संस्कृत - कथा - संग्रहः (भाग- 4)


 

कनकलोचन:

लेखकः- प्रभुनाथद्विवेदी

 

नियतिकृतनिष्ठुरनिशितनियमनियमिते निसर्गपरम्परानिर्वाह-विवशे विचित्रेऽस्मिन् संसारे सन्त्येव केचन कीचकरन्ध्रायमाणाः वातेरिता इव स्वेच्छाचारिणः कुत्सितकर्मकारिणः, करालव्याल इव निर्मोकधारिणः, मृगमरीचिकेव चित्तापहारिणः कपटसाधवो मानवदानवाः। प्रकटतया ते समाजे आदर्शभूता इवाऽऽत्मानो धारयन्ति । लोके सद्वेषा अपि सद्वेषा यशोभाजः प्रतिष्ठिता महामान्येषु गण्यन्ते । प्रतीयन्ते खलु पयोमुखाश्चिक्कणघटाः किन्तु भवन्ति विषमयाः घटा एव । भौतिकचाकचिक्यं विहाय तेभ्यो नान्यत्किञ्चित्प्रतिभाति। वाममार्गिणस्ते नैव जानन्ति दाक्षिण्यम् । मनसि वचसि काये न तेषां वसति कारुण्यम् । स्वार्थपूर्तिरेव तेषां मनः स्फूर्तिः। स्वार्थान्धास्ते न गणयन्ति गुरुजनान्, न रक्षन्ति सम्बन्धान्, नालोचयन्ति भूतं नालोकयन्ति भविष्यं, केवलं पादलग्नकर्दमा इव दूषयन्ति वर्तमानम्। तेषां चलनं, वचनं, हसनं, लपनं, वलनं, किं बहुना, आहारो व्यवहारश्च सर्वमेव स्वार्थमूलम् ते परेषां सुखं खादन्ति, परेषामेवाश्रूणि पिबन्ति । परेषामेवोदरे तेषां पादन्यासो धने च नेत्रविन्यासो भवति । आत्मोन्नत्या प्रसीदन्ति सीदन्ति चापरेषामुत्कर्षेण । कलहबीजान्युप्त्वा ते कृषिं कुर्वन्ति सततेर्ष्याजलधारया तां सिञ्चन्ति, विघ्नविकटकण्टककटैस्तां परिरक्षन्ति, द्वेषमात्सर्योर्वरकैस्तामभिवर्धयन्ति, पुष्पितां तां दृष्ट्वा नन्दन्ति सामोदमास्वादयन्ति । निशीथगहनतमोनिवह एव तेषां चक्षुः स्फुरति, सूर्यरश्मयस्तु तानुवेजयन्ति । विडालवृत्तिवर्तमानास्ते सन्ति कुशलकौशिकाः । यथा कश्चिदसामाजिकोऽपि सामाजिकानां मध्ये स्थितः कुशीलवान् प्रयोगनिरतान् प्रेक्षते तथैव तेऽपि समाजे विहरन्तो विहरन्ति सज्जनप्राणान् विषमरणप्रयोगैः फलञ्च एवमेव मदीये ग्रामे वसत्येको दृश्यतया साधुतोज्ज्वलकूटमधिरुढः कूटकर्मनिपुणश्छलप्रपञ्चविशारदो विषरदः । नास्ति निरक्षरो मूढधीरथवा निसर्गग्राम्योऽपितु साक्षरो राक्षसः स तु सुशिक्षितः सभ्य समाजस्यैको विशिष्टो जीवः सेवानिवृत्तः शासनाधिकारी । शासकीयसेवायां स यत्र कुत्रापि नियुक्तः स्थानान्तरितो भूत्वा गतो वा, तत्र तत्र पदाधिकारचेष्टाभिः सदैव तथाऽऽचरति यथा तत्पदं लाञ्छितं भवति स्म। तस्य कदाचारस्य नैकाः कथाः तेषु तेषु क्षेत्रेषु अद्यापि जनानां जिह्वातः कर्णमायान्ति किन्तु नियोजनस्य सुदूरत्वात् जन्मभूमिभूते ग्रामे तु न कथञ्चित्कदापि सम्प्राप्ताः । अतोऽत्रत्याः जनाः तस्य नाम सगर्वं सादरञ्चोच्चारयन्ति। अद्याप्यत्र सा प्रतिष्ठा तस्य तथैव वर्तते ।

निजो ग्रामो ग्रामजीवनञ्च तस्मै भृशं रोचते । प्रतिवर्ष स एकाधिकवारं सावकाशः सन्नवश्यमेवायाति स्म स्वग्रामम् पैतृकं गृहं भूमिमुद्यानञ्च निभालयति । तेषां संरक्षणं सुव्यवस्थां च विधाय निवर्तते स्म। सेवाकालस्यावधौ तेनोपार्जितां प्रचुरां धनसम्पत्तिं तस्य कुटुम्बिनोऽन्ये च जनाः ये निकटस्थास्ते सम्यग् जानन्ति किन्तु तस्य केनापि कृत्येन सा नैव प्रकाशिता । यथा तद्वर्गीया वेतनभोगिनो जीवनं यापयन्ति स्तरञ्च साधयन्ति तथैव सोऽपि लोकचक्षूरजः क्षेपणाय कयाचित्कृपणतया व्यवहरति स्म ।

सेवानिवृत्तिकाले तस्य भार्या राजधान्यामथवा कस्मिंश्चिच्छोभने नगरे सुवसतिं कालवनीं वा विशोध्य समुचितं 'फ्लैट इति भवनं हितरमणं क्रेतुं प्रणोदितवती किन्तु तेन सा सम्यक् प्रबोध्य समाश्वस्ता- "प्रिये, त्वं जानास्येव, नगरं मह्यं न रोचते। अनुदिनं वर्धमानया जनसंख्यया नगराणि जनसम्मर्दभराणि कंक्रीटवनानि जायमानानि सन्ति। न तत्र निर्मलं जलं नापि पूतं पवनम् सर्वत्रैवावस्करचयो दृश्यते। राजमार्गा अन्तर्वीथयश्च दुर्दशाग्रस्ताः। एवं नगरस्याशेषं पर्यावरणं दूषितं स्वास्थ्यहानिकरञ्च। अत्र स्वकीयेऽपि गृहे निवसन् नानाप्रकारकाः कराः, यथा - गृहकरो, भूमिकरो, जलकरो, सीवरकरो, विकासकर इत्यादयो देया एव ।

पश्यापरतो ग्रामम् तत्र स्वीया भूमिः स्वीयञ्च भवनम् निर्मलं सुरुचिरं स्वास्थ्यकरं च भवति पर्यावरणम् । जलं वायुः दुग्धोऽन्नफलशाकादीनि सर्वाण्यद्यापि नगरापेक्षया विशुद्धतराणि विलसन्ति ग्रामे। ग्रामस्य हरितः परिवेशो न केवलं नयनानन्दकरोऽपितु शान्ततरो राजते। तत्र वासेन पैतृकसम्पत्तेः संरक्षणं संवर्धनं च भविष्यति। नगरे तु मदीयाऽभिख्या सागरे बिन्दुरिव, सुमहत्यन्नराशौ क्षूद्रसर्षप इव किन्तु स्वीये ग्रामे मरुस्थले वटवृक्ष इव भविता । सामाजिकसम्बन्धानपि द्रढयितुं ग्रामवासश्वेयः । वर्तमानकालेऽपि ग्रामजीवनमनवद्यं भाति । तत्र प्रतिवेशिनः प्रतिवेशिनो भवन्ति। नगरे तु 'फ्लैट संस्कृतौ कोऽधस्तले कश्चोपरि वसतीत्यपिं न ज्ञायते । परिणते वयसि वानप्रस्थस्थाने भवतु नाम ग्रामवास एव । यत्सौविध्यं नगरे परिकल्प्य जना अन्धानुकारेण नगरं प्रति पलायमानाः दृश्यन्ते, तत्सर्वं सौविध्यमहं तुभ्यं ग्राम एव दास्यामि । यान्यपि सुखकराणि भौतिकसाधनानि तानि सर्वाणि तत्र त्वां सेविष्यन्ते । त्वं तत्र ग्रामे तथैव श्रद्धेया, पूज्या, मान्या वा भविष्यसि यथा निरस्तपादपे देशे एरण्डः । एवमन्यैरपि विविधैर्वचोभिस्तां प्रबोध्यायं शासनाधिकारी सेवानिवृत्तेः पश्चाद् ग्रामे गृहबुद्धिं बबन्ध |

अथ सर्वसौविध्यभरं भवनं स्वग्रामे निर्माय स भार्यया सह सुखं निवसति । एवापत्यो राजकुमारो नाम पुत्रः स्वदेशाद्द्बहिः कस्मिंश्चिद् वैदेशिके प्रथितशिक्षासंस्थाने पठति । तस्यायं जनकोऽस्ति ग्रामे सुमेरुशिखरमधिरुढः पदप्रतिष्ठागर्वितोऽहङ्कारनिगूढः 'कोऽन्योऽस्ति सदृशो मया' इति दुर्भाववासनया कमपि तृणाय न मन्यते ऐश्वर्योपकृतः स यदि कमपि ससुखं रोटिकामश्नन्तं पश्यति सुदुःसहेर्ष्यासन्तापतापमनुभवति। स कदापि नासीदुदारहृदयः । स निर्धनानसहायान्निर्बलानपि प्रसह्य वञ्चयितुं प्रयतते न च सहते कस्यचिद्विकासोन्मुखं जीवनम् । तस्य जिह्यजिह्वा न कञ्चिद् ब्रूते शुभम्। पुरा यस्यागमनेन ग्रामवासिनः हर्षनिर्भरमानसाः प्रसादसदनवदना आसन्, तेऽधुना तदुर्व्यवहारतो भृशं खिन्ना अवसन्नाश्च सन्ति ।

अध्ययनं समाप्य विदेशात्प्रत्यावर्तिते सति पुत्रे महानुत्सव आयोजितस्तेन। स्वकीयां सम्पद्विभूतिं प्रदर्शितुं तेन मुक्तहस्तेन व्ययः कृतः। ततोऽचिरादेवाल्पीयसा प्रयासेन भारतसर्वकारस्यैकस्मिन् महनीये प्रतिष्ठाने राजकुमार उच्चाधिकारिपदमलङ्कृतवान् । पुत्रं सुसमीहितपदमधिष्ठितं दृष्ट्वा पितुर्भालो गर्वेण समुन्नतो वक्षश्च स्वायतं बभूव। ततः परं तस्याहङ्कारप्रेतस्तं प्रगाढतरं निगडितवान् ।

पुत्रस्याध्ययनकाल एव बहवो विवाहसम्बन्धप्रस्तावाः समायान्ति स्म। परन्तु, "पुत्रोऽध्ययनावधौ विवाहार्थं मतिं न करोती" त्युक्त्वा प्रायस्ते सर्वे निरस्ता भवन्ति स्म । अधुना ततोऽप्यधिकाः प्रस्तावाः प्राप्यन्तेऽनुदिनम्। वरस्तु सदैव दुर्लभः किन्त्वेतादृशः सुयोग्यो वरः कुत्र लभते-इति मत्वा जनास्तमुपयान्ति स्वकन्यायाः पाणिं ग्राहयितुम् 'कन्या वरयते रूपं माता वित्तं पिता कुलम् ' इति सूक्तिरिदानीं विलोमपर्यायतः प्रचलति 'वरः कामयते रूपं वित्तं जनको वधूं जननीति । "कः श्रेष्ठोऽस्मिन् संसारे?” "वरस्य पिता।" आगतेषु कन्यापक्षभाग्जनेषु स वरपिता नानाख्यानकानि बहुधा निरूप्य कमपि ब्रवीति- "सत्यं खलु नास्ति मे कन्यापितृत्वं किन्तु कन्यापितुः दुःखमनुभवामि।" कमपि ब्रूते "सम्बन्धस्तु पूर्वनियत ईश्वराधीनः । वयं तु निमित्तमात्राणि ।" अन्यं प्रबोधयति - वरकन्ययोर्योग्यत्वं भवानेव निभालयतु, यदि समुचितं ततो नास्ति मे निषेधः ।" अपरं सम्बोधयति- "भगवत्कृपया नास्ति मे कश्चिदभावः तथापि पालनीया कुलपरम्परा रक्षणीया खलु सामाजिकी प्रतिष्ठा । पश्यतु मम श्वसुरेण स्वकन्यायै एव पञ्चाशत्तौलकः स्वर्णभारः प्रदत्तः। अतः परं भवानेव प्रमाणम् ।" एतत्सर्वं ब्रुवतस्तस्य दृष्टिः सर्वथा यौतुके स्वर्णसम्भारे भवति स्म। कन्याऽपि कनकावदाता रूपगुणशीलवती भवेत् । एवमेषोऽर्घनिर्धारणव्यापारः प्रायेण वर्षपर्यन्तं प्राचलत् । सम्बन्धविषये नैराश्यंगतैः कैश्चित्कन्यापक्षीयैस्तस्मै 'कनकलोचन' इत्यभिख्या ख्यापिता । अन्ततः शतं तौलकं स्वर्णभारं प्रदाय तादृशेनैव केनचित्कन्याजनकेन स्वकन्यायाः पाणिपीडनं राजकुमारेण वरेण सह कृतम् ।

अधुनातनेषु विवाहेषु संस्कारविधेः कथा तु दूरमपास्ता । तत्र केवलं भौतिकाडम्बरैस्सह वैभवप्रदर्शनमेव वरीवर्ति। एतत्सर्वमस्मिन् विवाहोत्सवे बभूव । द्वयोरपि पक्षयोर्वृद्धातिवृद्धा जनाः नानुस्मरन्ति स्वकीयजीवने एतादृशीमद्वितीयां शोभायां वरयात्रामथवा भव्यातिभव्यं वैवाहिकं समारोहम्। सर्वमप्यदृष्टपूर्वमश्रुतपूर्वमनास्वादितपूर्वमासीत् धन्यधन्या सा कन्या परिणीता पितृगृहात् श्वसुरालयं सदुःखसुखं समानीता लज्जया सङ्कुचिता नताङ्गीमवगुण्ठवर्ती तां कुलवधूं कौतुकागारे प्रवेश्य तां दर्श-दर्श श्वश्रूरन्याश्च ग्रामस्त्रियः पद्मवदनेयं स्वर्गादवतीर्णा काचित्सौभाग्यलक्ष्मीरिति प्रशशंसुः। लोकपरम्परानुसारं कतिपयैरेवाऽहोभिः सा मातृगृहं गता तत्र श्वसुरस्य सन्देशो गतः "वधूः हीरकहारोपकण्ठिता प्रेषणीये" ति ।

सन्देशव्यथितेन कन्याजनकेन कृतामेतत्सम्बधिनीं कामप्यभ्यर्थनां प्रति कनकलोचनो मनागपि कर्णं न दत्तवान् विवशो दीनार्तः कन्यापिता ऋणं कृत्वा तस्यादेशमपालयत् । एवं यदा यदा वधूः स्वपितृगृहं याति तदा किमपि नूतनं स्वर्णाभूषणमानेतव्यमिति दिशति श्वसुरः त्रस्तः कन्यापिता ततः सम्बन्धमेव विच्छेत्तुमियेष सः कन्यां नैव प्रेषयामास । व्यतीते बहुकाले राजकुमारः स्वयमेव श्वसुरालयं गत्वा पत्नीं सादरं सस्नेहं प्रीतिपुरस्सरमानीतवान् अपि च, स्वकेन सह तां नेतुं पितरौ प्रार्थितवान् । किन्तु स कनकलोचनः, " वत्स ! तत्र ते सेवकाः सन्त्येव अत्रावयोः सेवां को विधास्यति ? अत इयमत्रावाभ्यां सह ग्राम एव तिष्ठतु" इति प्रबोध्य पुत्रमेकाकिनमेव प्राहिणोत् ।

एकदा जनैः श्रुतं -" कनकलोचनस्य वधूः महानसे रन्धनकर्मणि व्यापृता एल.पी.जी. वर्तुलपात्रविस्फोटतोऽग्निना दग्धा दिवङ्गता शोकमयेऽपि तस्मिन् विषमकाले कनकलोचनः पुत्रं सान्त्वयामास- "अचिन्तिताः खलु सहसैव निपतन्ति विपत्तयः । वत्स, दुर्ज्ञेयः खलु विधेर्विधानम् यद्भाव्यं तद्भवत्येव । अचिरमेव ततोऽप्यधिकतरां सुयोग्यां सुन्दरीं कन्यां कनकशतभारेण सह प्राप्स्यसीति।

            कथायां निहितं तत्त्वं सम्बुध्य मनसा नरः।

यदि लोभं त्यजेत्तत्तु भवेत्तस्य शुभावहम् ।।१।।

एको नास्ति समाजे हि कश्चित्कनकलोचनः ।

दृश्यन्ते बहवस्तत्र क्रूराः कनकलोचनाः ।।२।।

यः शृणुयात्पठेद्वापि भावपूर्णां कथामिमाम्।

स दुस्तरं तरत्याशु सागरं तप्तकाञ्चनम् ।।३।।


गीतास्वामी

लेखकः- प्रभुनाथद्विवेदी


अद्यापि मीरजापुरमण्डलवासिनोऽथ च विशेषतस्तन्नगरवासिनः स्मरन्ति महात्मानं श्रीगीतास्वामिनम्। तेष्वपि ये वयोवृद्धा धार्मिका अध्यात्मवादिनः पुरुषास्त आगते सति कदाचित्प्रसङ्गे तं महापुरुषं परमश्रद्धया नतमस्तकाः सन्तः प्रणामाञ्जलिं विधाय मनसा सादरमभिवाद्य तस्य पुण्यस्मरणं कुर्वन्ति अथवा, तद्विषयिणीं कामप्यद्भुतां वार्तामनुस्मृत्य भावभरेण वचसा श्रावयन्ति। अचिन्त्यं खलु महिमानं तस्य स्वामिवर्यस्य अविश्वसनीयं प्रतीयते तस्याऽचिन्त्यं सत्यमवितथं चरितम्। गीतास्वामिनः तेजोमयं विग्रहं दर्शं दर्शं जना देवोपमं तं चमत्कारप्राकारवेष्टितं गन्धर्वनगराधिपतिमिव दूरतः पृथिवीतरग्रहा- दागतमतिमानवमिव, अक्षीणपुण्यमपि स्वर्गात्स्खलितं देवमिव, अलौकिकैः खलु कैश्चिदन्यैरेव पञ्चमहाभूतैर्विनिर्मितमिव मन्यमाना अनायासमेव तस्यानुभावतोऽभिभूताः परमश्रद्धया तं प्रति प्रणामाञ्जलिविधिना नतमस्तकाश्चरणयोर्निपत्य धन्यधन्याः कृतपुण्याश्चानुभवन्ति सोऽपि कदाचिन्मौनस्मितेन, कदाचिद्दर्शनकृतार्थस्य शिरसि हस्तं विन्यस्य, कदाचिदोमिति स्फुटमुच्चार्य, कदाचित् स्वस्तीत्युक्त्वा सर्वान् यथायोग्याशीर्वचोभिर्युनक्ति स्म। स जनानां समस्यां जिज्ञासां वा श्रीमद्भगवद्गीतोक्तसूक्तिभिः समादधति; तत एवोद्धृत्योपायानपि निर्दिशतीति लोके गीतास्वामीति प्रथामवाप । तस्य स्पष्टमतमासीत्

सर्वज्ञानमयी गीता सर्वव्याधिविनाशिनी । 

सर्वः सर्वं समाप्नोति गीताया महतोऽमृतात् ॥ 

योsपि कृष्णाश्रयं गत्वा गीतां भजति श्रद्धया । 

तस्य भागवती प्रज्ञा भवतो न भवेद् भयम् ॥ 

कश्चिद्यदि प्रपन्नः स्याद्यथा पार्थो धनुर्धरः । 

संशयाब्धिं समुत्तीर्य स महात्मा प्रसीदति ॥

एवं हि जना जानन्ति तस्य विश्वात्मनो गीतास्वामिनः सर्वमशनं वसनं श्रीमद्भगवद्गीतैव वस्तुतो जीवनम् । यथा कोऽपि शिशुर्मातुरङ्के निःशङ्को निर्भयः सुखं विहरति तथैव

गीतास्वामी मातुर्गङ्गायाः क्रोडे निरन्तरं क्रीडति स यत्र कुत्रापि वसेत्, भागीरथ्याः सन्निधिं नैव त्यजति नातिदूरमपि प्रयाति सर्वेषु कालेषु सर्वर्तुदिवसेषु त्यक्तसर्वपरिग्रहः स गङ्गाया आनुकूल्यं भजते । भवेन्नाम निदाघकाले गङ्गा क्षीणधाराऽथवा प्रावृषि महौघा विपुलतोया, गीतास्वामी क्वचित्तस्या एव कूलमुपतिष्ठति। प्रायेणास्या देवनद्यास्तटमुत्तरमेव तस्मै रोचते कदाचिच्चन्द्रधवलं वालुकामयं पुलिनं तमाराधते कदाचिच्च क्लिन्नं पङ्किलं तटमपि तं न बाधते यतो हि संस्पर्शजा विकारास्तस्य शरीरं मनो वा न खेदयन्ति । स यथा स्थले विहरति तथैव जलेऽपि। स्थानपरिवर्तनविषये गमनागमनविधौ प्रत्यक्षेणानुमित्या वा न कस्यचिद् बुद्धिः प्रविशति । कश्चित् कथयति सूक्ष्मशरीरेण वायुवृत्या स पर्यटति, कश्चिद् ब्रूते स रात्रौ निशीथेऽदृश्यरूपेणेतस्ततः गच्छति। किन्तु सत्यं न कोऽपि विजानाति। प्रत्यक्षतस्तु स प्रायशः प्रयागतः काशीं यावदेव कृतावस्थानो दृश्यते। अत्रापि मीरजापुरनगरप्रान्तोत्तरगङ्गातीरवर्तिस्थानेष्वेव मन्ये, एतत्स्थानं प्रति तस्य प्रीतिविशेषः स्यात् ।

श्रूयते यन्मीरजापुरनगरनिवासी नापितशिरोमणिश्छगनकुमारः कदाचित्पुत्रैषणाप्रेरितः श्रीबंकिमविहारिणो दर्शनार्थं स्वजायया सह वृन्दावनं गतवानासीत्। स तत्र दिनकतिपयमुषित्वा सर्वदातुर्देवस्य यशोदानन्दनस्य दर्शनं विधाय, यमुनावगाहनं कृत्वा तीर्थयात्रां निर्वाह्य प्रसन्नमनसा लड्डूगोपालं क्रोडे सन्निधाय गृहमागतवान् । तत्र दर्शनानन्तरं मन्दिरान्निःसृतां तस्य भार्यां निपुणं निरीक्ष्य कश्चिद् दैवज्ञो मनोरथं पूरयन्निवाशीर्वादवचोभिर्यदुपदिष्टवान् तत्सर्वं छगनदम्पती गृहं प्रतिनिवृत्य महतोत्सवेन शास्त्रविधिना बान्धवैस्सहानुष्ठितवन्तौ। यथाकालं सा छगनजायाऽन्तर्वत्नी जाता। प्रसूतवती चानुपमं शिशुरत्नम् । बङ्किमविहारिणः प्रसादं मत्वा कृष्णप्रीत्या कृतजन्मसंस्कारः स छगननापितः कुलावतंसस्य तस्य शुभं नाम श्रीकृष्णकुमार इति चकार कुलवृद्धास्तं प्रस्तरे दूर्वाप्ररोहमिव मन्यमाना महत्प्रीत्याऽङ्कादङ्कं सञ्चारयन्तं नेत्रासेचनकमिव सर्वलक्षणसम्पन्नं दिव्योपायनं दृष्टिबाधाऽपनयनाय कज्जलटीकयाऽलङ्कुर्वन्ति सदैव च क्षेमाय हितकामनया नेत्राद्दूरं न कुर्वन्ति । एवं हि कालक्रमेण वर्धमानः सुपुष्टगात्रः स्नेहैकपात्रः स बालो नित्यं निसर्गत आविष्कृताभिर्ललितललिताभिर्बालसुलभलीलाभिर्जनानां वात्सल्यभरं हृदयमार्वजयति ।

कदाचित्स्मेराननो नयने मीलयति समुन्मीलयति कदाचिन्मातुरङ्केऽपि रोदिति, ततोऽवतरणाय निर्बन्धपरो भूत्वाऽवतीर्णः पुनरपि तत्राङ्कमारोहितुं हस्तौ प्रसार्य समुच्छलति मन्युं च नाटयति। कदाचिद् भूमौ जानुबलाच्छनैः शनैर्गन्तुमारभते निवारितश्चोच्चैः क्रोशति बुभुक्षितोऽपि दुग्धपानं नाचरति । रुष्टः सन् क्रीडनकानि न स्पृशति, प्रदत्तेषु सत्सु हस्ते, इतस्ततः क्षिपति कमप्यपरिचितं विलोक्याऽपसतुं प्रयतते भीतिं च नाटयति, मातरमुपसृत्य तिष्ठति। कदाचित्कमपि प्रियजनं वीक्ष्य तं प्रति सत्वरं गन्तुमनाः पद्भ्यां समुत्थितः पुनरपि भूमौ पतति, अलीकञ्चाघातं निरूप्याश्रूणि मुञ्चति, उत्थाप्य क्रोडे कृते सति नेत्रकोणतो विहसति ततश्च धावति गोवत्सं ग्रहीतुम्। कदाचिद्दर्पणे निजं विम्बं निभाल्य महतामोदेन हस्तौ प्रसार्य निर्भरं हसति वाञ्छति च तद्ग्रहीतुम्। कदाचिज्जलाप्लाविते पात्रे करौ निवेश्य छप्-छपिति क्रीडति प्रफुल्लमनसा क्लेदयति च कायगतं वस्त्रम् । पितरावन्ये च बान्धवा जनाः तस्य शिशोर्बालसुलभां वृत्तिं क्रीडां वा दर्शं दर्शं मोदयुता हर्षनिर्भराश्च जायन्ते, भगवतः कृष्णस्य बाललीलाश्चानुचिन्तयन्ति।

तस्य श्यामद्युतेश्शिशोर्वदनं रदनं नयनं हसनं चलनमटनं वचनं सर्वञ्च मधुरं मधुरं निपीय जनाश्छगनकुमारवधूं सोपहासं पृच्छन्ति — “किं रे ! तव कुक्षितः साक्षाल्लड्डूगोपाल एव जन्म गृहीतवान् । तव वृन्दावनयात्रां सफलीकर्तुं ते नयनयोः प्रत्यक्षं मूर्तिमान् स बङ्किमविहारी गर्भान्तर्भूतस्तनयरूपेण स्वयमेवास्मिन् गृहे पुरे वा कृतावतारो राजते । ननु नन्दनन्दन एवागतः स्वयमस्याः भक्त्या सनाथीकर्तुं प्रीतिरीतिसम्बन्धम् । अन्यथा, कुत्र दृश्यत एवं विधं नवनीतकोमलमुत्पलरागराजितं वपू राजीवदलसुन्दरं लोचनं, कम्बुग्रीवं मनोहरश्रीविराजितमाननं, अलिविलासकुञ्चितालकावलीशोभितं शिरः, विद्रुमदलनिभमधरौष्ठमपूर्वमनुपमं च नवनवं मनोहारि नितान्तैकान्तकान्तं सौन्दर्यं तथा चाद्भुतमनितरसाधारणं कान्तिमयं लावण्यम् ।

अनेन लोकोत्तररूपराशिसंवलितेन शिशुना स्वजन्मना पितरौ धन्यतां नीतौ कुलं च कृतार्थीकृतम्। गृहमालोकितं, वसतिः पवित्रीकृता नगरं च कीर्तिमयं विहितम्। बालकमिमलौकिकसौन्दर्यनिधानं विधेः किमपि विलक्षणं सृष्टिविधानं, किं बहुना? अचिन्त्यमनुपमयेरूपराशिसम्पन्नं शिशुरत्नं श्रावं श्रावं जना दूराद्दूरतरादपि निजनयनातिथिं विधातुं स्वसौभाग्यं मन्यमानाः प्रतिदिनमेव धावं धावं समागच्छन्ति। आगत्य चादृष्टपूर्वमिव सहजशिशुलीलारतं बालमुकुन्दमेव लोचनगोचरीकुर्वन्ति । ते जनाः नापितकुलालङ्कारं छगनकुमारं जगति सर्वसौभाग्यसम्पत्रपितरमिति विमृश्य तस्य दैवप्रदत्ताय भाग्याय स्पृहयन्ति।

पुत्रमुखावलोकनसंरक्तौ पितरौ क्व सूर्य उदेति क्व च चन्द्र उदेतीत्यपि न स्मरतः । कदा रात्रिर्व्यतीता कदा च दिवसोऽवसितः, किं शयनं किं वा सुप्तोत्थितस्य स्वप्न इव प्रतिभाति । छगनदम्पत्त्योः सर्वाश्चेष्टास्तस्मिन् शिशौ सुकुमारे कृष्णकुमारे केन्द्रीभूताः प्रौढे वयसि वङ्किमविहारिणः प्रसादादवाप्तरेष बालस्तयोर्जीवनधनम्। एवं गच्छत्सु दिवसेषु शिशुः कदा जानुभ्यां सर्पणमतिक्रम्य धृतकराङ्गुलिः पादक्रमणेन शनैरशनैश्चलनमारब्धवानित्यपि ताभ्यां विस्मयकरमासीत्। अथ कृष्णकुमार एवमेव देहलीलङ्घनं कृत्वा स्वत एव गृहाद् बहिरायाति। तं गृहीत्त्वाऽऽनेतुं जनाः सामोदं धावन्ति, मृदुवचोभिस्तर्जयन्ति मातुश्च क्रोडे कुर्वन्ति। प्रतिदिनमेवेयं लीला प्रचलति छगनकुमारस्य गृहे ।

एवमविदितक्रमेण स शिशुः कौमारस्य द्वारि पदमदधदिति सर्वे सविस्मयं पश्यन्ति । तस्य शिरसि दक्षिणहस्तं विन्यस्य साश्चर्यं कथयन्ति — “अरे, एष एतावान् वृद्धिं गतः?” ततः शुभैर्वचनैरभिनन्द्य सहर्षमालिङ्गन्ति। छगनकुमारः दैवोपायनमिव महता स्नेहेन पालितं लालितं तनयं कदापि स्वीये कुल क्रमागते कर्मणि नियोक्तुं मनागपि नेच्छति तस्य मनसि कश्चिदन्य एवाभिलाषो जागर्ति। स सदैव स्वप्नेष्वपि कृष्णकुमारमेव पश्यति कदाचित्कृष्णकुमार उच्चशिक्षाया अन्तिमे सोपाने प्रतिष्ठितो दृश्यते कदाचित्स युववैज्ञानिको भूत्वा महति पदे स्थितो नवीनयोजनानां सफलं प्रवर्तनं करोति । कदाचित्स्वप्ने छगनो पश्यति यत्कृष्णकुमार आई.ए.एस.' इति परीक्षां समुत्तीर्य कस्यचिन्मण्डलस्य वरिष्ठः प्राशासनिकोऽधिकारी राजते। कदाचित्स सबहुमानपुरस्सरं प्रदेशस्य मन्त्रिमण्डले स्थापितो लोकसेवकतया यशोऽर्जनं करोति स यतो यतः प्रचरति, जना जयघोषैस्तमभिनन्दन्ति। एकदा स्वप्ने पश्यति, स देवलोके नन्दनवने महेन्द्रसङ्गतः। सानन्दं परिभ्रमति, शची तं महतादरेण सुस्वादूनि फलानि भोजयति। कदाचित्स विष्णुलोके भगवता नारायणेन सह गरुडारूढो लक्ष्म्या सत्कृतो ब्रह्मलोकं पर्यटति । कस्मिंश्चित्स्वप्ने धवलधवले हिमगिरौ कैलासशिखरे देवाधिदेवस्य महादेवस्य ताण्डवे स ढक्कां निनादयति । नन्दी अन्ये च प्रमथगणास्तं पुष्पवर्षैरर्चयन्ति। कदाचित्स एवमेवाऽनन्तविस्तारेऽन्तरिक्षे समुत्प्लवन् कौतुकं विदधति ततश्चावतीर्य उत्तालतरङ्गे महोदधिरङ्गे पदं धत्ते । तस्य स्पर्शमात्रेण क्षुब्धोऽपि सागरः सद्य एव कश्चिच्छिष्य इव सरलतरलः शान्तमना जायते। इत्थं छगनकुमारः प्रतिनिशं सुसुप्तौ पुत्रस्य विषये न जाने किं किं स्वप्नं पश्यति। तस्य मनः सदैव पुत्रस्य चिन्तन एव रमते । प्रातरुत्थाय सर्वप्रथमं तस्य मुखदर्शनं कृत्वा भालं चाम्रायान्यत्किमपि करोति। साध्वीं तां गृहिणीं रात्रौ स्वप्नदर्शनवृत्तान्तं प्रसन्नमनसा सर्वमाख्याति । एवं द्वावपि परस्परं स्वप्नाख्यानेन सह तेषां फलमपि विचारयतः । एतानि स्वप्नफलानि पुत्रस्य भाविजीवने सुखदानि शुभावहानीति विमृश्य ससुखं दिनान्यावहतः ।

छगनकुमारस्य वसतावेकः सदाचारपरायणः पण्डितो निजभवनस्य बहिरालिन्दे प्राथमिक पाठशाला सञ्चालयति प्रारम्भिकशिक्षायै संस्काराधानाय च जनाः स्वकीयान् पोष्यान् बालकान् तत्र प्रेषयन्ति स विप्रशिक्षको नाममात्रं शुल्कमादाय शिष्यान् मनोयोगतोऽध्यापयति छगनकुमारस्यैतद्विदितमासीत्। स स्वकीयं हृत्खण्डं कृष्णकुमारं तत्र नीत्वा पण्डितमहाशयं निवेदितवान्- मान्याः पण्डितप्रवराः ! अयं मे प्रियश्चिरञ्जीवी पठितुमिच्छति । स्यादस्याक्षरारम्भोऽस्मिन्नेव विद्यालये । यदि भवन्तः शिष्यत्वेनेमं गृह्णन्तु मां चानुगृह्णन्तु, भवतामुपकारं शिरसा वक्ष्यामि । अयमपि शिक्षितो भूत्वा समाजे मनुष्यः स्यात्। कृपया प्रसीदन्तु ।स शिक्षागुरुः पण्डितः स्वकीयां व्रीहिपुञ्जनिभां कृष्णसर्पिणीं शिखां परामृशन् स्मितभङ्ग्या तमेकतश्छगननापितमपरतः तच्छिशुं कृष्णकुमारमक्षिकोणतो वीक्ष्य प्रत्युवाच- भोः छगन ! सम्यग् विचार्य सुष्ठु भणितं त्वया। किन्त्वहं पृच्छामि, यदि नापितो ग्रन्थचर्यां करिष्यति लिपिं वानुसरिष्यति तदाऽस्माकं क्षौरकर्माणि कः करिष्यति ? अस्मच्छुभाशुभप्रयोजनेषु कर्मकाण्डविधिषु साहाय्यं क आचरिष्यति ? प्रसूतिगृहचर्यां का विधास्यति ? सम्बन्धिगृहेषु सन्देशामन्त्रणपत्रिकाः रोचनाश्च को नेष्यति? अतिथीनां सपर्यां विधातुं नापितः कुत आयास्यन्ति ? ब्रूहि देहि मे प्रतिवचनम्। समाजस्य कर्मविभागे परम्परया कुलक्रमागतरूपेण निसर्गतः यो यस्मिन् कर्मणि नियुक्तो यदि स तत्कर्म त्यक्षति तदा समाजस्य व्यवस्थैव ध्वस्ता स्यात् । गीतायां 'भगवता स्वयमेवोक्तम्- स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । अपि च, स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । ।" एतदपि कर्णे करोतु "चातुर्वण्यं मया सृष्टं गुणकर्मविभागशःइति भगवत्प्रोक्तस्याशयोऽस्ति पूर्वजन्मसंस्कार- वशादेकमपि जीवं तस्यां योनौ, तस्मिंस्तस्मिन् वर्णे, तस्यां तस्यां च जातौ जन्मने निर्दिशति। इयं शास्त्रमर्यादा, तां त्वमुल्लङ्घितुं नार्हसि। तृणानि धरातल एव प्रसर्पन्ति, न तु तानि विशालवृक्षनिभानि खं लिहन्ति । त्वं चतुरो नापितवर्योऽसि। अनेनैव स्वल्पोपदिष्टेनावबोद्धुं समर्थोऽसि अतोऽस्मै बालका स्वकुलक्रमागतं कर्मकलाकलापकमेव वरम्। तव वचनमङ्गीकृत्य नाहं स्वधर्मं दूषितं कर्तुमुत्सहे। गच्छ, ते कल्याणमस्तु ।

छगनकुमारः समाजमर्यादां भूयो भूयोऽनुचिन्त्य तं विप्रगुरुमभिवाद्य खिन्नमनास्ततः पुत्रेण सह गृहं प्रतिनिवृत्त्य तस्थौ । स सम्यग् जानाति यदेते धूर्तपण्डिताः स्वीयमनर्गलं कथनं शास्त्रवचनैः सम्पोष्याऽन्यथा ब्रुवन्ति । स्वार्थं साधयन्ति न परार्थम्। कस्मिन् शास्त्रे उपदिष्टमस्ति यत्कश्चित्कुमारः शिक्षां विद्यां वाऽनवाप्य मूर्खस्तिष्ठतु यदि कृष्णकुमारस्तस्य पाठशालायां पठेत्तत्र का हानिः ? अपि सा पाठशालाऽपवित्रा स्यात् ? अपि सा वर्णमालाऽस्पृश्या भवेत् ? अथवा, स पण्डितशिक्षकः कलङ्कितः पापविदूषितो वा स्यात् ? वयं सर्वथा स्पृश्याः, मद्दत्तं जलं सद्विप्रा अपि पिबन्ति पूजाऽनुष्ठाने च प्रयुञ्जन्ति प्रसीदन्ति चास्मत्सेवया । अहो, कीदृशं प्रतिपादनमस्य पण्डितमानिनः ! भवतु नाम, नाहमस्मिन् विषये कदापि हताशो भविष्यामि। किन्तु पण्डितस्य क्रूरोपहासः स्मर्तव्य एव।

अपरेद्युश्छगननापितः प्रियपुत्रेण तेन सह निकटस्थं शासकीयप्राथमिक- विद्यालयं गतवान्। सत्रारम्भेऽयं विद्यालयस्य प्रवेशकालः प्रचलति । स तत्र पुत्रस्य पठनार्थं प्रधानाध्यापकं निवेदितवान् । अत्र नामपट्टिकायामुत्कीर्णं नाम विप्राचार्यस्यैवेति छगनस्य प्रतीतिः । स छगनस्य निवेदनं श्रुत्वा तं बालकं निजान्तिकमाहूय तस्य शिरसि महता स्नेहेन करं कृत्वा पृष्टवान्- वत्स, किं ते नाम?” स छगनपुत्रो मुकुलितकरः सादरमुवाच- श्रीमन्! जना मां कृष्णकुमार इति कथयन्ति ।

साधु, शोभनमतिशोभनं ते नाम । अपि पठितुमिच्छसि ?”

 

ओम्स व्याजहार। प्रधानाध्यापकः पुनरप्यपृच्छत्- अपि ते कण्ठे काचित्कविता किंचिद्वा सुभाषितं तिष्ठति ? यद्यस्ति श्रावय।बालकः सावधानमुद्रया मातृभाषया कवितां सस्वरं सस्मितं पठति

उठो सबेरे रोज नहाओ, मात-पिता को शीश नवाओ।

करो बड़ों को सदा प्रणाम, भजो प्रेम से हरि का नाम ॥

अपि च-

गुरु गृह पढ़न गये रघुराई। अलप काल सब विद्या आई ।

जाकी सहज स्वाँस श्रुति चारी । सो विद्या पढ़ कौतुक भारी॥

तत्र केचनान्येऽपि शिक्षकाः समवेता आसन् । सर्वे 'साधु-साधु' इति करपुटवादनपुरस्सरमुच्चार्य प्रवेशार्थिनं तमभिनन्दितवन्तः तेष्वेकोऽपृच्छत्- वत्स, नगरमिदं कस्या नद्यास्तीरेऽवस्थितम् ?” कृष्णकुमारोऽविलम्बमेव प्राह- महोदय, इयं देवनदी गङ्गा, यस्याः पवित्रे तटे नगरमिदं प्रतिवसति।ततः कश्चिदपरोऽपृच्छत्- अपि संख्यागणनं जानासि ?” स त्वरितपदमुवाच- "नूनमेव।तत एकत आरभ्य शतसंख्यापर्यन्तं क्षिप्रमेव स्पष्टं गणयामास। सर्वे तस्य वर्धापनं कुर्वन्ति। कश्चित् क्रोडे कृत्वा लालयति।

एतदनन्तरं प्रधानाध्यापकः छगनं प्रत्युन्मुखो भूत्वा जागद- "महाशय, पुत्रस्तेऽतीव संस्कारवान् प्रतिभावाँश्च । अद्यैवात्रास्य प्रवेशो भविष्यति। शुभकर्म विलम्बासहमानं भवति। अतोऽस्य मूलं जन्मतिथिपत्रमानय।छगनः सर्वथा सन्नद्ध आसीत्। स तत्कालमेव प्रसेवाज्जन्मतिथिपत्रं निस्सार्य प्रधानाध्यापकमहोदयस्य करे कृतवान् सविनयम् । स प्रवेशपञ्जिकामादाय तत्र कृष्णकुमारस्य नामाङ्कनं प्रथमकक्षायां कृतवान् । सर्वं विवरणं तत्र यथास्थानं तत्र तत्र स्तम्भेषूल्लिख्य स छगनमुवाच- देहि शासकीयं प्रवेशशुल्कं सपादरुप्यकम्।छगनः तस्य पादौ समुस्पृश्य तस्मै एकादशरुप्यकं सादरं समर्पितवान्। नहि-नहि, एतदनुचितम् । प्रवेशायोत्कोचग्रहणमित्यहं कलङ्कितोऽभियुक्तो न भवामि । एष धर्मः कर्तव्यञ्चैतत्। बालका विद्यार्थिनो भवेयुरितिप्रेरणा प्रोत्साहनञ्चास्माभिर्दातव्यं गृहं गृहं गत्वा, भवाँस्तु स्वयमेवात्रागतवान्। महत्सौभाग्यमस्य विद्यालयस्य यत्कृष्णकुमारसदृशः सदाचारसम्पन्नो मेधावी छात्रोऽस्माभिर्लब्धः ततश्च सपादरुप्यकं गृहीत्वा शेषो राशिः छगनस्य करेऽकरोत्। छगनस्तु कर्मणि कुशलो व्यवहारनिपुणो नापितः। स सत्वरं गत्वाऽऽपणात् सुस्वादु मिष्टान्नं ताम्बूलवीटिकाश्चानीय तत्र भोक्तुं समर्पयामास। एवं नरेषु नापितश्चतुरः' इत्युक्तिं प्रत्यक्षं प्रमाणीकृतवान्। एवं शुभं विधाय परितोष्य च शिक्षकान् स छगननापितः पुत्रेण सह गृहमागतवान्। इति कृष्णकुमारस्य विद्यालयप्रवेशः।

अथ छगननापितस्ततः परं निजं पुत्रं कृष्णकुमारं प्रतिदिनं यथासमयं पाठशालां नयति ततश्चानयति । स छात्रः छगनपुत्रः स्वकीयप्रतिभया बुद्धिमत्तया च प्रतिवर्षं प्रथमस्थानीयो भूत्वा कक्षां समुत्तीर्य सम्मानं पुरस्कार चार्जति । सर्वे गुरुजनास्तस्मै स्निह्यन्ति । एवं स स्ववयसो दशमे वर्षे पञ्चमीं कक्षां समुत्तीर्णवान्। नगरस्य मण्डलस्य च सर्वेषु प्राथमिक विद्यालयेषु कृष्णकुमारः सर्वप्रथम इति मण्डलाधिकारी प्राथमिकशिक्षाविभागस्य विशिष्टोत्सवे तस्याभिनन्दनं कृत्वा सर्वश्रेष्ठताप्रमाणपत्रप्रदानेन सह तस्मै अष्टमकक्षापर्यन्तं दशरुप्यकमयीं मासिकीं छात्रवृत्तिमथ च शुल्कमुक्तिमपि शासनस्तरेणोदघुष्टवान्। तत्र समारोहे कृष्णकुमारस्य पितरावपि सभाजितौ । अनेन न केवलं कृष्णकुमारस्यापितु तस्य कुटुम्बस्यापि कीर्तिर्नगरे मण्डले च प्रससार । मीरजापुरस्थनापितानामितिहासे एतदपूर्वं यशः न कदापि श्रुतम् । प्रायः प्रत्यहं सज्जनास्तस्य गृहमागत्य तस्मै वर्धापनमुपायनञ्च समर्पयन्ति स्म । स वृद्धपण्डितोऽपि कदाचिच्छगनमुपसृत्य स्वकीयं पश्चात्तापं व्याजहार - किं ब्रवीमि तदानीं मे बुद्धिविपर्यय आसीत्। मुष्टिकायामागतमपि रत्नं ममानवधानतया प्रभ्रष्टम्।छगननापितस्तु, “महाराज ! सर्वं भाग्यस्य कौतुकम्इत्युक्त्वा प्रसीदतु तस्मै आशीर्वादप्रदानेने 'ति कृष्णकुमारमाहूय तस्य विप्रस्य चरणयोः कृतमस्तकं चकार।

मण्डलस्य नापितसङ्घश्छगनं परामृश्य मासस्यान्तिमे शनिवासरे नगरस्योत्सवोद्याने कृष्णकुमारस्याभिनन्दनं चकार । सर्वथाऽपूर्वमेतन्नूतनं पर्व तत्समाजेन महतोत्साहेनायोजितं यस्मिन् नगरस्य जनपदस्य चापि गणमान्या महाजना अधिकारिणश्चातिथय आसन् वस्तुतः, 'स जातो येन जातेन याति वंशः समुन्नतिमि'ति सूक्तिरनेन मेधाविना छात्रेण कृष्णकुमारेण ह्यपूर्वतया चरितार्थीकृता । धन्यः पिता धन्या च माता इति सर्वे प्रशंसितवन्तः । एष अभिनन्दनसमारोहो बहुदिनं यावत्सर्वत्र चर्चाया विषय आसीत् ।

तस्मिन् समारोहे बालकस्य कृष्णकुमारस्य काप्यपूर्वाऽभिख्याऽऽसीत्। स रजतमयस्य सिंहमुखपार्श्वासने विराजमानो देवोपमो देवपुत्र इव देदीप्यमानो जनानां जातिगौरवमचिन्त्यमहिममण्डितं करोति स्म। यद्यपि स वयसा दशवर्षीय एव आसीत् किन्तु प्रशंसकानामात्मीयानां वर्धापनानि आशीर्वचांसि च निरन्तरमादाय यशोवृद्धः संस्कारसमृद्धः प्रचुरमानसोल्लाससिद्धः सर्वेषां हृदये सन्निविष्टः प्राप्तसम्मानहृष्टः स्मिताननः स सुकुमारशरीरसौष्ठवेन सर्वेषामेव मनांसि समावर्जयति स्म। सीतायै राम इव मम कन्यायै एष एव वरोऽनवद्यो मे रोचते इति भावेन नैकानां कन्याविवाहचिन्तातुराणां मनांसि सुखदकल्पनाभिर्मोदमयानि जातानि । अत एवंविधैः प्रस्तावैरागामिदिवसेषु छगननापितः किंकर्तव्यविमूढो जातः । तदानीं बालविवाहो निषिद्धो नासीदपितु समाजे सर्ववर्गेषु प्रचलित आसीत्। नापितप्रभृतिसमाजे बालविवाहः शोभनविवाह इति कल्पयन्ति स्म। अतः कृष्णकुमारस्य कृते विवाहप्रस्तावा नासन् विस्मयावहाः। प्रस्तावकेषु सम्पन्ना नापितचतुर्धरा यथेच्छं यौतुकं प्रदातुमपि सन्नद्धा आसन्। किन्त्वस्मिन्नेव लघीयसि वयसि पुत्रस्य विवाहं विधातुं छगनो न स्वीचकार । मम पुत्र उच्चादुच्चतरां शिक्षामवाप्नोत्विति छगनस्य दृढो मनोभिलाषः। तस्येमं सङ्कल्पं विज्ञाय ते ते कन्यापितरो नापितधुरन्धराः शनैरशनैर्विरमिताः, प्रतीक्षा कर्तव्येति, प्रयत्नविमुखाः शान्ताश्चाभवन् । कृष्णकुमारस्य शिक्षा तथैवाग्रे प्रचलति स्म ।

अचिन्त्या खलु विधातुर्वृत्तिर्नियतेः प्रवृत्तिश्च । कस्य भाग्यं कदा परिवर्त्य कुत्र प्रहरिष्यतीति दैवोऽपि न जानाति कुतो मनुष्यः ? नन्दनकानने चन्दनतरुराजिषु कथं कदा दावानलः सहसा प्रवृत्त्य भीषणतामेष्यतीति स्वयं भगवान् वैश्वानरोऽपि नानुमानतुलामधिरोहति। भूगर्भे सुसुप्तो ज्वालामुखी पृथिवीतलं विभिद्य कदाचिद्बहिरागच्छत्येव । एतत्सर्वं दौर्भाग्यादेव सम्भवति । छगननापितस्याप्या- नन्दनिर्भर कुटुम्बेऽचिरमेवाऽचिन्तितमतर्कितं दुर्घटितं कृतपदं भवितेतीषदपि पूर्वाभासः कस्यचिदपि सुखभरे मनसि नाऽऽसीत्।

छगननापितो नित्यं प्रातर्गङ्गास्नानं विदधातीति तस्य दिनचर्याया एकमनिवार्य व्रतमासीत् । तस्य गृहस्यान्तिकमेव 'पक्काघाट' इति सुप्रसिद्धं गङ्गाघट्टं विद्यते। छगनः प्रतिदिनं दिनकरकरागमनात्प्रागेव तत्र सुरम्ये पाषाणविरचिते घट्टे गत्वा स्नाननियमं निर्वाह्य शिवायतने भगवन्तं गङ्गाधरं जाह्नवीजलेनाभिषिच्य पत्रैः पुष्पैः समभ्यर्च्य पार्वतीपतिं गृहोन्मुखतां भजते । निदाघदिवसेषु यदा गङ्गा क्षीणतोया मन्दधारा प्रवहति, एकदा स कृष्णकुमारः पितरमाह गङ्गास्नानाय किन्तु तदानीं छगनस्तं निषिद्ध्य सान्त्वयामास यत्कदाचित्त्वां नेष्यामि, नाद्य। स बालकोऽद्यैव पित्रा सह गमनाय निर्बन्धपरोऽभूत्- तात ! नय माम् यावत्त्वं तत्र स्नानं विधास्यसि तावदहं सोपाने समुपविष्टो भगवतीं भागीरथीं निभालयामि। एतत्खलु मह्यं रोचते यदि त्वं मां स्नापयिष्यसि, अहं सुखं जलावगाहनं करिष्यामि नान्यथा ।" एवं प्रतिज्ञाय सः पित्रा सह गत्वा तत्र गङ्गाजलप्रवाहात्कियद्दूरं पितुस्ताम्रजलपात्रवस्त्रादीनां समीपे स्वच्छे शिलासोपाने पित्रा निर्दिष्टे स्थाने संयतः सन् तस्थौ । तत्र प्रवहमाने जलराशौ लोललहरीं क्षुद्राऽऽवर्तलीलां च दर्शं दर्शं तन्मनोऽतीवोल्लसति स्म । रजताभा मत्स्यडिम्भास्तत्र सोपानलग्ने सलिले सलीलं सत्वरमागत्य तद्विगुणवेगेनापसरन्ति मत्स्य- डिम्भानामिमां कौतुकमयीमपूर्वी तरणक्रीडां निरन्तरमवलोक्य तस्य मनसि, अन्तिमे सोपाने स्थित्वा कमप्येकमायान्तं मत्स्यडिम्भं करस्थं करोमीतिविचार्य स शनैस्तत उत्थाय यावदन्तिमं सोपानं गत्वोपवेष्टुं पादन्यासं करोति तावत्पाषाणश्लिष्टहरितशैवालजम्बालचिक्कणतावशात्सहसा स्खलितः। असन्तुलित स निरालम्बस्तत्कालमेव गभीरे जलगह्वरे पपात । " त्रायस्व तात" इति तन्मुखादार्त्तनादं निशम्य यावत्सूर्यार्घ्यदाने निरतश्छगनः परिवर्त्य पश्यति तावत्तस्य हृदयांशः कुमारः गाने क्रोडे निममज्ज । छगनोऽन्येऽपि तत्र स्नानार्थिनो जनाः क्षिप्रं जले ब्रूडनविधिना तं बहुधाऽन्वेषयामासुः किन्तु कुमारोऽचिरमेव जलनिलीनः कुत्रचिद् विलीनोऽप्राप्तः शिरोधुन्वानश्छगनः सहायतार्थमुच्चैश्चक्रन्द। तत्र नौकासु ये निमज्जननिपुणाः धीवराः ये च घट्टे नियुक्ता जलरक्षिदलयुवानस्ते सर्वे सत्वरं सोपकरणं कुमारमन्विष्य जलादुद्धर्तुं तत्र जलराशिं प्रविश्य सुदूरं यावच्चिरमाहिण्डमानाः साफल्यं नाप्नुवन्तः । एतद्दुर्घटितं शुष्कारण्ये दावा इवाचिरं समग्रेऽपि नगरे व्याप्तम् । नगरस्य मण्डलस्य चोच्चाधिकारिणो गङ्गायां महाजालप्रबन्धेन तस्य कुमारस्य कलेवरमवाप्तुं सुमहान्तं प्रयत्नं कृतवन्तः किन्तु ते सर्वे प्रयत्ना निष्फला एव जाता। तप्तशीशकद्रवमिवेदं दुर्वृत्तं यदा छगनभार्यायाः कर्णे प्रविष्टं, सा तु तत्क्षणमेव विगतसंज्ञा बभूव । छगनश्चिरं यावत्तत्रैव घट्टे पुत्रशोकविधुरश्छिन्नमूलदग्धतरुस्कन्ध इव जडीभूतोऽन्ध इव, मूक इव, बधिर इव, विक्षिप्तस्तथौ । बान्धवास्तं बलादुत्थायऽऽश्लिष्याऽऽकृष्य यानमारोप्य कथं कथमिव गृहं नीतवन्तः ।

छगनगृहस्य दृश्यमतीव कारुणिकमासीत् । तत्र ये बान्धवाः कुटुम्बिनः, पौराः नागरिकाः श्रेष्ठिनो नगराधिकारिणो बाला युवानः प्रौढा वृद्धाः स्त्रियः पुरुषाः ते सर्वे शोकमग्नाः साश्रुनयना दुर्दैवं निर्भरं निर्भर्त्सयन्ति स्म। मेधावी छात्रः सुकुमारः कुमारः कृष्णकुमारः सर्वेषां स्नेहैकपात्रमासीत्। गृहमागते सति छगननापिते करुणक्रन्दनं पुनरपि गृहभित्तिषु सङ्घट्टमानां करुणामपि करुणार्द्रामकरोत्। ये तदानीं तत्र धीरा गभीराः संसारगतिवेदिनोऽनूचानास्ते सान्त्वनावचोभिः जनान् प्रतिबोधितवन्तः-

'अयं संसार एवमेव संसरति अनियताः खलु नियतेः कलाः आगामिनि क्षणे किं भवितेति कोऽपि विज्ञातुं नार्हति अयं जीवलोको वस्तुतो मृत्युलोक एवेति भवन्तः सर्वे जानन्ति । यस्य जन्म तस्य मृत्युरपि ध्रुवम्। यावद्दिनं जलमन्त्रं लिखितं धात्रा तावदेवात्रावस्थानम् । न कश्चित्कस्यचित्पुत्रःपुत्री माता पिता वा। सर्वे सम्बन्धाः शैलूष इवारोपिताः कल्पिता वा। जीवनं मरणं वा सर्वमपि भ्रमादतिरिच्य किमपि नास्ति । अतः शोको मोहो वा नैव करणीयः ।

 कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति । एवं लोकस्तुल्यधर्मा वनानां काले काले छिद्यते रुह्यते च ।।' इति साधूक्तं यथार्थं महाकविना भासेन । महाकालस्य नियमः सम्बन्धं न रक्षति, वयो न वीक्षति, परिणामं न चिन्तयति, निर्ममं निष्ठुरं च सर्वत्र सदैव व्यवहरति अद्य तस्यैव महाकालस्य प्रेरणया, मातुर्गङ्गाया आह्वानेन कृष्णकुमारोऽत्रागतवान्। ततश्च स सर्वाणि बन्धनानि छित्वा सम्बन्धानुत्सृज्य निरपेक्षः सन् भूतलाज्जलमार्गेणोर्ध्वलोकं गतवान्। अतो भवन्तः सर्व एव विरताश्रवः श्रवोपदिष्टं, 'भूत्वा भूत्वा प्रलीयते' इति स्मरन्तु, शोकं मोहं च परित्यज्य तस्य जीवात्मनः कल्याणाय चिरमुक्तये परमेश्वरं प्रार्थयन्तु।' एतस्मिन्नेवान्तरे सततोपचारैश्छगनवधूः संज्ञावती चिरं सुप्तोत्थितेव कथमेतावान् जनसम्मर्दः शोकसन्तप्तस्तिष्ठती' ति व्याहृत्य, "हा पुत्र!इति करुणं विलप्य पुनरपि मोहं गता । बान्धवास्तां छगनं च चिकित्सालयं नीतवन्तः ।

इतश्च भगवती भागीरथी तं कुमारं कण्ठेनाश्लिष्य क्रोडे संगोप्य गहनजलधारानिधौ स्वकीयेऽलौकिकेऽन्येनैव विधिना विनिर्मिते सकलसज्ज्यो- तिसज्जिते स्फटिकहर्म्ये नीत्वा महता वात्सल्येनाभिनन्दितवती। सुस्वादूनि नन्दनकाननादानीतान्यमृतफलानि तस्मै समर्प्य यथेच्छं भोक्तुमादिष्टवती। स मातुराज्ञया यथारुचि फलान्युपभुज्य सुखं तस्थौ । विस्मृतपूर्वसंसारपरिवारसंस्कारो निर्विकारोऽपि तदाकारः कृष्णकुमारः प्रातस्तस्य किमभूदिति किमपि न स्मृतवान्। इयं देवी का? कुत्राऽहमित्यपि न ज्ञातवान् । सा देवी गङ्गा मन्दमृदुस्वरेणाऽब्रवीत्- वत्स! नगाधिराजस्य हिमगिरेः प्रभवां लोकमातरं देवधुनीं गङ्गां मामवेहि । मम भूतलेऽवतीर्णाया बहूनि नामानि सन्ति । जना मां बहुधा स्तुवन्ति । छगनदम्पत्त्योर्भक्त्या प्रीतः श्रीवृन्दावनविहारी स्वकीयं स्वरूपं प्रदाय त्वां तयोः क्रोडे निक्षिप्तवान् यदिमावपि पुत्रसुखमनुभवतामिति। अद्य तुभ्यं प्रदत्तस्य जीवनस्यान्तिमं दिनमस्ति। अतः परमनेनैव देहेन तवापरं नूनं जन्म। अहमेव ते जननी। इदं भवनं त्वदीयम् । मम विस्तारे इदं भवनं क्वचिदपि नेतु स्थातुं वा शक्यते, यथा ते रोचते कुत्रचिदपि निर्भयं ससुखमनवद्यं जीवनं यापयिष्यसि। मदनुग्रहवशान्नानुभविष्यसि कामपि लौकिकीमलौकिकीं वा बाधाम्। अहं त्रिपथगा तुभ्यं वरं प्रयच्छामि यत्क्वचिदपि जले, स्थले नभसि वा ते निर्बाधा गतिर्भविष्यति, सर्वत्र यथेच्छं विहरिष्यसि । यदि त्वं नेच्छसि ते कायं न कश्चिज्जीवो द्रष्टुं समर्थः । अयं तवाद्य नूतनावतारः । यदा त्वमिदं भौतिकं शरीरं परित्यक्तुं वाञ्छसि तदा ते जीवितावसानो नान्यथा । सर्वकालिकं सुखदमवस्थानं ते स्यात् । करणीयं पश्चाज्ज्ञास्यसि । "

ततो भगवती गङ्गा तत्र स्थानदेवतां देवीं विन्ध्यवासिनीं महतादरेण सस्मार । स्मरणमात्रेण सा सत्वरं समुपस्थिता । परस्परमभिवादनपूर्वकं गङ्गा तामुवाच- देवि! अयं कुमारस्तव भ्रातुः कृष्णस्यैवावतारः।मध्य एव तस्या वचनमाक्षिप्य विन्ध्यवासिनी प्रोवाच- भगवति गङ्गे! सर्वं वृन्तान्तमहं जानामि । कथं वृन्दावनादयं छगननापितगृहे समागतः । अद्यापि तस्यैव मम भ्रातुः प्रेरणया त्वमिमं कुमारं स्वीये क्रोडे कृतवती । अतः परं करणीयमादिशत्वत्रभवती।एतन्निशम्य स्मितानना भगवती भागीरथी मधुरमधुरं जगाद - "काऽहमादेशदात्री? त्वमस्य विन्ध्यपर्वतस्याधिष्ठात्री देवासुरनरनिकरपूजिता सर्वशक्तिस्वरूपा प्रदेशास्य संरक्षिका प्रतिपालिका च । त्वच्चरणाश्रयेण जनाः सर्वबाधाविनिर्मुक्ता लोके सुखं जीवन्ति त्वमस्यानुजकायिकस्य कृष्णकुमारस्य स्थले गगने च संरक्षिका। यद्यप्यस्मै मया सिद्धिः प्रदत्ता तथापि स्वयमेव तपस्तप्त्वा पुनरपि सिद्धेः परां कोटिं यास्यति। जना एनं युवानं कृष्णकुमारं लोके 'गीतास्वामी 'ति स्वभिख्यया ज्ञास्यन्ति। अयं सौम्यः साधुस्वभावः सुकुमारः कुमारः लोकेऽनासक्तोऽपि लोककल्याणं विधास्यति । तत्रावयोराशीर्वादः । स्वस्थानादेव जनानामार्तिनाशने तत्परो भविताऽयम्। अद्य केवलमेकमेव कार्यं करोत्वत्रभवती। छगनदम्पती चिरं यावच्छोकाकुलौ पुत्रतिरोभावात्। छगनदम्पती नूनमेवावयोर्भक्तौ। अतः तयोः शोकं मोहं च व्यपनयतु देवी ।"

तथाऽस्तु’” इति व्याहृत्य देवी विन्ध्यवासिनी प्रीतिपुरस्सरमभिवाद्य ततो निर्जगाम। इयं यशोदागर्भसम्भवा नन्दनन्दिनी लोकहितायैव विन्ध्यगिरौ विहरति

महाकालस्य महिम्ना शनैश्शनैर्जनाः छगननापितपुत्रस्य तस्य कृष्णकुमारस्य गङ्गानिमज्जनदुर्घटितं विस्मृतवन्तः । कदाचिदेव प्रसङ्गवशात्तस्य भविष्णोर्बालकस्य स्मृतिरायाति। सपत्नीकश्छगनो वृद्धत्वं गतः कायमात्रेण जीवति, केवलं श्वसति न रोदति न च हसति । मीरजापुरनगरवीथयो जनसङ्कुलास्तथैव दिनानि गणयन्ति। तत्र व्यापारो व्यवहारो जनानां जीवनाचारोऽपि यथापूर्वं प्रचलति । गृहेषूत्सवा जन्ममङ्गलानि, कथावार्ताः, विवाहकल्याणानि, प्रीतिभोजाः श्राद्धकृत्यानि अन्यानि चानुष्ठानानि गतानुगतिकतया सततं प्रचलन्ति ।

एकदा प्रातःकाले सूर्योदयेन सहैकस्यान्यस्यापि तेजसः समुदयो गङ्गाया उत्तरे तीरेऽभूत्। दक्षिणे कूले घट्टेषु स्नानार्थिनः तदुत्तरे तीरे तत्रत्या जनाः, नौकाभिः पारं गच्छन्तो नाविका यात्रिकाश्च सविस्मयं तन्मानवाकृतितेजो विस्फारितनेत्राभ्यां साक्षात्कृतवन्तः लोकेऽदृष्टपूर्वः स कश्चिदचिन्त्यानुभावो महापुरुषः क्वचिद्दिव्यलोकादागत इव सौम्यशान्तः प्रभाकान्तो नितान्तैकान्तनिर्भ्रान्तः सद्यः स्नातो रुचिररक्तपीतकौशेयवस्त्रपरिवृतो भागीरथीपुलिने भगवतोऽष्टमू- र्तेर्बालुकामयं पार्थिवं लिङ्गं मध्यमाकारं निर्माय पद्मासनं बद्ध्वा विविधपूजोपचारैः तन्मयीभावेन समाराधयति। महानुभावस्यात्र लोके प्रथमं दर्शनम्। अतः पूर्वं न कदाचित्केनचिदयं दृष्टः रात्रौ कुत आगत्योपगङ्गमत्र देवाधिदेवस्य पूजायां निरतोऽभूदिति महदाश्चर्यस्य विषयः नायमत्रत्यो नगरस्य ग्रामस्य वा निवासी। आसीत्तदानीं तस्य काचिदपूर्वाभिख्या। सद्योदितो भगवानंशुमाली निजकनकमयैः करैः पूर्वाभिमुखस्य तस्य शरीरं सुवर्णाभं विदधाति। एकतो रविबिम्बरञ्जितं गाङ्गं जलमपरतो रविकिरणकीर्णकनककणनिचित इव सिकताराशिः, द्वयोर्मध्ये राजत एष देवलोकानुग्रह इवाद्भुतो विग्रहः किमधिकम्, सर्वोपमाद्रव्यसमुच्चयेन महात्मानमिमं विनिर्माय खलु स्वयमपि साश्चर्यं पश्यतीव विधिः। अस्मिन्नवे वयस्येव कथं संसारविरागस्तपोऽनुरागो भवभोगनिर्वेदो लौकिकप्रपञ्चखेदोऽभवदिति नानुमानस्य विषयः। काचिच्छरीरधारिणी देवतैवैतद्रहस्यमावेदितुं प्रभविष्यति। तस्य युवयोगिनोऽनुभावप्रभावतो बलादिव समाकृष्टा मन्त्रमुग्धा इव जनाः सागरं प्रति सिन्धुप्रवाह इव सवेगं प्रयान्ति । न कश्चित्कस्यचिच्छृणोति, न कश्चित्कञ्चित्पश्यति, केवलं तस्मिन् निबद्धदृष्टयोऽहमहमिकया तत्र भवितुं टीकन्ते। स्वे स्वे मनसि कुर्वन्ति तदानीं सर्वे जना यन्माऽयं सहसा प्रणष्टो भवतु, नोत्पततु खं, मा निलीनो भवतु गङ्गायां, मा तिरोहतु कथमपि, यावद् वयं तमुपसृत्य लब्धनेत्रनिर्वाणा धन्यधन्या भवामः । महत्सौभाग्यशालिनो वयं कृतपुण्याश्च यदेतादृशी दिव्याकृतिर्व्यक्तिर्दर्शनपथमुपैति । शीघ्रमेव तद्गङ्गापुलिनं कुतूहलिनां, विस्मयाविष्टानां रहस्यजिज्ञासूनां जनानां समवायभरं जातम्। निःशब्दाः सर्वे स्तब्धास्तत्र स्थाणुवत्तत्र स्थाणुपूजनं प्रतीक्षमाणास्तस्थुः। विघ्नितः कदाचिदेष जातमन्युर्दहेत्सर्वानिति भयशङ्कासंत्रासोपेताः। कुतूहलिनो प्रायोऽधीरवृत्तयो भवन्ति किन्तु सर्वे जनाः धैर्यधनाः साधव इवासन्।

अथ नितान्तशान्तः स तरुणमुनिः शिवसपर्यां समाप्य स्मिताननः स्निग्धनयनाभ्यां सर्वान् कृतार्थीकुर्वत्रिव धीरगभीरस्वरेण "कल्याणमस्तुइति पदद्वयं प्रयुज्य पुनरपि प्रोवाच- "मान्याः ! एष जनो नास्ति कश्चिदलौकिकः। जननी मे जाह्नवी संरक्षिका च देवी विन्ध्यवासिनी तयोरनुग्रहादेवैष जनः प्रथितः कश्चिदमोघदर्शनः। इदानीं गच्छन्तु, स्वं स्वं नियोगमशून्यं कुर्वन्तु अहमत्रैव यत्र कुत्रापि वसामि, सुलभदर्शनो भवामि।सर्वे तस्य महानुभावस्य वशवर्तिन इव सादरमभिवाद्य ततो विनिवृत्ताः ।

मीरजापुरनगरनिवासिनो ये जनास्तत्र गता आसन् ते, 'अयं तरुणमुनिश्छगननापितस्य मेधाविनः पुत्रस्य कृष्णकुमारस्य प्रतिमानं भजते सैव निरवद्याऽऽकृतिः केवलमायुरेवाधिकतरमिति परस्परं मन्त्रयामासुः तथापि किमपि विशिष्टं वैलक्षण्यमाभासते भवेन्नाम छगनो गङ्गानिलीनं पुनरायातं तं तनयं परिचिनोतु।।

लोकमूलागता सैषा गीतास्वामिकथाप्रथा ।

तत्त्वैराख्यायिका ज्ञेया गीयते बहुधाऽधुना ॥ 1 ॥

अनन्यास्तस्य ये शिष्या भक्ताश्चापि पदाश्रयाः ।

गीताऽऽश्रयेण जीवन्ति गीतास्वामिपरायणाः ॥ 2 ॥

पुण्यश्लोकः कीर्तिकायो गीतास्वामी महामुनिः ।

तस्य वृत्तमनुस्मृत्य कथा स्वोपज्ञतां गता ॥ ३ ॥

प्रसन्ना जाह्नवी पुण्या देवी सा विन्ध्यवासिनी ।

तयोः प्रसादतो लोके देवो दद्यात्सुमङ्गलम् ॥4॥

यः पठेच्छृणुयाद्वापि कथामेतां शुचिव्रतः ।

सफलं जीवनं तस्य लोके सैव महीयते ॥ 5 ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)