्वर्णः जातः। यदि अनुमतिः स्यात्, मध्ये- मध्ये दर्शनं कर्तुमिच्छामि। महोदये!अहं भवत्याः ऋणात् मुक्तिं नेच्छामि, परं प्रयत्नं करोमि मादृशानां अज्ञानान्धकारावृतचेतसां मानसपरिवर्तनस्य, अनाथवत् दयनीयं जीवनं यापयितृणां जीवने एकं लघुदीपज्वालनस्यभ्रान्तचेतसां भ्रान्त्यपसारणस्य। एतदर्थं एकां स्वायत्तसंस्थां चापि स्थापितवानहम्।

            महोदये! स्वस्य भ्रातुः भगिन्याश्च का स्थितिरस्ति, ते कुत्र सन्ति ,सन्त्यपि न वा ,इति न जाने, परमेतेषु एकोऽपि सुमार्गं चिनोति चेत्, श्रमः सफल: भविष्यतीति मंस्येवदन् कण्ठः गह्वरित: जात: प्रकाशस्य ।


उन्मत्तः

लेखिका-  श्रीमती आभा झा

 

प्रायः पञ्चवर्षानन्तरं नगरस्य कोलाहलमयात् वातावरणात् निवृत्तिं प्राप्तुं ग्रामं प्रति प्रस्थानकाले इदमेव चिन्तयन्ती आसम् - दश दिनपर्यन्तं ग्रामस्य शान्तिकुञ्जे सहजस्नेहपूर्णाम् आत्मीयतां भुञ्जाना नगरे सुदुर्लभां मानसशान्तिं प्राप्स्ये इति । एतादृशीमेव कामनां पुष्यन्ती ग्रामस्य वीथ्याम् यदाहम् पदमेकम् अददम् तदैव अनुरागस्योपरि दृष्टिः गता । अनुरागः विद्यालये मम सहपाठी आसीत्। परम् अधुना तु तस्य परिवर्तितं व्यक्तित्वं दृष्ट्वा विस्मिताऽभवम्। कक्षायां सर्वतोभावेन पश्चात् पदम् अनुरागम् अपूर्णगृहकार्यकारणात् शिक्षकेभ्यः सर्वदैव तिरस्क्रियमाणम् हीनभावनाग्रस्तम् अनुरागम् अधुना आधुनिकप्रचलनानुसारं आङ्गलवेशधारिणं अनुरागं दृष्ट्वा स्वाभाविक एव आसीत् । मनसि आगताम् अतीतानुभूतिं झटिति त्यक्त्वा सोत्साहमहम् अवदम्-" अयि भो अनुराग ! दिष्ट्या त्वं दृष्टः। पञ्चवर्षानन्तरं ग्रामम् आगताऽस्मि । प्रतीयते यत् मार्गम् अपि विस्मृतवती अस्मि । अधुना त्वया सार्धं गमिष्यामि । "

परम् अनुरागः उक्तवान् -" क्षम्यताम् भगिनि ! अधुना तु अत्यधिकः व्यस्तोऽस्मि जिलाधिकारिणा सह मम गोष्ठी नियताऽस्ति यदि न गमिष्यामि तर्हि महती हानिः भविष्यति। इति उक्त्वा मम प्रत्युत्तरस्य प्रतीक्षामपि अकुर्वाणः सः प्रस्थितः। तस्य व्यवहारात् स्तब्धा जाताऽहम् । ईदृशः उपेक्षापूर्ण: व्यवहारः ग्रामबन्धोः । परं पुनः इदम् अचिन्तयम् - अवश्यमेव सः आवश्यककार्यवशात् एव माम् उपेक्षितवान् अन्यथा ग्रामे तु ईदृशः व्यवहारः अनपेक्षितः ।

कथञ्चन ग्रामं प्राप्य पितामहं पितामहीं च दृष्ट्वा तयोः आशीर्वादेन मया मार्गश्रान्तिः विस्मृता संध्याकाले बालसख्या विमलया सह भ्रमणार्थं बहिर्गता मार्गे उन्मत्तं कमपि दृष्ट्वा अहम् अपृच्छम् - "कोऽयम् उन्मत्तः विमले ! ह्यः अपि अहम् एनम् अस्मिन्नेव विद्यालयसमीपे अपश्यम्।

अयं शेखरः, आवयोः सहपाठी ।

किम् ! चीत्कारशब्दः निर्गतः मुखात् !

आम् भगिनि परीक्षानन्तरं त्वं तु नगरं प्रति प्रस्थिता, अयं तु परीक्षायाम् उत्तमं स्थानं प्राप्य भविष्यस्य स्वप्नम् अपि द्रष्टुम् न शशाक । तस्य पिता तपेदिकरोगेण ग्रस्त: जात: । सः महाविद्यालये प्रवेशस्य विचारं त्यक्त्वा बालकान् पाठयित्वा पितुः उपचारं प्रारभत् । परं क्व तस्य सीमितः आयः क्व च अधिकद्रव्यहारिणी इयं व्याधिः ! तस्य पिता दिवङ्गतः । सः कथञ्चन मातुः मुखं दृष्ट्वा हृदि धैर्यं धारयित्वा जीवनं धारयामास । परं दैवदुर्विपाकात् माताऽपि तेनैव रोगेण ग्रस्ता जाता। औषधे: आहारस्य च अभावेन साऽपि षण्मासाभ्यन्तरम् एव मृत्युमुखं प्रविष्टा आघातमिमं तस्य दुर्बल: मस्तिष्क : सोढुम् न अशक्नोत् । तस्य मतिः विक्षिप्ताऽभवत् । सः एकं पुस्तकं गृहीत्वा विद्यालयस्य समीपम् एव कालं यापयति, एकमेव च वचनं वक्ति- "जीविकां प्राप्य अहं भवतो: सेवां करिष्ये इति" ।

चित्तवृत्तिः अशान्ताऽभवत् । भ्रमणं परित्यज्य गृहं प्रति निवृत्ता । रात्रौ -दस्युः दस्युः आगतः इति उच्चरवं श्रुत्वा निद्राभङ्ग जातः । " का वार्ता " इति प्रश्नस्य उत्तरं पितामही दत्तवती विक्रान्तस्य कार्यमिदम्। सः प्रतिवर्षम् आगत्य श्रेष्ठिनः सर्वं धनं हरति तम् रज्ज्वा बद्ध्वा भृशं ताडयत्यपि कोऽपि किमपि कर्त्तुम् असमर्थः ।

'परं कोऽयं दस्युः " ?

स एव विक्रान्तः- सम्भ्रान्तकृषकस्य गोपालस्य पुत्रः ।

अहम् सः मेधावी-कर्मठविक्रान्तः कथं दस्युकर्मणि प्रवृत्तः ?

पितामही- यदा तस्य पिता भृशं रुग्णः जातः तदा सः तस्मात् श्रेष्ठिनः दशसहस्ररूप्यकाणि गृहीतवान् । मध्ये पिता दिवङ्गतः। सः निर्धारिते समयसीम्नि रूप्यकाणि दातुम् असमर्थ: बहुविनयं कृतवान्- "वर्षाभ्यन्तरे एव तव रूप्यकाणि दास्यामि । मम भूमेः अधिग्रहणं मा कुरु, भूमिः तु अस्माकं कृषकानां कृते मातृतुल्या भवति, मम मातुः प्रतिष्ठा मा दवय। परं वञ्चनाप्रवणः सः श्रेष्ठी बलात् तस्य सर्वस्वम् अपहृतवान् । तत्क्षणं सः हिंस्रपशुवत् अघोषयत्-भो अत्याचारिन्! वर्षाभ्यन्तरं यदि तव दर्पन दलयिष्ये तर्हि नाहम् विक्रान्तः । तदेवाभावत्। प्रतिशोधस्य अग्नौ ज्वलन् सः दस्यूनाम् सखा जातः। तेषामेव साहाय्येन सः प्रतिवर्षम् एकवारम् आगच्छति, तस्य सर्वस्वम् अपहरति, पुनः अदृश्यो भवति । आरक्षिजनाः अपि तम् रोद्धुम् असमर्थाः ।

किं ग्रामे सर्वान् पीडयति सः ?

न न सः केवलं श्रेष्ठिनम् एव पीडयति । आर्त्तानां दरिद्राणां तु सहायकोऽस्ति सः। विक्रान्तस्य दुर्दशायाः वर्णनं श्रुत्वा चित्तस्य वैकल्यं वर्धितम् एव । कथञ्चन रात्रिः व्यतीता।

प्रात:काले पुनः एकः कटुयथार्थः सम्मुखम् आगतः प्रियसखीं विमलां लक्ष्म्याः विषये जिज्ञासां कृते सति साऽवदत्-सा तु अत्रैव अस्ति।

किं ? तस्याः तु विवाहः जात आसीत् । आम् ! परं तस्याः पतिः चरित्रहीनः मद्यपः चासीत् । पतिगृहं प्राप्य यदा सा पत्युः कदाचारम् अपश्यत्-विरोधम् अकरोत् । परं विरोधस्य परिणामः अभवत्-प्रतिदिनस्य लाञ्छनं ताडनम् अन्यविधश्च शारीरिक मानसिक अत्याचारः । मातृहीनाया: लक्ष्म्याः दुर्बलः मस्तिष्कः अत्याचारस्य पराकाष्ठाम् असहमान: असन्तुलित : सब्जातः। तदा तस्य श्वसुरः चिकित्साम् अकृत्वैव ताम् पितृगृहं प्रापितवान् । निरुपायः पितृव्यः तस्या: चिकित्साम् अपि कारयति, तस्याः भरणं पोषणमपि करोति ।

रात्रौ यदा निद्रायाः आह्वानं करोमिस्म तदा छात्रजीवनस्य दृश्यम् चलचित्र इव दृष्टिपटले आगच्छतिस्म । भविष्यस्य रूपरेखायाः कुर्वन् शेखरः वदतिस्म - " मम पिता श्रमिकः अस्ति। सः मम अध्ययनार्थं महत् श्रमं करोति, स्वयं अभुक्त्वाऽपि माम् भोजयति, कठिनं परिश्रमं कृत्वा माम् पाठयति । तस्य ऋणं शोधयतुिम् तु अहम् अक्षमोऽस्मि, परं जीविकां प्राप्य मातापित्रो: सेवां कृत्वैव अहम् आत्मानम् अनुगृहीतं करिष्ये"।

विक्रान्तः कथयति स्म " अहं शिक्षां प्राप्य कृषिकर्मणि स्वशिक्षायाः उपायोगं करिष्यामि। अहं कृषकपुत्रः भूमातरं सेविष्ये।"

लक्ष्मी वक्तिस्म-" अहं शिक्षां प्राप्य आदर्शगृहिणीधर्मस्य पालनं करिष्यामि, विवाहं कृत्वा पत्युः गृहं स्वर्गतुल्यं करिष्यामि।"

अहम् अकथयम्-अहं कस्यापि अधीनं कामपि वृत्तिं न स्वीकरिष्ये शिक्षां प्राप्य अहं स्वतंत्रशिक्षणसंस्थानं चालयिष्यामि यत्र छात्राणां सर्वाङ्गीणाया उन्नतेः प्रयासः भविष्यति ।

दशदिवसस्य ग्रामयात्रा पञ्चमे एव दिने समाप्य गच्छामि । गच्छामि उन्मत्तं शेखरं दृष्ट्वा, दस्युभूतस्य विक्रान्तस्य कुख्यातिं श्रुत्वा मतिक्षिप्तां लक्ष्म विलोक्य व्यवसायस्य पार्श्वे तस्करवृत्तिं कुर्वतः अनुरागस्य विषये श्रुत्वा गच्छामि द्विसहस्ररूप्यकाणां कृते पब्लिक विद्यालयस्य प्रधानाचार्यायाः वक्रोक्तिं श्रोतुं, अननुशासितान् छात्रान् शुक इव रटनकार्यं कारयितुम् ।

परं मनसि एक एव प्रश्नः बारम्बारम् समुदेति - कोऽस्ति उन्मत्तः ? - शेखरः, अनुरागः, विक्रान्तः, लक्ष्मी अहं वा ? उत समाजस्य इयं व्यवस्था या प्रतिदिनं उदीयमानान् अनेकान् छात्रान् उन्मादयति ? संभवतः भवान् वक्ष्यति "तव एष प्रश्नः अपि उन्मत्तस्य प्रलाप एव ।




अमङ्गलेऽपि मङ्गलम्

लेखकः - डॉ० नारायणशास्त्री

 

आसम् अहं तदानीं पञ्च- सप्त-वर्षीयः शिशुः माता एव मे एका सर्वस्वभूता अवर्त्तत । पितुः उत्सङ्गस्य तु आनन्दम् अहं स्मरामि अपि नैव । मम किञ्चन पैतृकं गृहम् अपि नैव आसीत् । एकस्मिन् भाटकिने प्रकोष्ठे एव अहं मात्रा सह अवसम् । न् आसीत् मम कश्चन सहोदरः काचित् सहोदरी वा मातुः मुखतः श्रुतवान् आसं यत् पिता मे शिक्षकः अवर्त्तत । ततः एव सा अपि पठन-लेखनयोः शिक्षां गृहीतवती । पितरि दिवं गते आत्मना सह मम पालन-पोषणयोः भारः तया एव बहनीयः अभूत् अहम् एव तस्याः सर्वासु अपि अवस्थासु एकमात्रम् आशा - दीपक: आसम् । सा मां दर्शं दर्शम् एव जीवति स्म, अन्यथा पित्रा सह तया बहु-पूर्वम् एव सत्या अभूयत ।

एकदा तां मौक्तिक- ज्वरः आक्राम्यत् प्रतिश्यायः अपि प्रगाढः आसीत् । असह्येन कासेन तु तस्याः स्थितिः शोचनीया अजायत गृह-चिकित्सा एव चलति स्म। निर्धनेभ्यः तु उपचारः न चिकित्सालये मिलति, न च समाजे एव । मम पितुः एकं मित्रं चिकित्सकः आसीत् । ततः एव सत्याम् आवश्यकतायां समुचित: परामर्शः प्राप्तः भवति स्म। तेन निर्दिष्टम् एव मातुः कृते एकम् औषधं क्रेतुम् अहं वाज्यारे गतवान् ।

वाज्यारस्य सृतयः यद्यपि विस्तृताः आसन्, तथापि यातायातयोः साधनानां मात्रां विलोक्य सङ्कुचिताः एव प्रतीयन्ते स्म पदयात्रिणां कृते नियताः पन्थानः अपि व्यापारिभिः स्थाननिरोधेन पर्याप्ताः न अवर्त्तन्त । पदयात्रिणः पद-पथं परित्यज्य सृति मध्ये चलितुं विवशाः आसन्। अत्र पदयात्रिसू अहम् अपि एक: आसम् ।

सृति- पारं कर्त्तुं यथा हि अहं परावृत्तः अभवम्, तथा मम सौभाग्यं कथनीयम् अथवा दौर्भाग्यम्, पृष्ठतः सवेगम् आगच्छता एकेन मारुति-मरुत्तरेण अहं भूतले अधोमुखः पातितः । मम एकस्मिन् पादे प्रहारः जातः आसीत्।

रुधिरम् अपि शरीरतः बहु निःसृतम्। अक्ष्णोः अग्रे अन्धकारः आयातः अहं किङ्कर्त्तव्य-विमूढः इव असह्य वेदनया क्लिश्यन् क्रन्दन् आसं यत् तस्मात् मरुत्तरात् एकः भद्रपुरुषः बहिर् आयातः, मां च सावधानतया उत्थाप्य तस्मिन् एव मरुत्तरे प्रस्वाप्य प्रचलितः ।

अहम् एकत: मातरं विचिन्तयन् आसम्, अन्यतः च आत्मानम्। हा! अस्यां स्थितौ कः मम मातरं गत्वा सूचयेत् ? कः ताम् ओषधिं प्रापयेत् कः तां मच्छोकाकुलां समाश्वासयेत् ? अयं भद्रवेषः पुरुषः कुत्र मां नयति ? किम् अयं बालक-बालिकानाम् अपहरण कर्त्ता तु न वर्त्तते ? यः मां मरुत्तरेण प्रहृत्य पश्यताम् एव पश्यतां सर्वेषां सम्मुखे उत्थाप्य नयति हं हो सृति-मध्ये चलितार: अपि जनाः कीदृशाः निस्करुणाः सन्ति ? ये अस्याः दृर्घटनायाः कम् अपि विरोधं न कृतवन्तः। नूनं सर्वे जनाः महान्तः स्वार्थिनः। हा मातः! अधुना किं भविष्यति ? एवम् अहं नैक-चिन्ता - सन्तान व्याकुलितः एव आसं यत् मरुत्तरः चिकित्सालयं प्राप्तः ।

भद्रपुरुषः चिकित्सालयान्तर् मां नीत्वा चिकित्सकं प्रादर्शयत् । चिकित्सकेन निभाल्य कथितं यत् पादस्य अस्थि त्रुटितम् अस्ति । एकविंशति- दिनानां कृते ओषधि-लेपस्य स्थूलपट्टिकायाः बन्धनेन अस्थि-योजनं भविता । अस्य वालस्य रुधिरम् अपि बहु निर्गतम् । अतः तद् अपि अस्मै देयम् अस्ति भद्रपुरुषः अवदत् - 'किम् अपि भवतु ' अस्थि-योजनं भवेद् एव । रुधिरम् अपि अस्मै यावत् भवान् इच्छेत् तावत् मदीयं गृह्णातु, किन्तु एतं यथापूर्वं सर्वथा स्वस्थम् अवश्यं करोतु' इति।

वेदनातः पीडित: अहं द्राक्तर-भद्रपुरुषयोः संवादं सुस्पष्टं शृण्वन् आसन् । भद्रपुरुषं प्रति अहं मम श्रद्धा अवर्धत । तस्य महनीयतां प्रति नतमस्तक: अभवम्। तं प्रति आशङ्का निर्गता । तस्मात् एव क्षणात् मम चिकित्सा प्रारब्धा । मां गृह-सङ्केतं पृष्ट्वा भद्रपुरुषः मम मातरम् अपि गृहात् आनीय चिकित्साम् अकारयत्। आवयोः मातृ-पुत्रयोः सर्वम् अपि चिकित्सा व्यय भारं स एव भद्रपुरुषः उदवहत् ।

अनुमानतः एक- साधैकमासयोः एव आवाभ्यां चिकित्सालयतः अवकाशः मिलितः । आवां भद्रपुरुषः स्वकीये मरुत्तरे उपवेश्य गृहं प्रापयत् । मध्ये मध्ये सः सपत्नीकः सपुत्रीकः च गृहम् आगत्य आवयोः कुशल-क्षेमं पृच्छति स्म। आवां तस्य अनेन सद्व्यवहारेण भृशं प्रसन्नौ कृतज्ञतमौ च आस्व। एकदा तेन मातुः सम्मुखे एक: प्रस्तावः उपस्थापितः । तदनुसारं सः आवाम् उभौ अपि स्वभवने एव रक्षितुं वाञ्छति स्म । माता स्व-कृते तु स्वीकृतिं न अददात्, परन्तु मम हितं पश्यन्ती मत्कृते स्वीकृतिं दत्तवती।

अधुना मातृ-सङ्गं परित्य अहं तस्य भद्रपुरुषस्य परिवारे वस्तुं प्रवृत्तवान् । भद्रपुरुषस्य पत्नी स्वपुत्र्याम् इव मयि अपि सुभृशं स्निह्यति स्म तस्मिन् परिवारे पुत्रीतः अतिरिक्तः कश्चन बालकः न आसीत् । पुत्री अपि प्रायः मम समवयस्का एव अवर्त्तत। सा मां सहचरं प्राप्य अत्यन्तं प्रासीदत् । तस्मिन् परिवारे आवयोः पालनं पोषणं शिक्षणं सर्वम् अपि सहोदरभ्रातृ-भगिन्योः इव अजायत।

यदि अहं तस्य भद्रपुरुषस्य परिचयं न दद्यां तर्हि अवश्यम् इयं मे महती कृतघ्नता भविष्यति । सः भद्रपुरुषः इदान सर्वोच्चन्यायालयस्य प्रख्यातः भूतपूर्वः न्यायाधीशः अस्ति । सम्पत्तिः तदन्तिके वर्त्तते । न अस्ति कस्यचित् वस्तुनः अभावः तस्य पुत्रस्य अभावं सः पत्न्या सह अवश्यम् अनुभवति स्म, परन्तु माम् आत्मीयत्वेन अङ्गीकृत्य सर्वथा विस्मृतवान् अस्ति ।

तस्य न्यायस्य एकां घटनाम् अहम् अद्य अपि सम्यक् स्मरामि एकस्मिन् दिने अहम् अपि तेन एव सह 'न्यायालये कथं कार्यं भवति ? इति द्रष्टुं गतवान् । न्यायासने तस्मिन् अधिष्ठिते सति अहं किम् अपश्यं यत् तस्य सम्मुखे एकः जनः आरक्षि-जनैः निगृहीतः आनीतः तस्मिन् अभियोगः आसीत् यत् तेन एकस्मिन् गृहे प्रविश्य रोटिकां त्रयं चोरयित्वा भक्षितम् इति। चौरः स्वीयम् अपराधं स्वीकृतवान् आसीत्, किन्तु तेन सप्रणामं सविनयं च निवेदितं यत -'अहं विकार्यता-ग्रस्तः प्रशिक्षितः जनः अस्मि । कृते अपि प्रचुरे प्रयन्ते कुत्रचित् अपि आजीविका न मिलिता । प्राण-सन्धारणार्थं चौर्यात् अतिरिक्तम् अन्यम् उपायं न पश्यन् रोटिकात्रयं चोरयित्वा भक्षितवान् अस्मि । बुभुक्षितः किं न करोति पापम्। अहं स्वयं लज्जितः अस्मि अस्मै घोरपापाय' इति ।

न्यायाधीशेन क्षणं विमृश्य तस्मै यः निर्णयः दत्तः, सः अधुना अपि सर्वकारस्य समाजस्य च अक्ष्युन्मीलकः अस्ति । न्यायाधीशः तम् एकपञ्चाशद्रूप्य- काणां दण्डेन दण्डितवान् आसीत् । किन्तु तस्य स्थितिं जानता- तेन स्वपुटक-मध्यात् तानि रूप्यकाणि निःसार्य तस्मै समर्पितानि येन सः स्वदण्डं भरतु । परन्तु तेन एव सह अमुना न्यायाधीशेन तस्मिन् न्याय-प्रकोष्ठे विद्यमानाः सर्वाः अपि व्यक्तयः एकोत्तरशतैक-रूप्यकैः एवं कथयित्वा दण्डिताः यत् ताः तादृशे समाजे जीवितुम् अपराधं कुर्वन्ति, यस्मिन् प्राण-सन्धारणार्थम् अपि जनेन रोटिका - चोरणस्य अपराधः करणीयः भवति । न्यायाधीशस्य इमम् अतर्कितं निर्णयम् आकर्ण्य सर्वे अपि जनाः विस्मिताः अवर्त्तन्त । परम् अस्य विरोधं कर्त्तुं कस्य अपि साहसं न अभवत् । विना काम् अपि विप्रतिपत्तिं सर्वैः एव स्वभागीयः एकोत्तरशतैक-रूप्यकाणां दण्डः राज्यकोषे अभ्रियत।

ईदृशं न्यायं करोति स्म अयं न्यायाधीशः । आत्मानम् अस्य परिवारस्य एकम् अभिन्नं सदस्यं मन्वानः अहं स्वं धन्य धन्यं कथं न मन्येय ? हंहो ! भगवत: प्रशासने अमङ्गले अपि मङ्गलम् एव सदा तिष्ठति इदं मया प्रत्यक्षम् अनुभूयते । यदि मम अस्य मरुत्तरेण पादः न मग्नः अभविष्यत्, तर्हि किं मृत - जनकस्य मम ईदृक्-सुन्दर जीवन-निर्माणं समपत्स्यत ?

न्यायाधीशः मां तत्पुत्र च विवाह योग्यावस्थायाम् अवलोक्य मम मातुः अनुमतिं लब्ध्वा तत्पुत्र्या सह विवाहं कृत्तवान् आसीत् । मम माता तादृश मद्-योग्यां गुणवर्ती कल्पनातीतां वधूं प्राप्य यां सीमातीतां प्रसन्नताम् अन्वभूत् तस्याः मूले सा दिवङ्गतस्य मे जनकस्य पुण्य-राशिम् एव मनुते । अधुना अहं कदाचित् स्वमातुः अन्तिके सपत्नीकः निवसामि कदाचित् च श्वशुर-गृहे। पन्याः सेवा-शुश्रूतातः मम मातुः पूर्णः सन्तोष: वरीवर्त्ति । यदा कदा तु सा प्रतिवेशिनीषु उपाविष्टा सगौरवं कथयति अपि "यदि कस्यचित् वधूः भवेत् तर्हि ईदृशी भवेत् । " यथासमयम् आवयोः पति-पत्न्योः सुरम्यवाटिकायाम् एकः कुसुम-समः कोमलः शिशुः आविर्भूतः अस्य सौरभेण न केवलं मम माता एव, अपि तु शिशोः आनन्दमयी मातामही: भगवत्स्वरूप: शिशोः मातामहः च अपि भृशम् उन्मत्तायितम् इव आत्मानम् अन्वभूताम् । शिशोः शैशवम् अधिकतरं पितामह्या: मातामह्याः च एव उत्सङ्गे व्यतीतम् मम तस्य मातामहस्य च तु हर्ष पारावारः स्वसीम्नि माति स्म एव न तदीयं भविष्यं निर्मातुं जनकत्वात् अहं मातामहत्वात् च न्यायाधीशः पृथक् पृथक् स्वप्नान् पश्यतः स्म ।

सम्प्रति मम पितृ-तुल्यः न्यायाधीशः महानुभावः स्वस्य उत्तरायुषि विद्यमान: संस्कृत-साहित्यम् अनुशीलयितुं प्रवृत्तः अस्ति । गृहे एकं पण्डितम् आमन्त्र्य प्रभूत- दक्षिणादानेन च तं सन्तोष्य ततः उपनिषदः, दर्शनानि, रामायणं, गीतां पुराणानि च अभ्यस्यति । तस्य प्रेरणया आवाम् अपि दम्पती समयं निःसार्य सुरभारती शिक्षितुं प्रवृत्तौ स्वः। यस्मिन् कार्यालये अहं कार्यं करोमि, तत्रत्यः सर्वः अपि मम सहकारी जनः मां संस्कृतम् अभ्यस्यतं श्रुत्वा दृष्ट्रा च संस्कृतशिक्षितुं प्रवृत्तः अस्ति ।

संस्कृतं हि व्यक्तेः यत्र लोकद्वयं सुधारयति, तत्र भ्रष्टाचारतः नानाप्रकारक-पापकर्मतः च सुदूरे स्थातुम् अपि स्वतः व्यक्तिं प्रेरयति । तस्य अभ्यासः माता-पितरौ प्रति भक्तिं, गुरुजनेषु सम्मानं, जीवान् प्रति दयां, राष्ट्रे श्रद्धाम्, ईश्वरं प्रति आस्थां च सञ्चारयति । संस्कृतम् एव स्थायि - सुख-शान्ति प्राप्तेः अमूल्यं सनातनं विश्वोपकारकं सुलभं साधनम् । इदं मया अपि सम्यक् अनुभूयते । अहम् अन्तरात्मना नित्यं कामये यत् कश्चित् अपि अपठित संस्कृतः न तिष्ठतु इति ।


मौनभङ्गः

लेखकः- राधिकारंजनः दासः

 

एकस्मिन् लघुगृहे दम्पती अवसताम्। प्रभाते गृहे कर्माणि समाप्य किमपि भुक्त्वा द्वो निर्गत्य निजकर्मव्यग्रौ रात्रौ च गृहं प्रत्यागत्य परमक्लान्तौ कथमपि स्वनियोगान्ते शय्यामारुह्य सुखस्वप्नान् पश्यतः । द्वयोः कार्यसमयः प्रातः नववादनात् सायं सप्तवादन-पर्यन्तम्। सचेताः अभियन्ता* सम्पूर्णदिने स्थित्वा सायं तस्य पादौ अवशौ भवतः । रीना अध्यापिका, पाठनं समाप्य विद्यालयस्य पुस्तकालयाध्यक्षा सा सर्वेषां गमनात् परमेव सर्वं संवृत्य क्लान्ता ऊर्जाहीना च गृहमागत्य किमपि कर्तुं न ऐच्छत् । अतः गृहे द्वयोरपि सर्वे नियोगाः पूर्वत एव निर्धरिताः ।

सचेताः शय्यासज्जाम्, धावनयन्त्रे वस्त्रप्रक्षालनं छादे च शोषणम्, शाकक्रयणम्, कर्तनम्, भोजनान्ते पात्र-परिष्करणं कुर्यात् इति निर्धारितम् । रीना स्नानागारात् आरभ्य पाकशालापर्यन्तं गृहं स्वच्छीकृत्य, भोजनं रन्धयित्वा, वस्त्राणामास्तरणं करोति स्म । प्रायश एकः अन्यं न बाधते न वा अन्यस्य साहाय्यं करोति । किन्तु यदि केनापि एकेन एकदा अन्यनियोगः कर्तव्यः तदा अन्येन अपि कदाचित् केनापि नियोगेन स्वऋणं परिपूरणीयम्। सन्तानहीनौ सेवकहीनौ तौ भोजनसमये शय्यायां वा सुखेन आलपतः बहुशः "अहं त्वत् अधिकतरं करोमि" इति उक्त्वा द्वौ अपि परिवदतः । एकः अन्यस्मै स्वतः स्नेहेन किमपि अन्यस्मै कुर्यादिति तयोः स्वभाव-विरुद्धम् ।

निजसुखाय द्वौ कदाचित् गृहसम्मुखे चलनं व्यायामं कदाचित् च निस्सीमाकाशस्य अधः उपविश्य तारादर्शनं निर्मल-वायु सेवनं च कुरुतः। तत् कर्म नियमितं प्रतिदिनं च नासीत्, अतः कः द्वारं संवरेत् इति आसीत् द्वयोः समस्या यः अन्ते प्रत्यागच्छेत् स त्रीणि द्वाराणि संवरेत् इति निश्चित्यापि न सुखिनो तो अलसौ । यदि सुदीर्घकालं बहियापयेयं मया एव द्वारं संवर्तव्यम् इति मत्वा द्वौ अपि शीघ्रतरं गृहान्तरं प्रवेष्टुकामा बहुशः रात्रिविहारं त्यक्त्वा गृहान्तरे एवं उपविशतः । समस्या तथापि न समाहिता । निद्रायाः पूर्व केन द्वारं संवर्तव्यम् ? दिनानि निर्धारितानि, किन्तु प्रत्येकं स्वदिने शीघ्रं द्वाराणि संवर्तुकामः अन्यं दोषयति स्म। एकदा रात्रौ स्फुरितः कश्चित् उपायः । रीना अवदत्, “श्चः आवां कार्यान्ते गृहं प्राप्य मौनं धारयिष्यावः । यः प्रथमं मौनभङ्गं कुर्यात् स एव द्वाराणि संवरिष्यति इति निर्धारितम्।” “न केवलं भाषणं नाम मौनभङ्गः, इङ्गितेनापि न भाषणीयम्। स्वभावाः अपि न प्रकाशनीयाः" इति सचेताः प्रत्यवदत् ।

परदिने सायमेव मौनम् आरब्धम्। द्वौ अपि निजनिजकर्म समाप्य भोजनार्थम् उपविष्टौ । शीतलवायु- कक्षं प्रविशति स्म । किन्तु द्वारं कः संवरेत् भोजनम् आरब्धमात्रं तदा प्रातिवेशिकः प्रविष्टः । "सुरात्रिः... अद्य कथं सर्वद्वाराणि उद्घाट्य मार्गे उपविष्टा इव खादतम् ?” द्वौ अपि निरुत्तरौ । अद्य अस्माकं गृहे भोजनं न रन्धितम् । सर्वे सप्ताहाय नगरात् बहिर्गता आस्म । अधुनैव प्रत्यागताः । आहार-गृहाणि च संवृतानि। यदि आपत्तिनं स्यात् अद्य युष्मद्गृहे खादितुं शक्नुमः किम्?" द्वौ अपि निरुत्तरौ। "सहर्ष स्वीकृतं युवाभ्याम्?" द्वौ अपि निरुत्तरौ । "आह्वयामि सर्वान्।" द्वौ अपि निरुत्तरौ । तत्क्षणं सर्वे तत्र निरशङ्कं ससुखं च उपविश्य अखादन् । परं हस्तं क्षालयन् प्रातिवेशिकः अवदत्, “भोजनं सुरन्धितम् तृप्त्या अखादाम। भृशमुपकृताः स्म। पुनर्दर्शनाय ।" द्वौ अपि निरुत्तरौ । तेषां गमनान्ते भोज्यपात्रेषु यदल्पम् अवशिष्टं तत् द्वाभ्यां भुक्तम् । तथापि क्षुधितौ । अन्योन्यं कथयितुम् इच्छत उदरम् अपूर्णमिति किन्तु द्वौ अपि निरुत्तरौ हस्तपादौ प्रक्षाल्य रात्रिवेशं च परिधार्य प्रकाशं निर्वाप्य द्वौ शय्यां प्रविष्टौ तथापि द्वाराणि उद्घाटितानि आसन्। कः संवरेत् इति प्रश्नः । तथापि द्वौ अपि निरुत्तरौ । शय्यायां शयित्वापि द्वयोः दृष्टिः द्वारेषु एव आसीत्। न कोऽपि उत्तिष्ठति । तथापि द्वौ अपि निरुत्तरौ । दुर्भाग्येन रात्रौ गृहे चोरः प्रविष्टः। द्वौ आपि बोधतः । तथापि द्वौ सर्वथा निरुत्तरौ । चोरः गृहात् यथेच्छमचोरयत् । सर्व दृष्ट्वा ज्ञात्वा बुद्ध्वा च द्वौ अपि निरुत्तरौ । चोरो गमनकाले अपश्यत् द्वौ अपि जागरितौ तं पश्यतः । स सन्त्रस्तः । किन्तु द्वयोरुदासीनतां वीक्ष्य चकितः आश्वस्तः भद्रस्वरेण अवदत्, “इदं गृहं प्रविश्य महानुपकारः जातः । उपकृतोऽस्मि अपि द्वारं संवरेयम्?" "संवर" इति क्रोधेन सचेताः अगर्जत्। भवता मौनभङ्गः कृतः । अधुना सर्वाणि द्वाराणि संवरतु" इति रीना अवदत् ।

केशगुच्छः

लेखकः- राधिकारंजनः दासः

 

रामश्यामौ यमजौ। बाल्ये द्वौ दर्शने सर्वथा समानौ आस्ताम्। कदाचित् तयोर्मातापि एकं प्रमादेन द्विवारं दुग्धेन पोषयित्वा अन्यं क्षुधितममुञ्चत्। अतः तयोः पिता सदा राममधरत् माता च सर्वदा श्यामम् । विद्यालये समानवर्गे अपठताम् सर्वेषां भ्रान्तिकारणं च आस्ताम् । श्यामस्य दक्षिण-कर्ण-पृष्ठे बृहत् कालतिलमासीत् । एकदा शिक्षकः रामं भृशमत्सयत । राम्रो भर्त्सनायोग्यं किमपि न कृत्वा प्रथमं चकितः, क्षणेन भ्रातृदोषाय स भर्त्स्यते इति ज्ञात्वा हसन् गालिं निर्लिप्त-भावेन अशृणोत्। शिक्षकः तस्य 'हासेन क्षुब्धः हठात् तस्य दक्षिणकर्णम् आकृष्य अवदत्, "अहो ! क्षम्यताम्। त्वां श्यामं मत्वा अभर्त्सये।" महाविद्यालयेऽपि द्वयोः कारणात् सम्भ्रान्तिः अवर्तत । एकदा सायं श्यामः कस्मिन्नपि आहारगृहे भूरिभोजनान्ते बीजकपत्रस्य आनयनाय आदिश्य धनमदत्त्वा ततः निष्क्रान्तः । दुर्भाग्येन रामः समानाहारगृहे भोजनाय प्रविश्य समाने उपधौ उपविश्य पटलस्य स्वच्छीकरणाय प्रतीक्षते स्म । परिवेषकः बीजकपत्रं रामाय दत्त्वा धनार्थं प्रत्यैक्षत रामः अकथयत्, "कुतो मह्यं ददासि? मया न भुक्तम्, अधुनैव भोक्तुम् आगतः।परिवेषकः रुक्षस्वरेण अकथयत्, “महाभाग ! अलं परिहासेन? भुक्त्वा न भुक्तमिति उक्त्वा धनमदत्त्वा ससुखं स्खलितुमिच्छति?” तत्क्षणं जनास्तौ पर्यवारयन्। रामस्तेषां समस्यां बुद्ध्वा सर्वान् शामयन् उच्चस्वरेणाभाषत, “बोधामि । मम यमजः भ्राता भुक्त्वा धनमदत्त्वा निष्क्रान्तः । यद्यपिअनुचितमिदं तथापि स्वभ्रातुः देयं धनं दत्त्वा स्वभोजनाय उपविशामि । "

तस्मात् वृत्तान्तात् परं द्वौ व्यचारयतां कथं द्वयोर्मध्ये पार्थक्यं स्यादिति । वेश-परिवर्तनेन तत् सम्भवेदिति निश्चितम् । रामः सदा भारतीयवेशं धारयेत् श्यामश्च सदा पाश्चात्यम् । अचिरं सर्वे जानीयुः असुविधा च न भवेत् । तदेव निश्चितम् ।

एकदा रामः कस्यापि सकाशात् भूरि धनम् ऋणवत् गृहीत्वा प्रतिदाने विलम्बितः । ऋणदाता एकदा बलिष्ठजनैरनुसृतो गृहे श्यामं दृष्ट्वा धनं प्रार्थयत् । "नाहं तव धनमगृह्माम्। मम यमजो भ्राता स्यात् । स दर्शने मत्समानः स्वभावे च विपरीतः । स सदा भारतीयं वेशं धारयति अहं च पाश्चात्यं येन जनानां बोधे प्रमादो न भवेत्। " तस्य वचनमविश्वस्य कुपितः ऋणदाता स्वपरिचरैस्तं भृशमताडयत्। गृहसदस्यानाम् आगमनात् पूर्वं ते निर्गताः । तस्यां रात्रौ श्यामः कष्टपीडितः निद्राया जागरित्वा विशालकर्तर्या केशगुच्छमकृन्तत्। रामः अर्धमुण्डितावस्थायां जागरित्वा परमक्षुब्धः सर्वात्मना आक्रोशत्, “श्याम! अभिशपामि त्वाम् । तव सर्वे केशाः पतिष्यन्ति त्वं पूर्णतया केशहीनः खल्वाटो भविष्यसि।" गृहे कोऽपि तस्य वचनेन न प्रभावितः श्यामः उपहसन् अवदत्, 'अहो महर्षे! भवतः अभिशापेन सर्वथा कम्पितोऽस्मि वरम् आवयोरेकः खल्वाटः स्यात् येन परिचये जनानां भ्रान्तिर्न रामस्य स्यात् । "

कालक्रमेण द्वयोः पाठः समाप्तः । श्यामः नगरं त्यक्त्वा अन्यत्र गतः । द्वावपि स्वस्ववार्तिकायां रतो परस्परं कदापि ना मिलताम्। एकदा यान दुर्घटनया मस्ताकाहतः श्यामः । स्वल्पदिनः विगतकेश: पूर्णतया खल्वाटः अभवत् । सः अमन्यत, "भ्रातुः सरलताया मया दुरुपयोगः कृतः । हन्त ! केशहीनस्य न मर्यादा न वा सौन्दर्यम्। खल्वाटा: धनं केशगुच्छं प्राप्तुं भूरि धनं व्ययितुं सज्जाः । कुतः स्वविज्ञानविद्यां प्रयुज्य केशवर्धकमौषधं न रचयेयम्। तेन कतिपयदिवसः एव कोटिपतिः भवेयम् ।"

ततः किमपि नूतनमौषधं रचयित्वा चतुरः खल्वाटान् निमन्त्र्य सर्वेषु स्वस्मिन् च स्वोद्भावनस्य प्रथमप्रयोगमकरोत् । औषधफलं भयङ्करमभवत् । स्वल्पकेशवन्तः पूर्णतया खल्वाटा जाताः । मुखे, ललाटे, गले, करतले केशगुच्छानां बाहुल्यम् अभवत्। सर्वे श्यामं पागलचिकित्सकं मत्वा प्रहर्तुमन्वधावन् । स पलायितः किन्तु कस्यापि दण्डप्रहारः सबलं तस्य शिरसि अपतत्। श्यामः रात्रौ एव पितृगृहं प्रतिगतः । गृहे सर्वे तं दृष्ट्वा चकिताः । स खल्वाटभल्लूकवत् अदृश्यत। रामः विषण्णः अपृच्छत्, “श्याम! किमेतत् ? " श्यामः प्रायः क्रन्दनपरः अवदत्, "राम ! सर्वस्य कारणं केशगुच्छ एव । मया तव केशगुच्छः कृत्तः त्वयाहमभिशप्तः परं दुर्घटनायां केशलोपऽभवत् केशौषधं निर्मीय प्रयुज्य ममेयं दशा । त्वं स्वाभिशापं संहर । तस्य प्रभावेण यत् घटितं सर्वम् अपगमिष्यति "श्याम ! अभिशापं प्रतिहरामि त्वया च यत् मम अपकृतं सर्वं पूर्णतया क्षमे।" श्यामशिरः केशपूर्ण जातम्। सन्तुष्टो रामोऽगदत्, "सद्वाचा अभिशापः समाप्तः, सदिच्छया च त्वया कृतोऽनर्थः अपगच्छतु ।तत्क्षणं ते जनाः पूर्वावस्थां प्राप्ताः। भ्रातरौ पुनः सह अवसताम्। सम्यक् पञ्चवर्षेभ्यः परं महौषधं रचितम् । सहस्रशः खल्वाटाः केशैः मण्डिताः । भ्रातरौ कोटिपती अभवताम् । पाठक ! यदि धनव्ययाय केशलाभाय च सज्जो भवान् पृच्छतु माम्, राम- श्यामयोः पत्रसङ्केतं दास्यामि । अहो केशगुच्छस्य विडम्बना!

राधिकारंजनः दासस्य द्वे कथे कथाः विचित्राः इति पुस्तकात् साभारम्

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)