कथायाः नाम लेखकः
1. सर्वंसहा सुरेन्द्र झा 'सुमन'
2. कोऽदात् कस्मा अदात् गोविन्द झा
3. कः सुखी? जयमन्त
मिश्रः
4. कुण्ठा डाकिनी श्रीदेवीदत्तशर्मा चतुर्वेदः
5. उमा श्रीवृद्धिचन्द्रशास्त्री
सर्वंसहा
लेखकः- सुरेन्द्र झा 'सुमन'
पाठशालायां यदाऽहं पठितुं गतः
गुरुमहानुभावो हि मां तावद् अमरकोशं कण्ठस्थीकर्तुमादिशत्। अहमपि तस्य
ज्ञानदयासिन्धोरादेशं शिरसा सन्धार्य श्रिये चाऽमृताय च शुकवत् श्लोकं रटितुमारभे
किन्तु अर्थबोधो नांशतोऽप्यभवत् ।
एकदा मनसि भावनेयमुद्गता,
यदि चाऽर्थमपि जानीयां श्लोकाभ्यासे कञ्चिद् रसमप्नुयामिति
विचिन्त्य गुरुदेवं सप्रश्रयमहं न्यवेदयम्ः ‘श्रीमन्!
श्लोकानां केवलं कण्ठस्थीकरणे मनो न रमते, अर्थमपि
चेदार्यमिश्रः कृपया बोधयेत् तदा नूनमहं कृतार्थतां यायाम्' इति।
स चाऽवदत्- भोः ! कोशग्रन्थोऽयम्,
तथाहि 'अष्टाध्यायी जगन्माता, अमरकोशो जगत्पिता। भट्टिकाव्यं गणेशश्च त्रयीयं सुखदाऽस्तु वः सोऽयं हि
अमरकोशो नामलिङ्गानुशासन-पर्यायकः, इह हि पर्यायशब्दाः स्वयं
व्यक्तार्थाः तेषां व्यावहारिकं पुंस्त्व- स्त्रीत्व - क्लीवत्वादि ज्ञानमपि
स्वयमुपजायते । तदनन्तरं हि व्याकरणज्ञानतो व्युत्पत्त्या तेषामर्थं ज्ञास्यसि
सम्प्रति श्लोकाभ्यासे यत्नपरो भव । वालसुलभ-स्मृतिशक्तेः प्रसादात्
श्लोकाभ्यासश्चिरस्थायी भवतीति शब्दसङ्कलनेन निजां भाषा सम्पदमेव साम्प्रतं
सञ्चिनुथाः, श्लोकानां कण्ठस्थीकरणे हि यतेथाः ।
'अर्थोऽपि कोऽपि भवत्येव, तज्ज्ञानेन तु' – इत्यर्धवाक्येन जिज्ञासमाने मयि
पुनरसौ मामबोधयत्। 'अस्त्येवम्' अर्थहीनः
शब्दः कथं भवितुमर्हति ? व्युत्पत्त्या अर्थावगमो भवति,
काव्यादौ पुनः शब्दार्थानुसन्धानतो वाक्य-बोधो जायते, पश्चाच्च प्रयोग-व्यवहारतस्तात्पर्यञ्च प्रतिपद्यते । अतः प्रथमं
शब्दज्ञानं, ततश्चार्थविज्ञानं परतश्च तात्पर्याऽनुसन्धानम्;
इति क्रमतो हि चलति पाठविधिः ।'
अथ मां हतप्रतिभमिवावलोक्य कारुणिको
गुरुदेवः पुनरवोचत - 'ननु ब्रूहि, सम्प्रति किं प्रकरणं, च श्लोकं पठसि ?' 'सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा इति भूमिवर्गस्थं श्लोकम्' इत्यहमचकथयम् ।
अथ मामसौ पुनर्बोधयितुमुपाक्रमत- 'शृणु, वत्स! इमानि नामानि पृथिव्याः सन्ति ।
पृथ्वी-पृथुला; इयं च उर्वी- विशाला अस्त्येव; पुनः वसुमती, वसुधा, वसुन्धरा-इत्यादि
पर्यायशब्दाः सन्ति ।' 'वसु तोये धने मणी' - यतो हि पृथ्वी निजान्तर्गर्भे जलं, खनिजसम्पदं,
धातु-रत्न-मणि-प्रभृतीनि च धत्ते, अतो
वसुधा-वसुमती-वसुन्धरेत्यादीनि नामानि लभते । पुनश्च यतो हि सर्वं
खनन-विदारण-मलादिनिवर्हणादिकं सकलं कष्टसमुदायं सन्ततिकृतं मातेव सहते ततः 'सर्वंसहा' इति सार्थकं नाम भजते । एवं हि कोशे
रूढानि गौणानि च नामानि सन्ति गुम्फितानि तानि च पुनः व्याकृति व्युत्पत्त्या
प्रयोगानुभूत्या च सार्थकानि तव पुरतः स्वतः स्फुटीभविष्यन्तीत्यवगच्छेः ।
सम्प्रति वटुस्त्वं रटनपटुर्भवः ।'
गुरोर्वचनमनुसृत्य पुनरहं शुकवत्
पाठकर्मणि प्रवृतो जातः । किन्तु आरब्धस्य अभ्यासकर्मणः परिणामो मम भाग्ये
नासीदुपलब्धव्यः कोषघोषमपि पूरयितुं नाऽहं प्रभुरभूवम् । व्याकरण-व्युत्पत्तेः कथा
दूरे चास्ताम्, काव्यस्य श्रीगणेशोऽपि 'अभून्नृपो विबुधसखः परन्तपः' इति वाक्यबन्धेनाऽपि
मया नाऽऽरब्धः । वागर्थयोरिव सम्पृक्तयोर्माता पित्रोः प्रसादजन्यः सुकुमारभाव
सम्भवोऽपि न मे सम्भवपरो जातः।
तावदन्तरे सांसारिकजीवनस्य महति
जाले चाऽहं बद्धो जातः । सर्वमेव कोष घोषणं विस्मृतिपथमपनीतम्,
यतो हि द्वादशवर्षदेशीये अबोधवयस्येव पितृदेवो मामुत्सृज्य
परलोकमुपगतः । अहं च तदा स्वर्गादपि गरीयसीं जननीं कल्पलतामिव समाश्रित्य तदीय
स्निग्धच्छाया-तरुषु गृहस्थाश्रमकर्मसु व्यापृतो जातः ।
एवमहं बाल्यान्नवयौवनं,
नवयौवनाच्च वयः प्रौढिमानं यावद् भजेयं तावदेव, जीवनस्य पूर्वाह्न एव, कल्पलताया मातुश्छायाऽपि मम
शिरसो दूरमपास्ता। ततश्चाहं माध्यन्दिनीशाखीव शीत
तापैर्वृष्टि-प्रवातैरुद्वेजितोऽपि कतिचन सन्तान-गुल्मान् छायादानेन
संरक्षणव्यस्ततामुपेतः सुतरां यत्पठितं तद् गुरवे समर्पितमिति सार्थकी
कुर्वन्नहमर्थोपार्जने निरतो जातः सकलं शब्दार्थ- कोषं विस्मृत्य धन-धान्य कोष
ग्रहणाय जीवनं यापयितुम् अहमुपक्रान्तः ।
(२)
मम गृहसमीपे एकस्या विधवाया
गृहमास्ते । जना एनां चन्द्रजननी-नाम्ना संबोधयन्ति चन्द्रधरो हि तस्याः प्राणोपमो
बालः । स च ग्राम-पाठशालायामधीते । जननी दीनतमाऽपि महता यत्नेन तं पालयन्ती,
आहारे-विहारे परिधाने क्रीडनसन्धाने च तथा साधनपरा यथा हि लोका
आलपन्ति - 'नूनमियं दीनेव दृश्यमाना विधवा कंचित् सम्भृतं
काञ्चनकोषं रक्षति; यतो हि निजं बालकं धनिनां परिवारे जातं
सुखसुखेन परिपालितं सुकुमारं कुमारमिव पोषयितुं क्षमाऽवलोक्यते ।'
किन्तु वास्तविकता तु विपरीतैवाऽऽसीत्
इयं हि विधवा प्रतिवेशिनां गृहेषु परिचरन्ती, गृहिणी-समुदायं
सेवा-साहाय्येन प्रसादयन्ती, वट-पर्पटादीनि व्यञ्जनवस्तूनि
निर्माय गृहे गृहे विक्रीणन्ती यत्किञ्चिल्लभते तेनैव चन्द्रधरं चन्द्रगसमिव
तिथौ-तिथौ समेधयन्ती चान्द्रमसी निशेव समुज्ज्वला दृश्यते।
सा चैवमेव मत्पल्याः समीपमपि
समुपागच्छति। एनां च सततं सहचरन्ती, गृह-कार्येषु
साहाय्यं कुर्वती, ज्येष्ठा सखीव प्रियतरा जातेति मम
सहानुभूतिमासाद्य सा पुनर्मम हृदये निजसुतस्य चन्द्रधरस्य कृते वात्सल्यभावनां
जागरितवती । अहं च तत्सुतस्य जीवनोन्नयनं निजं कर्तव्यं मन्यमानस्तदर्थमासं
यतमानः।
एकदा चन्द्र-जननी पत्न्या मुखेन मां
पुनरावेदितवती, यदयं चन्द्रधरो ग्रामपाठालये
पाठ्यक्रमं समाप्य गृहे स्थितः। शिक्षकास्तं मेधाविनं मत्वा सततं प्रेरयन्ति
शिक्षाक्रमं परिचालयितुम् स च सम्प्रति नगरस्थितमुच्चविद्यालयं प्रविविक्षुर्भवत्साहाय्यमपेक्षमाणो
वर्तते दीनाऽहं कथं शक्नोमि तद्व्यवस्थां कलयितुम्? भवानेवाऽत्र
विषये समर्थस्तत् कल्पितुम्, इत्यलमनल्पजल्पनेन ।
नगर-न्यायालये ममैकः समीपो
सुहृदधिवक्ता वर्तते । तमनुस्मृत्य, ध्यात्वा
च तदीयं पूर्वतनमनुरोधं शिशुशिक्षणपरस्य कस्यचन छात्रस्य कृतेः तदधिकृत्य चाऽहं
पत्रद्वारा तमसूचयम्- 'अहमिह मेधाविनमेकं ग्रामीणं छात्रं
भवतः समीपे प्रेषयन्नाशासे, स्वसन्ततिपाठनाय सर्वथोपयोगिनं
मन्वानः स्वावासे तं नियोज्य स्वार्थ-परार्थसिद्धये भवतु भवानधिकृतः । एकस्या
हीनाया विधवायाः पुत्राय चास्मै चन्द्रधराय अहमपि शिक्षाशुल्क- पुस्तकादि
व्यवस्थार्थं यथोचितं साहाय्यं मासि-मासि दास्यामीति प्रवर्ततां
द्वयोरप्यावयोर्विद्यादानसत्रम्' इति।
अथ तथाविधं व्यवस्थापिते च पुत्रे,
एकपुत्रा विधवा मां भूरिशोऽभिनन्दयन्ती, मामकीं
पत्नीं च बहुभिराशीभिः संवर्धयन्ती चिराय कृतज्ञतां ज्ञापितवती।
चन्द्रधरोऽपि तत्र निर्वाधमधीयानो
यदा कदा ग्राममायाति, कृतज्ञतया
प्रणतिनिवेदनाय मम समीपं हि नियतमुपतिष्ठते अहमपि कुशलप्रश् पठन-पाठनयोः
स्थितिबोधे सरुचिरस्मि सोऽपि मां निजमभिभावकं मन्यमानः स्वीयं प्रयोजनं जनयितुं
निःसङ्कोचतामञ्चति अहं च पुनः प्रतिभा - विद्यार्जने क्षेत्रे युवानमेकं ग्रामीणं
वर्धमानं द्रष्टुं, दीनायाश्चैकस्याः विधवाया उदस्ते जगति
प्राशस्त्यं स्रष्टुं यतमानो निजमावश्यकंव्ययं सङ्कोचयन्नपि तदर्थं
साहाय्यपरोऽभूवम् तज्जन्यं सन्तुष्टिमिष्टाञ्च प्राप्नुवम् ।
अनन्तरं शनैः शनैः स्थितिरपि तदीया
परिवर्तिता समुत्साह-सम्भृता चाऽभवत् चन्द्रधरः प्रकृत्या मेधावी,
अध्ययनपरः समुत्साहवांश्चासीत् परीक्षासु श्रेणीमुत्तमं मां
लभमानश्छात्रावासे सौविध्यं दधानश्छात्रवृत्तिसम्भृतश्छात्रजीवनं सफलीकुर्वाणः
साम्प्रतं जीवन-यात्रा प्रवर्तनाय, नियोजन-पाथेययोजनाय प्रतिद्वन्द्वितामूलकपदपरीक्षणे
समुपवेष्टुमुपाक्रमत। फलतस्तत्र च साफल्य- मुपगतोऽयं युवा व्यङ्कस्य कस्यचित्
कार्यालये पदासीनो जातः ।
(३)
अथ गते बहुतिथे काले,
एकदा कर्णाकर्णिकयाऽऽकर्णितं यत्तत्र पाटलिपुत्रस्थ सचिवालये
कार्यरतस्य कस्यचित् पदाधिकारिणः कन्यया चन्द्रधरस्य परिणय-वार्ता
साम्प्रतमुपक्रान्तेति ।
विधवा जननी च बहोः कालादभिलाषं
पोषयन्ती आसीद् यदत्र पुत्रस्य विवाहप्रसङ्गे गृह-गोस्वामिनीं पूजयिष्यन् 'चुम्बनायन '' विधिं च निर्वाहयिष्यन् वरोऽयं वर-
यात्रिकैः सह वधूं परिणेतुमितो महता समारोहेण प्रयातात् । ततश्च यथाविधि वधूसहितः
सन्मङ्गलाय गृहप्रवेश - विधिमिह परिपालयतात्-इत्यादि मनोरथशतैः कालं यापयति स्म ।
एवं हि सुख-स्वप्ने मग्नेव,
आनन्दोल्लासे उच्छ्वसितेव वर-वधू विलोकन- व्यग्रेव सा ग्रामवीथ्यां
सम्मिलितान् परिजनान् वार्तामिमां बोधयन्ती बहुधा अवालोक्यत ।
शुभमुहूर्तप्रसङ्गतः कतमं दिनं
शुभतमम् ?
तद्दिनेऽपि को हि कालः सर्वतो मङ्गलाय दिव्यतमः? इति दैवज्ञान् जिज्ञासमाना, मङ्गलगीतप्रवणाश्च
प्रतिवेशिनी- स्तदर्थमनुरुन्धाना च सा, विशेषतो मामकीनां
पत्नीं गृह-गोस्वामिनीं प्रणन्तुमागमिष्यन्तौ दम्पती चुम्बनायनविधौ संवर्धयितुं
भवती एव प्रभवतीति बहुशस्तामनुरोधयन्ती सा चाऽऽदृश्यत पत्नीमुखेन मामपि 'पितुरभावेऽपि ये हि गुरुजनाः शिशुमिमं पितृवात्सल्येन पोषितवन्तस्ते
पुनस्तमेव गृहस्थजीवने प्रविशन्तं शुभाशीराशिभिः कथं न संवर्धयेयुरित्यादि वाक्यैः
सा तथा चाग्रहीतवती यथाऽहं व्यस्तजीवनेऽपि वैवाहिक - शोभायात्रायां वरेण सह गन्तुं
स्वीकृतिपरोऽभवम् ।
इममनुरोधं स्वीकुर्वाणोऽहं
स्वगृहिणी- सम्मति-पुरस्सरं वधूमुख निरीक्षणाय स्वर्ण-कर्णिकां वरस्य च संवर्धनाय
अङ्गुलीयकं प्रस्तुतीकृत्य तिथि सूचनां प्रतीक्षमाणश्चाऽभूवम् ।
एवं हि सा मनोरथानां शतमारूढेव,
भविष्यदानन्दतरङ्गे प्रवाहितेव दिनानि व्यतियापयति स्म । किन्तु
हन्त ! तद्दिनं दूरतो दूरमेवापसरतीति व्याकुला सा तदुदन्तं सम्प्रापयितुं मां
मुहुर्मुहुरन्वरोधयत् । 'विवाहादौ कालक्षेपो नितरां
भवेत्येवे'त्यहं ता प्राबोधयम् किन्तु हन्त !
मङ्गलोदन्तमनधिगत्य सा ज्योत्स्नामयी तमिस्रा रात्रिरिव मलिनमुखी लोकैरवाऽऽलोकिता।
मम गृहेऽपि तद् भूषणद्वयं मद्गृहिणीसमीपे यथावद् रक्षितमेवास्ते ।
गतो हि वंहीयान् कालः
पुत्रविवाहोपलक्ष्ये मङ्गलाचार-पूरणाय नाऽवतरस्तया प्राप्तः । निरस्तचेता अल्पवचाः
सा सम्प्रति क्दाचिदेव क्वचिदेव लोकैरवलोक्यते स्म। अहं च स्वयं गृहकार्यरतस्तां
बोर्धयतुम् अलब्धावकाशोजातः॥
एतदन्तरे चन्द्रधरः पत्रद्वारा
जननीमसूचयम्, यदिह श्वशुरतातो
विवाहविधेरादर्शितया वरयात्रिकतां निरोधयन्ना- स्ते। अतः पश्चादेव मङ्गलविधिपूरणाय
गृहेऽहमागन्ताहे ।'
तदवगत्य गिरिशिखरात् पातितेव
चन्द्रधरजननी सुकल्पितस्य यवस्पोपरि करकापतनमिव मन्यमानाऽपि सुतस्य सुखसमृद्धये
स्वाभिलाषमर्पयन्ती, गृहदेवतां भूयोभूयो
मनसा मानयन्ती, दिनानि क्षपयन्ती लोकैरालोकि । मयाऽपि
चाऽऽचिन्ति यदिह समागमिष्यतोर्दम्पत्योः पश्चादेव भवतु भव्यो विधिर्भूयसे मङ्गलाय।
दिनानि क्षपितानि न च तावत्र
पुनरावर्तितौ । एतदन्तरे पुत्र-प्रहितं पत्रमेकदा जनन्या समधिगतम् ततश्चावगतं यत् 'समघि 'महादेयो ग्रामवासतो विमुखतां गतायाः कन्यायाः
कृते तत्रैव आवासभवन- व्यवस्थां कृतवानिति तत्र गृहप्रवेशविधौ चन्द्रधरः
स्वयमागत्य मातरं निनीषुरस्तीति ।
ततः प्रभृति वात्सल्यमयी वृद्धा
प्रस्थानौत्कण्ठ्यं वहन्ती वधूसुवासिनीं द्रष्टुमना जातक-मुखकमल-विलोकन - सुखावेशा
निरन्तरमुन्मादिनीव समयं यापयति स्म। वर्षर्ती अश्रुविन्दुवर्षिणी,
ग्रीष्मे हृदयोत्तापसन्तप्ता, शीतर्तौ
सततकम्पितकलेवरा, कालं क्षपयन्ती सा लोकैरवलोक्यते स्म ।
(४)
अथैकदा मदङ्गसङ्गिनी समुल्लसितेव
मत्समीपमागत्य पत्रमेकं वाचयितुं मामिङ्गित्तवती । मातुर्नामतः प्रहितेऽत्र पत्रे
पुत्रश्चन्द्रधरः सूचयति - तव पुत्रवधूर्नवावासे नवजातशिशुमङ्के निघाय गृहप्रवेशं
कृतवती । सम्प्रति नवप्रसूतेयं ग्राममागम्य त्वां प्रणन्तुं न समर्था ।
दुर्बलस्वास्थ्यतया च तया न पुनः प्रभवति चारुतया शिशुं पालयितुं
गृहकर्मसञ्चालयितुं चैकाकिन्या। त्वमपि पौत्ररत्नमुखं दिदृक्षुः पुत्रवधूं च
शुभाशिषा संविवर्धयिषुश्च भवेः । अहं चातः समीहे स्वयमागत्य सपदि त्वामिहाऽऽनेतुम्
किन्तु समयसङ्कोचतो नाहं पुनरवकाशं लभे । अतः कञ्चन जन सहगामिनं नीत्वा त्वमेव
चेदाऽऽगच्छेस्तदा शिशुपालने गृहप्रबन्धने चेहमहत् सौलभ्यं भवेदिति ।'
पत्न्या रुचिमनुसृत्य चाहं
तत्कालमेव निजं कृषिकर्माणमेकं सहगन्तारमादिश्य सदयः प्रयोजनविशेषमुद्दिश्य नगरं
प्रति प्रस्थितः । अपरस्मिन् दिने ततः परावर्तितं मां सहधर्मिणी संसूचितवती,
'यदद्य प्रातरेव चन्द्रजननी पुत्रसमीपंगता । प्रस्थानतः
पूर्वमिहागत्य मां शतशः शुभाशीराशिभिः संवर्धयन्ती, पौनःपुन्येन
अत्रभवन्तं च तत्रागत्य पुत्रं, पुत्रवधूं, जातकं च शुभशिषा संवर्धयितुं पादार्पणेन कृपयाऽनुग्राहयितुं सजलनयना
संप्रार्थ्य प्रस्थिता । अतो लब्धावसरो भवान् तस्यानुरोधं पूरयितुं नूनं दयेत ।'
(५)
अथ कदाचिदेकदा न्यायालयीयकार्यतः
पाटलिपुत्रस्थ उच्चन्यायालये गतवानहम् । अत्रान्तरा तत्र प्रयोजनीयकार्यात्परं
समय-यापनाय परिचितान् बन्धून्, कुटुम्बिनो
ग्रामीणांश्च द्रष्टुमितस्ततो गतागतं कर्तुमहं प्रवृत्तः । सहसा चन्द्रधरजननी
स्मृतिपथमुपागता। पत्नीकृतश्चाग्रहोऽपि मनसि जागरितः ।
पत्र-निहितं नगरवीथी - नाम
अवगतमेवासीत् । तदनुसारमहं निर्दिष्टामिष्टां प्रतोलीमुपगतो जनं कञ्चन
चन्द्रधरमिश्रस्य भवनसङ्केतमहमपृच्छम् । स च मामवोचत 'ननु एको हि मिश्रः समीपस्थे नवे भवने निवसति । प्रायस्तमेव भवान्
अन्विष्यति। ‘आम्’ इति कृते मयि
साङ्गुलिनिर्देशं पुनरसौ वक्तुमुपाक्रमत- ‘आरादेव सुधालिप्तं
सौघं यद् दृश्यते तत्रैव निवसति नवप्रसूतया पल्या सहि मिश्रमहाशयः । मम गृहिणी
तत्र च अचिरादेव कार्यरता आसीत् जानातु भवान्, तस्य वधूः
अतीव तीक्ष्णस्वभावा । सततं हि सा भृत्यवर्गं भर्त्सयन्ती वर्तते । कामपि
परिचारिकां सा चिराम रक्षितुं न क्षमते कार्यरतां मामकीनां गृहिणीं सा अन्यथैव
विरमितवती किमधिकं कथयेयं, वृद्धैका यदा प्रभृति समागता सैव
पाकादिकं कुर्वती, पात्रादीनि परिमार्जयन्ती निरन्तरं
कार्यरता दृश्यते; तामपि सततं कटुवाक्यैस्तुदन्ती' त्यादि बहु भणन्तंवावदूकं तमनाकर्ण्य झटित्यहं पुरः सरो जातः ।
पुरतः 'सी. डी. मिश्रा' इति नामफलकं निरीक्ष्य परिसरं
प्राविशम् तत्र दूरादेवाऽपश्यम्, भवनाङ्गनीये च उद्याने
वृद्धैका वालमेकम् अङ्के निधाय इतस्ततः पुष्पाणि अवचिनोति, शिशुं
च कैश्चित् प्रीतिवचनैरामोदयति शिशुरपि सहज-बालचापल्यात् तदीयं श्वेतकेशं करैः
कर्षयति साऽपि मुहुर्मुहुः किञ्चिद् भणन्ती तं लालयति, हासयति,
स्वयमपि च हसति सोल्लासम् मन्ये, यथा धरा
चञ्चच्चन्द्र मरीचिरो चिरासाद्य उद्भासिता भवति, तथैव
चन्द्रश्च विस्तृतगगनवितानमवाप्य भासमानः । दृश्यमीदृशं दिष्ट्वैव दृश्यतेतमाम्।
कियते क्षणाय स्नेहबन्धमिमं हृदये
गोपायन्त्रहं यावदेव द्वारि स्थितां आह्वान घण्टिकां वादयामि तावदेव
इतश्चन्द्रजननी शिशुसहिता धावन्ती विलोकिता, ततश्चान्तर्भवनात्
चन्द्रधरः पत्नी सहितो बहिरागतः ।
अहं
च प्रणमन्तौ तौ युग्मदम्पती शुभाशीर्भिः संवर्धयन्त्रब्रुवम्- 'इयं हि त्वज्जननी मामनेकधा आगृहीत; निजं चन्द्रधरं
गृहस्थजीवने स्थितमागत्य पश्यतात्- निजम् आरोपित तरुं लतावृतं पुष्पफल-संभृतं च
शुभाशीर्वृष्टिभिः संवर्धयतात्।' इत्यहमनुरोधितः समागतोऽस्मि
तव भाग्यं वर्धिष्णुतां यायात्, वधूः सौभाग्यवती भूयात्,
बालश्चायं चिरं जीवतात्।
'इयं हि सर्वाधारभूता 'सर्वंसहा' जननी स्नेहसुधाधारया सततं प्रेयसे श्रेयसे
च युष्मान् स्नपयतात्।'
'सर्वंसहा' इति शब्दप्रयोगो मन्मुखात् सहसैव सञ्जातः
। प्रायः दम्पती तत्तात्पर्यमवगच्छन्तौ सर्वंसहां जननीं प्रणन्तुं नतशिरसौ सहसा
अजायेताम्।
गुरुमहाशयस्य वचनं सहसा
स्मृतिपथमुपगतम् अद्य सद्यः प्रयोग- प्रसङ्गतस्तात्पर्यार्थः स्वतो व्यक्तीभूतः।
कोऽदात् कस्मा अदात्
लेखकः- गोविन्द झा
गृहसेवकत्वेन नियुक्ते राधारमणे
प्रियंवदा प्रासीदत् । यतः प्राप्ते सेवके सा गृहकार्यभारात् सर्वथा विनिर्मुक्ता
गृहस्वामिनीमिव आत्मानं मेने ।
भारतवर्षस्य सुदूरे ईशानकोणे
लब्धजन्मा वासुदेवशास्त्री संस्कृत-साहित्ये एम.ए. पदवीं प्राप्य
वाराणस्यामेकस्मिन् सान्ध्यमहाविद्यालये प्राचार्यपदं भूषयति परन्तु केयं
प्रियंवदा, कथं वा वासुदेवशास्त्रिणा संगता
इति विचित्रमिव आख्यानम् ।
एकदा वासुदेवशास्त्रिणो भवनस्य
एकदेशे निशावसाने एका कन्या उच्चैः क्रन्दितुमारभत तच्छ्रुत्वा वासुदेवशास्त्री
अन्ये च प्रतिवेशिनः सत्वरं तत्रोपस्थिताः । कन्या स्वमातृभाषायां किमपि प्रलपन्ती
सोरस्ताड़म् अरोदत् । वासुदेवः सस्नेहं संस्कृतभाषायाम् अपृच्छत् - 'सुभगे, कुत एवं रोदिषि ?”
तया उक्तम्- 'पिता मामत्र एकाकिनीं परित्यज्य क्वापि निर्गतः । हन्त । इदानीमहं किं
करोमि, क्व यामि ।'
कियन्ति
दिनानि पूर्वं सा तीर्थयात्रा - प्रसङ्गेन केरलदेशीयेन वृद्धेन पित्रा सह अत्र
आगता,
वासुदेवशास्त्रिण आवासस्यैव एकदेशे स्थिता च । कामपि
स्थानीयभाषामजानतोऽस्य वृद्धस्य केनापि प्रतिवेशिना सम्पर्कः कठिन आसीत्। परन्तु
वृद्धः साधारणः पण्डितः, तद्दुहिता प्रियंवदापि स्वगृह एव
पितुरधीतविद्या कथंचित् संस्कृतं वक्तुं समर्था । इतो वासुदेवोऽपि संस्कृतवित्।
अतः सेतुरिव संस्कृतभाषा तेषां संगमाय अकल्पत। अनेन भाषासूत्रेण अचिरेणैव बाढमबध्यत
तेषां हृदयानि।
वासुदेवशास्त्री कक्षे सर्वतो
दृष्टिं न्यक्षिपत् सत्यं, स वृद्धः सर्वाणि
स्वदैहिकानि वस्तूनि आदाय इतः पलायितः । प्रतिवेशिनो नानाविधतर्कवित- कपराः -
किंकर्तव्यविमूढा इव तस्थुः ।
वासुदेवशास्त्री तां समाश्वासयत् - 'सुभगे, मा रुदः सत्वरमेव त्वामहं पितुर्निकटं
नेष्यामि।'
सा पश्यतामेव सर्वेषां सहसा उत्थाय
स्वपाणिभ्यां वासुदेवशास्त्रिणश्चरणौ मध्य एव तस्या हस्तौ जग्राह क्षणं स्तब्धश्च
तस्थौ तत अवदत् - 'सुभगे, स्थिरा भव। एवं परपुरुषावलम्बनं न शोभते ते कुमार्याः ।
प्रतिवेशिनः तां वासुदेवस्य शरणमापन्नाम्
अबधार्य निश्चिन्तं यथागतं निवृताः ततः तां स्वगृहमानतुं तस्या दैहिकानि वस्तूनि
अवचिन्वतो वासुवदेवस्य दृष्टिः भूमौ प्रसारिते एकस्मिन् पत्रे निपपात । एकेनैव
निःश्वासेन समस्तं तत्पत्रं तेन पठितम् । एवं हि तत् पत्रमासीत्।
'आयुष्मान् वासुदेवशास्त्रिन्,'
प्रियंवदानाम्नीम् इमां कन्याम् अहं
ज्ञानपुरस्सरं तव निकटे परित्यज्य अलक्षितः प्रव्रजामि। इतः त्वमेव अस्याः प्रभुः
यथा ते रोचेत, इयं स्वचरणदासीकृत्य रक्षणीया
वा, यस्मै कस्मैचित् प्रदेया वा, अनाथा
असहाया रथ्यामु विसर्जनीया वा । अस्या माता बाल्य एव मृता । मम यत्किंचिद्
वित्तमासीत् तत् सर्वम् अस्या अग्रजानां भगिनीनां विवाहे निश्शेषमभूत् । ममायासेन
न कश्चित् निर्गुणोऽपि पुरुषः निःस्वाया अस्या हस्तम् अङ्गीकरोति वरम् अपरिचितेषु
दास्यं भिक्षाटनं वा, न पुनः परिचितेषु इति विचिन्त्य
अहमेनां तीर्थयात्राव्याजेन दूरदेशमानीय इह पत्यिक्तवानस्मि । मया यदिदं क्रूरकर्म
कृतं तत् क्षन्तव्यं त्वया, क्षन्तव्यं च परमेश्वरेण
अलमधिकेन ।
पत्रं समापयतो बासुदेवस्य शरीरं
संज्ञाशून्यमिव अभवत् । सक्ष विचिन्त्य तां स्वशरणमनैषीत् एवं सङ्गतौ तौ परस्परं
साशङ्कौ कयन्ति नि अयापयताम् ।
एवं व्यतीतेषु केषुचिद् मासेषु
विवाह-लग्न-समयः सम्प्राप्तः ध्वनिवर्द्धकयन्त्र पसारितैः कर्णकुहरविदारिभिः
निद्राविद्रावकैः गीतैर्वाद्यैश्च अहर्निशं परितो व्याप्तं गगनतलम् । बहवः
अदृष्टपूर्वा वयस्याः गुरुजनाश्च मुहुर्मुहुरायान्ति वासुदेवस्य आवासे नूनं
प्रियंवदाया सौभाग्यमपहर्तुकामा इति सा जानाति । तथापि सा तेषां सत्काराय
नानाविधानि पेयानि भोज्यानि च रचयति । प्रियंवदां स्थानीय भाषानभिज्ञां
मन्यमानास्ते वासुदेवेन विश्रब्धमालपन्ति किन्तु सा अनुमानेन कतिपयशब्दानां
परिचयेन च तेषामालापसारं ज्ञातुं नासमर्था । किन्तु नीलकण्ठ इव सा सर्वमेव गरलं
पिबन्ती बहिरलक्षितविकारा अतिष्ठत् ।
अथैकदा तस्या धैर्य शिलापतितं
मृद्भाण्डमिव सहसा भग्नम् । निःशब्दमश्रूणि मुञ्चन्ती गृहसेवकं राधारमणं समुपगत्य
अब्रवीत्-
'राधारमण, जानासि,
प्रभुस्ते प्रभूतयौतुकलुब्धो गुरुजनैर्विवशीकृतश्च अचिरेणैव कांचन
अन्यां परिणेष्यति अहं च दासीरूपेणापि इतः परमिह स्थातुमनधिकारिणी भगिन्या निकटं
प्रेषयिष्ये ये खलु भगिनीपतयो मम पितरं निःस्वमकुर्वन्, ते
कथं मम पालनं करिष्यन्ति ? राधारमण, ब्रूहि,
इदानीं किं करोमि, क्व यामि, कमवलम्ब्य तिष्ठामि......... ?
इत्यैवं विलपन्ती सा गहरितकण्टा
सेवकस्य चरणोपान्ते न्यपतत्
राधारमणः–
‘सुभगे, यावदहं जीवामि तावन्न त्वम् निरवलम्बन
भविष्यसि। समाश्वसिहि' एवं समाश्वास्य वासुदेवशास्त्रिणः
पुरतो भूत्वा सोपष्टम्भम् अपृच्छत्–‘प्रभो, एकं मे संशयमद्य छेत्तुमर्हति भवान्। इयं देवी अनसूया का भवति भवतः ?'
वासुदेवः सक्रोधं प्रत्युवाच-‘सेवकस्त्वम् सेवकेन नैवं प्रश्नः कर्तुमुचितः ।
राधारमणः सविनयं प्रोवाच- 'प्रभो, नायं मम प्रश्नः लज्जया भयेन च स्वयं
प्रष्टुमक्षमा देवी प्रियंवदा एवं पृच्छति' ।
वासुदेवः प्रत्युवाच–‘कथमेवं त्वरयति सा' ? सेवकेन पुनरुक्तम्-‘एवं हि श्रूयते तया यद् भवान् प्रभूत-यौतुक लुब्धः गुरुजनैर्विवशीकृतश्च
अचिरेणैव कांचन अन्यां परिणेष्यति' ।
कशया आहत इव स उच्चैर्व्याहरत् - '
सा कन्या मम हस्ते निक्षिप्ता अस्ति मेऽधिकारः तां वा परिणेयम्
अन्यां वा अस्ति कशिचदन्यः समर्थस्तस्यै शरणप्रदाने ?'
'नूनमस्ति'-- अवाञ्छतोऽपि धारमणस्य मुखात् एतद् वचनं
बाण इव निःसृतम् ।
‘तर्हि आयोजय विवाहोत्सवं श्वः
द्रक्ष्यामि, कः कस्या हस्तं गृह्णाति ।'
वासुदेवः सत्वरं स्वकक्षं प्रविश्य
द्वारं प्यधात् त्रयोऽपि मूकाः किञ्चिदप्यवधारयितुं न शक्नुवन्ति ॥ प्रतिवेशे
ध्वनिवर्धनयन्त्रे विवाहस्य वैदिको मन्त्र उच्चैः उद्घोष्यते-
कोऽदात्,
कस्मा अदात्,
कामो दाता,
कामः प्रतिग्रहीता ।
कोऽदात् कस्मा अदात्........ ।
कः सुखी?
लेखकः-
जयमन्त मिश्रः
आसीन्निदाघस्य मध्याह्नः।
प्रचण्डमार्तण्डस्य प्रखर किरणैः समुत्तप्ता वसुन्धरा जाज्वल्यमाना ज्वालामुखीव
ज्वलन्ती आसीत् । मरीचानां चाकचिक्येन चक्षुः चतसृभ्योऽपि दिशाभ्यः पृथगेव
रक्षितुं स्वं कनीनिकान्तर्गतमिवाकरोत् पितुः पर्वतात् पत्युः पारावाराच्च
परित्यक्ता पयस्विनी शुष्कतामधिगम्य स्वं नाम अनन्वर्थयन्ती विरहिण्या वेणीव
तनुतामादधानासीत् मार्तण्डस्यप्रचण्डोद्दण्डशासनेन न केवलं चेतना अचेतना अपि भीताः
पीडिता आसन् मन्ये, तस्मादेव भयात्
छाया स्व-स्वामिनश्चरणयोरन्तराले संसरन्ती स्वं रूपं गोप्तुकामासीत्
कतिपयानां-कूपानां पुष्कराणाञ्च जलं रसातलं गन्तुं प्रयतमानमासीत् द्विचतुराणामेव
सुचरितानां कूप-तडागाः कथंकथमपि स्वकीयं पानीयं परिपातुं यतमाना आसन् ।
तस्मिन्नेव एकस्मिन् नैदाघे दिवसे
आतपोत्तापभयात् निष्कम्पे मौनव्रतिनिपवने प्रसारितालकतरे तरलायमाने राजमार्गे
एकवादन समये एको भारवाही वैवधिकः नग्नचरणः नग्नशरीरः नग्नशिराः सार्द्धरवारीक
भारमुद्वहन् ततएव राजमार्गात् आगच्छन्नासीत् । उपनगरं कियद्दूरम् राजमार्गः
सालकतरः सन् कापथायमान आसीत्, यत्र तापात्
तरलतरं द्रवीभूतं तदलकतरद्रव्यं पथिकपादं स्पृशदेव तत्संलग्नं नेच्छतिस्म तं
विहातुम् । ततः परं वालुकामयोऽयं मार्गः, यत्र पदातिनां
पद-विक्षेपः अक्षेमकरः आसीत्।
‘रविरपि न दहति तादृक् यादृग्दहति
वालुका-निकरः ।
अन्यस्माल्लब्धपदो नीचः प्रायेण
दुःसहो भवति ॥'
इत्याभाणकः,
मन्ये, एतन्मार्गस्यैव केनापि पथिकेन आभणितः
सन् प्रचलितोऽभवत्। सच वैवधिकः कथंकथमपि तं दुरध्वानं पारयन् अग्रेसरन् उपमार्गं
विलसन्तं सघनच्छायमेकं वटवृक्षं पुरतोऽवलोक्य तस्य शीतले तले समायातः । अत्रायं
वटवृक्षः मार्तण्डस्य प्रचण्डं प्रतापं समवरुध्य क्लान्तं पान्यं शीतलच्छायया
सानन्दं कुर्वन्नासीत् । अत्रत्यं वातावरणमपि प्रशान्तमासीत् । यदाकदाच
तद्वृक्षस्थाः पक्षिणः पक्षान् समवधूय स्वकीय सद्भावं सूचयन्त आसन्। स च वैवधिकः
स्कन्धाद्वारमुत्तार्य तरुमूले संस्थाप्य अङ्गप्रक्षालिकया धर्मं प्रोञ्छन् शरीरं
च व्यजन् तरुतले उपाविशत् भारान्मुक्तः शीतलवटच्छायायां समुपविष्टः शुष्क-स्वेदः स
किमपि अपूर्वं सुखमन्वभवत् । प्रायेण तार्किकाः दुःखाभावरूपेऽपवर्गे ‘भाराद्यपगमे सुखी अहं संवृत्तः' इति दृष्टान्तेन
ईदृशमेव सुखं कल्पन्ते तत्रोपविष्टः स वैवधिकः एवं चिन्तयति स्म - स जनः कीदृक्
सौभाग्यशाली यो हि सोपानत्कः सच्छत्रः सन् अस्मिन् पथि चलति । एकं भाग्यं ममापि
यत् स्कन्धे भारः, पादयोः स्फोटः, पटरहितोदेहः
। पावकादपि तप्ततरा इयं वालुकामयी भूमिः पादौ नितरां दन्दह्यते । एवं विचारयन्
अङ्गप्रक्षालिका प्रसार्य वामबाहुमेव मस्तकोपधानं विधाय तत्र शरीरमपातयत् ।
अजानन्नेव झटिति कुतोऽपि समागताया निद्राया वशंगतः अस्वपीत् ।
तस्मिन्नेव समये एकः अपरोजनस्तत्र
द्विचक्रादुदतरत् । स स्वरूपेण पञ्चाशद्वर्षीय इव, वेशेन साधारणजन इवासीत् । तस्य स्थूलसूत्रं धौतवस्त्रं स्थूलं परिधानं,
पुराणं पादत्राणं, जर्जरीभूतं द्विचक्रञ्च
मध्यमवर्गेऽपि तस्य मध्यमकोटिकतां संसूचयन्ति स्म । स च वामहस्तेन
द्विचक्रमवलम्ब्य दक्षिणकरधृतवस्त्र खण्डेन स्वेदं प्रोञ्छन् तस्मिन्नेव वट-तरु-तले
अतिष्ठत । शयानं तं वैवधिकं अवलोक्य शयितुमना अयमपि तथैव स्पृहयति स्म । परन्तु
तस्य मनः बुभुक्षया पिपासया च अतीव खिन्नमासीत् कार्यं समाप्य कार्यालयादयं
निजगृहं गच्छन्नासीत् । इतः स्थानात् तस्य गृहं गव्यूतिमात्रमासीत्। एतस्य साधारणं
परिधानं प्रत्यहंकार्यालयाद् गृहागमनञ्च तस्य आर्थिक विपन्नतायामपि नैतिकतां
संसूचयति स्म । एकवादनपर्यन्तं कार्यालये सपरिश्रम-कार्य-सम्पादनेन स तथा तद्दिने
परिश्रान्तिं नान्वभूत् यथा स्वकीय दोषाभावेऽपि प्रधानलिपिकस्य वाग्वज्रप्रहारेण
ग्लानिमन्चभूत् स मनसि विचारयति स्म -
प्रधानलिपिकः स्वमनोविकारं मयि वमति
स स्वगृहिण्या प्रदर्शितं कोपं मय्येव प्रकटयति इदानीन्तने काले तस्य लिपिकस्य
जीवनन्तु एतद्भारवाहकस्य जीवनादपि हीनतरं यो हि उत्कोचमगृह्णानः न तु परिवारं
पोषयति,
नैव च तं प्रसादयितुं शक्नोति, न च चाटुकारेण
मिथ्याप्रलापेन वा प्रधानलिपिकं तथा कार्यालयाधिकारिणमाराधयितुं शक्नोति कीदृशोऽयं
समयः ! नेदानीं नैतिकतायाः प्रशंसा, नापि परिश्रमस्य कोऽपि
पुरस्कारः । अहन्तु परिश्रमं कुर्वन् पानीयमिव स्वेदं परिवाहयन् जीवनं कथंकथमपि
यापयामि । अन्ये च चाटुकाराः विनैव परिश्रमं पदे, वेतने
प्रतिष्ठायाञ्च परितो वर्धन्ते वामतो दक्षिणतो द्रव्योपार्जनं कुर्वन्ति पदोन्नतिं
च प्राप्नुवन्ति । को हि करालः कालः समागतः। मत्तोऽयं भारवाहकः श्रेयान्, योहि स्वबुद्धि-परिश्रमानुसारं पारिश्रमिकं लभते नायं कस्यापि दुर्वचनं
शृणोति नापि च ग्लानिमनुभवति न काङ्क्षति पदोन्नतिम् नाशङ्कते पदावनतिम्।
कीदृशोऽयं निश्चिन्तीभूय अङ्गप्रक्षालिकोपर्येव गाढं स्वपिति वयं कथमेवं
शयिष्यामहे? वयन्तु जनाः किं कथयिष्यन्तीति परीवादात् बिभीमः
। अयन्तु यथा लोक एव नास्ति येन जनाद् बिभीयात् । एवं चिन्तयन् स तरुमूले
द्विचक्रं संस्थाप्य लघुजलपात्रं वहिरादाय समीपस्थात् जलयन्त्रात् पानीयमानीय
यथेच्छं पीत्वा च पुनस्तत्रैव तरुमूले आयातः ।
तदानीमेव तत्र एकं वाष्प-यानं
समागतम् । ततः एकश्चत्वारिंशद् वर्षीयो जनः उदतरत्। अयं स्वरूपेण सुन्दरः
नवीनवेषेण आधुनिक- आसीत् ग्रीष्मकालेऽपि एतस्य सहस्रादप्यधिकस्येव परिधानमासीत्
उपानहावपि अनुमानेन त्रिचतुरशतरुप्यकेभ्योन्यूनस्य राशेर्नास्ताम् दर्शनेनैवायं
समृद्धः परिलक्ष्यते स्म। अयं स्वयमेव यानं चालयन् आगत आसीत् । चालकः पश्चाद्
भागेऽपि नासीत्। एतस्य यानं पानीयं विना तत्रावरुद्ध गतिकमभूत् । इतः परं
कियद्दूरं गन्तव्यमासीत्। अयमपि तस्मादेव न्यायालयात् आगच्छन्नासीत् यत्र एकस्मिन्
गम्भीरेऽभियोगे स्वकीयैः वाक्कीलैः वार्तां कृत्वा अधिकारिणः अनुकूलयितुं
व्यवस्थां-विधायापि स चिन्तित आसीत् । तस्मिन्नभियोगे पराजयेन न केवलं तस्य धनस्य
हानिरासीत्, अपितु पूर्वपुरुषैरुपार्जितस्य
मानस्य मर्दनस्यापि ग्लानिरासीत् समाजे यदि सम्मानं नास्ति किं जीवनेन दर्पो
नास्ति किं घनेन? ये जनह्यः तस्य दृष्टौ मनुष्यानासन् ते एव
श्वस्तस्य मानमर्दनं कर्तारः ये हि एतस्य दययापूर्वं जीवनं यापयन्त आसन् ते एव
एतस्य समक्षम् अङ्गुष्ठं दर्शयिष्यन्ते । एतस्य साहाय्यं विना पूर्वं येषां
विवाहादि किमपि कार्यमसंभवमासीत् ते एव एतेन सह प्रतिस्पर्धा करिष्यन्ते इत्यादि
मनोभावै- स्तस्य समृद्धस्य मनः आन्दोलितमासीत् ।
ततोऽपि कठिनतरा समस्या तदानीं
समक्षे आसीत् जलप्रदानस्य किमयं स्वयमेव पानीयमानीय याने दास्यति ?
किन्तु द्विचक्री लिपिकस्तु एनं परिचिनोति । स किं कथयिष्यति ?
पानीयमानेतुं लिपिकं कथम् आज्ञापयिष्यति ? तत्रापि
अयमस्य विरोधिदलेन सहाधिकां सहानुभूतिं रक्षति । किमयं जलार्थं शयानं तं भारवाहकम्
उत्थापयिष्यति ? समयस्तु अधुना विपरीतः । यद्यस्मै तन्त्र
रोचेत? द्वित्राणि रूप्यकाण्यपि यदि ग्रहीतुं नाङ्गीकुर्यात्
? समृद्धस्यास्य मनसि इत्थं विचार-धाराप्रवहमानासीत् ।
पुनरयं विचिन्तयति -‘किमयं वैवधिकः नास्ति मत्तः पटीयान्
ज्यायान् वा योहि स्वेनैव हस्तेन निःसङ्कोचं सर्वं कार्यं सम्पादयति ? यदैव यत्रैव इच्छति मातुः प्रकृतेः क्रोडे स्वपिति नायं धनापहरणमाश्ङ्कते,
न वा मानमर्द्दनाद् बिभेति। नवायमद्यआकाशमारोहति न च श्वः पातालपतनं
सम्भावयति । दिवसे कार्य करोति परिवारेण सह मिलित्वा खादति, निशीथे
च आरमति नास्ति चौराद्भयम्, नापि च लुण्ठाकात् साहसिकाद्वा
भीतिः मम समृद्धिः मम शान्तेरशान्तेर्वा कारणम् ? पूर्वपुरुषैरुपार्जितं
मिथ्याभिमानं यदुद्वहामि तत् किं समुचितम् ? स्वीयमपि कार्यं
स्वयं कर्तुं यन्न प्रभवामि तत् किं समुचितम् ? वस्तुतो
मदपेक्षया अधिकः सुखी स शयानो भारवाहकः स च मामेवावलोकयन् द्विचक्री लिपिक: ।'
समृद्ध महोदयस्य तदानीन्तनीं
मनोदशां लिपिकः प्रत्यक्षमकरोत् । स यानसमीपमागत्य अभिमानिनो धनिनः कृत्रिमं
निषेधात्मकं वचनं शृण्वन्नपि पानीयमानीय याने पूरयति स्म । पारिश्रमिके धन्यवादं
गृहीत्वा प्रचलति स्म । ततो यानमपि प्रचलितम् तद्ध्वानेन वैवधिकः विगतनिद्रः
गन्तुं प्रचक्रमे। स धनिकस्य लिपिकस्य च भाग्याय ईर्ष्यन् वाम-स्कन्धे वीवधमादाय
द्रुतं प्रचलितः । एकः अपरस्य भाग्याय ईर्ष्यन् लिपिकः द्विचक्रम्,
धनिकश्च यानहस्तचक्रम् अचालयत् ।
कुण्ठा डाकिनी
लेखकः-
श्रीदेवीदत्तशर्मा चतुर्वेदः
मावलीपत्तनाधिपत्तिः
श्रीरायकृष्णसिंहः स्वभावगम्भीरो विद्वाँश्चासीत् । मावलीपत्तनं हि परितो
योजनद्वयमिते पर्वतप्रान्तदेशे वसतिरेका। प्रायशस्त्रिंशत्-
सहस्रमानवानामत्रासीन्निवासः । पत्तनाधिपतिना रायकृष्णसिंहेन वार्षिक- आयरूपेण
लक्षद्वयात्मकं धनमितः प्राप्यते । मध्ये पत्तनमस्याधिपतेर्विशाल:
सुमनोहरश्चास्त्येकः सौधः । सेवकानुसेवकैर्नानाविधवाहनैः,
अश्वैः, गोमहिषी- भिश्च परिवृतो रायकृष्णसिंहः
समृद्धिमानासीत् । मावलीपत्तनं चैकतो हरितहरितेनोच्चतरेण पर्वतेन समावृतमन्यतश्च
पर्वतं संस्पृशतैकेन महता सरसा सुशोभितं कामप्यनन्यकमनीयतां धत्त सरश्चैतत्
परितोऽपि योजनमितविस्तृतं, फुल्लकमलयुतं नानाविधजलचरयुतं च ।
न केवलं मीनानामेवात्र सरसि निवासः नक्रा अप्यत्र प्राप्यन्ते । मावलीपत्तनतः
विंशतिक्रोशान्तराले वर्तमानस्य महाजनपदस्य धनिनो यदा कदा रायकृष्णसिंहस्याज्ञां
सम्प्राप्य मकरमृगयार्थमत्र समागच्छन्ति । पर्वतप्रान्तभागत्वात्
सरसस्तटवर्तित्त्वाच्च सुप्रसिद्धिमाप स्थानमेतत् । प्रजाश्चात्रत्या
रायकृष्णसिंहमनुरक्ता सुप्रसन्ना च । स्वयं कृष्णसिंहश्च प्रजाजनैरस्ति सन्तुष्टः
।
सर्वतः समृद्धिमापन्ने रायमहोदयस्य
जीवने एकैव रिक्तता आसीत् । पञ्चपञ्चाशद्वर्षदेशीयस्याप्यस्य नासीत् सन्ततिः ।
रायमहोदयस्य विवाहद्वयं सञ्जातम् पूर्वमहिषी तु विवाहाद्दशवर्षानन्तरं दिवंगता,
नितान्तं सन्तानविरहितैव। ततश्च परिजनवर्गस्य हठप्रार्थनापरवशेन
रायमहोदयेन द्वितीय उद्वाह आरचितः । एतद्विवाहानन्तरमपि बहुवर्षाण्यतीतानि। परं
नाभवत्सन्ततिलाभः । सन्ततिप्राप्तये च यज्ञयागदिकं, देवपूजनम्,
ग्रहयागः, तान्त्रिकमनुष्ठानमित्यादि नानाविध
उपायः प्रचलति स्म। एको विद्वान् मैथिलस्तान्त्रिकः सदानन्दझाप्रत्यहं
सौधस्यैवैकस्मिन् प्रकोष्ठे भगवतीं प्रतिष्ठापनाद्युपचारै: पोडशैः पूजयति स्म ।
अथ देवतानां प्रसादः समजनि राजमहिषी
प्रासूतैकं सुन्दरं कुमारम् एकवर्षं यावत् बालस्यास्य नानाविधरक्षणोपायान् साधयन्
रायमहोदयो वालं संरक्षितवान्। जन्मकाले चातिसामान्यतयैव जन्मोत्सवः
स्नान-सूर्यपूजादि- भिरत्यावश्यककार्यजातैरेव समापूर्यत नातिसमारोहेण कश्चन
उत्सवप्रबन्धो विहितः । अत्रासीन्महत् कारणम् ।
ग्रामे हि कुण्ठाख्या नितान्तं
भयानकरूपैका वृद्धा प्रतिवसति या हि सायं प्रातर्मध्याह्ने वा ग्रामे यत्र यत्र
मलिनवेशधारिणी, मुक्तमूर्धजा, आरक्तनेत्रा, दन्तान्दर्शयन्ती यदृच्छया विचरन्ती
विलोक्यते तद्दर्शनसमकालमेव सुवासिन्यः स्वीयान् बालकानङ्के निधायातित्वरया
स्वगृहमाविशन्ति स्वगृहं यदि दूरे स्यात् तर्हि समीपस्थस्य गृहस्थस्य कस्यापि
गृहमाविशन्ति । कुण्ठा डाकिनी, कुण्ठा डाकिनीति किशोरकाणां
रवेण तदानीं समपूर्यत ग्रामः ।
श्रूयते हि कुण्ठाया विषये -
वैकुण्ठीति नामिका सैषा काचन राजपरि- वारस्यैव योषिदासीत् सप्तदशवर्ष एवेयं वयसा
विधवा सञ्जाता। परलोकगतस्य भर्तुः, मासद्वयानन्तरमेवास्या
एकः पुत्रः समजनि, इति पत्युर्विरहजं महच्छोकं दधानापीयं
पुत्रलाभेनात्मानमुपलालयति स्म बालं प्रेम्णा पोषयन्ती च कालं सुखेन यापितवती।
शरीरकान्तिरस्या मनोहरा, वर्णो गौरः, सुन्दरीति
वक्तुं युज्यते। राजपरिवारसदस्यत्वात्, अकाल एव च दुःखसागरे
वैधव्यरूपे पतित्वाच्चेयं सर्वस्यापि ग्रामवासिजनस्यासीद् दयापात्रम् सर्व
एवास्यां सहानुभूतिं समादरं च दधते स्म । बालपोषणे दत्तचित्ताया अस्याः कथञ्चित्
समभवत् कालक्षेप: परं हन्त दैवेन तदपि न सोढम्। शिशुरपि वर्षद्वयानन्तरमेव सहसा क्रूरेण
कालेन कवलित इत्यहो दुःखगिरिरेवापतितः शिशोर्मृत्युसमकालमेवैषा भ्रान्तचित्ता
प्रमत्ताऽभवत् । मृतं शिशुं कराभ्यां धृत्त्वाऽऽट्टहासं विमुञ्चन्ती सैषा गृहात्
पलायन्ती, ग्रामे विचरन्ती सम्भ्रान्तैर्ग्रामजनैः कथं कथमपि
गृहीता । मृतः शिशुश्चाङ्कादस्या आच्छिद्यान्तर्भूमौ समाधिं नीतः तत आरभ्यैवेयं
भ्रान्ता, प्रमत्ता मुक्तमूर्धजा ग्रामे यत्र तत्र विचरन्ती
प्रायश: पञ्चवर्षाणि ग्राम एव निर्वाहयति स्म। यस्मात् कस्माद् गृहाद्
यदप्यशनादिकं प्राप्यते तदेव गृह्णाति स्वीये राजपरिवारे न कदाचिद् गच्छति,
ततश्च किमप्यशनादिकं न कदापि स्वीकरोति। ग्रामवासिजनस्तु दयापरवश
एवैनां भिक्षादानैः पोषयति किशोरकाणां बालकबालिकानां च कृते सेयं क्रीडनकमभवत्
कुण्ठा कुण्ठेति समाह्वयन्तः, तां हसन्ति, आक्रोशन्ति, धूलिक्षेपादिकं तां प्रति समाचरन्ति,
इयं च ताननुधावन्ती सर्वान् वो भक्षयिष्यामीत्युच्चैर्वदति स्म ।
एकदा च श्रुतं कुण्ठा ग्रामात्
क्वचिद् गतेति । ततः कोलाहलविरहितो ग्रामः शून्य इव प्रतीयते स्म । ततश्च श्रुतं
क्वापि वनान्तरे कुण्ठा केनाप्यघोरिणा सिद्धेन सम्मिलिता,
तस्य शिष्यत्वमापन्ना । तेन हि अघोरिणा सिद्धपुरुषेण
विक्षिप्तताऽस्या अपनीता, कान्यपि वर्षाणि स्वपार्श्वे
रक्षिता, तन्त्रादिसाधने शिक्षिता। विशेषतश्च श्रूयते स्म,
मृतशिशूनामामकलेवरसेवनक्रम अनया विज्ञात इति । अथ गतदशवर्षेभ्य इयं
पुनर्ग्रामे समागता । आगमनकाले विलोक्यते स्म, भ्रान्तत्वमस्या
नासीत्, परं सौन्दर्यमस्यास्तिरोऽभवत् गौरो वर्णश्च नष्टः,
तत्स्थाने ताम्रवर्णः सञ्जातः। मलिनवेशधारिणी, मुक्तमूर्धजा चास्त्येवेति सर्वथा मौनालम्बना ग्रामस्यैकदेशे
वृक्षाधस्तात्तिष्ठन्तीयं ग्रामजनैः प्राप्ता । अथ तत्रैवैका पर्णकुटी निर्मापिता
लोकैस्तत्रैवेयं निवासमकरोत् ।
समतीतः कश्चन कालः । परं ग्रामे
भयमेकमागतम्। अल्प वयस्काः शिशव अकाल एव मृत्युमुपयान्तोऽधिकसंख्यायां दृष्टाः,
ग्रामे घोष इव सञ्जातः, ‘कुण्ठा डाकिनी'
अस्ति। अनयैव शिशवो हन्यन्त इति । परं प्रत्यक्षतस्तु न किमपि
विलोक्यते, केवलमेतदेव श्रुतं यद् अल्पवयस्कं कमपि शिशुं यदि
कुण्ठालोकयति, दर्शनानन्तरमेव स शिशू रक्ताभावमापन्नः क्रमशः
क्षीयते, द्वित्रदिनानन्तरं च पञ्चत्वमापद्यते । एतदेव कारणं
'यत्' 'सुवासिन्यस्तां
श्रुत्वैवागच्छन्तीं स्वकान् बालानङ्के कुर्वन्त्यो गृहमाविशन्तीति । अपवादभीतेन
रायकृष्णसिंहपरिजनेनापि एकवर्षं यावत् तादृश: प्रबन्धो विहितः यत् सौधपार्श्वेऽपि
कदाचित् कुण्ठा न समागच्छेदिति ग्रामे शिशूनां बहु संख्यायां मरणं चावलोक्य
कुमारस्य जन्मकाल उत्सवादिकं च नाऽकरोत् ।
दिनद्वयानन्तरं कुमारस्य
प्रथमवर्षपूर्तिरभिनववर्षप्रवेशश्च भविष्यति इदानों रायमहोदयस्य
परिजनैर्गृहसदस्यैर्विशेषतश्च कुमारजनन्या श्रीरायमहोदयः प्रार्थितो यत्—जन्ममहोत्सवः कुमारस्य महता समारोहेण सम्पादनीयः परमेश्वरकृपया
चरमेऽस्मिन् षष्टिवर्षदेशीये वयसि कुमारोऽयमुपलब्धः सर्वेषां व्यवहारिजनाना-
माह्वानेन, भोजन-पान- विनोदादि-सत्कारेण च सम्मानयित्वा
समादरणीयाना- माशीर्वचोभिर्वालो राय अलङ्करणीय इति । सोल्लासं स्वीकृतोऽयं
प्रस्तावो रायमहाशयेन। मन्त्रिणमाहूय सामाज्ञप्तम्, उत्सवसम्भारः
सम्भूयतामिति। महानगरे टेलीफोनयन्त्रद्वारा सर्वे व्यवहारभाजः प्रियजना
आहूयन्तामिति च ।
समारब्धो
जन्मोत्सवसम्भारसङ्गठनव्यापारः सेवकाः कार्यनियुक्ता यत्र तत्र परिधावन्ति अनेके
सेवकाः सौधमार्जने संलग्नाः केचन सौधपरिलेपने सौधसीमान्तर्गत एकस्मिन्
महन्महानसप्रकोष्ठे नगरादाहूता: पाचका विविधानि मिष्टान्नानि क्षारान्नानि च
निर्मापयन्ति। नगरस्य प्रसिद्धा नर्तकी समाहूता अनेके गायका नर्तका,
गायिकाश्च समागताः तेषां तासां चावासः सौधसीमान्तर्गत- महदुधाने
कार्पटिकगृहेषु (टैण्टेषु) विहितः क्रमशो दिनद्वयं क्षणादिव व्यतीतं कार्यरतानां
मावलीपत्तनवासिजनानाम् ।
अद्य तत् शुभदिनम् अपूर्वैव काचन
शोभास्ति-अद्य पत्तनस्य सर्वोऽपि ग्रामः सम्यक् मार्जितः,
प्रत्येकं रथ्यासु जलसेचनं कृतम् उदपूर्णाः कुम्भा नैकवर्णरञ्जिता
यत्र तत्रोच्चस्थलेषु निहिताः सुशोभन्ते ग्राममुखादारभ्य सौधपर्यन्तं
कदलीस्तम्भनिर्मितानि द्वाराण्यनेकानि निर्मितानि । सुधाधवलितस्य सौधस्य
छविस्त्वन्यतमैव एकवेशधारिणां सेवकानां स्व स्व कार्ये नियुक्तानामनुधावतां
पङ्क्तिं विलोक्य रायमहोदयस्य परमप्रतापस्य कल्पना साकारतां धत्ते ।
सौधस्यैकस्मिन् महत्प्रकोष्ठे महार्हसिंहासनासन्दीनां च व्यवस्था विहिता
उत्सवसम्बन्धी जनस्तत्रैवोपवेशनीयो भविष्यति। सौधद्वारे दुन्दुभिघोषस्तु उषः
कालादेव समारब्धः। रायमहोदयस्य श्यालः श्रीनरेन्द्रसिंहः सपरिजन:: समागतो
भागिनेयजन्मोत्सवे। महार्हाणि चानीतान्यनेनोपायनानि । पत्तनं प्राप्तेनानेन यदा
जन्ममहोत्सवस्य सुमहान् सम्भारोऽवलोकितस्तदा रहसि तेन स्वभगिनी प्रोक्ता-
'भगिनि ! यदि पुना
रायमहोदयस्यापत्तिजनकं न स्यात् तर्हि उत्सवस्यास्य व्ययभारो मयैव वोढुं शक्यते।
मदीया तादृशीच्छा वर्तते, यदि भवती सहायपरा
रायमहाशयमनुकूलयेदिति ।
'अहं तथा यत्त्रपरा भवामी 'त्युक्त्वा, राज्ञा सेवक आहूतः, आज्ञप्तश्च रायमहोदयेन मिलनसूचनार्थम् । रायमहाशयपार्श्वगतेन राज्ञ्याः
सेवकेनोक्तं दर्शनमभिलषन्ती तत्रभवती भवत् समीपमुपसर्पतीति । श्रुत्वैव रायमहोदयेन
निर्मक्षिकत्वं सम्पादितम् । अथ भ्रात्रा सह प्रविष्टया राज्ञोक्तम्- श्रुतं भवता
ममायं भ्राता किं चिकीर्षतीति ? नरेन्द्रः सविनयं कथितवान्
समादरणीय ! न किमप्यन्यत्, यदि भवतामापत्तिजनकं न स्यात्
तर्हि जन्मोत्सवे निष्पाद्यमानः सर्वोऽपि व्ययो ममैव भवेदिति । रायमहोदयेन
सस्मितमुक्तम्, युक्तं हि भागिनेयजन्मोत्सवे भवतो
व्ययकरणम्-मातुलो भवान्, न काचन हानिः । परमेवं क्रियताम्,
यथा मम सम्मानं रक्षितं भवेत्, भवतामिच्छापूर्त्तिश्च
जायेत्। अद्यैवोत्सवे समागतानां प्राघुणिकानां पुरतो घोषणीयम्, यदुत्सवोऽयं दिनद्वयं यावत् भविष्यति, अद्यास्मिन्नस्माकमेव
व्ययो भवेत्, अग्रिमे दिने च भवताम् । - श्रुत्वा नरेन्द्रः
प्रसन्नः सञ्जातः नववादनात् प्रातरारभ्य एव नगरात् मरुत्तरयानाना- मागमनं
प्रारब्धम् । सम्भ्रान्ता व्यवहारिणः समागच्छन्ति कुमारमातुलः श्रीरायमहोदयश्च समागतानां
सत्करणाय द्वारदेश एवावतिष्ठेते। रायमहाशयेन प्राप्तागमनसत्काराः प्राघुणिका:
श्रीनरेन्द्रसिंहेन प्रदर्शितमार्गाः सुसज्जिते हर्म्यप्रकोष्ठे सम्प्राप्ता
महार्हासनान्यलङ्कृतवन्तः । परः शतानि समागतानि मरुत्तरयानानि ग्रामस्थाः
सम्भ्रान्ता जनाश्च सहैव श्रीरायमहाशयेन आगन्तुकानां सत्कारकरणे दत्तचित्ता
द्वारदेशे समुपस्थिता आसन्। मावलीपत्तनस्य पार्श्वभूतेभ्योऽनेकग्रामेभ्यः
समागतैर्ग्रामवासिजनै: पत्तनमेतत् परिपूरितमिव, न क्वापि
रिक्तं किमपि स्थानं विलोक्यते ।
अथाभिजिद्वेलायां सञ्जात
उत्सवारम्भः वैदिकैर्माङ्गलिकै रक्षापरैर्वेद- मन्त्रैर्वालस्याभिषेको मार्जनरूपेण
कृतः । तन्त्रविदुषा श्रीसदानन्दझा महोदयेनानेकविधं तान्त्रिकमारक्षणं विहितं
बालस्य गणपतिपूजनादिमार्कण्डेयपूजनं यावत् सम्पादितः सर्वोऽपि शास्त्रविधिः
सुवासिन्यश्च यथाविधमारार्त्तिक्यं विहितवत्यः । प्राघुणिकैश्चानेकविधमहार्घोपायनप्रदानै-
राशीर्वचोभिश्च कुमार: समलङ्कृतः। ततश्च विश्रामार्थं बालः प्रापितोऽन्तःपुरे
समागतानां भोजनादिव्यवस्थायां श्री नरेन्द्रसिंहमहोदयेन तादृशो विहितः प्रबन्धः
येन न क्वचित् कापि त्रुटिर्विलोक्यते । सुप्रसन्नः सर्वोऽपि समागतजनः स्वग्रामवासिनामन्यग्रामेभ्य
आगतानां च कृते रायमहाशयेन मन्त्री आज्ञप्त आसीद्यत् कश्चिदपि मम गृहागतः क्षुधितो
न गच्छेदिति सर्वैः सेवकैस्तथा प्रबन्धो विहितो यत् सुखेन सर्वोऽपि जनो भोजनादिकं
प्राप्तवान्। जयकारश्च रायमहाभागस्य ग्रामजनैर्बहुवारं विहितः ।
भोजनसमाप्तावपराह्णकालः समभवत् ।
इदानीं नृत्यगायनादिविनोद आरब्धः। ग्रामवासिभिर्लोकगीतान्युपन्यस्तानि विविधानां
व्यायामकलानां प्रदर्शनं जातम् । ग्रामवासिभिः सामूहिकं नर्तनमुपन्यस्तम्।
तदेतत्सर्वं नागरिकाणां कृतेऽपि विनोदपरं जातमित्यहो ग्रामवासिनां कलाभिज्ञता ।
नगरादागताया गायिकायाः शास्त्रीयं रागगायनं श्रुत्वा तु स्तब्ध इवाभवल्लोकः ।
सुप्रसिद्धाया नर्तक्या नृत्यमवलोक्य तु सभाजन आत्मावस्थितिमेव विस्मृतवान्।
विद्युद्वेग- सवेगाया नर्तक्याः पादक्षेपरीतिमवलोक्य तु चकितचकितो लोकः साधुः
साधुरिति बहुतरमुक्तवान् । अन्तःपुरे च सुवासिन्यो मङ्गलगायनैः समघोषयन्। सर्वतः
सुमहदानन्दस्यान्दोलनमिव सञ्जातम्।
परं हन्त ! मध्ये कोऽयं व्याघातः
समुपस्थितः कुण्ठा डाकिनी, कुण्ठा डाकिनीति
रवेण परिव्याप्तमन्तःपुरम्। अस्मिन्नुत्सवविषये व्यापृतैः सेवकजनैः, मन्त्रिणा, स्वयं रायमहोदयेन वा कुण्ठा विषये न
किमपि विचारितं न च कश्चन तादृशो दृढतरः प्रबन्ध एव तस्या अवरोधाय विहित इति
प्राप्तावकाशा सा कुत्राप्युपलब्धेन चीनांशुकेन मुखमाच्छाद्य, सौधे प्रविष्य, सुवासिनीभिस्तदा विलोकिता यदा सा
दोलाधिगतस्य बालकस्य समीप एव तिष्ठन्ती साट्टहासं प्रोक्तवती, अहह कियान् सुन्दरोऽयं बालक इति ।
सर्वासां पादेभ्यो भूभिः
प्रस्खलितेव कुण्ठेति ध्वनिश्रवणसमकालमेव प्रस्खलन्ती कुमारजननी सत्वरं बालस्य
दोलासमीप आगतवती, दोलासमीपे
तीष्ठन्तीमेनामद्राक्षीत्। सदानन्दझा महोदयश्चान्तःपुर एव तदानीमासीत्, स श्रुत्वैव कुण्ठेति ध्वनिं सत्वरं सदसि यत्र विराजते रायमहोदयः तत्समीपे
गत्वा कर्णेऽकथयत् महाराज ! अनर्थः सञ्जातः, भवद्भिः
सत्वरमन्तःपुरे गन्तव्यमिति । रायकृष्णसिंहः सहसोदतिष्ठत्-अन्तः पुराभिमुखं च
प्राचलत्, मध्ये सदानन्दः पृष्टः, किं
जातमिति। तेनोक्तम् - चीनांशुकेन मुखमाच्छाद्य कुण्ठाऽन्तःपुरे प्रविष्टा, बालकस्य दोलासमीपे बालकं लोकयन्ती तिष्ठति ।
श्रुतिसमकालमेव रायमहोदयस्य हृदये
प्रहार इवाभवत्-कण्ठश्चास्य शुष्कतां गतः। अथ कथं कथमपि प्रयासेन रायमहोदय आत्मानं
द्रढीकृत्यान्तः- पुरे प्रविष्टः । सुचतुरेण तेनैकस्यां स्थाल्यां
मिष्ठान्नफलादिकं संस्थाप्य हस्ते गृहीतम्। कुण्ठायाः समीपे गत्वा च सादरं
प्रोक्तवान्, देवि अहोभाग्यं मदीयं यदत्रभवती
समागतवती । गृह्यतामेतन्मिष्ठान्नं फलानि च शुभाशीर्वचोभिश्च बाल एष सम्भावनीयः । 'आम्, आम्, किमिति नहीति'
उक्त्वा गृहीतं तया, मिष्टान्नादिकं शनै:
शनैश्च सौधाद्विनिर्गता।
परं किमेतत् । बालकस्य मुखं
परिम्लानं, शरीराल्लालिमा गच्छतीव, श्वेतिमा च तत्स्थाने प्रसृतवती तत्कालमाहूतो वैद्यः । प्राघुणिकेषु चैको
द्राक्तर: सिविलसर्जनोपाधिधारी सप्रार्थनं समाहूतो बालकस्य रोगनिदानार्थं सयन्त्रो
दत्तचित्तः समजायत। परीक्ष्य तेनोक्तं रोगस्तु न कश्चन प्रतीयते परं रक्तलोपः
कथमभवदिति न निश्चीयते। अस्तु, 'इन्जैक्शन' ददामि तेन भवेत् कश्चन लाभ इति। वैद्यमहोदयश्च नाडीपरीक्षानन्तरमुक्तवान्
- नास्त्येव कश्चन रोगः, परं क्रमशः क्षीयतेऽयं बाल इति ।
तान्त्रिकैः सदानन्दझामहोदयैश्च विहितोऽनेकविधः तान्त्रिको रक्षणोपायः परं
क्रमक्रमशो मृत्युमुपसर्पतो बालकस्य रक्षायै समर्थो नाभवत् ।
मावलीपत्तनं हि तदानीं दुःखसमुद्रे
मग्नमिव शून्यं प्रतीयते स्म, राजसौधे हि
बालकस्य जननी इदानीमपि मूच्छितैवास्ते । वैद्यद्राक्तरसहयोगोपचारश्च क्रियते
मूर्च्छा व्यपनोदाय, द्राक्तरमहोदयेनोक्तं च प्रातरस्य
मूर्च्छाहानिर्भवित्रीति । सौधस्यैकस्मिन् प्रकोष्ठे रायमहाशयः शोकसंविग्नो
निषण्णः । तत्पार्श्वासने च नरेन्द्रसिंह, मन्त्री, श्रीसदानन्दझामहोदयश्च योऽहि रायमहोदयेऽत्यन्तं कृतस्नेहः। चत्वारोऽपि
जनाः शोकसंविग्ना मौना अधोमुखाश्चोपविष्टाः । नरेन्द्रसिंहमहोदयेनोक्तम्- माननीय
आउत्त, किमेतदभवत्, क्षणैरेव कतिपयैः
सर्वा परिस्थितिरन्यामेव दुःखतरां दशां प्रापिता बुद्धिस्तु ममेदानीमपि घटनामिमां
न स्वीकरोति यत् कस्यापि योषितो दर्शनमात्रेण बालस्य मृत्युरभवदिति मम मनसि तु
वर्तते महान् क्रोधः, यदि तत्र भवतामापत्तिर्न स्यात्तर्हि
डाकिनीमिमां तु कुण्ठां सपदि गत्वा हन्यामिति नन्वेतादृश्या बालघातिन्या वधे
नास्ति दोषः ।
सनिःश्वासं रायमहाशयेनोक्तम्,
मित्र! यदि तस्या मारणेन मृतकुमारस्य जीवनं पुनर्भवेत्तदा तु मारणं
तस्याः समुचितमिदानीमेव सा हन्तव्या, परं निरर्थकं तस्या
वधेन को लाभः ? किमस्ति प्रमाणम्, भवत्समीपे
यत्तयैव बालोऽयं हत इति।
सदानन्दझामहोदयं प्रति
रायमहाशयेनोक्तम्, ननु विद्वन्!
कुतूहलपरवशेन मया जिज्ञास्यते यदिदानीं सा कुण्ठा किं करिष्यति, बालस्य मृत्युरभवदेतावतैव तस्याः कार्यं सम्पन्नमुत् कर्तव्यशेषस्तस्याः
कश्चनावशिष्यत इति
सदानन्दः - अस्मिन् विषये बहुतरं तु
न जानामि,
यत् किमपि श्रुतं तन्निवेदयामि बालस्य मरणमात्रेण तस्या इष्टं
पूर्णमिति तु न वक्तुमुचितम्, यतो हि बालस्य मरणमात्रेण तया
किमपि नोपलब्धम्, अद्यारभ्य त्रिरात्रपर्यन्तकाले मध्यरात्रे
सैषा श्मशाने गमिष्यति, बालस्य शवं गर्तान्निष्कास्य
सिद्धैर्मन्त्रप्रयोगैर्बालं पुनरुज्जीवयिष्यति ततश्चामकलेवरं तं मन्त्रैः पुनः
साधयिष्यति, निजाज्ञापालन- योग्यं संसाध्य पुनः शस्त्रहतस्य
तस्य रक्तपानं करिष्यति, एतावत् पर्यन्तमस्ति तस्याः
कार्यशेषः ।
श्रुत्वा सनिःश्वासं रायमहाशयः
कथितवान्-थादृशी भगवत इच्छेति परं गूढेन केनापि विचारेण रायमहाशयस्य नेत्रयोः
प्रकाशरेखा काचन आगता, नोपलक्षिता केनापि।
तेन हि स्वीयो विश्वस्तः सेवकः श्यामः समाहूतः । तं रहसि कर्णे किमपि कथयित्वा
स्पष्टमुक्तवान्-'श्याम ! ममैतत् कार्यं सम्पत्स्यते चेत्
पारितोषिकप्रदानेन तव तथा पूर्ति करिष्ये यथा जीवने तव न्यूनता कापि न भविष्यति
सर्वमप्येतत्तव साहसिके कर्मण्यवलम्बते'। श्यामः सचरणस्पर्श-
मुक्तवान्-स्वामिन्, पारितोषकलोभो नावश्यकः । न केवलं
मयैवापि तु मत्पूर्वजैरपि तत्रभवतामन्नपानाभ्यामात्मा सम्पूरितः मदीयधमनीषु
भवदन्नप्रभवो रक्तः प्रसरति, शङ्का मयि स्वामिन् नैव
कर्तव्येति' । 'अस्तु, गच्छ, साधय, भगवान् तव
साहाय्यं करोतु' - इति समादिष्टः श्यामो निष्क्रान्तः ।
मध्यरात्रे घोरनिशायां सहायकेनैकेन
सह श्मशानं प्राप्तः श्यामः यामद्वयात् पूर्वं यत्र मृतशिशोः कृते गर्तो निर्मित
आसीत्तत्रैव गत्वा श्यामः सहचरमेकस्मिन् पार्श्वस्थिते वृक्षे समारोढुमादिष्टवान्,
स्वयं चापरत्र वृक्ष आरुह्य तूष्णीमुपाविशत् । स्वभावभयङ्करेयं
श्मशानभूमिरिदानीं घोरनिशायां सर्वतः संस्तब्धेव घोरतरा प्रतीयते
रायमहोदयेनोक्तमासीत्, अद्य कस्यापि घटनायाः सम्भावना नास्ति,
श्वः परश्वो वा किमपि भविष्यति । परं नोपेक्षणीयः कालः, त्वयाद्यारभ्यैव त्रिरात्रं यावत् श्मशानो रक्षणीय इति । तत्तस्य कथनं
महाशयस्य सत्यमेवासीत्, अद्य नक्तं न कश्चित् श्मशान आगतः ।
उषःकाले वृक्षादवतीर्य सह सहचरेण श्यामो ग्राम आगतः ।
प्रात:काले राज्ञ्याः मूर्च्छा तु
निवृत्ता,
परं चैतन्यमाप्तया तया विलपन- पुरःसरं रोदनमेवाङ्गीकृतम्।
अशनपानादिकमावश्यकमपि तया परित्यक्तम् । तदुःखदुःखितो ग्रामवासी महिलावर्गश्च सौधे
समागतः, प्रसृतोऽयं महारोदन- ध्वनिः ।
परमदुःखसम्मिश्रेऽस्मिन् समये नरेन्द्रः सवाष्पः स्वगतमवादीत् – 'हन्त ! मया विचारितमासीत् जन्मोत्सवोऽयं द्वितीयदिने मां पुरस्कृत्य
प्रचलिष्यतीति, को जानीते अद्य वयं रोदनपरा भविष्याम'
। रायमहोदयस्तु नितरां गभीरः स्वप्रकोष्ठ एवोपविशति, न बहिरागतः, न च कश्चन सेवक एव तेनाहूतः । अशनपानस्य
तु कथैव का आवश्यकविनिवर्तनादिकमपि तेन न सम्पादितम्। दिवा कालेऽनेके सम्भ्रान्ता
ग्रामवासिनः समागताः परं केनापि स न मिलितो नालपितश्च ।
व्यतीतः कथमपि दिवसकालः । समागता
सान्ध्यवेला गतदिनमिवाद्यापि शून्यस्तब्ध इव संलक्ष्यते ग्रामवासिजनः । सर्वे
परस्परं विलोकयन्ति तु परं न कश्चित् केनाप्यालपति सन्ध्याकालोऽप्येष यः सर्वेषां
शान्तिदायक: पत्तनवासिनां शान्तिसम्पादको नाभवत् पत्तनाधिपतेर्दुःखेन सहोद्विग्ना
जना स्व स्व कर्मस्वद्य न रमन्ते । शोकसम्मूढा इव सर्वेऽवातिष्ठन्त ।
अथ प्रवृत्ता रजनी श्यामस्तु
गतदिनवत् सहचरेण सह श्मशानाभि- मुखोऽभवत् । उभावपि सतर्कों वृक्षयोरारुह्य
निःशब्दाववातिष्ठताम् क्रमशो व्यतीतः कालः, समागता
घोरा निशा कदाचिज्झिल्लीरवेण कदाचिच्च गोमायु- शब्देन श्मशानशान्तिरियं
व्याहन्यतेऽन्यथा सर्वतः सुस्तब्धं शून्यं घोरतरं प्रतीयते । प्रायशो
द्वादशवादनकाले ग्रामात् श्मशानाभिमुखी निःशब्द छाया ह्येका समुपासर्पत्
क्रमक्रमशः सावधानतया आगच्छन्ती सा बालस्य समाधेः समीप अतिष्ठत् ।
वृक्षोपरिस्थितेन श्यामेनाधो विलोकयता ज्ञातम्, समीपस्थाया
अर्ध- समितायाश्चितायाः अल्पप्रकाशोऽपि तस्य सहायकोऽभवत्। तेन मुक्तमूर्धजा कुण्ठा
विलोकिता, तस्या हस्तगतां कांस्यस्थालीं चापश्यत्
स्थालीपात्रं तया भूमौ स्थापितम् सहानीतया लौहकुद्दालिकया सा बालस्य समधिस्थलं
खनितवती बालकस्य शवश्च तया बहिरानीतः तत् शरीरलग्नां मृदं वस्त्रेण सम्प्रोञ्छ्य,
स्थानं चावमा शवो भूमौ स्थापितः सहानीतेन सिन्दूरेण स्थाल्यां
चक्ररूपेण यन्त्रं किमपि लिखितम् शावरशब्दगर्भितानां केषामपि मन्त्राणामुच्चारणं
सशब्दमुच्चैः कुर्वत्या तया शवस्य मार्जनं विहितम् अथ जीवनमाप्तो बालः शनैररोदीत्।
साट्टहासमुक्तवती, तिष्ठ रे तिष्ठ, इदानीमेव
त्वां तथा शाययिष्यामि यथा न कदापि पुना रोदिष्यसीति बालस्य रोदनश्रवण- समकालमेव
श्यामः शनैर्निः शब्दं वृक्षादवतीर्णः पदशब्दमकुर्वन् कुण्ठायाः पृष्ठदेशे
तयानवलोकितः सम्प्राप्तः, सहचरश्च तथा कुण्ठा तु
स्वपार्श्वस्थानात् तीव्रधारां छुरिकां निष्कास्य, मन्त्रान्
प्रोच्चरन्ती बाले दत्तावधानाऽसीत् । ततश्च सन्तुलिताभ्यां हस्ताभ्यां श्यामेन
स्वोपवस्त्रं कुण्ठायाः पृष्ठतस्तथा निःक्षिप्तं यथा मुखमस्याः सम्यगावद्धम् ।
सहचरस्तु बालं रुदन्तमङ्के कृत्वा ग्रामाभिमुखं प्राचलत्। रक्षकभक्षकयोः
प्रतीतिमापन्नो बालश्च तदङ्क आश्वस्तो जातः केशपक्षे परामृष्टा कुण्ठा श्यामेन
बलात् कुर्वन्ती ग्रामं नीता, अन्येषां सहचरसेवकानां हस्ते
दत्ता । अन्यः सहचरस्तु वालमङ्के कृत्वा द्वारदेशे श्यामं प्रतीक्षमाण आसीदिति
तद्धस्ताद्वालं सङ्गृह्य श्यामोऽन्तःपुरे गतः । उच्चैरुक्तवान्, मातः ! देवि गृहाणैनं मम प्रियतमं भ्रातरमिति । राज्ञी तु विस्मिता
सबाष्पगद्गदं वत्स, वत्सेत्युच्चारयन्ती बालं
सङ्गृह्यालिङ्गितवती । हर्षपरिपूर्णैः स्वाश्रुजलैश्च बालस्याभिषेचनं कृतवती
परमानन्दं प्राप्ता ।
उमा
लेखकः
-श्रीवृद्धिचन्द्रशास्त्री
आसीत्
शारदी राका। सायाह्न एव भगवतः कुमुदिनीनायकस्य सुविपुलं वर्तुलं च विम्बं घनीभूतः
सुमनसामाह्लादराशिरिव पूर्वक्षितिजे समुदियाय यथा यथा पश्चिमक्षितिजोपरि प्रसृता:
कमलिनीनायकस्यारक्ता रश्मयो गगनं पर्यत्यजन् तथा तथा कलापरिपूर्णस्य कलानाथस्य
शीतलाः शुभ्राश्च कान्तिमन्तः किरणा: समस्तेऽपि विहायसि यथेच्छं प्रासरन् ।
स्वयमानन्दाप्लावितो यथासौ चन्द्रो जगदिदमाह्लादयति चिरं च रजन्या साकं निवसति,
तथैव चिरपरिणीतया पाणिगृहीत्या श्रीमत्या उमया मधुयामिनीः
सेवमानश्चन्द्रमौलिरपि दिवसेष्वेषु सुचिरं तस्याः सन्निकट एव स्थितिमकरोत् ।
उभावपि हर्म्यपृष्ठे आस्तां समुपविष्टौ तस्मिन्नेव काले कथाप्रसङ्गेन मन्दस्मितमभाणि
उमया - प्रियतम, भगवत्या गङ्गायास्तरङ्गाः समाह्वयन्तीव मां
स्नेहेन । ते तरङ्गाः, यैः सर्वतः पूर्वं त्वदीयः सुकोमलः
स्पर्शः प्रापितो मत्सविधे ये ह्यावां प्रणयसूत्रे ह्यबध्नन्, येषां च सविधे क्रीडां कुर्वतो: - " को जानीते निभृतमुभयोरावयोः
स्नेहसारम्"। "संवत्सराः व्यत्यगुर्नाथ किन्तु तद्दिनमद्यैव व्यतिगतमिति
प्रतीयते आवाभ्यां कियत्यश्चन्द्रिकाचुञ्चवः सुशान्ता रजन्यः सुरसरितोऽस्या
रूप्यप्रतिमासु रेणुकासु अनीयन्त अहो, कीदृश्यस्ताः समभवन्
मधुराः, अद्य पुनरपि समागता सा मधुमयी शारदी सुकौमुदी।
हृदयवल्लभ, चलाव, किञ्चित् कालं
भगवत्यास्तस्या भागीरथ्यास्तीरे "।
मन्ये,
नैतद् वक्तव्यं यदुमा च चन्द्रमौलिश्चास्तां दम्पती । आसीदनयोः
परस्परमतिशयः प्रेमा। आनन्देनाचलदनयोः सुचारु गार्हस्थ्यम्। गेहेऽभूदा-
भ्यामतिरिक्ता केवलमर्भकद्वयी चन्द्रमौलेर्वृद्धा जननी च । सा हि निवृत्ततर्षा सती
स्वकीये परिणते वयसि भगवन्तं यदुनन्दनमेवाराधयन्ती प्रायेण पूजागृह एव समयाकरोति
स्म ! बालकावास्तां शिशू चन्द्रमौलेर्वेश्म वाराणस्या एकस्यां वीथिकायां
विद्यमानमासीत् । सौभाग्यात् तस्य श्वशुरालयोऽपि तस्यामेव नगर्यां ततो नातिदूर
एवावर्तत।
उभावचलतां गङ्गायां दिशमुद्दिश्य ।
तयोर्गेहादासीद् गङ्गाप्रवाहः किञ्चिद्दूरे । समवालोक्यत जाह्नव्या जगत्पावनी
जलधारा । चन्द्रिकया चमत्कृतायां धवलतमबालुकायामेतौ सुदूरं चलन्तावास्ताम्।
पादतत्रयोः सिकताया मृदुमृदुः स्पर्शोऽतीव सुखद इति कृत्वा उमया स्वकीयौ चपलोपानहौ
गृहीतौ स्वीये करे। मध्येमार्गं चन्द्रमौलेर्मुखकमले स्निग्धां चलापाङ्गां च
दृष्टिं निक्षिपन्ती जगाद उमा– मन्मानसमराल !
अस्याः सुरसरितः शर्करायाः सुकोमलः स्पर्शः कियान् खल्वाह्लादकः !
उत्तरितं चन्द्रमौलिना—चरणौ गुद्गुदयत्ययम् । हर्षातिरेको रोमाञ्चश्चानेन सञ्जायेते।
जगत्पावयित्री श्रद्धास्पदमावयोरियं सुरसरित् । अस्यास्तटे समुपविष्टेनैकाकिना
असकृन्मयका विचारितं प्रिये, यदावां सकलमपि वैवेशिकं
परित्यज्य सुदूरे कस्मिंश्चिदेकान्ते निवसाव अस्यास्तटे, यत्रावयोः
प्रेम्णो न भवेत् कश्चिदीर्ष्यालुः। यत्र भवती प्रेरणां प्रदद्यात्, अहं गीतानि रचयेयम्, उपवीणयाव चावाम्। अत्र
बालुकामये प्रदेशे रजन्यां मदीया सा मनोहारिणी वीणा नानेतुं शक्या। अन्यथा
वीणावादनसुखं चिरमनुभवावः किन्तु तस्याः सुमधुरं स्वरमाकर्ण्य जनाः समापतेयुरित
एवेति मन्ये तेषु बहूनामक्षिणी ईर्ष्यया भवेतां कलुषिते को लाभः ?
"कान्त !" मध्य एव
वार्ताया रसभङ्गं विदधती समुवाच उमा।" अनुचितं न मन्तव्यम् । विचारयामि।
कदाचित् यद्यहं स्मृतिशेषतां गच्छेयम्?" चन्द्रमौलिना सुदृढमालिङ्गय सुचिरं हृदि प्रवेशितासौ । प्रोक्तं च ततः,
'नहि नहि प्रिये, आवामेवमेव निवत्स्यावः ।'
अन्येनैवाभिप्रायेण निवेदयामि नाथ!
मान्यताम् - भवानेव कदाचित् कथाशेषतां व्रजेत् ? अहमेकाकिनी जातैव न खलु तदा। ब्रवीतु, नश्वरेऽस्मिन्
संसारे एवं सम्भवति न वा ?
चन्द्रमौलिना
शिरश्चालनपूर्वकमुररीकृतम्। उक्तं च अघटितघटनास्थलीभूतायामस्यां धरित्र्यां किं न
सम्भवति प्रिये।
स्वामिन्,
भवतः कथाशेषतायां शोकसागरनिमज्जनं केवलं मामकीनमेव । अथवा
विपत्पर्वतस्तदा मय्येव निपतेदिति कृत्वा नु ?
कीदृशीं निष्ठुरतां दर्शयसि
कठिनहृदये ! मया सह तवेदृशो व्यवहारो न कदाचिदनुभूतः ।
स्नेहार्द्रदृष्ट्या समवलोकयन्ती
तमुवाच उमा- प्रियतम जीवनस्य भवन्त्यनेकाः खलु दिशः। न हि सदैव विद्यते पूर्णिमा
कदाचिदमावस्याप्यु- पसर्पति। अस्तु, अहमेवं
कथयन्त्यभूवम् - यदेकस्याभावे दम्पत्योरपरेण किं विधेयम्। जानकीजानिर्न विदध्यात्
परं कदाचिदेवं भवेत्, तदा भवतोऽभावे जानाति भवान् किमहं
करिष्यामीति।
ग्रीवां किञ्चित् पातयित्वा
दीर्घमुच्छ्रवस्यावोचच्चन्द्रमौलि ....... भणतु भवती,
मदभावे किं विधास्यतीति ? उमा वक्तुमारेभे,
भाव, स्वजीवनस्यान्तं न सर्वथा विधास्यामि। न
हि विद्यते आत्महत्यासदृशं मूर्खतापूर्णं निन्दनीयं च दुष्कर्मेह जगति भवता
विलोकितं नु, दिवसेष्वेषु मयका वीणावादने कीदृक्
साफल्यमासादितं भवतः प्रसादात् ।
अवश्यम् अवश्यम्,
प्रिये दर्शनीयं ते हस्तकौशलम् अनेकवारं त्वदीयकरे वीणां समर्प्य
निश्चिन्ततामनुभवामि उमे! जगाद चन्द्रः ।
आम्, कराले तस्मिन् सुविषमे काले मदीयोऽशाश्वतश्चन्द्रमौलिरवश्यं मतश्छिन्नो
भवेत्, किन्त्वहं शाश्वतं युगयुगीनकविं स्वस्थं चन्द्रमौलि-
माराधयिष्यामि। तवेमां वीणां गृहीत्वा तवोपज्ञानि गीतानि गास्यामि, तावद् यावदावयोर्जीवनप्रवाहः कस्मिश्चिदन्यस्मिन् देशे काले च साकारो
भूत्वा न पुनः सम्मिलेत् । किन्तु पृच्छामि नाथ मदभावे भवता किं विधास्यते ?
एतान् स्वरतः सुकोमलानपि अर्थतो
वज्रोपमान् शब्दानाकर्ण्य चन्द्रमौलेरन्तस्तलादारभ्य सकलो हि काय: प्रवाते
वेत्रलतेव भृशं प्राकम्पतेति स्वयमक्षिगोचरीकृतमुमया चन्द्रमौलिरुत्तरणे
यत्नवानासीत्, किन्त्वसीदन् तस्य गात्राणि
मुखं च पर्यशुष्यत् । लोचने तस्य आस्तां वर्षितुकामे चिरं प्रयत्य, साहसं चैकीकृत्य क्षीणक्षीणस्वरेण सगद्गदं सोऽवादीत्, अहो, कीदृशी निष्ठुरतमा स्यात् सा वेला ! परमुमे,
आत्महननं त्वहमपि न विधास्यामीति प्रतिजाने त्वदीयया प्रणयप्रेरणया
मदीयेऽन्तस्तले यानि प्रादुर्भविष्यन्ति गीतानि, तानि
गास्यामि जीवनान्तम् । अहमपि तव चन्द्रमौलेरिव......इति ब्रुवन्नेव तस्य
कण्ठोऽभवत् रुद्धः। जीवनस्यानित्यतां प्रकटयन्तीव पतितानि भुवि चक्षुषो-
मौक्तिकानि द्वित्राणि अन्यत्र तमाक्षिपन्ती अवादीदुमा-
अनुमिनोमि,
मन्मानसमराल! दयितेयमावयोर्जाह्नवीधारा शयितेव आवामपि चलाव गेहम् ।
गच्छता कालेन समायातो वसन्तः सोऽपि
क्षणं स्थित्वैव विनिर्गतः । वस्तुतः सुखस्य दिनानि न ज्ञायन्ते पलायमानानि । तानि
खलु अणोरणीयस्त्वं भजन्ते । तत: प्राप्तः किल प्रचण्डो ग्रीष्मः। चण्डांशुना
बुभुक्षितस्य शार्दूलस्येव विकटं किमपि चेष्टितं समारब्धम् । क्षामीकृताः क्षपाः,
अपहृताः प्रसन्नसरिता- माप:, प्रतापिता हि
पृथिवी, तरवो गहनानि च सम्यगुच्छोषितानि । तद्भयादेव न
निःसरति गेहान्मनुजो नीडाच्च पतत्री। दिनान्तं परं भवति किञ्चिदुच्छ्वासयोग्यं,
लोकान्तरं गते हि तस्मिन् ।
चन्द्रमौलेर्जननी यशोदा बभूव रुग्णा
चन्द्रमौलिरहर्निशं मातुश्चरणयोरेव निवसति । उमापि रात्रिंदिवं सेवमाना श्वश्रूं न
जगाम मध्ये कदापि पितृगृहम् । अनेकाः खलु कृताश्चिकित्साः । न तासां किञ्चिदपि
प्रभावः समवालोक्यत् । यशोदायाः स्थितिश्चिन्तनीयैव जाता। समागता ज्येष्ठमासस्य
पूर्णिमा । दुग्धधारेव ज्योत्स्ना सर्वत्र प्रासरत् यशोदया शनैः प्रोक्तम्- अद्य
किञ्चित् कालं हर्म्यपृष्ठे नयत माम्। चन्द्रिकायामुपवेष्टुकामस्मि तस्याः
पर्याङ्किकाहर्म्यपृष्ठे प्राप्यत विसूचिकया तस्याः शरीरं केवलमस्थनां
कङ्कालभूतमेवावातिष्ठत तद् दृष्ट्वा चन्द्रमौलेरन्तस्तले भवति स्म वेदना वारं वारम्।
किन्तु विवशतैव।
सुचिरं विश्रम्य मात्रा निगदितम् -
चन्द्र ! चन्द्रिकेयं कियती मनः- प्रसादयित्री ! सुखाकरोति मां विशेषरूपेण।
तस्मिन्नेव समये चन्द्रमौले:
कर्णकुहरयोरुमायास्ते शब्दा अगुञ्जन् । तस्य स्वान्तं निष्क्रियमिव सञ्जातम् ।
पूर्वं तयापि तेऽप्रियाः शब्दा ज्योत्स्नायामेवोपविष्टया कथिता आसन्,
क्षणं मौनावलम्बिनं तं पुनरुवाच जननी, उमाद्य
क्व वर्तते वत्स ? झटिति चन्द्रमौलिनावाचि - मातः, त्वदीयं स्वास्थ्यं किञ्चित्प्रगतिशील- मिति त्वदाज्ञां गृहीत्वैव सा
चिरादद्य पितृगृहं गतवती । किं विस्मृतवती भवती ? आदिवसावसानं
तु सात्रैवासीत्, आम् मातः । 'व्यस्मरमहम्,
अहह उमा मम प्रियपुत्री । न तस्यै कदापि कुप्येः पुत्रक इयमेव
मेऽन्तिमा समीहा नोमया सदृश्यों मिलन्ति सर्वत्र गुणवत्यः स्नुषाः । कीदृशं
सौजन्यम् । कीदृशोऽनुरागस्तस्या मयि । अहोऽहं महाभाग्यवती वत्स यस्येदृशी सुमङ्गली
वधूः ।'
वाक्यमसमाप्तमेवासीत् । मध्य एव
किञ्चित् कास: समायातः हिक्के च द्वे । यशोदायाः शरीरं निश्चलमभवत् माता सुयाता
दिवं विहाय नश्वरं भुवम्, सुतस्य स्वान्तं
व्यदीर्यत इव। आसीत् स गृहे एकलः । रुदत एवैतस्य-अक्ष्णोः प्रातरासीत् प्रातरुमा
यदा स्वगृहमायात् तदा श्वश्र्वाः पञ्चत्वप्राप्तेर्वृत्तं ज्ञात्वाऽभव- दधीरा,
किन्तु चन्द्रमौलेस्तादृशीं विह्वलतामवलोक्य धैर्येण तं बोधयन्ती
सकलमप्यौर्ध्वदेहिकं सुचारु तेन न्यवर्तयत् आसीत् चन्द्रमौलिर्विमना
अन्यस्मिन्नहनि उमया चिरमाश्वासितः कथं कथमपि शरीरकार्याणि व्यदधात् । श्रद्धया
मातुः श्राद्धादिकं च सकलमकरोत् ।
व्यतिगतं
वत्सरम् निवृत्तं मातुः वार्षिकं श्राद्धम् शनैः शनैः मातृवियोग- दुःखं शैथिल्यं
प्राप चन्द्रमौलेः । कस्य खलु मातापितरौ सुचिरं तिष्ठतः । एतादृशो दिवसो जीवने
समायात्येव यस्मिन् मातृपितृवियोगजन्मा हृदयदाही शल्यतुल्यः शोकविपाकः सोढव्य एव ।
किन्तु को जानीते कस्य कीदृशः प्राक्तनसंस्कारः। मातृवियोगदुःखं हृदयान्निःसृतमेव
न हि ततः प्रागेव चन्द्र- मौलेरपरमिव हृदयमुमा रुग्णतामगात् कारणान्मे किञ्चिदपि
त्रासो मा भूत् हृदयवल्लभस्येति हेतोस्तया सुचिरं न किमपि प्रकटितं तस्मिन् ।
हन्त! कस्मिंश्चित् सामाजिके कर्मणि
तन्मयतया प्रवृत्तेन चन्द्रमौलिना सुचिरं नैतत् किमपि ज्ञातम्। पुनरप्यागता शारदी
राका,
गता च। जगतः सामान्योऽयं क्रमः । शिशिरवसन्तौ पुनरायातः
सम्यगेवोक्तं भगवता शङ्कराचार्येण, ‘कालः क्रीडति
गच्छत्यायुः' । न हीतस्ततः किमप्यवलोकयति कर्त्तव्यनिष्ठः स
वीरप्रेरित: शर इव महता संरम्भेण स्वकार्यसाधन एव भवति संलग्नः येन केनापि
प्रकारेण सामाजिकं साहित्यिकं च तत्कार्यं साफल्यमगात् तस्य। तेन सुखस्य श्वासो
गृहीतः । क्लेशः फलेन हि पुनर्नवतां विधत्ते। किन्तु चन्द्रमौलेः शरीरं सततपरिश्रमेण
जर्जरितमिवाऽभवत् प्रतिदिनं क्षीणतां गच्छन्त्या उमायाः तनूमवलोक्य च सोऽधुना
विशेषेण चिन्तितोऽभूत् जलवायुपरिवर्तनाय सा पितृगृहमानीता। त्रिचतुर्दिवसानन्तरमेव
दैवदुर्विपाकात् चन्द्रमौले: सा, बालापत्यानि विहाय तत्रैव
स्वः प्रयाता निर्वृत्तं सकलमौर्ध्वदेहिकं तस्याः । तस्मिन्नेवाहनि स उमायाः
शयनकक्षे प्राविशत् । तत्र सर्वाणि वस्तूनि व्यवस्थया सन्ति रक्षितानि । एकं
स्वीयं छायाचित्रमपि तत्रावालोकितम् । उमया चित्रमिदमेकेनागन्तुना चित्रकारेण
आसीत् भावपूर्णं तत् । तस्मिन् यूथिकासुमनसां विम्लानैका माला विराजते। तस्य
चित्रस्य पार्श्वे उमाया मुद्रयाङ्कितमेकं पत्रं सम्प्राप्तम् । चन्द्रमौलिना
तदाश्चर्येण स्वकरे गृहीतम् तदुपरि लिखितमासीत्–श्रीमतश्चन्द्रमौलेः
करकमलयोर्मिलिन्दायतामिदम् । चन्द्रमौलिना विचित्रेण भावावेशेन समुद्घाटितं तत् ।
उमायाः सुन्दराक्षरैस्तत्रेदं लिखितमासीत्—
प्रियतम,
उमेयं भवतश्चिराय वियुज्यते
मामाह्वयन्ति देवदूताः नाहं चिरं प्राणान् धारयिष्यामीति सुदृढो मे विश्वासः ।
गच्छामि नाथ, यादृशो मयि भवतोऽतिशयितः प्रेमा
तमहं सम्यग् जानामि । यावच्छक्यं निर्वोढव्यः सः । मत्सम्मुखे कृता प्रतिज्ञा न
त्वया विस्मर्तव्या। किमधिकं वच्मि अहमुमायाश्चिरं तारुण्यं तस्याः सदैकरसं
सौन्दर्यं च भवते समर्प्य गच्छामि। विश्वसिमि, भविष्यति
भवदीये नेत्रे वलीपलितयुक्तं त्रुटितरदनं कान्तिहीनं च उमाया वदनं न कदापि
विलोकयिष्यतः। ममेदं प्रेम, ममेदं शाश्वतं यौवनञ्च भवन्तं
कर्तव्यपथे प्रेरयिष्यति, विनम्रं विनिवेदयामि नाथ त्वया
एतस्याः प्रेरणाया न विधेय- मवहेलनम् । न कदाचिन् मनसि समानेयं यन्मध्येमार्गं मां
परित्यज्य पलायितेयमुमा। स्वामिन्! भवतोऽन्तिमं मे मानसिकमालिङ्गनं ममान्तिमोऽयं
प्रणामः ।
भवदीयैव
- उमा
असकृत् अक्ष्णोरश्रुधाराः
सम्प्रोच्छ्य चन्द्रमौलिना पत्रं समापितम् । ततस्तद्धस्तात् तत्स्खलितम् ।
उपविष्टः स तस्यास्तस्मिन्नेव पर्यङ्के तस्य स्वान्तं शून्यमिव समजायत् ।
हृदयगतेरवरोधं त तन्मयतयाप्रत्यैक्षत् । पाषाणमूर्तिरिव निर्निमेषाभ्यामक्षिभ्यां
पश्यन्नातिष्ठत्। कियत्कालपर्यन्तं स तत्रैवमुपविष्ट इति कः कथयितुं शक्तः।
सायमभवत्,
रात्रिरागता किन्तु सम्भाव्यते स तथैव चिरं निश्चेष्टमुपविष्टः ।
तस्याश्रूणि शुष्काणि, हृदयं काष्ठतामाप। एकैकशः कानिचिन्
मित्राणि समागतानि, तस्यां विचित्रायां परिस्थितौ तमवलोक्य
तूष्णीमेव ततः परावृत्तानि चिररात्राय स तथैवोपविष्टो न जाने कदा निद्रादेव्याः
शरणमगात् । अपरेद्युः महामहान्तो गुरवः सम्प्राप्ताः । धैर्य्यधारणस्योपदेशं
दत्वैव प्रति- निवृत्ताः। समाचारपत्रेषु समवेदनां प्रकटयितुं शोकप्रकाशकानाम् -
"नव एव वयसि बालापत्यानि विहाय चन्द्रमौलेः पत्नी दिवं गतेति
दुःखास्पदम्" प्रकाशमागता टिप्पणी । सुदूरदूरतः शोकं प्रकटयितुं
प्राप्तान्यनेकानि पत्राणि तेष्वेकत इदमपि लिखितमासीद् यदधुना त्वया मातृत्वमपि
निर्वाह्यमिति ।
अन्येद्युः प्रातरुमाया जननी
समायाता ! तया विलोकितश्चन्द्रमौलिः किञ्चित् प्रकृतिस्थः किन्तु चिन्तामग्न
इवास्ते तया पृष्ट; वत्स, कीदृशी खलु मानसिकी परिस्थितिः।
मातः ! सर्वथा स्वस्थोऽस्मि । उमया
यत्कार्यं मयि निहितं तदेवाहमधुना विधास्यामि मया न कदापि चिन्तितं न चावबुद्धं
यदीदृश: पटाक्षेपः स्याज्जीवने मे। किन्तु अजानादुमा। तया मम कर्तव्यं चिरपूर्वमेव
निरधार्यत। उमया नात्महननमपि त्वात्मदानं वितीर्णमस्मै जनाय आम्,
तदात्मदानमात्महत्यायां परिणमयितुं शक्यं किन्तु एवं कृते
विश्वासघातः कृतघ्नता च मच्छिरसि समायाति । अतो नैवं करिष्यामीति मे विनिश्चयः ।
उमायाः मात्रा चन्द्रमौलेरात्मभावः
परिज्ञातः सा किञ्चित् तूष्णीकातिष्ठत् । न जाने किम्,
चन्द्रमौलिरकस्मादुत्थितः स्वस्थानात् श्वश्रूः शनैः पृष्टवती क्व
गम्यते वत्स ! उमां विलोकयितुमित्युत्तरितं तेन अहमपि त्वया सह चलिष्यामि चन्द्र।
कदाचित् ममापि सा नयनपथगामिनी भवेत् इति वदन्त्या एव तस्याः कण्ठावरोधः समजनि
नेत्राभ्यामश्रुधारा निरगलन् चन्द्रमौलिर्गृहान्निःसर्तुमियेष परं
माताऽब्रवीदुमायाः, वत्स न कुत्रापि दृष्टिपथे समायादुमा।
मौले, वैक्लव्यं त्यज, धृतिं बधान किं
व्यस्मार्षीः प्रतिज्ञामेकपद एव। 'विकारहेतौ सति विक्रियन्ते
येषां न चेतांसि त एव धीराः।' किमियं कालिदासभणितिर्न
स्मर्यते त्वया।
जागरणमिव समजनि चन्द्रमौलेः ।
उपविष्टः स पुनः स्वासने । किञ्चित्कालं स्थित्वा जननी उमायाः स्वगृहान् प्रति
न्यवर्तत चन्द्रः स्वस्थवत् सकलानि करोति शरीरकार्याणि,
किन्तु कान्तागृहीतमनसः, मनसोऽस्ति दैन्यम्।
तद्दैन्यं कः कथं दूरीकुर्यात् ?
विमनाः स कदाचित् कलानिधिमवलोक्य
चिन्तयति " श्रूयते किल मनश्चन्द्रे निलीयते।” प्रियोमा मे मनः सत्यमत्रैव निलीनं स्यात् मन्ये, तद्
गृहीत्वैवायं जगदाह्लादयति स्वयं च नन्दति । किन्तु हन्त, कथं
मामयं न प्रसादयति ? आम्, ज्ञातं,
न मे कान्ताया: कान्तं स्वान्तमत्र कलङ्किनि कलितम्, अन्यथा कथमयं मां न कलयेत् । तत् किं श्रुतिरपि स्वप्रामाण्यं परित्यजति,
कोऽयं व्यामोह : ? न हि न हि, अत्र महाकवेः श्रीहर्षस्य दृष्टिकोणस्तथ्यतामावहतीति मन्ये । "तस्याः
किल श्रुतिमाह तदर्थिकां प्रियमुखेन्दुपरां विबुधः स्मरः । " सत्यं तदेव
जातम्। उमाया मनो मय्येव न्यलीयत अन्यथा कथं मे स्वस्थवृत्तं सम्भाव्येत। किन्तु
रे कलङ्किन्, कुत्सितस्वान्त, कतीनां
पुनः सतीनां चित्तमनुकूलयितुं त्वया न चेष्टितम् ? परं कथय
रे कथय कुत्र कुत्र साफल्यमवाप्तं त्वया ?" सतीव योषित्
प्रकृति: सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि।” किमिदं
सिद्धान्तवाक्यं त्वया विस्मृतम् ? मम मनो यातं, सुदूरे यातम्। न जाने क्व यातम्, यातु नाम। निश्चितं
पुनरायास्यति, वृद्धिं गृहीत्वा आयास्यति । परं पृच्छामि रे
तव हस्तेऽनेन किमायातम् ? व्यर्थमेवायास्यते । अनेन
फल्गुकर्मणा तव जडत्वमेव प्रत्यक्षं मयकानुभूतं दौरात्म्यं चेति-न जाने स कतिधा
कतिवारमुपालभत भगवन्तं जगदाह्लादकं शशिनम् ।
कदाचिदेकान्ते समुपविष्टः सोऽनुभवति
यत्तस्य हृदयं स्फुटतीव । विना जगत् परिलक्ष्यते अन्तरात्मा तस्य घोरान्धकारे
निमज्जतीव किन्तु हन्त, मन्दभाग्यो वराकः स
किं विदध्यात् । शोकसागरे मग्नस्य तस्य परिस्थितिमवलोक्य स्मृतिपथमायान्ति
महाकवेर्भवभूते: शोकसन्दीपनान्यक्षराणि-
हा
हा देवि,
स्फुटति हृदयं ध्वंसते देहबन्धः
शून्यं
मन्ये जगदविरलज्वालमन्तर्ज्जुलामि।
सीदत्यन्धे
तमसि विधुरो मज्जतीवान्तरात्मा,
विष्वङ्मोहः
स्थगयति कथं मन्दभाग्यः करोमि ॥
किं
बहुना,
शून्ये स्थाने विकलकरणैस्तस्य तैस्तैश्चरितै:- मन्ये-
"
अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ।"
धन्यासि उमे, धन्यासि, यया गुणैरुदारैरेवं समाकृष्यत चन्द्रमौलिः।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें