शनिवार, 17 मार्च 2012

गुरुगीता



।।प्रथमोऽध्यायः ।।

अचिन्त्याव्यक्तरूपाय निर्गुणाय गणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ।।१।।
 ऋषय ऊचुः ।
  सूत सूत महाप्राज्ञ निगमागमपारगम् ।
  गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ।।२।।
  यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते ।
  येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ।।३।।
  यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् ।
 तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ।।४।।
 गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः।
 त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ।।५।।
 इति संप्रार्थितः सूतो मुनिसङ्घैर्मुहुर्मुहुः ।।
 कुतूहलेन महता प्रोवाच मधुरं वचः ।।६।।
  सूत उवाच ।
  श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा ।
 वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ।।७।।
 पुरा कैलासशिखरे सिद्धगन्धर्वसेविते ।
 तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे ।।८।।
 व्याघ्राजिने समासीनं शुकादिमुनिवन्दितम् ।
 बोधयन्तं परं तत्त्वं मध्ये मुनिगणे क्वचित् ।।९।।
 प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् ।
 दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ।।१०।।
 पार्वत्युवाच ।
 ॐ नमो देव देवेश परात्पर जगद्गुरो ।
 त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ।।११।।
 विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् ।
 नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ।।१२।।
 दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे ।
 किमेतन्न विजानेऽहं कृपया वद मे प्रभो ।।१३।।
 भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् ।
 ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम् ।।१४।।
 केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् ।
 तत्कृपां कुरु मे स्वामिन्नमामि चरणौ तव ।।१५।।
 इति संप्रार्थितः शश्वन्महादेवो महेश्वरः ।
 आनन्दभरतिः स्वान्ते पार्वतीमिदमब्रवीत् ।।१६।।
 श्री महादेव उवाच ।
 न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् ।
 न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ।।१७।।
 मम रूपासि देवि त्वमतस्तत्कथयामि ते ।
 लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ।।१८।।
 यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
 तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।।१९।।
 यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
 विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ।।२०।।
 दुर्लभं त्रिषु लोकेषु तच्छृणुश्व वदाम्यहम् ।
 गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ।।२१।।
 वेदशास्त्रपुराणानि चेतिहासादिकानि च ।
 मन्त्रयन्त्रादिविद्यानां मोहनोच्चाटनादिकम् ।।२२।।
 शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः ।
 अपभ्रंशाः समस्तानां जीवानां भ्रान्तचेतसाम् ।।२३।।
 जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च ।
 गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ।।२४।।
 गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने ।
 तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ।।२५।।
 गूढाविद्या जगन्माया देहश्चाज्ञानसम्भवः ।
 विज्ञानं यत्प्रसादेन गुरुशब्देन कथयते ।।२६।।
 यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् ।
 तारकं भवसिन्धोश्च तं गुरुं प्रणमाम्यहम् ।।२७।।

देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् ।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ।।२८।।
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ।।२९।।
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ।।३०।।
अज्ञानमूलहरणं जन्मकर्मनिवारकम् ।
ज्ञानविज्ञानसिद्ध्यर्थं गुरुपादोदकं पिबेत् ।।३१।।
गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम्नः सदा जपः ।।३२।।
स्वदेशिकस्यैव च नामकीर्तनं भवेदनन्तस्य शिवस्य कीर्तनम् ।
स्वदेशिकस्यैव च नामचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम् ।।३३।।
यत्पादरेणुर्वै नित्यं कोऽपि संसारवारिधौ ।
सेतुबन्धायते नाथं देशिकं तमुपास्महे ।।३४।।
यदनुग्रहमात्रेण शोकमोहौ विनश्यतः ।
तस्मै श्रीदेशिकेन्द्राय नमोऽस्तु परमात्मने ।।३५।।
यस्मादनुग्रहं लब्ध्वा महदज्ञान्मुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ।।३६।।
काशीक्षेत्रं निवासश्च जान्हवी चरणोदकम् ।
गुरुविश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ।।३७।।
गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः ।
तत्पादं विष्णुपादं स्यात् तत्र दत्तमनन्तकम् ।।३८।।
गुरुमूर्ति स्मरेन्नित्यं गुरुर्नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ।।३९।।
गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ।।४०।।
स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ।।४१।।
अनन्याश्चिन्तयन्तो ये सुलभं परमं सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ।।४२।।
गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते ।
त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ।।४३।।
गुकारश्चान्धकारो हि रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ।।४४।।
गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् ।
भवरोगहरत्याच्च गुरुरित्यभिधीयते ।।४५।।
गुकारश्च गुणातीतो रूपातीतो रुकारकः ।
गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ।।४६।।
गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम् ।।४७।।
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
गरुडोरगगन्धर्वसिद्धादिसुरपूजितम् ।।४८।।
ध्रुवं देहि मुमुक्षूणां नास्ति तत्त्वं गुरोः परम् ।
गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ।।४९।।
आसनं शयनं वस्त्रं वाहनं भूषणादिकम् ।
साधकेन प्रदातव्यं गुरुसन्तोषकारणम् ।।५०।।
कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जौ गुरुसन्निधौ ।।५१।।
शरीरमिन्द्रियं प्राणमर्थस्वजनबान्धवान् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ।।५२।।
गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ।।५३।।
सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् ।
वेदान्तार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम् ।।५४।।
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम् ।।५५।।
कृमिकोटिभिराविष्टं दुर्गन्धकुलदूषितम् ।
अनित्यं दुःखनिलयं देहं विद्धि वरानने ।।५६।।
संसारवृक्षमारूढाः पतन्ति नरकार्णवे ।
यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ।।५७।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ।।५८।।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।५९।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।६०।।
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।६१।।
चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ।।६२।।
निमिषन्निमिषार्ध्वाद्वा यद्वाक्यादै विमुच्यते ।
स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ।।६३।।
चैतन्यं शाश्वतं शांतं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ।।६४।।
निर्गुणं निर्मलं शान्तं जंगमं स्थिरमेव च ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ।।६५।।
स पिता स च मे माता स बन्धुः स च देवता ।
संसारमोहनाशाय तस्मै श्रीगुरवे नमः ।।६६।।
यत्सत्त्वेन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ।।६७।।
यस्मिन्स्थितमिदं सर्वं भाति यद्भानरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ।।६८।।
येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ।।६९।।
यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ।।७०।।
यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ।।७१।।
यस्मै कारणरूपाय कार्यरूपेण भाति यत् । 
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ।।७२।। 
नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता । 
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ।।७३।। 
ज्ञानशक्तिसमारूढतत्त्वमालाविभूषणे । 
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ।।७४।। 
अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने । 
ज्ञानानिलप्रभावेन तस्मै श्रीगुरवे नमः ।।७५।। 
शोषणं भवसिन्धोश्च दीपनं क्षरसंपदाम् । 
गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ।।७६।। 
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । 
न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ।।७७।। 
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । 
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ।।७८।। 
गुरुरादिरनादिश्च गुरुः परमदैवतम् । 
गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः ।।७९।। 
एक एव परो बन्धुर्विषमे समुपस्थिते । 
गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ।।८०।। 
गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः । 
गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ।।८१।। 
भवारण्यप्रविष्टस्य दिङ्मोहभ्रान्तचेतसः । 
येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः ।।८२।। 
तापत्रयाग्नितप्तनामशान्तप्राणिनां भुवि । 
यस्य पादोदकं गङ्गा तस्मै श्रीगुरवे नमः ।।८३।। 
अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः । 
सम्यग्ज्ञानमहामन्त्रवेदिनं सद्गुरु विना ।।८४।। 
हेतवे जगतामेव संसारार्णवसेतवे । 
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ।।८५।। 
ध्यानमूलं गुरोर्मूतिः पूजामूलं गुरोः पदम् । 
मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ।।८६।। 
सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत् । 
गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम् ।।८७।। 
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । 
लब्ध्वा कुलगुरु सम्यग्गुरुमेव समाश्रयेत् ।।८८।। 
मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् । 
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुवर्न्तरं व्रजेत् ।।८९।। 
वन्दे गुरुपदद्वन्द्वं वाङ्मनातीतगोचरम् । 
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ।।९०।। 
गुकारं च गुणातीतं रूकारं रूपवर्जितम् । 
गुणातीतमरूपं च यो दद्यात् स गुरुः स्मृतः ।।९१।। 
अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः । 
योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ।।९२।। 
अयं मयाञ्जलिर्बद्धो दयासागरसिद्धये । 
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ।।९३।। 
श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः । 
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ।।९४।। 
कुलानां कुलकोटीनां तारकस्तत्र तत्क्षणात् । 
अतस्तं सद्गुरु ज्ञात्वा त्रिकालमभिवादयेत् ।।९५।। 
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते । 
तस्यां दिशि नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ।।९६।। 
साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् । 
भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ।।९७।। 
दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा । 
मनसा वचसा चेति प्रणामोष्टाङ्ग उच्यते ।।९८।। 
तस्यै दिशे सततमज्जलिरेष नित्यम् प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः । 
जागर्ति यत्र भगवान् गुरुचक्रवर्ती विश्वस्थितिप्रलयनाटकनित्यसाक्षी ।।९९।। 
अभैस्तैः किमु दीर्घकालविमलैर्व्यादिप्रदैर्दुष्करैः प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुजर्यैः । 
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ।।१००।। 
ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोः प्रसादतो नान्यत् साधनं गुरुमार्गिणाम् ।।१०१।। 
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः । 
मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ।।१०२।। 
गुरोः कृपाप्रसादेन ब्रह्मविष्णुशिवादयः । 
सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यन्तकर्मणि ।।१०३।। 
देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरुः । 
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ।।१०४।। 
तार्किकाश्छान्दसाश्चैव दैवज्ञाः कर्मठाः प्रिये । 
लौकिकास्ते न जानन्ति गुरुतत्त्वं निराकुलम् ।।१०५।। 
महाहङ्कारगर्वेण ततोविद्याबलेन च । 
भ्रमन्त्येतस्मिन् संसारे घटीयन्त्रं यथा पुनः ।।१०६।। 
यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा । 
तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ।।१०७।। 
न मुक्तास्तु गन्धर्वाः पितृयक्षास्तु चारणाः । 
ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ।।१०८।। 
।।इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां प्रथमोऽध्यायः ।।

।।अथ द्वितीयोऽध्यायः ।।

ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् । 
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ।।१०९।।
श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि । 
श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि ।।११०।। 
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । 
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।।१११।। 
हृदम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् । 
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् सच्चित्सुखाभीष्टवरं दधानम् ।।११२।। 
श्वेताम्बरं श्वेतविलेपपुष्पम् मुक्ताविभूषं मुदितं द्विनेत्रम् । 
वामाङ्कपीठस्थितदिव्यशक्तिम् मन्दस्मितं पूर्णकृपानिधानम् ।।११३।। 
ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् । 
योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि ।।११४।। 
वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् । 
जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै ।।११५।। 
यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् । 
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ।।११६।। 
पादाब्जे सर्वसंसारदावकालानलं स्वके । 
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ।।११७।। 
अकथादित्रिरेखाब्जे सहस्रदलमण्डले । हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ।।११८।। 
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् । 
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ।।११९।। 
सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः । 
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ।।१२०।। 
सकलभुवनरङ्गस्थापनास्तम्भयष्टिः सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः । 
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ।।१२१।। 
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । 
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ।।१२२।। 
इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् । 
हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः ।।१२३।। 
विदितं विदितं विदितं विदितं विजनं विजनं विजनं विजनम् । 
विधिशासनतो विधिशासनतो विधिशासनतो विधिशासनतः ।।१२४।। 
एवं विधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् । 
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ।।१२५।। 
गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत् । 
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ।।१२६।। 
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । 
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ।।१२७।। 
किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि । 
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ।।१२८।। 
करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः ।
 सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ।।१२९।। 
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः । 
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ।।१३०।। 
यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् । 
गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ।।१३१।। 
हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन । 
गुरोरग्रे न वक्तव्यमसत्यं तु कदाचन ।।१३२।। 
गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः । 
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ।।१३३।। 
अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा । 
कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ ।।१३४।। 
दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् । 
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ।।१३५।। 
अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा । 
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ।।१३६।। 
गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् । 
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः ।।१३७।। 
गुरौ सति स्वयं देवि परेषां तु कदाचन । 
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ।।१३८।। 
न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् । 
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ।।१३९।। 
नोपाश्रमं च पर्यकं न च पादप्रसारणम् । 
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ।।१४०।। 
गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत् । 
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ।।१४१।। 
अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् । 
दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ।।१४२।। 
पादुकासनशय्यादि गुरुणा यदभीष्टितम् । 
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ।।१४३।। 
गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् । 
नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ।।१४४।। 
गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् । 
स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि ।।१४५।। 
नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् । 
कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम् ।।१४६।। 
नानृतं नाप्रियं चैव न गर्व नापि वा बहु । 
न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत् ।।१४७।। 
प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर । 
इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ ।।१४८।। 
मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि । 
कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ।।१४९।। 
अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा । 
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ।।१५०।। 
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । 
स्मृतिवेदपुराणानां सारमेव न संशयः ।।१५१।। 
सत्कारमानपूजार्थं दण्डकाषयधारणः । 
स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः ।।१५२।। 
विजानन्ति महावाक्यं गुरोश्चरण सेवया । 
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः ।।१५३।। 
नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् । 
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ।।१५४।। 
गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् । 
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ।।१५५।। 
आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम् । 
स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ।।१५६।। 
वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम् । 
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ।।१५७।। 
परात्परतरं ध्यायेन्नित्यमानन्दकारकम् । 
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ।।१५८।। 
स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा । 
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ।।१५९।। 
अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि । 
तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते ।।१६०।। 
अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम् । 
अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ।।१६१।। 
अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् । 
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ।।१६२।। 
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् । 
निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ।।१६३।। 
यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु । 
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ।।१६४।। 
यथा निजस्वभावेन कुण्डलकटकादयः । 
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ।।१६५।। 
स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् । 
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ।।१६६।। 
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् । 
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ।।१६७।। 
श्रीपार्वती उवाच । 
पिण्डं किं तु महादेव पदं किं समुदाहृतम् । 
रूपातीतं च रूपं किं एतदाख्याहि शंकर ।।१६८।। 
श्रीमहादेव उवाच । 
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् । 
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ।।१६९।। 
पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने । 
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ।।१७०।। 
गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् । 
स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ।।१७१।। 
ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः । 
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ।।१७२।। 
गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् । 
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ।।१७३।। 
एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः ।
 बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ।।१७४।। 
न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके । 
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ।।१७५।। 
चार्वाकवैष्णवमते सुखं प्राभाकरे न हि । 
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ।।१७६।। 
न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् । 
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ।।१७७।। 
नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि । 
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ।।१७८।। 
यतः परमकैवल्यं गुरुमार्गेण वै भवेत् । 
गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ।।१७९।। 
एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः । 
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ।।१८०।। 
अभ्यासान्निमिषेणैवं समाधिमधिगच्छति । 
आजन्मजनितं पापं तत्क्षणादेव नश्यति ।।१८१।। 
किमावाहनमव्यक्तै व्यापकं किं विसर्जनम् । 
अमूर्तो च कथं पूजा कथं ध्यानं निरामये ।।१८२।। 
गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः । 
तामसो रुद्ररूपेण सृजत्यवति हन्ति च ।।१८३।। 
स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् । 
परात्परतरं नान्यत् सर्वगं च निरामयम् ।।१८४।। 
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः । 
एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ।।१८५।। 
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा । 
निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ।।१८६।। 
सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि । 
सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित् ।।१८७।। 
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः । 
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ।।१८८।। 
उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः । 
गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः ।।१८९।। 
नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत् । 
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ।।१९०।। 
यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये । 
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ।।१९१।। 
शिवपूजारतो वापि विष्णुपूजारतोऽथवा । 
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ।।१९२।। 
शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि । 
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ।।१९३।। 
सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः । 
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ।।१९४।। 
गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति ।
 शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ।।१९५।। 
तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः । 
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ।।१९६।। 
निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् । 
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ।।१९७।। 
ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः । 
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ।।१९८।। 
शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे । 
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ।।१९९।। 
न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः । 
वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत् ।।२००।। 
पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः । 
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ।।२०१।। 
कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः । 
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ।।२०२।। 
ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये । 
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ।।२०३।। 
शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् । 
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ।।२०४।। 
गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः । 
सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः ।।२०५।। 
सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् । 
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ।।२०६।। 
गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते । 
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ।।२०७।। 
नतास्मि ते नाथ पदारविन्दं बुद्धीन्द्रियाप्राणमनोवचोभिः । 
यच्चिन्त्यते भावित आत्मयुक्तौ मुमुक्षिभिः कर्ममयोपशान्तये ।।२०८।। 
अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये । 
लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ।।२०९।। 
लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे । 
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ।।२१०।। 
इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि । 
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ।।२११।। 
गुरुगीतामिमां देवि हृदि नित्यं विभावय । 
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ।।२१२।। 
गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये । 
अन्ये च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम् ।।२१३।। 
अनन्त फलमाप्नोति गुरुगीता जपेन तु । 
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ।।२१४।। 
अकालमृत्युहर्त्री च सर्वसंकटनाशिनी । 
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ।।२१५।। 
सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी । 
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ।।२१६।। 
महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् । 
अथवा मोहने वश्ये स्वयमेव जपेत्सदा ।।२१७।। 
कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले । 
उपविश्य ततो देवि जपेदेकाग्रमानसः ।।२१८।। 
शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये । 
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ।।२१९।। 
वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः । 
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ।।२२०।। 
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि । 
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ।।२२१।। 
आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् । 
नैऋर्त्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ।।२२२।। 
उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा । 
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ।।२२३।। 
मोहनं सर्वभूतानां बन्धमोक्षकरं परम् । 
देवराज्ञां प्रियकरं राजानं वशमानयेत् ।।२२४।। 
मुखस्तम्भकरं चैव गुणानां च विवर्धनम् । 
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ।।२२५।। 
प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम् । 
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ।।२२६।। 
मोहशान्तिकरं चैव बन्धमोक्षकरं परम् । 
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ।।२२७।। 
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् । 
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ।।२२८।। 
सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् । 
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ।।२२९।। 
आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् । 
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ।।२३०।। 
अवैधव्यं सकामा तु लभते चान्यजन्मनि । 
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ।।२३१।। 
सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् । 
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।।२३२।। 
काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः । 
चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम् ।।२३३।। 
लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् । 
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ।।२३४।। 
जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः । 
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ।।२३५।। 
।।इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां द्वितीयोऽध्यायः ।।

।।अथ तृतीयः अध्यायः ।।

 अथ काम्यजपस्थानं कथयामि वरानने । 
सागरान्ते सरितीरे तीर्थे हरिहरालये ।।२३६।। 
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे । 
वटस्य धात्र्या मूले वा मठे वृन्दावने तथा ।।२३७।। 
पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा । 
निर्वेदनेन मौनेन जपमेतत् समारभेत् ।।२३८।। 
जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा । 
हीनं कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च ।।२३९।। 
श्मशाने बिल्वमूले वा वटमूलान्तिके तथा । 
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ।।२४०।। 
पीतासनं मोहने तु ह्यसितं चाभिचारिके । 
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ।।२४१।। 
जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम् । 
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ।।२४२।। 
जपन् जयमवाप्नोति मरणे मुक्तिदायिका । 
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ।।२४३।। 
गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा । 
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ।।२४४।। 
भवमूलविनाशाय चाष्टपाशनिवृत्तये । गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ।।२४५।। 
स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः । 
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ।।२४६।। 
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति । 
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ।।२४७।। 
आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा । 
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ।।२४८।। 
शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये । 
तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते ।।२४९।। 
समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् । 
भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि ।।२५०।। 
तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा । 
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ।।२५१।। 
एवंविधो महायुक्तः सर्वत्र वर्तते सदा । 
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ।।२५२।। 
गुरुसन्तोषणादेव मुक्तो भवति पार्वति । 
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ।।२५३।।
साम्येन रमते ज्ञानी दिवा वा यदि वा निशि । 
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ।।२५४।। 
अथ संसारिणः सर्वे गुरुगीताजपेन तु । 
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ।।२५५।। 
सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् । 
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ।।२५६।। 
गुरुर्देवो गुरुर्धमोर् गुरौ निष्ठा परं तपः । 
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ।।२५७।। 
धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः । 
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ।।२५८।। 
आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः । 
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ।।२५९।। 
शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता । 
मातृकुलं पितृकुलं गुरुरेव न संशयः ।।२६०।। 
मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते । 
गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ ।।२६१।। 
विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् । 
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती ।।२६२।। 
ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः । 
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ।।२६३।। 
गुरुभावः परं तीर्थमन्यर्थं निरर्थकम् । 
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ।।२६४।। 
कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः । 
अतः परं मया देवि कथितन्न मम प्रिये ।।२६५।। 
इदं रहस्यमस्पष्टं वक्तव्यं च वरानने । 
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ।।२६६।। 
स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति । 
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ।।२६७।। 
अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु । 
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ।।२६८।। 
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः । 
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ।।२६९।। 
चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः । 
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ।।२७०।। 
गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः । 
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ।।२७१।। 
सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः । 
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ।।२७२।। 
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् । 
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ।।२७३।। 
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् । 
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ।।२७४।। 
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति । 
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ।।२७५।। 
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम् । 
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ।।२७६।। 
अनित्यमिति निर्दिश्य संसारं संकटालयम् । 
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ।।२७७।। 
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति । 
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ।।२७८।। 
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः । 
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ।।२७९।। 
बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः । 
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ।।२८०।। 
एवं बहुविधा लोके गुरवः सन्ति पार्वति । 
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ।।२८१।। 
निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः । 
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ।।२८२।। 
एवं श्रुत्वा महादेवी महादेववचस्तथा । 
अत्यन्तविह्वलमना शंकरं परिपृच्छति ।।२८३।। 
पार्वत्युवाच । 
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे । 
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ।।२८४।। 
स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः । 
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ।।२८५।। 
श्री महादेव उवाच । 
श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः । 
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ।।२८६।। 
अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् । 
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ।।२८७।। 
जलानां सागरो राजा यथा भवति पार्वति । 
गुरूणां तत्र सर्वेषां राजायं परमो गुरुः ।।२८८।। 
मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः । 
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ।।२८९।। 
सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी । 
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ।।२९०।। 
द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् । 
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ।।२९१।। 
यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता । 
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ।।२९२।। 
सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् । 
तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः ।।२९३।। 
स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् । 
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ।।२९४।। 
मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति । 
न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ।।२९५।। 
वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः । 
यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ।।२९६।। 
गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि । 
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ।।२९७।। 
श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता । 
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ।।२९८।। 
कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे । 
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ।।२९९।। 
कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया । 
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ।।३००।। 
गुरुरेको हि जानाति स्वरूपं देवमव्ययम् । 
तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ।।३०१।। 
स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् । 
तपोजपादिकं देवि सकलं बालजल्पवत् ।।३०२।। 
शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन । 
शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः ।।३०३।। 
न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः । 
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ।।३०४।। 
तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये । 
गुरूं विना न जानन्ति मूढास्तत्परमं पदम् ।।३०५।। 
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । 
क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे ।।३०६।। 
कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः । 
मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः ।।३०७।। 
दुःसंगं च परित्यज्य पापकर्म परित्यजेत् । 
चित्तचिह्नमिदं यस्य दीक्षा विधीयते ।।३०८।। 
चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः । 
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ।।३०९।। 
एतल्लक्षणसंयुक्तं सर्वभूतहिते रतम् । 
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ।।३१०।। 
क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् । 
मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम् ।।३११।। 
क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम् । 
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ।।३१२।। 
शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् । 
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ।।३१३।। 
अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च । 
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ।।३१४।। 
रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे । 
सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः ।।३१५।। 
सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः । 
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ।।३१६।। 
नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च । 
अभक्ताय विभक्ताय न वाच्येयं कदाचन ।।३१७।। 
स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ।।३१८।। 
सर्वपापप्रशमनं सर्वोपद्रववारकम् । 
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ।।३१९।। 
श्रुतिसारमिदं देवि सर्वमुक्तं समासतः । 
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ।।३२०।। 
बहुजन्मकृतात्पादयमर्थो न रोचते । 
जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा ।।३२१।। 
अहमेव जगत्सर्वमहमेव परं पदम् । 
एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ।।३२२।। 
अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् । 
इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम् ।।३२३।। 
यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् । 
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री ।।३२४।। 
नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् । 
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ।।३२५।। 
नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय । 
शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय ।।३२६।। 
सच्चिदानन्दरूपाय व्यापिने परमात्मने । 
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ।।३२७।। 
सत्यानन्दस्वरूपाय बोधैकसुखकारिणे । 
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ।।३२८।। 
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । 
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ।।३२९।। 
नवाय नवरूपाय परमार्थैकरूपिणे । 
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ।।३३०।। 
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने । 
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ।।३३१।। 
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । 
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।।३३२।। 
पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः । 
सदा मच्चित्तरूपेण विधेहि भवदासनम् ।।३३३।। 
श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् । 
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ।।३३४।। 
नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे । 
यस्य वागमृतं हन्ति विषं संसारसंज्ञकम् ।।३३५।। 
नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः । 
तत्कृतासारवेदेन गुरुचित्पदमच्युतम् ।।३३६।। 
अच्युताय मनस्तुभ्यं गुरवे परमात्मने । 
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ।।३३७।। 
नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे । 
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ।।३३८।। 
ओमच्युताय गुरवे शिष्यसंसारसेतवे । 
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ।।३३९।। 
गुरुनामसमं दैवं न पिता न च बान्धवाः । 
गुरुनामसमः स्वामी नेदृशं परमं पदम् ।।३४०।। 
एकाक्षरप्रदातारं यो गुरुं नैव मन्यते । 
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ।।३४१।। 
गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता । 
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ।।३४२।। 
शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि । 
तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत् ।।३४३।। 
संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् । 
दारिद्र्यदुःखभवरोगविनाशमन्त्रं वन्दे महाभयहरं गुरुराजमन्त्रम् ।।३४४।। 
सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः । 
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ।।३४५।। 
एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् । 
इदमेव परं तत्त्वं श्रुणु देवि सुखावहम् ।।३४६।। 
गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः । 
रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित् ।।३४७।। 
न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी । 
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ।।३४८।। 
गुरुगीतामिमां देवि भवदुःखविनाशिनीम् । 
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ।।३४९।। 
रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि । 
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ।।३५०।। 
यस्य प्रसादादहमेव सर्वं मय्येव सर्वं परिकल्पितं च । 
इत्थं विजानामि सदात्मरूपं ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ।।३५१।। 
अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः । 
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ।।३५२।।

।।इति श्रीगुरुगीतायां तृतीयोऽध्यायः । 
 इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त