मंगलवार, 25 सितंबर 2018

लघुसिद्धान्तकौमुदी (हलन्‍तपुँल्‍लिङ्गतः अव्ययपर्यन्तम्)

                                                        अथ हलन्‍त पुँल्‍लिङ्गाः
२५२ हो ढः
हस्‍य ढः स्‍याज्‍झलि पदान्‍ते च । लिट्लिड् । लिहौ । लिहः । लिड्भ्‍याम् । लिट्त्‍सुलिट्सु ।।

हकार को ढकार हो, पदान्त में तथा झल् परे रहने पर।
२५३ दादेर्धातोर्घः
झलि पदान्‍ते चोपदेशे दादेर्धातेर्हस्‍य घः ।।
२५४ एकाचो बशो भष् झषन्‍तस्‍य स्‍ध्‍वोः
धात्‍ववयवस्‍यैकाचो झषन्‍तस्‍य बशो भष् से ध्‍वे पदान्‍ते च । धुक्धुग् । दुहौ । दुहः । धुग्‍भ्‍याम् । धुक्षु ।।

धातु के अवयव स्वरूप झषन्त एकाच् के वश् को भष् आदेश हो, सकार और ध्व परे रहते अथवा पदान्त में।
२५५ वा द्रुहमुहष्‍णुहष्‍णिहाम्
एषां हस्‍य वा घो झलि पदान्‍ते च । ध्रुक्ध्रुग्ध्रुट्ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्‍भ्‍याम्ध्रुड्भ्‍याम् । ध्रुक्षुध्रुट्त्‍सुध्रुट्सु ।। एवं मुक्मुग् इत्‍यादि ।।

पदान्त तथा झल् परे रहते द्रुह, मुह, ष्णुह, तथा ष्णिह् शब्दों के हकार को विकल्प से धकार हो।
२५६ धात्‍वादेः षः सः
स्‍नुक्स्‍नुग्स्‍नुट्स्‍नुड् । एवं स्‍निक्स्‍निग्स्‍निट्स्‍निड् ।। विश्ववाट्विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ।।

धातु के आदि षकार को सकार आदेश हो।
२५७ इग्‍यणः संप्रसारणम्
यणः स्‍थाने प्रयुज्‍यमानो य इक् स संप्रसारणसंज्ञः स्‍यात् ।।

यण् के स्थान में होने वाले इक् को सम्प्रसारण संज्ञा हो।
२५८ वाह ऊठ्
भस्‍य वाहः संप्रसारणमूठ् ।।

भसंज्ञक वाह् शब्द को सम्प्रसारण संज्ञक ऊठ् आदेश हो। 
२५९ संप्रसारणाच्‍च
संप्रसारणादचि पूर्वरूपमेकादेशः । एत्‍येधत्‍यूिठ्स्‍वति वृद्धिः । विश्वौहःइत्‍यादि ।।
सम्प्रसारण का अच् परे रहते पूर्व तथा पर के स्थान में पूर्वरूप एकादेश हो।
२६० चतुरनडुहोरामुदात्तः
अनयोराम् स्‍यात्‍सर्वनामस्‍थाने परे ।।
२६१ सावनडुहः
अस्‍य नुम् स्‍यात् सौ परे । अनड्वान् ।।
२६२ अम् संबुद्धौ
हे अनड्वन् । हे अनड्वाहौ । हे अनड्वाहः । अनडुहः । अनडुहा ।।
२६३ वसुस्रंसुध्‍वंस्‍वनडुहां दः
सान्‍तवस्‍वन्‍तस्‍य स्रंसादेश्‍च दः स्‍यात्‍पदान्‍ते । अनडुद्भ्‍यामित्‍यादि ।। सान्‍तेति किम् ? विद्वान् । पदान्‍ते किम् ? स्रस्‍तम् ।
ध्‍वस्‍तम् ।।
२६४ सहेः साडः सः
साड्रूपस्‍य सहेः सस्‍य मूर्धन्‍यादेशः । तुराषाट्तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्‍यामित्‍यादि ।।
२६५ दिव औत्
दिविति प्रातिपदिकस्‍यौत्‍स्‍यात्‍सौ । सुद्यौः । सुदिवौ ।।
२६६ दिव उत्
दिवोऽन्‍तादेश उकारः स्‍यात् पदान्‍ते । सुद्युभ्‍यामित्‍यादि ।। चत्‍वारः । चतुरः । चतुर्भिः । चतुर्भ्यः ।।
२६७ षट्चतुर्भ्‍यश्‍च
एभ्‍य आमो नुडागमः ।।
२६८ रषाभ्‍यां नो णः समानपदे
एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात्
२६९ अचो रहाभ्‍यां द्वे
अचः पराभ्‍यां रेफहकाराभ्‍यां परस्‍य यरो द्वे वा स्‍तः । चतुर्ण्‍णाम्चतुर्णाम् ।।
२७० रोः सुपि
रोरेव विसर्गः सुपि । षत्‍वम् । षस्‍य द्वित्‍वे प्राप्‍ते ।।
२७१ शरोऽचि
अचि परे शरो न द्वे स्‍तः । चतुर्षु ।।
२७२ मो नो धातोः
धातोर्मस्‍य नः पदान्‍ते । प्रशान् ।।
२७३ किमः कः
किमः कः स्‍याद्विभक्तौ । कः । कौ । के इत्‍यादि । शेषं सर्ववत् ।।
२७४ इदमो मः
सौ । त्‍यदाद्यत्‍वापवादः ।।
२७५ इदोऽय् पुंसि
इदम इदोऽय् सौ पुंसि । अयम् । त्‍यदाद्यत्‍वे ।।
२७६ अतो गुणे
अपदान्‍तादतो गुणे पररूपमेकादेशः ।।
२७७ दश्‍च
इदमो दस्‍य मः स्‍याद्विभक्तौ । इमौ । इमे । त्‍यदादेः सम्‍बोधनं नास्‍तीत्‍युत्‍सर्गः ।।
२७८ अनाप्‍यकः
अककारस्‍येदम इदोऽनापि विभक्तौ । आबिति प्रत्‍याहारः । अनेन ।।
२७९ हलि लोपः
अककारस्‍येदम इदो लोप आपि हलादौ । नानर्थकेऽलोऽन्‍त्‍यविधिरनभ्‍यासविकारे ।।
२८० आद्यन्‍तवदेकस्‍मिन्
एकस्‍मिन्‍क्रियमाणं कार्यमादाविवान्‍त इव स्‍यात् । सुपि चेति दीर्घः । आभ्‍याम् ।।
२८१ नेदमदसोरकोः
अककारयोरिदमदसोर्भिस ऐस् न । एभिः । अस्‍मै । एभ्‍यः । अस्‍मात् । अस्‍य । अनयोः । एषाम् । अस्‍मिन् । अनयोः । एषु ।।
२८२ द्वितीयाटौस्‍स्‍वेनः
इदमेतदोरन्‍वादेशे । किञ्चित्‍कार्यं विधातुमुपात्तस्‍य कार्यान्‍तरं विधातुं पुनरुपादानमन्‍वादेशः । यथा – अनेन व्‍याकरणमधीत मेनं छन्‍दोऽध्‍यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्‍वामिति ।। एनम् । एनौ । एनान् । एनेन । एनयोः । एनयोः ।। राजा ।।
२८३ न ङिसम्‍बुद्ध्‍योः
नस्‍य लोपो न ङौ सम्‍बुद्धौ च । हे राजन् । (ङावुत्तरपदे प्रतिषेधो वक्तव्‍यः) । ब्रह्‍मनिष्‍ठः । राजानौ । राजानः । राज्ञः ।।
२८४ नलोपः सुप्‍स्‍वरसंज्ञातुग्‍विधिषु कृति
सुब्‍विधौ स्‍वरविधौ संज्ञाविधौ कृति तुग्‍विधौ च नलोपोऽसिद्धो नान्‍यत्र – राजाश्व इत्‍यादौ । इत्‍यसिद्धत्‍वादात्‍वमेत्त्वमैस्‍त्‍वं च न । राजभ्‍याम् । राजभिः । राज्ञिराजनि । राजसु ।। यज्‍वा । यज्‍वानौ । यज्‍वानः ।।
२८५ न संयोगाद्वमन्‍तात्
वमन्‍तसंयोगादनोऽकारस्‍य लोपो न । यज्‍वनः । यज्‍वा । यज्‍वभ्‍याम् ।। ब्रह्‍मणः । ब्रह्‍मणा ।।
२८६ इन्‍हन्‍पूषार्यम्‍णां शौ
एषां शावेवोपधाया दीर्घो नान्‍यत्र । इति निषेधे प्राप्‍ते –
२८७ सौ च
इन्नादीनामुपधाया दीर्घोऽसंबुद्धौ सौ । वृत्रहा । हे वृत्रहन् ।।
२८८ एकाजुत्तरपदे णः
एकाजुत्तपरदं यस्‍य तस्‍मिन्‍समासे पूर्वपदस्‍थान्निमित्तात्‍परस्‍य प्रतिपदिकान्‍तनुम्‍विभक्तिस्‍थस्‍य नस्‍य णः । वृत्रहणौ ।।
२८९ हो हन्‍तेञ्णर्न्निेषु
ञिति णिति प्रत्‍यये नकारे च परे हन्‍तेर्हकारस्‍य कुत्‍वम् । वृत्रघ्‍नः इत्‍यादि । एवं शाङिर््गन्यशस्‍विन्अर्यमन्पूषन् ।।
२९० मघवा बहुलम्
मघवन्‍शब्‍दस्‍य वा तृ इत्‍यन्‍तादेशः । ऋ इत् ।।
२९१ उगिदचां सर्वनामस्‍थानेऽधातोः
अधातोरुगितो नलोपिनोऽञ्चतेश्‍च नुम् स्‍यात्‍सर्वनामस्‍थाने परे । मघवान् । मघवन्‍तौ । मघवन्‍तः । हे मघवन् । मघवद्भ्‍याम् । तृत्‍वाभावे मघवा । सुटि राजवत् ।।
धातु से भिन्न उक् की इत्संज्ञा हुए तथा जिसके नकार को लोप हुआ हो ऐसे अंग को नुम् का आगम हो, सर्वनाम स्थान परे रहते।
२९२ श्वयुवमघोनामतद्धिते
अन्नन्‍तानां भानामेषामतद्धिते संप्रसारणम् । मघोनः । मघवभ्‍याम् । एवं श्वन्युवन् ।।
२९३ न संप्रसारणे संप्रसारणम्
संप्रसारणे परतः पूर्वस्‍य यणः संप्रसारणं न स्‍यात् । इति यकारस्‍य नेत्‍वम् । अत एव ज्ञापकादन्‍त्‍यस्‍य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्‍याम् इत्‍यादि ।। अर्वा । हे अर्वन् ।।
२९४ अर्वणस्‍त्रसावनञः
नञा रहितस्‍यार्वन्नित्‍यस्‍याङ्गस्‍य तृ इत्‍यन्‍तादेशो न तु सौ । अर्वन्‍तौ । अर्वन्‍तः । अर्वद्भ्‍यामित्‍यादि ।।
२९५ पथिमथ्‍यृभुक्षामात्
एषामाकारोऽन्‍तादेशः स्‍यात् सौ परे ।।
२९६ इतोऽत्‍सर्वनामस्‍थाने
पथ्‍यादेरिकारस्‍याकारः स्‍यात्‍सर्वनामस्‍थाने परे ।।
२९७ थो न्‍थः
पथिमथोस्‍थस्‍य न्‍थादेशः सर्वनामस्‍थाने । पन्‍थाः । पन्‍थानौ । पन्‍थानः ।।
२९८ भस्‍य टेर्लोपः
भस्‍य पथ्‍यादेष्‍टेर्लोपः । पथः । पथा । पथिभ्‍याम् ।। एवं मथिन्ऋभुिक्षन् ।।
२९९ ष्‍णान्‍ता षट्
षान्‍ता नान्‍ता च संख्‍या षट्संज्ञा स्‍यात् । पञ्चन्‍शब्‍दो नित्‍यं बहुवचनान्‍तः । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्‍यः । पञ्चभ्‍यः ।
नुट् ।।
३०० नोपधायाः
नान्‍तस्‍योपधाया दीर्घो नामि । पञ्चानाम् । पञ्चसु ।।
३०१ अष्‍टन आ विभक्तौ
हलादौ वा स्‍यात् ।।
३०२ अष्‍टाभ्‍य औश्
कृताकारादष्‍टनो जश्‍शसोरौश् । अष्‍टभ्‍य इति वक्तव्‍ये कृतात्‍वनिर्देशो जश्‍शसोर्विषये आत्‍वं ज्ञापयति । अष्‍टौ । अष्‍टौ । अष्‍टाभिः । अष्‍टाभ्‍यः । अष्‍टाभ्‍यः । अष्‍टानाम् । अष्‍टासु । आत्‍वाभावे अष्‍टपञ्चवत् ।।
३०३ ऋत्‍विग्‍दधृक्‍स्रग्‍दिगुष्‍णिगञ्चुयुजिक्रुञ्चां च
एभ्‍यः क्‍विन्अञ्चेः सुप्‍युपपदेयुजिक्रुञ्चोःकेवलयोःक्रुञ्चेर्नलोपाभावश्‍च निपात्‍यते । कनावितौ ।।
३०४ कृदतिङ्
अत्र धात्‍वधिकारे तिङि्भन्नः प्रत्‍ययः कृत्‍संज्ञः स्‍यात् ।।
इस धात्वधिकार में तिङ् से अतिरिक्त प्रत्यय को कृत् संज्ञा हो।
यहाँ धातोः सूत्र का अधिकार चलता है। ऋत्‍विग्‍दधृक् तथा अन्य सूत्रों से होने वाले तिङ् से भिन्न प्रत्यय तिङ् नहीं है अतः इस सूत्र द्वारा उसे कृत् संज्ञा हो। 
३०५ वेरपृक्तस्‍य
अपृक्तस्‍य वस्‍य लोपः ।।

अपृक्त वकार का लोप हो।
३०६ क्‍विन्‍प्रत्‍ययस्‍य कुः
क्‍विन्‍प्रत्‍ययो यस्‍मात्तस्‍य कवर्गोऽन्‍तादेशः पदान्‍ते । अस्‍यासिद्धत्‍वाच्‍चोः कुरिति कुत्‍वम् । ऋत्‍विक्ऋत्‍विग् । ऋत्‍विजौ ।
ऋत्‍विग्‍भ्‍याम् ।।
क्विन् प्रत्यय जिससे किया गया हो, उसको पदान्त में कवर्ग अन्तादेश हो।
३०७ युजेरसमासे
युजेः सर्वनामस्‍थाने नुम् स्‍यादसमासे । सुलोपः । संयोगान्‍तलोपः । कुत्‍वेन नस्‍य ङः । युङ् । अनुस्‍वारपरसवर्णौ । युञ्जौ । युञ्जः । युग्‍भ्‍याम् ।।
३०८ चोः कुः
चवर्गस्‍य कवर्गः स्‍याज्‍झलि पदान्‍ते च । सुयुक्सुयुग् । सुयुजौ । सुयुग्‍भ्‍याम् ।। खन् । खञ्जौ । खन्‍भ्‍याम् ।।
३०९ व्रश्‍चभ्रस्‍जसृजमृजयजराजभ्राजच्‍छशां षः
झलि पदान्‍ते च । जश्‍त्‍वचत्‍र्वे । राट्राड् । राजौ । राजः । राड्भ्‍याम् ।। एवं विभ्राट्देवेट्विश्वसृट् ।। 
(उणादि 218) (परौ व्रजेः षः पदान्‍ते) परावुपपदे व्रजेः क्‍विप् स्‍याद्दीर्घश्‍च पदान्‍ते षत्‍वमपि । परिव्राट् । परिव्राजौ ।।
३१० विश्वस्‍य वसुराटोः
विश्वशब्‍दस्‍य दीर्घोऽन्‍तादेशः स्‍याद्सौ राट्शब्‍दे च परे । विश्वराट्विश्वराड् । विश्वराजौ । विश्वराड्भ्‍याम् ।।
३११ स्‍कोः संयोगाद्योरन्‍ते च
पदान्‍ते झलि च यः संयोगस्‍तदाद्योः स्‍कोर्लोपः । भृट् । सस्‍य श्‍चुत्‍वेन सः । झलां जश् झशि इति शस्‍य जः । भृज्‍जौ । भृड्भ्‍याम् ।। त्‍यदाद्यत्‍वं पररूपत्‍वं च ।।
३१२ तदोः सः सावनन्‍त्‍ययोः
त्‍यदादीनां तकारदकारयोरनन्‍त्‍ययोः सः स्‍यात्‍सौ । स्‍यः । त्‍यौ । त्‍ये ।। सः । तौ । ते ।। यः । यौ । ये ।। एषः । एतौ । एते ।।
३१३ ङेप्रथमयोरम्
युष्‍मदस्‍मद्भ्‍यां परस्‍य ङे इत्‍येतस्‍य प्रथमाद्वितीययोश्‍चामादेशः ।।
३१४ त्‍वाहौ सौ
अनयोर्मपर्यन्‍तस्‍य त्‍वाहौ आदेशौ स्‍तः ।।
३१५ शेषे लोपः
एतयोष्‍टिलोपः । त्‍वम् । अहम् ।।
३१६ युवावौ द्विवचने
द्वयोरुक्तावनयोर्मपर्यन्‍तस्‍य युवावौ स्‍तो विभक्तौ ।।
३१७ प्रथमायाश्‍च द्विवचने भाषायाम्
औङ्येतयोरात्‍वं लोके । युवाम् । आवाम् ।।
३१८ यूयवयौ जसि
अनयोर्मपर्यन्‍तस्‍य । यूयम् । वयम् ।।
३१९ त्‍वमावेकवचने
एकस्‍योक्तावनयोर्मपर्यन्‍तस्‍य त्‍वमौ स्‍तो विभक्तौ ।।
३२० द्वितीयायाञ्च
अनयोरात्‍स्‍यात् । त्‍वाम् । माम् ।।
३२१ शसो न
आभ्‍यां शसो नः स्‍यात् । अमोऽपवादः । आदेः परस्‍य । संयोगान्‍तलोपः । युष्‍मान् । अस्‍मान् ।।
३२२ योऽचि
अनयोर्यकारादेशः स्‍यादनादेशेऽजादौ परतः । त्‍वया । मया ।।
३२३ युष्‍मदस्‍मदोरनादेशे
अनयोरात्‍स्‍यादनादेशे हलादौ विभक्तौ । युवाभ्‍याम् । आवाभ्‍याम् । युष्‍माभिः । अस्‍माभिः ।।
३२४ तुभ्‍यमह्‍यौ ङयि
अनयोर्मपर्यन्‍तस्‍य । टिलोपः । तुभ्‍यम् । मह्‍यम् ।।
३२५ भ्‍यसोऽभ्‍यम्
आभ्‍यां परस्‍य । युष्‍मभ्‍यम् । अस्‍मभ्‍यम् ।।
३२६ एकवचनस्‍य च
आभ्‍यां ङसेरत् । त्‍वत् । मत् ।।
३२७ पञ्चम्‍या अत्
आभ्‍यां पञ्चम्‍यां भ्‍यसोऽत्‍स्‍यात् । युष्‍मत् । अस्‍मत् ।।
३२८ तवममौ ङसि
अनयोर्मपर्यन्‍तस्‍य तवममौ स्‍तो ङसि ।।
३२९ युष्‍मदस्‍मद्भ्‍यां ङसोऽश्
तव । मम । युवयोः । आवयोः ।।
३३० साम आकम्
आभ्‍यां परस्‍य साम आकं स्‍यात् । युष्‍माकम् । अस्‍माकम् । त्‍वयि । मयि । युवयोः । आवयोः । युष्‍मासु । अस्‍मासु ।।
३३१ युष्‍मदस्‍मदोः षष्‍ठीचतुर्थीद्वितीयास्‍थयोर्वांनावौ
पदात्‍परयोरपादादौ स्‍थितयोः षष्‍ठ्यदिविशिष्‍टयोर्वां नौ इत्‍यादेशौ स्‍तः ।।
३३२ बहुवचनस्‍य वस्‍नसौ
उक्तविधयोरनयोः षष्‍ठ्यदिबहुवचनान्‍तयोर्वस्‍नसौ स्‍तः ।।
३३३ तेमयावेकवचनस्‍य
उक्तविधयोरनयोष्‍षष्‍ठीचतुथ्‍र्येकवचनान्‍तयोस्‍ते मे एतौ स्‍तः ।।
३३४ त्‍वामौ द्वितीयायाः
द्वितीयैकवचनान्‍तयोस्‍त्‍वा मा इत्‍यादेशौ स्‍तः ।।
श्रीशस्‍तवाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः । स्‍वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ।।
सुखं वां नौ ददात्‍वीशः पतिर्वामपि नौ हरिः । सोऽव्‍याद्वो नः शिवं वो नो दद्यात् सेव्‍योऽत्र वः स नः ।।
(समानवाक्‍ये युष्‍मदस्‍मदादेशा वक्तव्‍याः) । एकतिङ् वाक्‍यम् । ओदनं पच तव भविष्‍यति । 
(एते वान्नावादयोऽनन्‍वादेशे वा वक्तव्‍याः) । अन्‍वादेशे तु नित्‍यं स्‍युः । धाता ते भक्तोऽस्‍तिधाता तव भक्तोऽस्‍ति वा । तस्‍मै ते नम इत्‍येव ।। सुपात्सुपाद् ।। सुपदौ ।।
३३५ पादः पत्
पाच्‍छब्‍दान्‍तं यदङ्गं भं तदवयवस्‍य पाच्‍छब्‍दस्‍य पदादेशः ।। सुपदः । सुपदा । सुपाद्भ्‍याम् ।। अग्‍निमत्अग्‍निमद् । अग्‍निमथौ । अग्‍निमथः ।।
३३६ अनिदितां हल उपधायाः क्‍ङिति
हलन्‍तानामनिदितामङ्गानामुपधाया नस्‍य लोपः किति ङिति । नुम् । संयोगान्‍तस्‍य लोपः । नस्‍य कुत्‍वेन ङः । प्राङ् । प्राञ्चौ । प्राञ्चः ।।
३३७ अचः
लुप्‍तनकारस्‍याञ्चतेर्भस्‍याकारस्‍य लोपः ।।
३३८ चौ
लुप्‍ताकारनकारेऽञ्चतौ परे पूर्वस्‍याणो दीर्गः । प्राचः । प्राचा । प्राग्‍भ्‍याम् ।। प्रत्‍यङ् । प्रत्‍यञ्चौ । प्रतीचः । प्रत्‍यग्‍भ्‍याम् ।। उदङ् । उदञ्चौ ।।
३३९ उद ईत्
उच्‍छब्‍दात्‍परस्‍य लुप्‍तनकारस्‍याञ्चतेर्भस्‍याकारस्‍य ईत् । उदीचः । उदीचा । उदग्‍भ्‍याम् ।
३४० समः समि
वप्रत्‍ययान्‍तेऽञ्चतौ । सम्‍यङ् । सम्‍यञ्चौ । समीचः । सम्‍यग्‍भ्‍याम् ।।
३४१ सहस्‍य सध्रिः
तथा । सध्र्यङ् ।।
३४२ तिरसस्‍तिर्यलोपे
अलुप्‍ताकारेऽञ्चतौ वप्रत्‍ययान्‍ते तिरसस्‍तिर्यादेशः । तिर्यङ् । तिर्यञ्चौ । तिरश्‍चः । तिर्यग्‍भ्‍याम् ।।
३४३ नाञ्चेः पूजायाम्
पूजार्थस्‍याञ्चतेरुपधाया नस्‍य लोपो न । प्राङ् । प्राञ्चौ । नलोपाभावादलोपो न । प्राञ्चः । प्राङ्भ्‍याम् । प्राङ्क्षु ।। एवं पूजार्थे प्रत्‍यङ्ङादयः ।। क्रुङ् । क्रुञ्चौ । क्रुङ्भ्‍याम् ।। पयोमुक्पयोमुग् । पयोमुचौ । पयोमुग्‍भ्‍याम् ।। उगित्त्वान्नुमि –
३४४ सान्‍तमहतः संयोगस्‍य
सान्‍तसंयोगस्‍य महतश्‍च यो नकारस्‍तस्‍योपधाया दीर्घोऽसम्‍बुद्धौ सर्वनामस्‍थाने । महान् । महान्‍तौ । महान्‍तः । हे महन् । महद्भ्‍याम् ।।
३४५ अत्‍वसन्‍तस्‍य चाधातोः
अत्‍वन्‍तस्‍योपधाया दीर्घो धातुभिन्नासन्‍तस्‍य चासम्‍बुद्धौ सौ परे । उगित्तवान्नुम् । धीमान् । धीमन्‍तौ । धीमन्‍तः । हे धीमन् शसादौ महद्वत् ।। भातेर्डवतुः । डित्त्वसामथ्‍र्यादभस्‍यापि टेर्लोपः । भवान् । भवान्‍तौ । भवन्‍तः । शत्रन्‍तस्‍य भवन् ।।
सम्बुद्धि भिन्न सु परे हो तो अतु अंत वाले अङ्ग की तथा धातु भिन्न अस् अंत वाले एंग की उपधा के स्थान पर दीर्घ होता है। अतु में मतुप्, वतुप्, डवतु आदि प्रत्ययों का ग्रहण होता है।
३४६ उभे अभ्‍यस्‍तम्
षाष्‍ठद्वित्‍वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्‍यस्‍तसंज्ञे स्‍तः ।।
३४७ नाभ्‍यस्‍ताच्‍छतुः
अभ्‍यस्‍तात्‍परस्‍य शतुर्नुम् न । ददत्ददद् । ददतौ । ददतः ।।
३४८ जिक्षत्‍यादयः षट्
षड्धातवोऽन्‍ये जिक्षतिश्‍च सप्‍तम एते अभ्‍यस्‍तसंज्ञाः स्‍युः । जक्षत्जक्षद् । जक्षतौ । जक्षतः ।। एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् ।। गुप्गुब् । गुपौ । गुपः । गुब्‍भ्‍याम् ।।
३४९ त्‍यदादिषु दृशोऽनालोचने कञ्च
त्‍यदादिषूपपदेष्‍वज्ञानार्थाद्दृशेः कञ् स्‍यात् । चात् क्‍विन् ।।
३५० आ सर्वनाम्‍नः
सर्वनाम्‍न आकारोऽन्‍तादेशः स्‍याद्दृग्‍दृशवतुँषु । तादृक्तादृग् । तादृशौ । तादृशः । तादृग्‍भ्‍याम् ।। व्रश्‍चेति षः । जश्‍त्‍वचर्त्वे । विट्विड् । विशौ । विशः । विड्भ्‍याम् ।।
३५१ नशेर्वा
नशेः कवर्गोऽन्‍तादेशो वा पदान्‍ते । नक्नग्नट्नड् । नशौ । नशः । नग्‍भ्‍याम्नड्भ्‍याम् ।।
३५२ स्‍पृशोऽनुदके क्‍विन्
अनुदके सुप्‍युपपदे स्‍पृशेः क्‍विन् । घृतस्‍पृक्घृतस्‍पृग् । घृतस्‍पृशौ । घृतस्‍पृशः ।। दधृक्दधृग् । दधृषौ । दधृग्‍भ्‍याम् ।। रत्‍नमुषौ । रत्‍नमुड्भ्‍याम् ।। षट्षड् । षिड्भः । षङ्भ्‍यः । षण्‍णाम् । षट्सु ।। रुत्‍वं प्रति षत्‍वस्‍यासिद्धत्‍वससजुषो रुरिति रुत्‍वम् ।।
३५३ र्वोरुपधाया दीर्घ इकः
रेफवान्‍तयोर्धात्‍वोरुपधाया इको दीर्घः पदान्‍ते । पिपठीः । पिपठिषौ । पिपठीर्भ्याम् ।।
३५४ नुम्‍विसर्जनीयशर्व्यवायेऽपि
एतैः प्रत्‍येकं व्‍यवधानेऽपि इण्‍कुभ्‍यां परस्‍य सस्‍य मूर्धन्‍यादेशः । ष्‍टुत्‍वेन पूर्वस्‍य षः । पिपठीष्‍षुपिपठीःषु ।। चिकीः । चिकीर्षौ । चिकीर्भ्‍याम् । चिकीर्षु ।। विद्वान् । विद्वांसौ । हे विद्वन् ।।
३५५ वसोः सम्‍प्रसारणम्
वस्‍वन्‍तस्‍य भस्‍य सम्‍प्रसारणं स्‍यात् । विदुषः । वसुस्रंस्‍विति दः । विद्वद्भ्‍याम् ।।
३५६ पुंसोऽसुङ्
सर्वनामस्‍थाने विविक्षते पुंसोऽसुङ् स्‍यात् । पुमान् । हे पुमन् । पुमांसौ । पुंसः । पुम्‍भ्‍याम् । पुंसु ।। ऋदुशनेत्‍यनङ् । उशना । उशनसौ । 
(अस्‍य संबुद्धौ वानङ्नलोपश्‍च वा वाच्‍यः) 
हे उशनहे उशनन्हे उशनः । हे उशनसौ । उशनोभ्‍याम् । उशनस्‍सु ।। अनेहा । अनेहसौ । हे अनेहः ।। वेधाः । वेधसौ । हे वेधः । वेधोभ्‍याम् ।।
३५७ अदस औ सुलोपश्‍च
अदस औकारोऽन्‍तादेशः स्‍यात्‍सौ परे सुलोपश्‍च । तदोरिति सः । असौ । त्‍यदाद्यत्‍वम् । वृद्धिः ।।
३५८ अदसोऽसेर्दादु दो मः
अदसोऽसान्‍तस्‍य दात्‍परस्‍य उदूतौ स्‍तो दस्‍य मश्‍च । आन्‍तरतम्‍याद्ध्‍स्‍वस्‍य उःदीर्घस्‍य ऊः । अमू । जसः शी । गुणः ।।
३५९ एत ईद्बहुवचने
अदसो दात्‍परस्‍यैत ईद्दस्‍य च मो बह्‍वर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्‍चादुत्‍वमत्‍वे । अमुम् । अमू । अमून् । मुत्‍वे कृते घिसंज्ञायां नाभावः ।।
३६० न मु ने
नाभावे कर्तव्‍ये कृते च मुभावो नासिद्धः । अमुना । अमूभ्‍याम् ३ । अमीभिः । अमुष्‍मै । अमीभ्‍यः २ । अमुष्‍मात् । अमुष्‍य । अमुयोः २ । अमीषाम् । अमुष्‍मिन् । अमीषु ।।
इति हलन्‍त पुँल्‍लिङ्गाः ।।
                                                     अथ हलन्‍तस्‍त्रीलिङ्गाः
३६१ नहो धः
नहो हस्‍य धः स्‍याज्‍झलि पदान्‍ते च ।।
३६२ नहिवृतिवृषिव्‍यधिरुचिसहितनिषु क्‍वौ
क्‍विबन्‍तेषु पूर्वपदस्‍य दीर्घः । उपानत्उपानद् । उपानहौ । उपानत्‍सु ।। क्विन्नन्‍तत्‍वात् कुत्‍वेन घः । उष्‍णिक्उष्‍णिग् । उष्‍णिहौ । उष्‍णिग्‍भ्‍याम् ।। द्यौः । दिवौ । दिवः । द्युभ्‍याम् ।। गीः । गिरौ । गिरः ।। एवं पूः ।। चतस्रः । चतसृणाम् ।। का । के । काः । सर्वावत् ।।
३६३ यः सौ
इदमो दस्‍य यः इयम् । त्‍यदाद्यत्‍वम् । पररूपत्‍वम् । टाप् । दश्‍चेति मः । इमे । इमाः । इमाम् । अनया । हलि लोपः । आभ्‍याम् । आभिः । अस्‍यै । अस्‍याः । अनयोः । आसाम् । अस्‍याम् । आसु ।। त्‍यदाद्यत्‍वम् । टाप् । स्‍या । त्‍ये । त्‍याः ।। एवं तद्एतद् ।। वाक्वाग् । वाचौ । वाग्‍भ्‍याम् । वाक्षु ।। अप्‍शब्‍दो नित्‍यं बहुवचनान्‍तः । अप्‍तृन्निति दीर्घः । आपः । अपः ।।
३६४ अपो भि
अपस्‍तकारो भादौ प्रत्‍यये । अिद्भः । अद्भ्‍यः । अद्भ्‍यः । अपाम् । अप्‍सु ।। दिक्दिश् । दिशौ । दिशः । दिग्‍भ्‍याम् ।। त्‍यदादिष्‍विति दृशेः िक्‍वन्‍विधानादन्‍यत्रापि कुत्‍वम् । दृक्दृग् । दृशौ । दृग्‍भ्‍याम् ।। त्‍विट्त्‍विड् । त्‍विषौ । त्‍विड्भ्‍याम् ।। ससजुषो रुरिति रुत्‍वम् । सजूः । सजुषौ । सजूभ्‍र्याम् ।। आशीः । आशिषौ । आशीभ्‍र्याम् ।। असौ । उत्‍वमत्‍वे । अमू । अमूः । अमुया । अमूभ्‍याम् ३ । अमूभिः । अमुष्‍यै । अमूभ्‍यः २ । अमुष्‍याः । अमुयोः २ । अमूषाम् । अमुष्‍याम् । अमूषु ।।
इति हलन्‍तस्‍त्रीलिङ्गाः ।
                                                   अथ हलन्‍तनपुंसकलिङ्गाः

स्‍वमोर्लुक् । दत्‍वम् । स्‍वनडुत्स्‍वनडुद् । स्‍वनडुही । चतुरनडुहोरित्‍याम् । स्‍वनड्वांहि । पुनस्‍तद्वत् । शेषं पुंवत् ।। वाः । वारी । वारि । वार्भ्‍याम् ।। चत्‍वारि ।। किम् । के । कानि ।। इदम् । इमे । इमानि ।। 
(अन्‍वादेशे नपुंसके वा एनद्वक्तव्‍यः)
एनत् । एने । एनानि । एनेन । एनयोः ।। अहः । विभाषा ङिश्‍योः । अह्‍नीअहनी । अहानि ।।
३६५ अहन्
अहन्नित्‍यस्‍य रुः पदान्‍ते । अहोभ्‍याम् ।। दण्‍डि । दण्‍डिनी । दण्‍डीनि । दण्‍डिना । दण्‍डिभ्‍याम् ।। सुपथि । टेर्लोपः । सुपथी । सुपन्‍थानि ।। ऊर्क्ऊर्ग् । ऊर्जी । ऊन्र्जि । नरजानां संयोगः । तत् । ते । तानि ।। यत् । ये । यानि ।। एतत् । एते । एतानि ।। गवाक्गवाग् । गोची । गवाञ्चि । पुनस्‍तद्वत् । गोचा । गवाग्‍भ्‍याम् ।। शकृत् । शकृती । शकृन्‍ति ।। ददत् ।।
३६६ वा नपुंसकस्‍य
अभ्‍यस्‍तात्‍परो यः शता तदन्‍तस्‍य क्‍लीबस्‍य वा नुम् सर्वनामस्‍थाने । ददन्‍तिददति ।। तुदत् ।।
३६७ आच्‍छीनद्ययोर्नुम्
अवर्णान्‍तादङ्गात्‍परो यः शतुरवयस्‍तदन्‍तस्‍य नुम् वा शीनद्योः । तुदन्‍तीतुदती । तुदन्‍ति ।।
३६८ शप्‍श्‍यनोर्नित्‍यम्
शप्‍श्‍यनोरात्‍परो यः शतुरवयवस्‍तदन्‍तस्‍य नित्‍यं नुम् शीनद्योः । पचन्‍ती । पचन्‍ति । दीव्‍यत् । दीव्‍यन्‍ती । दीव्‍यन्‍ति ।। धनुः । धनुषी । सान्‍तेति दीर्घः । नुम्‍विसर्जनीयेति षः । धनुषि । धनुषा । धनुभ्‍र्याम् । एवं चक्षुर्हविरादयः ।। पयः । पयसी । पयांसि । पयसा । पयाभ्‍याम् ।। सुपुम् । सुपुंसी । सुपुमांसि ।। अदः । विभक्तिकार्यम् । उत्‍वमत्‍वे । अमू । अमूनि । शेषं पुंवत् ।।

शप् और श्यन् के अकार से परे जो शतृ का अवयव,तदन्त को नुम् हो, शी तथा नदी संज्ञक परे रहते। भ्वादि तथा चुरादि धातुओं से शप् तथा दिवादि से श्यन् प्रत्यय होता है। पच् धातु  भ्वादि गण का है अतः यहाँ पच् + शप् + शतृ प्रत्यय होता है। अनुबन्ध लोप होने पर पच् + अ + अत् = पचत् बना। इस पचत् से प्रथमा द्विवचन में औ विभक्ति आयी। औ को शी हुआ। शी में शकार का अनुबन्ध लोप होने पर ई शेष रहा। पचत् + ई इ अवस्था में प्रस्तुत सूत्र से नुम का आगम होकर पचन्ती रूप बना। इसी प्रकार दिवादि गण के दिव् (दिवु) धातु से दिव्यन्ती रूप बनेगा।
इति हलन्‍तनपुंसकलिङ्गाः ।
इति षड्लिङ्गप्रकरणम् ।

                                                     अथाव्‍ययानि
३६९ स्‍वरादिनिपातमव्‍ययम्
स्‍वरादयो निपाताश्‍चाव्‍ययसंज्ञाः स्‍युः । स्‍वर् । अन्‍तर् । प्रातर् । पुनर् । सनुतर् । उच्‍चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्‍यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्‍णीम् । बहिस् । अवस् । समया । निकषा । स्‍वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । वत् । ब्राह्‍मणवत् । क्षत्रियवत् ।। सना । सनत् । सनात् । उपधा । तिरस् । अन्‍तरा । अन्‍तरेण । ज्‍योक् । कम् । षम् । सहसा । विना । नाना । स्‍वस्‍ति । स्‍वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्‍यत् । अस्‍ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्‍या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम्प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतान् । मा । माङ् । आकृतिगणोऽयम् ।।
च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्‍चित् । यत्र । नह । हन्‍त । माकिः । माकिम् । नकिः । नकिम् । माङ् । नञ् । यावत् । तावत् । त्‍वे । द्वै । त्‍वै । रै । श्रौषट् । वौषट् । स्‍वाहा । स्‍वधा । वषट् । तुम् । तथाहि । खलु । किल । अथो । अथ । सुष्‍ठु । स्‍म । आदह । (उपसर्गविभक्तिस्‍वरप्रतिरूपकाश्‍च)। अवदत्तम् । अहंयुः । अस्‍तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट् । प्‍याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु । एकपदे । युत् । आतः । चादिरप्‍याकृतिगणः ।।
तसिलादयः प्राक् पाशपः । शस्‍प्रभृतयः प्राक् समासान्‍तेभ्‍यः । अम् । आम् । कृत्‍वोर्थाः । तसिवती । नानाञौ । एतदन्‍तमप्‍यव्‍ययम् ।।
३७० कृन्‍मेजन्‍तः
कृद्यो मान्‍त एजन्‍तश्‍च तदन्‍तमव्‍ययं स्‍यात् । स्‍मारं स्‍मारम् । जीवसे । पिबध्‍यै ।।
३७१ क्‍त्‍वातोसुन्‍कसुनः
एतदन्‍तमव्‍ययम् । कृत्‍वा । उदेतोः । विसृपः ।।
३७२ अव्‍ययीभावश्‍च
अधिहरि ।।
३७३ अव्‍ययादाप्‍सुपः
अव्‍ययाद्विहितस्‍यापः सुपश्‍च लुक् । तत्र शालायाम् ।।
           सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्‍येति तदव्‍ययम् ।।
           वष्‍टि भागुरिरल्‍लोपमवाप्‍योरुपसर्गयोः । आपं चैव हलन्‍तानां यथा वाचा निशा दिशा ।।
वगाहःअवगाहः । पिधानम्अपिधानम् ।।
इत्‍यव्‍ययानि ।।
--------------------------------------------------------------

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें