कथायाः नाम लेखकः
1. प्रतिदानम् रामचन्द्र
मिश्रः
2. नेत्रज्योतिः श्री.
भा वर्णेकर प्रज्ञाभारती
3. मदालसा सुशीलादेवी
4. मैत्री आशा
5. मधुमती अमिता
मालवीया
प्रतिदानम्
लेखकः-
रामचन्द्र मिश्रः
सरलायाः पिता राजकीयसेवायां
परिवर्तितस्थानः कानपुरमागत्य यस्मिन्नगर-विभागे वासमकल्पयत्,
तत्रैव सहदेवस्य पितापि पूर्वतः कल्पितावासोऽवर्तत । पञ्चषेषु
दिवसेषु व्यतियत्सु यदा समीपस्थे विद्यालये सरला प्रवेशमलब्ध, तदा तत्प्रतिवेशी सहदेवस्तां कियत्याचन सहायतयान्वग्रहीत्, तथोपकृता सा तं प्रति कियतीं भिन्नां दृशमधृत। तयोरियं मैत्री बद्धमूला
किमपि परमपि अपेक्षते स्म ।
कालो गच्छति विना प्रतिरोधम् ।
पञ्चषा हायना व्यतीताः, ततः सहदेवः
परिवर्तित सेवास्थानेन पित्रा सह प्रयागमागात् ।
यदा सरला यौवने पदं न्यधत्त,
तदा तत् परिणयप्रसङ्गे तत्पिता सहदेवं स्मृतवान्, योग्यं च तं युवानं-जामातरं स्पृहयन् स तत्पितरमुपससाद, यथावत् प्रार्थयत च । परन्तु सर्वथा समानतायां सत्यामपि स महाशयः तं
सम्बन्धं
नान्वमोदयत्,
क्वचिदन्यत्राधिक-धन-लाभ संभावना हितं तथाकर्तुं परवशीचकार।
समये कुतश्चिदाप्तजनाद्
वृन्तमिदमाकर्णय अपहृत हृदयेव सरला बहु विव्यथे, परमश्रूणि तु तस्या अन्तरेव व्यलीयन्त भृशसन्तापो हित दक्षिणी
प्राज्वालयत् ।
पितु रेकला दुहिता सा शिक्षायां
पश्चात् पदा स्थातुमनाकाङ्क्षन्ती विज्ञाने ससम्मानं स्नातकपरीक्षामुत्तीर्य
अनापृच्छयैव पितरौ, वायुयान- परिचारिका
प्रतियोगिता परीक्षां दत्तवती, सौभाग्येन साफल्यमपि भेजे।
यदा सा विमान-परिचारिका जाता,
तथा नियमानुसार तया स्वोत्तराधिकारिणो नाम-सङ्केतादि सूचनीयतामगमत्,
यतोहि कथंचिज्जातायां दुर्घटनायां स सूचीयो लभ्यार्थराशेरधिकारी च
मन्यते ।
सा दिनमेकं व्यलम्वत,
कमुत्तराधिकारिणं वृणुयामिति भावयन्त्यास्तस्या मनसि
चिरादनुवर्तमानो मध्ये तिरस्कृतोऽपि सर्वथा असञ्जात-निर्वाणःप्रेमाऽजागरीत्।
चिरमचिन्तयत्, सा निर्णयं च चकार।
परदिने कार्यालये
स्वोत्तराधिकारिरूपेण सहदेव वर्मणो नाम सङ्केतादि च सा स्फुटमलेखयत्। मनसि च तुतोष,
किमपि कृत्वेव।
वर्षद्वयानन्तरं वायुयान
दुर्घटनायां सरलायां मृतायां यदा सहदेवेन तदुत्तराधिकारितया
प्रभूतोऽर्थराशिरधिगन्तव्यतामभजदिति सूचना ससान्त्वना-शब्दा च प्राप्यत,
तदा सहदेववर्मा वात्याहत इव तरुरपप्तत् समये तिरस्कार भस्मनाच्छन्नो
मानसोऽनुराग जातवेदा भृशमज्वलत् ।
कथंचिदात्मानं स्थिरीकृत्य
कर्त्तव्य-निर्णयं च कृत्वा सहदेवस्तदर्थराशिमधिगत्य प्रतिष्ठितां स्वां
भृतकाध्यापकतां च परित्यज्य तेनार्थराशिना 'सरला
शिक्षामन्दिरं नाम विद्यालयं स्थापयितुं स्वयं च सञ्चालयितुं निश्चिकाय ।
मनस्यभावयच्च किमितः परं मया तस्यै प्रतिदातुं शक्यते ? जीवनमिदं
तत् स्मृति- मन्दिरे गमयतो मम किमपिमाऽवशेषि ।
नेत्रज्योतिः
लेखकः
- श्री. भा वर्णेकर प्रज्ञाभारती
‘अरे! तव प्रक्षीणं नेत्रज्योतिः
औषधोपचारेण शल्यक्रियया वा नैव प्रत्यायास्यति । मन्ये कस्यचन प्राक्तन कर्मणः
फलरूपेण अयं नेत्रदोषः त्वयि आपतितः । प्रायः लक्षलक्षेषु कश्चिदेव हतभाग्यः अस्य
नेत्रदोषस्य भाजनं भवति ।'
नेत्रवैद्यस्य मुखाद् एतत् रोगनिदानं
श्रुत्वा हताशस्य सुदर्शनस्य नेत्राभ्याम् अश्रुबिन्दवः भूतले न्यपतन् ।
उपवस्त्रेण अश्रूणि प्रभृज्य स प्राह, 'तत्
किम् अस्य नेत्रदोषस्य निराकरणे नेत्रचिकित्साशास्त्रे कोऽपि उपायः एव नास्ति ?'
‘यावदहं नेत्रवैद्यकं जानामि
तावता वदामि यद् अस्य कृते नेत्रवैद्यकशास्त्रे औषधोपचारः शल्योपचारो वा नैव
विद्यते ।'
चिकित्सकस्य अनेन वाक्येन सर्वथा
हताशं सुदर्शनं प्रेक्ष्य तस्य माता तं सान्त्वयन्तीव प्राह,
‘अरे! मा भूयास्त्वम् एवं हताशः । रोगनिवारणे वैज्ञानिका इव दैविका
उपायाः अपि सन्ति । मम उपमातुः कन्या दैविकेन उपचारेण तव जन्मसमकाले चर्मरोगात्
विमुक्ता इति वाढं स्मरामि । 'यदि मम वचसि तव विश्वासो न
स्यात् तर्हि यथावसरं मातुलग्रामं गत्वा चर्मरोगमुक्तां तां स्वयं प्रेक्षस्व ।'
औषध-शल्यादि रोग निवारणोपाये
हताशस्य सुदर्शनस्य हृदये तेन मातुः वचनेन काऽपि आशा सहसा अंकुरिता ।
'किं नामधेया सा, या हि असाध्यात् चर्मरोगाद् विमुक्ता ?" 'सुवर्णा'
इति । नूनं श्वेतकुष्ठात्मकस्य चर्मरोगस्य निरसनाऽनन्तरं सा
यथार्थनाम्नी 'सुवर्णा' खलु जाता ।
तथा वादिन्याम् एव मातरि सा सुवर्णा
सहसा तत्र उपातिष्ठत । तां पुरतोऽवलोक्य सा वृद्धा सहर्षं प्राह,
'सुवर्णे! अस्मिन् स्थाने तव आकस्मिकम् आगमनं नूनं भाग्योदर्कं
मन्ये ।'
'न खलु भाग्यानि मादृशस्य
क्षुद्रजीवस्य आकस्मिकेन दर्शनेन फलन्ति । भाग्यानि हि सुचिरतपसा, सुदृढप्रयत्नेन एवं फलन्ति । भगवतः कृपा खलु तस्य भाग्यं सफलयति, यो हि सुदृढं प्रयतते, सुचिरं वा तपश्चरति ।'
सुवर्णायाः सूक्तप्रायं तद् वचनं
सुदर्शनेन सहर्षम् अभिनन्दितम्। तदा सुदर्शनस्य विषण्णताकारणं सम्यक् निवेद्य माता
प्राह,
'सुवर्णे! अयं सुदर्शनः वैद्यकशास्त्रे त्वदीयस्य नेत्ररोगस्य कोऽपि
उपचार नास्ति' इति वैद्यराजस्य वचनेन नितान्तं नैराश्यं प्राप्तः
। तदा दैविकेन उपचारेण असाध्यादपि रोगात् मुक्तिः सम्भवति इत्युक्त्वा
तन्निदर्शनार्थं तव नाम यदा मया उच्चारितं, तत्क्षणे एव
अकस्मात् त्वं पुरतः समायातासि । अत एव मया उक्तम् आसीत्, 'तवागमनं
भाग्योदर्कं भवेद् इति ।'
'सुवर्णादिवि! अहं हि नेत्रदोषतः
सेवादिवृत्तिं कर्तुम् असमर्थतया अकिंचित्कर इव जातोऽस्मि अर्थार्जनम् अकृत्वा
द्विवारं भुंजानः पुत्रोऽपि भारभूतो भवति कोऽसौ दैविक उपचारः ? कुतः, कदा, कुत्र स ज्ञायते ?
इति कथमहं ज्ञातुं शक्नुयाम्?'
'भ्रातः ! सेवापरतन्त्राऽहं
सम्प्रत्येव स्वग्रामं प्रति गच्छामि । अद्य, श्वः, परश्वः च अहं विद्यालयस्य स्नेहसम्मेलनोत्सवे प्रभूतकार्यान्तर व्यग्रा
भवेयम् । तद् भवान् इतः चतुर्थे दिने श्री श्रीजनार्दनस्वामिनः पुण्याश्रमे सायंतन
प्रार्थनावसरे उपस्थितो भवतु । तदानीम् अहमपि तत्र आगमिष्यामि मन्त्र-तन्त्र - योग
मर्मज्ञाः स्वामिचरणाः अवश्यं तव दैवम् उपायम् उपदेक्ष्यन्ति ।'
प्रतीक्षमाणानाम् आर्तानाम्
आतुराणां कृते हि निमिषः खलु युगायते । चतुर्थदिनस्य उदयात् पूर्वतनानि त्रीणि
दिनानि त्रियुगवत् सुदर्शनेन नानाविधसंकल्पनैः यापितानि । को नाम असौ दैवी उपायः
स्यात्,
येन नेत्ररोगमुक्तो भूत्वा, अवश्याय
प्रच्छन्नमिव अस्पष्टतया गोचरीभवद्, इदं दृश्यजातं
सुस्पष्टतया द्रष्टुम् अहं शक्नुयाम् ? दुर्दर्शनोऽहं,
यथार्थनामा सुदर्शनो भवेयम् यथा सा सुवर्णा! तं हि दैविकम् उपायं
सुवर्णायाः वचनानुसारं सुदृढेन प्रयत्नेन सुचिरेण च तपसा अवश्यम् अहम् अनुपालयेयम्
। चतुर्थं दिनं हि अरुणोदयाद् आरभ्य सायंकालपर्यन्तं ध्रुवं ब्रह्मदिनवत्
प्रदीर्घतमं सोऽमन्यत ।'
‘अरे सुदर्शन! योऽयं
नेत्ररोगनिवारणक्षमः आदित्यहृदयाख्यः सूर्योपास- नामन्त्रः इदानीं मया ते सविधि
समुपदिष्टः तस्य प्रदीर्घकालं जपं प्रत्यहं सूर्योदयसमये तथा च सूर्यास्तसमये
सश्रध्दं कुरु । परम् अस्य दिव्यमन्त्रस्य प्रभावः न अत्र नगरे स्फुटीभवेत्।'
'तत् कुत्र स्फुटीभवेत् ? यत्र स्थाने मन्त्रप्रभावः स्फुटीभवेत् तत्र गत्वा अहं यथादिष्टं
जपादिसमाराधनं करिष्यामि । अनेन नेत्रदोषेण नूनं मृतकल्पं मम जीवनम् ।'
'अरे मैवं वादीः नेत्रदोषेऽपि
त्वं वस्तुजातं कथंचित् पश्यसि । एकाकी भ्रमितुं शक्नोषि प्रवासगमनम् अपि न ते
दुष्करम् अतो मा खलु आत्मानं मृतकल्पं मंस्थाः सन्ति हि अस्मिन् जगतीतले
असंख्येयाः जन्मान्धाः बाल्यतो वा अन्धीभूताः ये नूनं जीवन्तोऽपि मृता इव सन्ति ।'
स्वामिचरणानाम् अनेन वाक्येन
सुदर्शनस्य आत्मनि अवज्ञा मनाक् शिथिलीभूता । स आह, 'यत् श्रीचरणैः समुदितं तदेव खलु तथ्यम् । परं श्रीचरणानां परमानुग्रहेण
प्राप्तोऽयं सूर्योपासनामन्त्रः कुत्र खलु स्वप्रभावेण मां तत्त्वतः सुदर्शनं
करिष्यति । सम्प्रति तु केवलं नाममात्रेण सुदर्शनोऽस्मि अन्धकल्पः ।'
'अरे! अद्य तत् स्थानं निश्चयेन
कथयितुं न प्रभवामि। तस्य स्थानस्य भानं यदा मयि तदा तेऽहं निवेदयिष्यामि सम्प्रति
तु श्रद्धस्व वत्स! इत्येव ब्रवीमि ‘श्रधस्व वत्स' इति हि औपनिषदानाम् ऋषीणाम् सश्रद्धं प्रत्यहं मदुपदिष्टस्य मन्त्रस्य जपं
कुरु । सुष्ठु खलु उक्तं पूर्वाचार्यैः–‘जपात् सिद्धिः जपात्
सिद्धिः जपात् सिद्धिः न संशयः' इति
वैज्ञानिकोपचारस्य अभावात्
अनन्यगतिकतया दैविकोपचारे बाढं श्रद्दधानः सुदर्शनः यथादेशम् आदित्यहृदयाख्यस्य
मन्त्रस्य जपं चिराय अकरोत् । काले काले च स्वामिचरणानां दर्शनार्थं आश्रमपदम्
अगच्छत् ।
अथ चैत्रे सुदि पौर्णिमास्यां तिथौ
श्रीहनुमज्जन्मोत्सवानन्तरं सुदर्शनं स्वकक्षे नीत्वा रहसि स्वामिना प्रोक्तम् ! 'शृणु सुदर्शन! सागरतीरस्थिते यस्मिन् ग्रामे समुद्रसलिलाद् उदीयमानं तथा च
समुद्रसलिले अस्तमयमानं सूर्यविम्बं दृश्यते, तत्र
क्षितिजाद् उदयमानं सम्पूर्ण सूर्याविम्बं वीक्षमाणस्य मन्त्रजपः यदि त्रिवारं
सम्पद्येत तर्हि अस्य सिद्धमन्त्रस्य प्रभावः स्फुटीभवेत् ।
'स्वामिन्! ईदृशं समुद्रतटस्थितं
पुण्यक्षेत्रं कुत्र वर्तते इति तु नाहं जानामि ।'
‘अरे! भारतस्य दक्षिणस्यां दिशि
सुप्रथितं कन्याकुमारीनाम देवीपीठभूतं पुण्यतीर्थं वर्तते तत्र समुद्रजले
सूर्योदयं सूर्यास्त च द्रष्टुम् असंख्येयाः यात्रिकाः निरन्तरं गच्छन्ति । मन्ये
समग्रे पृथ्वीतले ईदृशानि स्थानानि अत्यल्पानि भवेयुः भारते पुनः इदमेकम् एव समुद्रतीर्थं
जानामि । यदि तव भागधेयम् अनुकूलम् अस्ति, तर्हि भगवतः
सहस्ररश्मेः भास्वन्मण्डलस्य क्षितिजरेखायाम् उदयः त्वया द्दश्येत न खलु प्रतिदिनं
यथोक्तं सूर्यदर्शनं लभ्यते ।'
'स्वामिन्! तत्र क्षेत्रे
विनाश्रयम् विनार्थं च कथं मे निवासः संभवेत् ?'
‘अस्मिन् विषये माऽस्तु ते चिन्ता
तत्र कन्याकुमारीक्षेत्रे सुगृहीतनामधेयेन सुप्रथितयशसा स्वर्गीयेण श्रीमता एकनाथ
रानडे महोदयेन एकं विवेकानन्दपुरं नाम उपनगरं सुस्थापितमस्ति तत्रत्याः पुण्यशीलाः
कार्यकर्तारः मम सुपरिचिताः सुहृदश्च सन्ति । मामकं परिचयपत्रं गृहीत्वा तत्र
गतस्य ते निवासव्यवस्था समुचिता भविष्यति । तदलं चिन्तया ।'
अथ स्वामिचरणानां परिचयपत्रं
गृहीत्वा मातरं प्रणम्य सुदर्शनः कन्याकुमारी-संयानेन प्रवासार्थं प्रस्थितः ।
तिरुअनन्तपुरे किमपि भोज्यं क्रेतुं स स्वकक्षतः बहिरागतः। ततश्च इडली -दोशादीनां
पत्रपात्रं गृहीत्वा स्वस्थानम् आगत्य तेन स्वपेटिकायाः अभावोऽवलोकितः । यत्र तत्र
सर्वत्र अवलोक्यापि पेटिका नैव अधिगता। तत्रैव पेटिकायां परिचयपत्रम् आसीत्।
पेटिकाम् अपहरता चौरेण मम न केवलं
वस्त्रादि वस्तुजातम् अपि तु निवासस्थान लाभस्य संभावनाऽपि अपहृता । को नाम मां
परिचयपत्रेण विना स्वाश्रयं दास्यति? परिचयपत्रेण
विना को नु तत्र विवेकानन्दकेन्द्रे मयि विश्वसेत्? अनेन
अकल्पितोपनतेन पेटिकापहारेण सर्वथा मुषितोऽस्मि ।
इत्येवं चिन्तामग्नोऽसौ यथावसरं
स्वामिनिर्दिष्टम् आश्रयस्थानं प्र संयानेन समागतः। तत्र च आतिथ्यकर्मणि नियुक्तेन
जीवना अगतिकतां विज्ञाय, स्वामिचरणानां
नामधेयं श्रुत्वा तस्य निवासस्थान- चिन्ता-परिहृता।
अथ सुदर्शनमुखात् तदागमनप्रयोजनं
ज्ञात्वा केन्द्राधिकारिणा स्वच्छताविमागे पर्यवेक्षार्थ नियुक्तः । यथोचितं
मासिकवेतनम् अपि प्रतिश्रुतम् । निवासार्थं क्वचित् कुटीरे व्यवस्था च जाता । सर्वथा
स्वामिचरणानां कृपा प्रभावेण अहम् अत्र अदृष्टपूर्वे अपरिचित - जनगणे च स्थाने
समुचितम् आश्रयं प्राप्तवान् इति कार्तज्ञ्यं तन्मनसि प्रादुरभूत् एवमेव अत्र मम
सूर्योपासना अपि नियतं निर्विघ्नतया सफलतां यास्यति इत्यपि सः श्रदधात् ।
ततश्च द्वितीय दिनाद् आरभ्य
सूर्योदयदर्शनार्थं सुदर्शनः नियतसमये सागरतीरं याति स्म। सूर्योदयदर्शनानन्दम्
नूनं लुण्टितुं समुद्रतीरे परः सहस्राः आबालवृद्धाः नारीनराः सोत्साहं समामिलिताः
तेन प्रथमदिने अवलोकिताः तेषु अङ्ग-वङ्ग-कलिङ्गादि पूर्वाचलवासिनः,
राजस्थान- गुजरात-महाराष्ट्रादि- पश्चिमप्रदेश-वास्तव्याः, उत्तरप्रदेशस्थाः, आन्ध्र-कर्नाटकादि वास्तव्याः
द्राविडाः च आसन् । 'ते सर्वे स्वस्वजनपदभाषाभिः साश्चर्यं
सानन्दं व्यंजयन्तः सागर-सौन्दर्यं वर्णयन्ति स्म । वालवालिकाः सैकते स्थित्वा
उल्लोलान् कल्लोलान् फेनधवलान् विस्मयस्तिमित लोचनाः विलोकयन्ति स्म । केचित्
इतस्ततः छायाचित्रेषु तदपूर्वं सौन्दर्यं संगृह्णन्ति इति यत्र तत्र
विद्युत्कणिकाप्रद्योतेन ज्ञायते स्म । शंखशुक्तिकादीनां मनोज्ञमालाः विक्रेतुं
चतुराः ग्रामीणकन्यकाः केषांचित् अनुनयं भृशं कुर्वन्ति स्म नैसर्गिकं सौन्दर्यं
विस्मृत्य सुवसनानां मूल्यं पृच्छन्त्यः धनिकललनाः सुदर्शनस्य उपहासं जनयन्ति स्म।
कन्याकुमारीतीर्थे एतत् सर्वं
वैचित्र्यं वैविध्यं च द्दष्ट्वाऽपि सुदर्शनः सूर्यविम्बोदयदर्शनोत्कण्ठया
पूर्वस्यां दिशि क्षितिजमेव अनिमिषलोचनम् पश्यन् अवातिष्ठत । तत्र च क्षितिजभागे
प्रोत्तुंगपर्वतोपमाः सुनीलवर्णाः मेघाः उदयमानं सूर्यबिम्बं सुचिराय पिहितवन्तः ।
तेन क्षितिजरेखायां सूर्यविम्वोदयः नैव केनापि निरीक्षितः । नियतोदयसमयानन्तरं
प्रायः पंचदशमिनिटानन्तरं सूर्यविम्बं महामेघस्वरूपिणः उदयाचलस्य शिखराद् क्रमशः
उदयमानं दर्शनार्थिभिः सहर्ष निरीक्षितम् तद्दर्शनेन नितरां प्रह्लादितैः सर्वैः
यात्रिकैः तालिकानिनादैः स्वीयः परमानन्दः आविष्कृतः । कैश्चिद् ध्वनिपट्टिकायंत्र
(टेपरेकार्डर)-धारिभिः पट्टिकांकित संगीत ध्वनिप्रसारेण वेलातटम् आघ्नतां
महाकल्लोलानां गंभीरभेदुरो निध्वानः वत विकृतिं प्रापितः तस्मिन् परमानन्दमये समये
सुदर्शनः सूर्यमण्डले स्थिरीकृतनयनः मन्त्रजपमग्नतया चलदोष्ठपुटः बद्धांजलिः दूरे
समुपविष्टः कैश्चिद् सकुतुहलम् अवलोकितः। ततश्च अद्य दुर्भाग्यवशात् क्षितिजभागे
समायातेन मेघमण्डलेन वयं भास्वदारक्तरविविम्बस्य दर्शनात् दुर्देवेन वंचिताः स्मः
। ‘इतः पूर्वमपि दशवर्षेषु बहुवारं दर्शनार्थम् आगतेन मया एवं
मेघमण्डलाच्छन्नमेव सूर्यविम्बम् दृष्टम् ।’ ‘प्रायेण
प्रत्यहम् उदयसमये एवमेव एते नीलमेघाः सूर्यबिम्वोदयदर्शनानन्दं लोकानाम्
मुष्णन्ति” इत्यादीनि प्रवञ्चन- विषादपराणि वाक्यानि परस्परं
वदन्तः सर्वे दर्शनार्थिनः यथागतं निरगच्छन् । सुदर्शनोऽपि मन्त्रजपं समाप्य
सूर्यनारायणं परमश्रद्धया नमस्कृत्य स्वच्छताविभागस्य नियतं कर्म कर्तुं
केन्द्रपरिसरं प्रत्यायातः ।
एवं क्रमेण चत्वारः संवत्सरा
व्यतीताः । सुदर्शनः प्रत्यहं प्रत्यूषे स्नात्वा क्षितिजाद् उदयमानं सूर्यविम्वं
द्रष्टुं मन्त्रस्य दिव्यप्रभावं च अनुभवितुं नियतसमये नियतस्थले प्राङ्मुखः
उपविश्य जपम् आरभत । प्रतिदिनं तत्र तीरोपान्ते समागच्छतां नवनवीनानां
स्त्रीपुरुषाणं सम्मर्दान् सकुतूहलं स पश्यति स्म । शंखशुक्तिका वसनादि-विक्रेतारः
ग्रामीणाः मित्रस्य चक्षुषा तं पश्यन्ति स्म । एतेषु चतुर्षु संवत्सरेषु
क्षितिजरेखायां क्रमशः उदयमानं संपूर्ण-सहस्रकरमण्डलम् एकवारम् एव सुदर्शनेन
दृष्टम् । प्रतिदिनम् उदयक्षणे इतो वा ततो वा कदाचित् पर्वताकारं,
कदाचित् मतंगजाकारं, कदाचित् महासिंहाकारं,
कदाचित् महारण्य- सदृशं, कदाचित्
प्रचण्डराक्षससेनानिभं, कदाचित् धूमोत्पीडसमं वा
कृष्णनील-धूसर-शबल-कर्बुरादिवर्णं, क्वचित् अफ्रीका, आस्ट्रेलियादि-भूखण्डाकारं मेघस्तोममण्डलं सहसा प्रादुर्भूय
कुंकुमारक्तमार्तण्डमण्डलोदय-दर्शनानन्दं विघटयति स्म ।
‘यदि त्रिवारं क्षितिजाद् उदयमानं
सूर्यबिम्बं संपूर्णतया पश्यन् तव मन्त्रजपः भवेत्, तर्हि
त्वं नेत्ररोगादस्मात् विमुक्तो भविष्यसि ।' इति स्वामिनाम्
अभिवचने सुदृढश्रद्धया तेन वर्षचतुष्टयात्मकः प्रदीर्घः कालः
कन्याकुमारीक्षेत्रवासे सानन्दं यापितः । एतावता कालेन पञ्चषाणि पत्राणि
स्वबान्धवेभ्यः तेन प्राप्तानि । तत्र अन्तिमे पत्रे मातुः अस्वास्थ्यं ज्ञात्वा,
भूयोभूयः तदीयं मनः स्वग्रामं प्रति धावति स्म । जपावसरे
निमीलित-नयनस्य तस्य मनः पटले अस्वास्थ्यप्रक्षीणा पुत्रचिन्तनव्याकुला
मातृमूर्तिः आविर्भवति स्म । सुदर्शनस्य चित्तं तेन पत्रेण विक्षिप्तम् इव जातम्।
जपयोगे यथापूर्वं चित्तैकाग्र्यं स हि नान्वभवत् समुद्रतीरे सम्मिलितेषु
दर्शनार्थिषु स्वग्रामवासी परिचितपूर्वः कोऽपि परिवारः स्याद् इति विकल्पतः तान्
सर्वान् यात्रिकान् असौ सूक्ष्मेक्षिकया निरीक्षते स्म । परं क्षितिजरेखायां
उद्यन्मार्तण्डमण्डलमिव स्वपरिचितजनमण्डलम् अपि नैव तस्य दृष्टिपथम् आयातम् ।
यस्मिन् दिने सम्यक् उदयमानं
संपूर्णं सूर्यमण्डलं जपसमये तेन अवलोकितम् तस्मिन्त्रेव दिने रात्रौ तडित्सन्देशः
प्राप्तः पञ्चभिः दिनैः समागतैः तस्मिन् तडित्सन्देशे मातृनिधनस्य वृत्तं पठित्वा
प्रत्यूषस्येव स्वनगरं प्रति गन्तुं स निरचिनोत् केन्द्राधिकारिणः आपृच्छ्य स
प्रभात-संयानेन प्रातिष्ठत । अतः परम् अत्रागमनं सर्वथा भगवदिच्छाधीनम् इति
विचारेण स हि बलवद् अस्वस्थः खलु समभूत। क्षेत्राधिदेवतां भगवतीं कन्याकुमारीं तथा
स्वामिनं विवेकानन्दं भक्तिसान्द्रेण मनसा प्रणम्य सुदर्शनः विवेकानन्दपुरनिवासं
परित्यक्तवान् ।
श्रीरामजन्मभूमिस्थाने
श्रीराममन्दिरनिर्माणकार्ये उत्तरप्रदेशशासनस्य तीव्रतमः विरोधः आसीत् । यस्मिन्
दिने सुदर्शनः स्वामिपारिवारिकैः सह सरयूसेतु समीपं प्राप्तः तदा तत्र करसेवा
सत्याग्रह प्रवृत्तानां रामभक्तानां सुमहति जनसम्मर्दे स नूनम् अदृश्यतामिव गतः ।
तं जनसम्मर्दं नियन्तुम् अक्षमैः आरक्षिभिः अश्रुधूमः सम्प्रसारितः मनाक्
दण्डवेत्रादिप्रहारैः केचन रामभक्ताः व्याविद्धाः तथाऽपि अनियन्त्रितं तं
जनसम्मर्दं नियन्त्रयितुं गुलिकावर्षणं च आरक्षिभिः कृतम्। तदा भयाकुलान् तस्मात्
महतः सम्भार्दात् बहवः अन्धाः, पङ्गवः किं
बहुना युवानोऽपि सेतुतः अधस्ताद् सरयूप्रवाहे निपत्य दिवं गताः ।
नेत्रज्योतिषः प्रत्यागमनसमये हि
सुदर्शनस्य प्राणज्योतिः ब्रह्मज्योतिषि विलीनम् अभूत्।
मदालसा
लेखिका- सुशीलादेवी
पुराकिल मर्त्यलोके शत्रुजिन्नाम
राजा बभूव । तस्य कृतध्वजो नाम-रूपवान् विनयी, सरलः,
शूरवीरः, मानी, वाग्मी,
मधुर वचनः, सत्यवादी, जितेन्द्रियः,
सर्वगुण सम्पन्नः पुत्र आसीत् । एकदा निकटस्थे आश्रमे तपस्तपस्यमानः
महर्षिगालवः सर्वसुलक्षणोपेतं कुवलयनामानम् एकं सर्वाङ्गसुन्दरम् अश्वमादाय राज्ञः
शत्रुजितः पार्श्वमाजगाम । अङ्गुल्या तमश्वं निर्दिशन् उवाच - 'महाराज ! अश्वमश्वः समस्तभूवलयस्य परिक्रमणं निर्विघ्नं
निष्परिश्रममनोवेगेन कर्तुं समर्थः अतोऽयं कुवलयाश्वः । सूर्यदेवेन
प्रेषितोऽयमश्वः आकाश-पातालयोः, सागर-पर्वतयोः यत्र कुत्रापि
अव्याहतं गन्तुं शक्नोति राजन्! ममाश्रमे एकः पापाचारी नीचः दुर्दान्त दैत्यः
आगत्य तपश्चर्यायां विघ्नमुत्पादयति, आश्रमं च विध्वंसयति।
राजा हि तपस्विनां पुण्य-भाग् भवति, अतः पुण्याश्रम-रक्षणं
तस्य परमं पावनं कर्तव्यमस्ति इमं कुवलयाश्वमुपायनीकर्तुमागतोऽस्मि । एतस्याश्वस्य
साहाय्येन ममाश्रमस्य परिरक्षणं विदधातु अत्रभवान् ।' इत्युक्त्वा
गतवति महर्षिगालवे महाराजः शत्रुजित् कर्तव्यपरायणं सुयोग्यं शूरं तनयं ऋतध्वजं
तदाश्रम - परिरक्षणे नियुयोज ।
आशुगं कुवलयाश्वमादाय कृतध्वजः
गालवाश्रम-परिरक्षणे तत्परो बभूव यथाहि मञ्चस्थः पुरुषः उपचारात् मञ्च इत्यभिधीयते,
तथैव कुवलयाश्वमारूढः ऋतध्वजः कुवलयाश्वेति नाम्ना ख्यतिमगात् ।
गालवाश्रमे दुष्टानां शासितरि विद्यमाने कुवलयाश्वे निर्विघ्नं यज्ञादिक्रिया
अभूवन्, उपद्रवाश्च शान्ता अभवन् ।
एकदा सन्ध्योपासनां कुर्वति
महर्षिगालवे, आश्रमस्य रमणीयतामवलोकयति च
कुवलाश्वे एको मायावी शूकर रूपेण आश्रमे अत्यन्त- मुपद्रवं चकार कोलाहलमाकर्णयन्
सन्नद्धः धृतधन्वा राजकुमारः कुवलयाश्वमारुह्य शूकरमन्वधावत् बाणाहतः शूकरः
प्राणान् परित्रातुं पलायाञ्चक्रे पाताललोकञ्च प्रविवेश । तमनुसरन् कुवलयाश्वोऽपि
तं प्रदेशमनुजगाम । तत्र अमरावतीमिव परितः शोभमानां रम्यामेकां नगरीमवलोक्य
साश्चर्योराजकुमारः रम्यमेकं विशालं राजप्रासादं निकषा आजगाम । तत्र क्षिप्रं
व्रजन्तीमेकाकिनीं प्रमदा- मवलोक्य निःशङ्कं तामनुससार । तत्र सुवर्णमये पर्यङ्के
कदाचिदधिशयानां कदाचिच्च उपविशन्तीं विलपन्तीम् अपरां रतिमिवसर्वाङ्गसुन्दरीम्
अपरिणीतां प्रमदामवलोक्य चकितचकितः कुवलयाश्वः चकमे । सापि सुन्दरी
सर्वाङ्गसुन्दरं राजकुमारं समवलोक्य दीर्घं निःश्वस्य मुहुर्महुमुमूर्च्छ ।
राजकुमारः मूर्च्छितां तां प्रमदां परितः परिभ्रमन्तीं सचिन्तां तत्सखीम्
समाश्वासयन् सखी-मूर्च्छा-कारणं पप्रच्छ । सा प्रत्युवाच - 'देव!
देवलोके विश्वावसुनामा प्रसिद्धो गन्धर्वराजः । तस्यैव तनयेयं सुदती मदालसा नाम।
एकदा वज्रकेतोः दानवस्य भयङ्करः शत्रुदमनः पातालकेतुर्नाम दानवः पित्रा सह उद्याने
परिभ्रमन्तीं मे सखीं मायाजालेन जहार श्रूयते, आगामिन्यां
त्रयोदश्यामसुरोऽयम् इमामसहायां परिणेष्यति । इदमाकर्ण्य आत्महत्यातत्परां मे सखीं
कामधेनुः गतदिवसे आश्वासयामास-तनये! मा गा विषादम् । अयं हि दानवो मलयकेतुः न
त्वां शक्नोति धर्षितुम् मर्त्यलोकात् कश्चिन्महाशूरः आगत्य वाणेन पातालकेतोः
प्राणान् संहरिष्यति कामधेनु वचनं नान्यथा भवितुमर्हतीति विश्वसन्ती वालेयं
प्राणान् धारयति।' ‘देवोऽपि स्वपरिचयेन अनुगृहातु आवाम्'
इति तया पृष्टः स प्राह-'मर्त्यलोके नृपेषु
मुकुटायमानः शत्रुजिन्नाम महाराजः स्वाः प्रजा इव प्रजाः पालयति तस्यैव तनयोऽहं
कुवलयाश्वो नाम युवराजः । महर्षि-गालवाश्रम-परिरक्षणे जनकेन नियुक्तोऽयंजनः
तदाश्रम - विघ्न-कारिणमेकं मायाविनं भयङ्करं शूकरं-मद्वाण भयात्
पलायमानमनुसरन्त्रिहागतः ।' परस्पर-परिचयेन प्रमोदमान-मानसा
मदालसा - सखी कुण्डला तदानीमेव सख्याः पाणिं गृहीतुमनुरुरोध राजकुमारम् ततः
स्मरणमात्रेण तत्रोपस्थितः महर्षि-तुम्बुरुः वैदिक-विधिना मदालसा - कुवलयाश्वयोः
विवाहं कारयामास ।
मदालसामादाय स्वराजधानीं जिगमिषति
कुवलयाश्वमारूढे राजकुमारे स्वसैनिकैः साकमाजगाम युयुत्सुः पातालकेतुः
तस्मिन्नाहवे नचिरादेव ऋतध्वज-नाराचैर्विद्धः पातालकेतुः पातालं गन्तुकामोऽपि
कृतान्त-शरणं जगाम । कुवलयाश्वश्च समदालसः आजगाम सकुशलं स्वशरणम् मातापितरौ
कृताभिवादनी नवपरिणीतां मनोहराङ्गीं प्रमदां स्नेहभाजनं तनयञ्च दर्श दर्श
अमन्दमानन्दमवापतुः।
एवंगच्छति काले एकदा कुवलयाश्वः
कालिन्दी - तटमाजगाम, यत्र पातालकेतोरनजुः
धृत-कपट-मुनिवेषः तालकेतुः प्रतिशोधभावनया तपस्तपस्यन्नासीत् स च कपट-तामसः छद्मना
कुवलयाश्व-कण्ठाभरणमादाय यमुनायां प्रविवेश ततो मायया कुवलयाश्वपितरं निकषा आगत्य
तत्कण्ठाभरणं प्रदर्श्य 'एकस्मिनन्नाहवे कुवलयाश्चो
दैत्यैर्हत' इति विश्वासयामास । श्रुत्वेमं शोकावहं
वृत्तान्तं दृष्ट्वा च तदीयं कण्ठभूषणम् सती मदालसा सद्यः प्रणान् जहौ ।
एवं छलेन मदालसाया निधनं विधाय
यमुनातटमागत्य तालकेतुः तत् कण्ठाभरणं कुवलयाश्वाय समर्पयन् तत् कृतज्ञतामाददानः
अन्तर्हितोऽभवत् । ऋतध्वजश्च राजधानीमागत्य प्रियतमायाः प्राणवियोगमाकाय शोकाकुलो
मूर्च्छितोऽभवत् ।
व्यतीतेषु कतिपय दिवसेषु
नागराजाश्वतरस्य तपस्यया भगवतो भूतभावनस्य प्रसादेन मदालसा-पुनस्तामेव तनुमवाप
कुवलयाश्वं प्रियतमं पतिञ्च प्राप्य परम-प्रमोदं लेभे । युवराजोऽपि एतेन आत्मानं
परमसौभाग्यशालिनं मेने।
कालक्रमेण शत्रुजिन्महाराजः परलोकं
जगाम कुवलयाश्वो महाराजो बभूव। सकौशलं महीं शासति पुत्रवत् प्रजाः पालयति
कुवलयाश्वे मदालसा सर्वाङ्गसुन्दरं तनयं सुषुवे पिता तस्य विक्रान्त इति नामधेयं
चकार माता मदालसा पल्यङ्के उत्तानशयं शिशुं लालयन्ती वारम्वारं बोधयामास-
शुद्धोसि रे तात ! न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव।।
पञ्चात्मकं देहमिदं न तेऽस्ति
नैवास्यत्वं रोदिषि कस्य हेताः ॥
तात ! -
शुद्धोऽसि बुद्धोऽसि निरञ्जनोऽसि
संसार - माया परिवार्जितोऽसि'।
एतेन मातुरुपदेशेन विक्रान्तः
बाल्ये एव वयसि परिवव्राज ।
व्यतीतेषु कतिपय-वर्षेषु मदालसा
द्वितीयं तनयमसूत । पिता तस्य सुबाहु इति नाम अकरोत्। सुवाहुमपि माता पल्यङ्के
लालयन्ती पूर्ववदेव 'शुद्धोऽसि
बुद्धोऽसीति बोधयामास अयमपि आत्मवित् सन् तथैव प्राव्रजत् । एवमेव तृतीयं
शत्रुमर्दन नामानं तनयं लालयन्तीं बोधयन्तीञ्च मदालसां महाराजो न्यवेदयत्- 'महादेवि! अयमपि तृतीयस्ते तनयः तवोपदेशन तथैव परिव्राजको भविष्यति । एवं
सति प्रजातन्तुरेव विच्छिन्नो भवेत्।' महाराजेन अरण्ये
रुदितम् । मातुरुपदेशेन शत्रुदमनोऽपि अग्रजावनुसरन् आत्मज्ञानेन माया-मुक्तोऽभवत्
। एतेन मदालसा मानसोल्लासा कुवलयाश्वश्च शोकाकुलो वभूव ।
कालक्रमेण मदालसा तुरीयं तनयं
प्रासूत । शिशोर्नामकरणाय समुद्यते महाराजे मदालसा प्रोवाच- 'देव ! एतस्य नामधेयमहं विधास्यामि अलर्क इति ।' अलर्कस्य
कोऽर्थः इति खिन्नमना राजा तां पप्रच्छ । मदालसा प्रत्युवाच - 'राजन् ! आत्मनो यथा विक्रान्तत्वम्, सवाहुत्वम्
शत्रुमर्दनत्वं च नास्ति, यथेमानि नामानि निरर्थकानि तथैव
अलर्केति नामापि निरर्थकम् ।' जननी एनमपि तुरीयं अलर्कनामानं
तनयं समुपदेशेन परिव्राजयिष्यतीति चिन्ताकुलो महाराजो महादेवीं सविनयं
प्रार्थयामास - “ एकोऽपि भवतु महतो राज्यस्य उत्तराधिकरीति ।'
एनं चतुर्थतनयं मदालसा सम्बोधयामास
- 'पुत्रक ! समाजकल्याणाय लोकद्वयसाधनाय च अध्यात्मवादेन सह आधिभौतिकवादस्य
समन्वयः सामञ्जस्यं सन्तुलनञ्च आवश्यकम् उभयोः समन्वये सत्येव उभयोः
पूर्णसामञ्जस्ये भवत्येव पूर्णमानवताया विकासः समाजस्य च कल्याणं भवति । जीवेषु
स्वात्मरूपं पश्यन्नेव मानवः आत्मयाजी भवति । आत्मयाजी सन्नेव
स्वाराज्यमधिगच्छतीति' माता गुरुणां गुरुरिति मन्वानी
मतिमान् अलर्कः राज्यसिंहासनमारूढः प्रजाः सम्यक् पालयामास ।
मैत्री
लेखिका- आशा
एकदा पद्मतटाके कमलकिञ्जल्कं पिवता
केनचित् भ्रमरेण सह कस्यचित् पङ्कस्थितस्य कीटस्य मैत्री सञ्जाता। प्रतिदिनमुभौ
वार्तालापं कुरुतः स्म । गच्छता कालेन द्वयोर्घनिष्ठसख्यम् अभवत् । प्रतिदिनं
भ्रमरः उद्यान - कुसुमानां वन्यपुष्पाणां च सौन्दर्यम्,
गन्धम्, परागस्य मधुररसं च प्रशंसति स्म। एकदा
कीटः कथितवान्, ‘मित्र! ममापि अस्ति किञ्चित् सुरम्यम् सुखदं
विहारस्थानम् श्वोऽहं त्वां मदीय-रमणीय-विहारस्थानस्य दर्शनं कारयिष्यामि ।'
मधुपायी मुग्धो भ्रमरः सम्मतः ।
परेद्युः प्रत्यूषे कीटः भ्रमरं
स्वाभीष्टदेशे किमपि विष्ठागारम् अनयत् । तत्र प्राप्य भ्रमरो रुद्धश्वासो
मृतप्राय आसीत्, पलद्वयमपि स्थातुं नाशक्नोत् ।
तदा पद्मवनं प्रत्यावृत्तो भ्रमरः
स्वमित्राय कीटाय कथितवान्, 'साधु, मित्र ! श्वोऽहं त्वां स्वं विहारस्थानं नेष्यामि ।' अन्येद्युः कीटं स्वपृष्ठम् आरोप्य उडुयमानः भ्रमरः कलकलनिनादित-
गङ्गातीरे वसन्तोल्लासितं किञ्चिदुद्यानं प्राप्तवान् । तत्र पुष्पसौरभेण
हृष्टचित्तो भ्रमरः पुलकितः आसीत् । स्वबन्धुकीटं कस्मिन्नपि
सौरभयुक्त-विकसित-कुसुमे उपवेश्य कथितवान् - 'भो मित्र !
त्वमत्र स्थित्वा पुष्पसौरभं सेवस्व यावदहं तुभ्यं पुष्पेभ्यो नानाविधं मधु
समाहरामि ।' इदम् उक्त्वा पुष्पेभ्यो मधु आहरन् प्रसन्नो
भ्रमरो विचरति स्म ।
अत्रान्तरे प्रदोषकालः समायातः ।
तदा पुष्पदलानि किञ्चिद् निमीलितानि । उद्यानस्थितस्य शिवमन्दिरस्य उपासकश्च
तत्पुष्पम् अवचित्य भगवन्मालायाम् अग्रथ्नात्। तदा कीटोऽपि मालास्थितपुष्पे आवद्धः
तत्परं पुरोहितो मालां प्रभुचरणारविन्दे अर्पितवान् । अलक्षितः कीटोऽपि
तत्रैवासीत् ।
सन्ध्यायाः समागमेन किञ्जल्कम्
आहृत्य प्रत्यावृत्तो भ्रमरः पुष्पं च स्वमित्रं कीटं च सर्वत्र अन्वेषयति स्म ।
कुत्र पुष्पं कुत्र वासौ कीटः ? अधुना भ्रमरः
स्वमित्राय व्याकुलः तस्य वियोगे क्षुब्धचित्तश्च आसीत् । मित्रं न प्राप्य
निशागमे स स्वगृहं गतः ।
अन्येद्युः प्रत्यूषे पुरोहितो
मालां किञ्चिद् म्लानां दृष्ट्वा देवपीठाद् अपासारयत्। तदा सा माला अधःस्थितयोः
राधाकृष्णयोः युगलमूर्तेः चरणेषु आपतिता। तत्परं पुरोहितः ताम् आदरपूर्वकं
गङ्गायाः निर्मलजले व्यसर्जयत्। तदा विमलजलस्य पूतस्पर्शेन अन्तर्निविष्टकीटः
पुष्पे प्रफुल्लित आसीत् । जलस्य छन्दसा पुष्पमिव स्वैरं स्वैरं प्रवहति स्म ।
प्रभुचरणधन्यकीटस्तु गङ्गाकोडे नवजीवनस्य सुखदानन्दं सेवते स्म ।
अत्रान्तरे भ्रमरः स्वमित्रम्
अन्वेषयन् गङ्गातीरं प्राप्तः । तत्र जले प्रवहन्तं पुष्पोपविष्टं कीटम् अपश्यत् ।
यदा स कीटं पुष्पादपनीय स्वस्थानं नेतुकामः आसीत् तदा तस्य मनोभावं ज्ञात्वा कीटेन
कथितम् - 'भो मित्र ! सम्प्रति साधुसङ्गेन
प्रभुचरणारविन्देषु धन्यो मातुर्गङ्गायाः पावननीरेण पूतश्चाहं नवजीवनसुधां सेवे।
विगतजीवनस्य स्मृतिरपि मम दुःसहा । अतीतं मा स्मारय माम्। धन्यजीवनोऽहम्। मामत्रैव
विहाय स्वाभीष्टस्थानं गच्छ । नवविकसितानि पुष्पाणि नव्यसृष्टेः सन्देशप्रदानाय
त्वामाह्वयन्ति ।'
मधुमती
लेखिका-
अमिता मालवीया
अन्येद्युः प्रभाते,
सति प्रकाशे, अनुदिते एव रवौ पुत्रं
स्वमातुरङ्के निधाय मधुमती स्वगेहान्निरगच्छत् अस्ति सम्पादनीयं बहुकार्यजातम्
अद्य, रात्रौ ज्वराक्रान्ततया यत् कर्तुम् असमर्था सा अभवत्
। 'प्रथमं रामदयालोः गृहे गन्तव्यम्, सूर्योदये
एव स देवार्चनं करोति, तस्य कनिष्ठः पुत्रः प्रातरेव
विद्यालयं गच्छति, मा भूत् तत्र कार्यबाधा' इति विचारयन्ती ज्वराक्रान्ताऽपि सा तद्गृहम् अगच्छत् ।
गृहे प्रविशन्तीमेव तां गृहस्वामिनी
जगाद - कथम् ? त्वं सायं नाऽऽयाता ? एवं कार्यं न चलिष्यति, मम गेहे समय एव नित्यं कार्य
सम्पादनीयं भवति मधुमती ‘आम्’ इत्युक्त्वा
स्वकार्ये सलग्ना अभवत्, भोजनस्थलं स्वच्छमकार्षीत्, पात्राणि च स्वच्छान्यकरोत्, यथास्थलं च तानि
संस्थापयितुम् उद्यता चाऽभवत्-किन्तु सहसैव तदानीम् एकं लघुपात्रं ज्वरकारणात्
प्रकम्पमानायाः तस्याः हस्तात् प्रस्खलितम् । पूर्वत एव संक्रुद्धमानसो गृहस्वामी
रामदयालुः तत्पात्रप्रपतनशब्देन सहैव साक्रोशं मधुमतीम् अवादीत्- 'मधु ! निर्गच्छ त्वं मम गृहात्, (तर्जनीञ्चोद्यमयन्)
निर्गच्छ, सत्वरं निर्गच्छ।' मधुमती च
स्वापराधं मन्यमाना इव किञ्चिद्वक्तुं प्रचक्रमे। किन्तु मधुमतीं तां
प्रस्फुरिताधरामेव वीक्ष्य रामदयालुः पुनर्जगाद— उत्तरं
दातुमीहसे? अधुनैव अहं त्वां ताडयामि, इयमेव
प्रवृत्तिः ते वृत्तिं नाशयति, अनयैव प्रवृत्या त्वं
स्वभर्तारम् अभक्षयः, एभिरेव कर्मभि.... ' इति प्रलपन् स मधुमतीं प्रहर्तुकाम इवाऽभवत्, पल्या
निवारितः स व्यरंसीत्।
मधुमती तु तदानीं वाग्वाणैराहता
द्विगुणीकृतज्वरव्यथा, 'प्रातरेव किमिदं
संवृत्तम्, किञ्चाऽग्रे भावि' इति
चिचिन्तयन्ती स्वगृहं प्रत्यागच्छत् भग्नप्राये च स्वकीये शयने निपत्य विचारपरा
बभूव । पुरावृत्तं तत्सव जीवनवृत्तं चित्रितमिव समक्षम् अनृत्यत् । विचारयति स्म
सा-
'यस्मिन् कुदिवसे मम जन्म अभवत्
तस्मिन्नेव दिने जनको मे दुर्घटनायाम् आहतः, ततो दशमेऽहनि
पञ्चत्वमगमत् । स्वमातापित्रोः अहमेवैका सन्ततिः। पालनं रक्षणं च यस्याः
मातामह्याः संरक्षणेऽभवत् । मातुः व्यथाकारणात् बालभावेऽपि न कदापि हासभावः नाऽपि
च कदापि क्रीडाभावः, केवलं जनन्या सह गृहे गृहे सेवावृत्तिः
क्षणे क्षणे न्यक्कारः दुत्कारश्च । नितराञ्च इयमेव श्रुतिः 'मज्जन्म काल एव पितुर्निधनम्' इति । किमु सत्यमेव
अहं पितृहन्त्री ? यद्येवं कथं मे अस्ति जीवनस्थितिः ?
अध्ययनम्?
आम्, अस्मि तु सम्प्रति स्नातकपरीक्षोत्तीर्णा,
किन्तेन ?, भवतु शिक्षा कासाञ्चित् कृते
सुखकरी, अत्र हि मज्जीवने तु अबलात्वम् अबलात्वमेव।
ज्ञातिजनप्रेरणया में माता मां पठितुं विद्यालये प्रेषयत् । आसीत् कृपा
परमेश्वरस्य, शिक्षिकाः सदैव मद्विषये परमोदाराः दयालवश्च
अभूवन् । तासामेव आशीभिः माध्यमिकी परीक्षा प्रथमश्रेण्यामुत्तीर्णा मया, किन्तु किन्तेन ?
यद्यपि हि स शिक्षाकालः
मज्जीवनोपवने मधुमास इव समागमत्, यस्याः
प्रभावेण माधवीलतेव मम तनूलता अपि विकसिता पुष्पिता चाऽभवत् । विकसनपरायणे कुसुमे
तिष्ठति एव मधुपानाम् आकर्षण हेतुः ।
क्रमेण उत्तरमाध्यमिकी परीक्षाऽपि
मया उत्तीर्णा । समुदभवत् उत्साहः विश्वविद्यालयीयां शिक्षाम् प्राप्तुम् । एकदा
समये एतदर्थं मया प्रार्थिता मे माता मां न जाने किम् किम् अभाषत । श्रुत्वा च
तत्तदानीं काऽऽसीन्मे मनोदशा ? तदनुस्मृत्य
अद्यापि व्यथते मे हृदयम् तदनु मासं यावत् नाऽहं गृहाद् बहिरगमम् । शनैः शनैः
सामान्ये जीवनकर्मणि सञ्जाते महाविद्यालये प्रवेशाय अम्वयानुमतिः प्रदत्ता तदानीं
विचारितं मया पठित्वा मातुरग्रतः पुत्राऽभाववत्त्वं दूरीकरिष्यामि इति विचारणा च
जीवने मे विनोदमनोदयत् ।
यौवनमुन्मदयति जीवनम्,
काचिदनुभूतिः दोलायति मानसम् न जाने किमिव अन्विष्यति दृष्टिः,
मन्ये कामप्यपूर्णतां पूरयितुं कामयते हृदयम् • 'प्रवृत्तिरेषा भूतानाम्, निवृत्तिस्तु महाफला।'
एतस्मिन्नेवान्तरे तु मम जीवनमस्पृशत विनोदः, साक्षात्
सुरूपधरो विनोदः । एकदा हि-
विनोदः - मधु !
'आम्'
विनोदः - किं विचारयसि ?
'हुम्, ? न
किमपि '
विनोदः - मधु !
'आऽऽम्, कथय,'
विनोदः - मधु ! मम जीवनं न त्वां
विना
.......(मनस्येव) 'किं सम्भवत्यत्र,'
विनोदः - मधु ! देहि मे निजपाणिम्,
गृह्णामि तम् ।
.......'विनु ! मम अम्वा वदति, 'नास्ति धनम्, कुतो देयं भवेद् यौतुकम् सुदायं वा ।'
विनोदः - 'मधु ! एवं मां शुचः । प्रेमपरे सम्बन्धे का आवश्यकता यौतुकस्य, सुदायस्य वा?'
............'मम अम्बा एवात्र भवतु प्रमाणम् ।'
दैवाद् आवयोर्मातापित्रोरनुज्ञया
विवाहो निश्चितः। प्रहर्षनिर्भरां दीपावलीं सम्मान्य कार्तिक शुक्लपचम्यां
विनोदजनकः वरशोभायात्रां संयोज्य मम लघुगेहमागच्छत् द्वारि पूजनं सम्पन्नम् ।
वारयात्रिकाणां सत्कारो विहितः । यज्ञवेदिकायां स्थितयोरावयोः प्रक्रमिते
चाग्निपरिक्रमणं तत्र बान्धवैः सह संस्थितः तत्पिता 'लखमीदत्तः' इतस्ततो दृष्टिं प्रधावयन् सहसा
अवरुन्धत्रिव यज्ञोयं कार्यकलापं समभाषत-
अयि स्नुषा- मातः ! नाऽत्र दृश्यते
किमपि सुदायम् ? क्व सन्ति शाटिकाः ? क्व च सन्ति पात्राणि? क्वाऽऽस्ते पक्वान्नम् ?
क्व च विद्यत गार्हस्थ्य प्रयोज्यो विविधः सम्भारः ?
तदानीं वज्राहतां इव ममाऽम्वा
प्रावोचत्- महामान्य ! रक्ष मे सम्मानम्, जानासि
मामकीनां परिस्थितिम्, पुनः कथमेवमत्र भाषसे ।
लखमीदत्तः ‘यौतुकं विना च भवेद् विनोदस्य विवाहः' इति
समुद्घोषयन् क्रोधाविष्टः स्वासनादुदतिष्ठत् ततस्तत्र किमभवत् न ज्ञातं मया
मूर्च्छावशात् । अपगतायां मूर्च्छायां प्रभाते सर्व पूर्ववृत्तं तत् स्वप्नमिव
अदृश्यत । ततोऽग्रिम वृत्तं नैव स्मरणीयम्, नैव स्मरणीयम् ।
गते बहुतिथे काले
ज्ञातिजनसम्पर्कात् एकेन उदारतरेण यूना सह समपद्यत मम विवाहः सुदायं विना ।
पञ्चवर्षाणि यावत् सुखं संस्थिता आवयोः गृहस्थता तदनु सन्ततैरभावाच्चिन्ताततिरजायत
दैवादेकदा कश्चिद्-दैवज्ञो मम गृहमागच्छत् सन्ततिकाम्यया आवां तमपृच्छाव । आवयोः
हस्तरेखाः सम्परीक्ष्य स दैवज्ञः तदानीं ममेशं रमेशं मत्तः किञ्चिद्दूरम् अनयत् -
मन्ये,
स एतं मम जीवनादेव दूरे कर्तुं प्रायतत । ततः प्रभृति रमेशः मां न
किञ्चिदपि प्रभाषते स्म, सदा चिन्तामग्न एव सततं मम सामीप्यं
परिहरति स्म ।
दैवज्ञप्रभावात्समुद्भूतम् इमं
व्यवहारम् असहमानाऽहम् एकदा तमपृच्छम् स्वामिन्! मम कोऽपराधः ?
मया किं कृतम् ? यदेवं भवान् रुष्टः ? । स तु अनुक्त्वैव किञ्चित् मत्तो दूरमगच्छत् । अथ कदाचिद् अन्येषां
मुखात्तत् कोपकारणम् अज्ञासिषम्-दैवज्ञः तदानीं मज्जीवने सन्ततिसुखाऽभावमघोषयत्’
इति। जनाश्च तं रमेशं द्वितीयं विवाहं कर्तुं प्रेरयन्ति स्म । हा!
कष्टतरं स्त्रीजीवनम् !
किन्तु धन्यो रमेशः,
सुदुःखितोऽपि चिन्तातुरोऽपि स नैच्छद् द्वितीयं विवाहम्। गते काले
कदाचित् चिकित्सक निजमित्रमेकं स सर्वमेतत् स्वचिन्ताकारणम् आचचक्षे । तस्य
प्रेरणया, साहाय्येनापि च तस्य, मम
चिकित्सा समभवत्। अतिव्ययसाध्यामपि तां मच्चिकित्सां रमेशः सोद्योगं सहर्षम्
अकारयत् । परमेशकृपया पूर्णो मनोरथः आगत स कालः, य
सम्पाद्येत सुखमयम् आवयोर्जीवनम्। ‘रमेशो वापः, जननी चाऽहम् इति भाविसुखप्रतीक्षायां सुखं व्यतीताः पञ्चमासाः
मत्साहाय्यार्थ संरक्षणार्थञ्च वृद्धा मज्जननी अपि गृहे सादरम् आहूता ।
किन्तु हन्त! अनतिक्रमणीयं
विधिविधानम् । एकदा रात्रिमुखे नित्यनियमवशात् तदागमन प्रतीक्षमाणाऽहं द्वारि
स्थिता आसम् । सहसा जनसन्दोहमेके स्वगृहाभिमुखमायान्तम् अपश्यम् किमेतत् ?
इति चिन्तया व्यग्र- मानसा चाऽहं मातरम् आह्नायितुम् गृहान्तः
प्राविशम् यावच्च पुनः मात्रा सह परावर्ते, तावत् ते सर्वे
एव सखेदं भारवाहनयानेन आहतां मृतप्रायां मदीशकायां वहन्तः गृहद्वारमाजग्मुः ।
दृष्ट्वा च तां स्थितिं मुक्ताक्रन्दा मूर्च्छापन्नाऽहं भूमावपतम् कतिभिरेव क्षणैः
हा हत्याक्रन्दपूरिते जनसंकुले तदानीं गृहद्वारि एव ..। क्रूरो विकरालः कालस्तदा
समीपमागतोऽपि मयि यत् कृपालुरभवत् इत्यत्र मदुर्भाग्यमेव कारणम् ।
भगवन्! एवं कष्टादपि कष्टतरं मया
सर्वमेव सोढम्, आत्मजे एव स्वामिरूपं पश्यन्ती
अद्यावधि जीवनमपि धारितम्, अत्र हि राम इव दयालुः रामदयालुः
अभवन्मम आश्रयदाता, तस्य पत्नी सरस्वती च साक्षात् सरस्वती
इव समभून्मम प्रबोधिका, मातेव चाऽभूत् परिपालिका, किन्तु हन्त ! अद्य तावपि रुष्टौ, कथमधुना जीवनं
धारयिष्ये? दीनबन्धो ! सम्प्रति त्वमेवासि शरणम्, त्वमेवासि शरणम्....।
इत्यं चक्षुषी निमील्य निःशब्दं
मनस्येव विलपनपरायाः रोदनरतायाः तस्याः कुमारोऽजागरीत्-वृद्धा माता च समाह्वयत्
मधू! मधू! ..... अथ कथमपि साहसं सञ्चिन्वती सा रुदन्तं बालम् अङ्के नेतुं
शयनादुदस्थात् । एतस्मिन्नेवान्तरे द्वारि गृहस्वामिन्याः सरस्वत्याः मातुः शब्दः
अश्रूयत । यावत्सा मधुमती कुमारम् अङ्के गृह्णाति तावदेव गृहान्तः प्रविश्य
मधुमतीं निजाङ्के कुर्वती सा सरस्वती सोद्वेगं जगाद, अये मधू! 'त्वन्तु असि सम्प्रति ज्वराक्रान्ता?
अस्यामेव अवस्थायां त्वमस्मान् सेवितुं गताऽऽसीः! धन्याऽसि। तावदेव
च रामदयालुः समीपमागत्य प्रोवाच - पुत्रि ! क्षमस्व माम्, अहमस्मि
इदानीं अतीव दुःखितः, यदवाच्यमपि बहु त्वामवोचम् । अस्ति
चाऽत्र कारणम् समग्रा रात्रिः अकृतस्वापयोरेव आवयोर्व्यतीता-यतो हि निशीथे सूचना
अधिगता 'ह्यः व्यापारे महती हानिः जाता' इति । अधुना मयाऽनुभूता स्वस्खलतिः, तस्मात् क्षमस्व
किमधिकं त्वां वच्मि, अद्यप्रभृति त्वं मम परिवारस्यअन्यतमा
सदस्या असि, तवाऽयं कुमारश्च ममास्ति कुमारः, भवतु एष मम सन्ततिषु समानभाग् दत्तकश्च पुत्रः ।
इदं सर्वम् अदृष्टपूर्वं पश्यन्ती
वृद्धा मधुमत्याः जननी आशीर्भिः रामदयालुपरिवारं पोषयन्ती जगाद -
फलतु जनहितार्थं वैभवं ते दयालो !
विदलतु किल दैन्यं
जायतां,
ते प्रयत्नः ।
वितरतु मधु वाचा भारती ते सदैव
भवतु तव महेशो
नित्यकल्याणकारी ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें