॥ अथ धीवर्गः ॥
बुद्धिर्मनीषा
धिषणा धीः प्रज्ञा शेमुषी मतिः ।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः
॥ १ ॥
धीर्धारणावती
मेधा संकल्पः कर्म मानसम् ।
अवधानं
समाधानं प्रणिधानं तथैव च ।
चित्ताभोगो
मनस्कारश्चर्चा संख्या विचारणा ॥ २ ॥
विमर्शो
भावना चैव वासना च निगद्यते ।
अध्याहारस्तर्क
ऊहो विचिकित्सा तु संशयः ।
संदेहद्वापरौ
चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥
मिथ्यादृष्टिर्नास्तिकता
व्यापादो द्रोहचिन्तनम् ।
समौ
सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥
संविदागूः
प्रतिज्ञानं नियमाश्रवसंश्रवाः ।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः
॥ ५ ॥
मोक्षे
धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
मुक्तिः
कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥
मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः
स्त्रियाम् ।
रूपं
शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥
गोचरा
इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
कर्मेन्द्रियं
तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥
तुवरस्तु
कषायोऽस्त्री मधुरो लवणः कटुः ।
तिक्तोऽम्लश्च
रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
विमर्दोत्थे
परिमलो गन्धे जनमनोहरे ।
आमोदः
सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १० ॥
समाकर्षी
तु निर्हारी सुरभिर्घ्राणतर्पणः ।
इष्टगन्धः
सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
पूतिगन्धस्तु
दुर्गन्धो विस्रं स्यादामगन्धि यत् ।
शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः
॥ १२ ॥
अवदातः
सितो गौरोऽवलक्षो धवलोऽर्जुनः ।
हरिणः
पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥
कृष्णे
नीलासितश्यामकालश्यामलमेचकाः ।
पीतो
गौरो हरिद्राभः पलाशो हरितो हरित् ॥ १४ ॥
लोहितो
रोहितो रक्तः शोणः कोकनदच्छविः ।
अव्यक्तरागस्त्वरुणः
श्वेतरक्तस्तु पाटलः ॥ १५ ॥
श्यावः
स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।
कडारः
कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥
चित्रं
किर्मीरकल्माषशबलैताश्च कर्बुरे ।
गुणे
शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
॥ इति धीवर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें