अथ तनादयः
तनु विस्तारे ।। १ ।।
६७६ तनादिकृञ्भ्य उः
तनादेः कृञश्च उः प्रत्ययः स्यात्। शपोऽपवादः । तनोति, तनुते । ततान, तेने । तनितासि, तनितासे । तनोतु । तनुताम् । अतनोत्, अतनुत । तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतानीत्, अतनीत् ।।
६७७ तनादिभ्यस्तथासोः
तनादेः सिचो वा लुक् स्यात्तथासोः । अतत, अतनिष्ट । अतथाः, अतनिष्टाः । अतनिष्यत्, अतनिष्यत ।। षणु दाने ।। २ ।। सनोति, सनुते ।।
६७८ ये विभाषा
जनसनखनामात्वं वा यादौ क्ङिति । सायात्, सन्यात् ।।
६७९ जनसनखनां सञ्झलोः
एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति । असात, असनिष्ट ।। क्षणु हिंसायाम् ।। ३ ।। क्षणोति, क्षणुते ।। ह्म्यन्तेति न वृद्धिः । अक्षणीत्, अक्षत, अक्षणिष्ट । अक्षथाः, अक्षणिष्ठाः ।। क्षिणु च ।। ४ ।। अप्रत्यये लघूपधस्य गुणो वा । क्षेणोति, क्षिणोति । क्षेणिता । अक्षेणीत्, अिक्षत, अक्षेणिष्ट ।। तृणु अदने ।। ५ ।। तृणोति, तर्णोति; तृणुते, तर्णुते ।। डुकृञ् करणे ।। ६ ।। करोति ।।
६८० अत उत्सार्वधातुके
उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात् सार्वधातुके क्ङिति । कुरुतः ।।
६८१ न भकुर्छुराम्
भस्य कुर्छुरोरुपधाया न दीर्घः । कुर्वन्ति ।।
६८२ नित्यं करोतेः
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः । कुर्वः । कुर्मः । कुरुते । चकार, चक्रे । कर्तासि, कर्तासे । करिष्यति, करिष्यते । करोतु । कुरुताम् । अकरोत् । अकुरुत ।।
६८३ ये च
कृञ उलोपो यादौ प्रत्यये परे । कुर्यात्, कुर्वीत । क्रियात्, कृषीष्ट । अकार्षीत्, अकृत । अकरिष्यत्, अकरिष्यत ।।
६८४ सम्परिभ्यां करोतौ भूषणे
६८५ समवाये च
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । सम्पूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षा इति ज्ञापकात् ।।
६८६ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङि्क्षतैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृता ब्राह्मणाः । एधोदकस्योपस्करोति । उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते ।। वनु याचने ।। ७ ।। वनुते । ववने ।। मनु अवबोधने ।। ८ ।। मनुते । मेने । मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीष्ट । अमत, अमनिष्ट । अमनिष्यत ।।
इति तनादयः ।। ८ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें