॥ अथ कालवर्गः ॥
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षति ।
प्रतिपद्
द्वे इमे स्त्रीत्वे तदाऽऽद्यास्तिथयो द्वयोः ॥ १ ॥
घस्रो
दिनाऽहनी वा तु क्लीबे दिवसवासरौ ।
प्रत्यूषोऽहर्मुखं
कल्यमुषःप्रत्युषसी अपि ॥ २ ॥
व्युष्टं
विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ।
प्रभातं
च दिनान्ते तु सायं संध्या पितृप्रसूः
प्राह्णाऽपराह्ण-मध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३ ॥
निशा
निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
विभावरीतमस्विन्यौ
रजनी यामिनी तमी ॥ ४ ॥
तमिस्रा
तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता ।
आगामिवर्तमानार्हयुक्तायां
निशि पक्षिणी ॥ ५ ॥
गणरात्रं
निशा बह्व्यः प्रदोषो रजनीमुखम् ।
अर्धरात्रनिशीथौ
द्वौ द्वौ यामप्रहरौ समौ ॥ ६ ॥
स
पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।
पक्षान्तौ
पञ्चदश्यौ द्वे पूर्णमासी तु पौर्णिमा ॥ ७ ॥
कलाहीने
साऽनुमतिः पूर्णे राका निशाकरे ।
अमावास्या
त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८ ॥
सा
दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ।
उपरागो
ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥
सोपप्लवोपरक्तौ
द्वौ अग्न्युत्पात उपाहितः ।
एकयोक्त्या
पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥
अष्टादश
निमेषास्तु काष्ठा त्रिंशत् तु ताः कला ।
तास्तु
त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम् ॥ ११ ॥
ते
तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च ।
पक्षौ
पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥
द्वौ
द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः ।
अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः ॥ १३ ॥
समरात्रिदिवे
काले विषुवद्विषुवं च तत् ।
पुष्पयुक्ता
पौर्णमासी पौषी मासे तु यत्र सा ।
नाम्ना
स पौषो माघाऽऽद्याश्चैवमेकादशाऽपरे ॥
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥
पौषे
तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ।
स्यात्तपस्यः
फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥
वैशाखे
माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ।
आषाढे
श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥
स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः
समाः ।
स्यादाश्विन
इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥
बाहुलोर्जौ
कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ।
वसन्ते
पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः ॥ १८ ॥
निदाघ
उष्णोपगम उष्ण ऊष्मागमस्तपः ।
स्त्रियां
प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥
षडमी
ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ।
संवत्सरो
वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ २० ॥
मासेन
स्यादहोरात्रः पैत्रो वर्षेण दैवतः ।
दैवे
युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥
मन्वन्तरं
तु दिव्यानां युगानामेकसप्ततिः ।
संवर्तः
प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥
अस्त्री
पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं
वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
स्याद्धर्ममस्त्रियां
पुण्यश्रेयसी सुकृतं वृषः ।
मुत्प्रीतिः
प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ॥ २४ ॥
स्यादानन्दथुरानन्दः
शर्मशातसुखानि च ।
श्वःश्रेयसं
शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥
भावुकं
भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।
शस्तं
चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
मतल्लिका
मचर्चिका प्रकाण्डमुद्धतल्लजौ ।
प्रशस्तवाचकान्यमून्ययः
शुभाऽऽवहो विधिः ॥ २७ ॥
दैवं
दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ।
हेतुर्ना
कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥
क्षेत्रज्ञ
आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ।
विशेषः
कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥
जनुर्जननजन्मानि
जनिरुत्पत्तिरुद्भवः ।
प्राणी
तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥
जातिर्जातं
च सामान्यं व्यक्तिस्तु पृथगात्मता ।
चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ३१ ॥
॥ इति कालवर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें