लघुसिद्धान्तकौमुदी (अदादिप्रकरणम्)

अथादादयः


अद भक्षणे ।। १ ।।
५५४ अदिप्रभृतिभ्‍यः शपः
लुक् स्‍यात् । अत्ति । अत्तः । अदन्‍ति । अत्‍सि । अत्‍थः । अत्‍थ । अिद्म । अद्वः । अद्मः ।
सूत्रार्थ-  अदादि गणपठित धातुओं से पर ‘शप्’ का लुक् (लोप) हो।
५५५ लिट्यन्यतरस्‍याम्
अदो घस्‍लृ वा स्‍याल्‍लिटि । जघास । उपधालोपः ।।
‘अद्’ को ‘घस्लृ’ आदेश हो, ‘लिट्’ के परेविकल्प से। 
५५६ शासिवसिघसीनां च
इण्‍कुभ्‍यां परस्‍यैषां सस्‍य षः स्‍यात् । घस्‍य चत्‍र्वम् ।। जक्षतुः । जक्षुः । जघसिथ । जक्षथुः । जक्ष । जघासजघस । जिक्षव । जिक्षम । आद । आदतुः । आदुः ।।
सूत्रार्थ-  इण् और कवर्ग से परे ‘शास्’ ‘वस्’ और ‘घस्’ धातु संबन्धी सकार को षकार आदेश हो।
५५७ इडत्त्यर्तिव्‍ययतीनाम्
अद् ऋ व्‍येञ् एभ्‍यस्‍थलो नित्‍यमिट् स्‍यात् । आदिथ । अत्ता । अत्‍स्‍यति । अत्तु । अत्तात् । अत्ताम् । अदन्‍तु ।।
अद्ऋ और व्येञ् धातुओं से परे थल् को नित्य इट् का आगम हो।
५५८ हुझल्‍भ्‍यो हेर्धिः
होर्झलन्‍तेभ्‍यश्‍च हेर्धिः स्‍यात् । अद्धि । अत्तात् । अत्तम् । अत्त । अदानि । अदाव । अदाम ।।
सूत्रार्थ-  ‘हु’ धातु और झलन्त धातुओंसे परे ‘हि’ को ‘घि’ आदेश हो। 
५५९ अदः सर्वेषाम्
अदः परस्‍यापृक्तसार्वधातुकस्‍य अट् स्‍यात्‍सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यात् । अद्यास्‍ताम् । अद्यासुः ।।
सूत्रार्थ-  ‘अद्’ धातु से परे अपृक्त सार्वधातुक को ‘अट्’ का आगम होसभी आचार्यो के मत से ।
५६० लुङ्सनोर्घस्‍लृ
अदो घस्‍लृ स्‍याल्‍लुङि सनि च । लृदित्‍वादङ् । अघसत् । आत्‍स्‍यत् ।। हन हिंसागत्‍योः ।। २ ।। हन्‍ति ।।
सूत्रार्थ-  ’अद्’ धातु कों ‘घस्लृ’ आदेश हो, ‘लुङ्’ और सन् के परे। 
५६१ अनुदात्तोपदेशवनतितनोत्‍यादीनामनुनासिकलोपो झलि क्‍ङिति
अनुनासिकान्‍तानामेषां वनतेश्‍च लोपः स्‍याज्‍झलादौ किति ङिति परे । यमिरमिनमिगमिहनिमन्‍यतयोऽनुदात्तोपदेशाः । तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्‍यादयः । हतः । घ्‍नन्‍ति । हंसि । हथः । हथ । हन्‍मि । हन्‍वः । हन्‍मः । जघान । जघ्‍नतुः । जघ्‍नुः ।।
सूत्रार्थ-  अनुनासिकान्त जो अनुदात्तोपदेश और तनोत्यादि (तनु विस्तारे आदि) धातु तथा ‘वन्’ धातुइनके अनुनासिक का लोप हो  
५६२ अभ्‍यासाच्‍च
अभ्‍यासात्‍परस्‍य हन्‍तेर्हस्‍य कुत्‍वं स्‍यात् । जघनिथजघन्‍थ । जघ्‍नथुः । जघ्‍न । जघ्‍निव । जघ्‍निम । हन्‍ता । हनिष्‍यति । हन्‍तुहतात् । हताम् । घ्‍नन्‍तु ।।
सूत्रार्थ-  अभ्यास से परे ‘हन्’ धातु के हकार को कुत्व हो। 
५६३ हन्‍तेर्जः
हौ परे ।।
सूत्रार्थ-  ‘हन्’ धातुओं ‘ज’ आदेश हो ‘हि’ के परे। 
५६४ असिद्धवदत्राभात्
इत उर्ध्वमापादसमाप्‍तेराभीयम्समानाश्रये तस्‍मिन्‍कर्तव्‍ये तदसिद्धम् । इति जस्‍यासिद्धत्‍वान्न हेर्लुक् । जहिहतात् । हतम् । हत । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्‍नन् । अहन् । अहतम् । अहत । अहनम् । अहन्‍व । अहन्‍म । हन्‍यात् । हन्‍याताम् । हन्‍युः ।।
सूत्रार्थ-  इस सूत्र 6.4.22  से लेकर षष्ठाध्याय के चतुर्थ पाद की समाप्ति पर्यन्त से विहित कार्य आभीय कहलाता है। समानाश्रय ‘आभीय’ कार्य के विषय में पूर्व कृत समानाश्रय (आभीय) कार्य असिद्ध हो। 
५६५ आर्धधातुके
इत्‍यधिकृत्‍य ।।
सूत्रार्थ-  यह अधिकारसूत्र है।  
५६६ हनो वध लिङि
सूत्रार्थ-  हन् धातु को ‘वध’ आदेश होलिङ् के परे। 
५६७ लुङि च
वधादेशोऽदन्‍तः । आर्धधातुके इति विषयसप्‍तमीतेन आर्धधातुकोपदेशे अकारान्‍तत्‍वादतो लोपः । वध्‍यात् । वध्‍यास्‍ताम् । आदेशस्‍यानेकाच्‍त्‍वादेकाच इतीण्‍निषेधाभावादिट् । ’अतो हलादेः’ इति वृद्धौ प्राप्‍तायाम् —
सूत्रार्थ-  हन् धातु को ‘वध’ आदेश होलुङ् के परे। आर्धधातुके- यहाँ विषय सप्तमी है तथा पर सप्तमी नहीं है।  
५६८ अचः परस्‍मिन् पूर्वविधौ
परनिमित्तोऽजादेशः स्‍थानिवत्स्‍थानिभूतादचः पूर्वत्‍वेन दृष्‍टस्‍य विधौ कर्तव्‍ये । इत्‍यल्‍लोपस्‍य स्‍थानिवत्त्वान्न वृद्धिः । अवधीत् । अहनिष्‍यत् ।। यु मिश्राणामिश्रणयोः ।। ३ ।।
सूत्रार्थ-  पर निमित्तक अजादेश स्थानिवत् होस्थानिभूत अच् से पूर्वत्वेन दृष्ट को यदि विधि (कार्य) कर्तव्य हो। 
५६९ उतो वृद्धिर्लुकि हलि
लुग्‍विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्‍वभ्‍यस्‍तस्‍य । यौति । युतः । युवन्‍ति । यौषि । युथः । युथ । यौमि । युवः । युमः । युयाव । यविता । यविष्‍यति । यौतुयुतात् । अयौत् । अयुताम् । अयुवन् । युयात् । इह उतो वृद्धिर्नभाष्‍ये – ’पिच्‍च ङिन्न ङिच्‍च पिन्न’ इति व्‍याख्‍यानात् । युयाताम् । युयुः । यूयात् । यूयास्‍ताम् । यूयासुः । अयावीत् । अयविष्‍यत् ।। या प्रापणे ।। ४ ।। याति । यातः । यान्‍ति । ययौ । याता । यास्‍यति । यातु । अयात् । अयाताम् ।।
सूत्रार्थ-  लुक् के विषय में (हृस्व) उकार को वृद्धि होहलादि पित् सार्वधातुक के परे रहते, अभ्यस्तसंज्ञक धातु को छोड़कर। 
५७० लङः शाकटायनस्‍यैव
आदन्‍तात्‍परस्‍य लङो झेर्जुस् वा स्‍यात् । अयुःअयान् । यायात् । यायाताम् । यायुः । यायात् । यायास्‍ताम् । यायासुः । अयासीत् । अयास्‍यत् । वा गतिगन्‍धनयोः ।। ५ ।। भा दीप्‍तौ ।। ६ ।। ष्‍णा शौचे ।। ७ ।। श्रा पाके ।। ८ ।। द्रा कुत्‍सायां गतौ ।। ९ ।। प्‍सा भक्षणे ।। १० ।। रा दाने ।। ११ ।। ला आदाने ।। १२ ।। दाप् लवने ।। १३ ।। पा रक्षणे ।। १४ ।। ख्‍या प्रकथने ।। १५ ।। अयं सार्वधातुके एव प्रयोक्तव्‍यः ।। विद ज्ञाने ।। १६ ।।
सूत्रार्थ-  आदन्त धातु से परे ‘लङ्’ सम्बन्धी ‘झि’ को जुस् हो विकल्प से। 
५७१ विदो लटो वा
वेत्तेर्लटः परस्‍मैपदानां णलादयो वा स्‍युः । वेद । विदतुः । विदुः । वेत्‍थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे — वेत्ति । वित्तः । विदन्‍ति ।।
सूत्रार्थ-  ‘विद्’ धातु (अदादि गण) से परे ‘लट्’ सम्बन्धी परस्मैपद प्रत्ययों को णल् आदि आदेश होविकल्प से।
५७२ उष-विद-जागृभ्‍योऽन्‍यतरस्‍याम्
एभ्‍यो लिटि आम्‍वा स्‍यात् । विदेरन्‍तत्‍वप्रतिज्ञानादामि न गुणः । विदाञ्चकारविवेद । वेदिता । वेदिष्‍यति ।।
सूत्रार्थ-  उष-उष्विद् और जागृ धातुओं से ‘आम्’ प्रत्यय हो, ‘लिट्’ के परेविकल्प से।
५७३ विदाङ्कुर्वन्‍त्वित्‍यन्‍यतरस्‍याम्
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्‍तकरोत्‍यनुप्रयोगश्‍च वा निपात्‍यते पुरुषवचने न विवक्षिते ।।
सूत्रार्थ-  ‘लोट्’ के परे-‘विद्’ धातु से ‘आम्’ गुण का अभाव और ‘लोट्’ का लुक् एवं लोडन्त कृ धातु का अनुप्रयोग निपातन होविकल्प से। 
५७४ तनादिकृञ्भ्‍य उः
तनादेः कृञश्‍च उः प्रत्‍ययः स्‍यात् । शपोऽपवादः । गुणौ । विदाङ्करोतु ।।
सूत्रार्थ-  तनादिगण-पठित धातु और ‘कृञ्’ धातु से ‘उ’ प्रत्यय होकर्त्रर्थक सार्वधातुक के परे। 
५७५ अत उत्‍सार्वधातुके
उत्‍प्रत्‍ययान्‍तस्‍य कृञोऽत उत्‍सार्वधातुके क्‍ङिति । विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्‍तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । अविदुः ।।
सूत्रार्थ-  सार्वधातुक कित्-ङित् परे रहते उ प्रत्ययान्त कृञ् धातु के अकार को ‘उत्’ आदेश हो।
५७६ दश्‍च
धातोर्दस्‍य पदान्‍तस्‍य सिपि रुर्वा । अवेःअवेत् । विद्यात् । विद्याताम् । विद्युः । विद्यात् । विद्यास्‍ताम् । अवेदीत् । अवेदिष्‍यत् ।। अस् भुवि ।। १७ ।। अस्‍ति ।।
सूत्रार्थ-  सिप् के परे रहते, धातु के पदान्त दकार को रूत्वहो, विकल्प से। 

५७७ श्‍नसोरल्‍लोपः
श्‍नस्‍यास्‍तेश्‍चातो लोपः सार्वधातुके िक्‍ङति । स्‍तः । सन्‍ति । असि । स्‍थः । स्‍थ । अस्‍मि । स्‍वः । स्‍मः ।
सूत्रार्थ-  सार्वधातुक कित्- ङित् के परे रहते श्नम्प्रत्यय और अस्धातु के अकार का लोप हो । 
५७८ उपसर्गप्रादुर्भ्‍यामस्‍तिर्यच्‍परः
उपसर्गेणः प्रादुसश्‍चास्‍तेः सस्‍य षो यकारेऽचि च परे । निष्‍यात् । प्रनिषन्‍तिप्रादुः षन्‍ति । यच्‍परः किम् ? । अभिस्‍तः ।।
सूत्रार्थ-  यकार और अच् के परे रहते उपसर्ग सम्बन्धी इण्से परे और प्रादुस्’ (सान्त अव्यय) से परे अस्धातु के सकार को षकार हो । 
५७९ अस्‍तेर्भूः
आर्धधातुके । बभूव । भविता । भविष्‍यति । अस्‍तुस्‍तात् । स्‍ताम् । सन्‍तु ।।

सूत्रार्थ-  अस्धातु को भूआदेश हो, आर्धधातुक के परे। 
५८० घ्‍वसोरेद्धावभ्‍यासलोपश्‍च
घोरस्‍तेश्‍च एत्त्वं स्‍याद्धौ परे अभ्‍यासलोपश्‍च । एत्त्वस्‍यासिद्धत्‍वाद्धेर्धिः । श्‍नसोरित्‍यल्‍लोपः । तातङ्पक्षे एत्त्वं नपरेण तातङा बाधात् । एधिस्‍तात् । स्‍तम् । स्‍त । असानि । असाव । असाम । आसीत् । आस्‍ताम् । आसन् । स्‍यात् । स्‍याताम् । स्‍युः । भूयात् । अभूत् । अभविष्‍यत् ।। इण् गतौ ।। १८ ।। एति । इतः ।।

सूत्रार्थ-  घुसंज्ञक धातु और अस्धातु को एत्वऔर अभ्यास का लोप हो, ‘हिके परे। 
५८१ इणो यण्
अजादौ प्रत्‍यये परे । यन्‍ति ।।
इणो-इण् धातु को यण् हो, अजादि प्रत्यय के परे। 
५८२ अभ्‍यासस्‍यासवर्णे
सूत्रार्थ-  अभ्‍यासस्‍य इवर्णोवर्णयोरियङुवङौ स्‍तोऽसवर्णेऽचि । इयाय ।।

अभ्यास सम्बन्धी इवर्ण-उवर्ण को इयङ्-उवङ् आदेश हो, असवर्ण अच्के परे। 
५८३ दीर्घ इणः किति
इणोऽभ्‍यासस्‍य दीर्घः स्‍यात् किति लिटि । ईयतुः । ईयुः । इययिथइयेथ । एता । एष्‍यति । एतु । ऐत् । ऐताम् । आयन् । इयात् ।।

सूत्रार्थ-  कित् लिट् के परे रहते इण् धातु के अभ्यास को दीर्घ हो । 
५८४ एतेर्लिङि
उपसर्गात्‍परस्‍य इणोऽणो ह्रस्‍व आर्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्‍तादिवत् । अभीयात् । अणः किम् ? समेयात् ।।

सूत्रार्थ-  उपसर्ग से परे इण्धातु के अण्को ह्रस्व हो, आर्धधातुक कित् लिट् के परे। 
उभयत- उभयतः आश्रयण में अन्तादिवद्धाव नहीं हो। 
५८५ इणो गा लुङि
गातिस्‍थेति सिचो लुक् । अगात् । ऐष्‍यत् ।। शीङ् स्‍वप्‍ने ।। १९ ।।

सूत्रार्थ-  इङ् को गाआदेश हो लुङ् के विषय में। 
५८६ शीडः सार्वधातुके गुणः
क्‍ङिति चेत्‍यस्‍यापवादः । शेते । शयाते ।।
सूत्रार्थ-  शीङ्धातु को गुण हो, सार्वधातुक के परे। 
५८७ शीङो रुट्
शीडः परस्‍य झादेशस्‍यातो रुडागमः स्‍यात् । शेरते । शेषे । शयाथे । शेध्‍वे । शये । शेवहे । शेमहे । शिश्‍ये । शिश्‍याते । शिश्‍यिरे । शयिता । शयिष्‍यते । शेताम् । शयाताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयिषीष्‍ट । अशयिष्‍ट । अशयिष्‍यत ।। इङ् अध्‍ययने ।। २० ।। इङिकावध्‍युपसर्गतो न व्‍यभिचारतः । अधीते । अधीयाते । अधीयते ।।
सूत्रार्थ-  शीङ् से परे झ आदेश अत्को रूट् का  आगम हो। 
५८८ गाङ् लिटि
इङो गाङ् स्‍याल्‍लिटि । अधिजगे । अधिजगाते । अधिजगिरे । अध्‍येता । अध्‍येष्‍यते । अधीताम् । अधीयाताम् । अधीयताम् । अधीष्‍व । अधीयाथाम् । अधीध्‍वम् । अध्‍ययै । अध्‍ययावहै । अध्‍ययामहै । अध्‍यैत । अध्‍यैयाताम् । अध्‍यैयत । अध्‍यैथाः । अध्‍यैयाथाम् । अध्‍यैध्‍वम् । अध्‍यैयि । अध्‍यैवहि । अध्‍यैमहि । अधीयीत । अधीयीयाताम् । अधीयीरन् । अध्‍येषीष्‍ट ।।
सूत्रार्थ-  इङ् को गाङ्आदेश हो लिट्के परे। 
५८९ विभाषा लुङ्लृङोः
इङो गाङ् वा स्‍यात् ।।
सूत्रार्थ-  लुङ् लङ् के विषय में  इङ्को गाङ्आदेश हो, विकल्प से। 
५९० गाङ्कुटादिभ्‍योऽञ्णिन्‍ङित्
गाङादेशात्‍कुटादिभ्‍यश्‍च परेऽञ्णितः प्रत्‍यया ङितः स्‍युः ।।
सूत्रार्थ-  गाङ्और कुट आदि धातुओं से परे से परे ञित्, णित्, से भिन्न प्रत्यय ङित्हो। 
५९१ घु-मा-स्था-गा-पा-जहाति-सां हलि
एषामात ईत्‍स्‍याद्धलादौ क्‍ङित्‍यार्धधातुके । अध्‍यगीष्‍टअध्‍यैष्‍ट । अध्‍यगीष्‍यतअध्‍यैष्‍यत ।। दुह प्रपूरणे ।। २१ ।। दोग्‍धि । दुग्‍धः । दुहन्‍ति । धोक्षि । दुग्‍धे । दुहाते । दुहते । धुक्षे । दुहाथे । धुग्‍ध्‍वे । दुहे । दुह्‍वहे । दुह्‍महे । दुदोहदुदुहे । दोग्‍धासिदोग्‍धासे । धोक्ष्यतिधोक्ष्यते । दोग्‍धुदुग्‍धात् । दुग्‍धाम् । दुहन्‍तु । दुग्‍धिदुग्‍धात् । दुग्‍धम् । दुग्‍ध । दोहानि । दोहाव । दोहाम । दुग्‍धाम् । दुहाताम् । दुहताम् । धुक्ष्व । दुहाथाम् । धुग्‍घ्‍वम् । दोहै । दोहावहै । दोहामहै । अधोक् । अदुग्‍धाम् । अदुहन् । अदोहम् । अदुग्‍ध । अदुहाताम् । अदुहत । अधुग्‍ध्‍वम् । दुह्‍यात्दुहीत ।।
सूत्रार्थ-  हलादि कित् छित् आर्धधातुक के परे रहते घुसंज्ञक धातु तथा मा, स्था, गा, पा, ओहाक् और षोधातुओं के आकार को ईत्वहो । 
५९२ लिङि्सचावात्‍मनेपदेषु
इक्‍समीपाद्धलः परौ झलादी लिङि्सचौ कितौ स्‍तस्‍तङि । धुक्षीष्‍ट ।।
सूत्रार्थ-  इक् समीप हल् से परे झलादि लिङ् और झलादि सिच्, कित् हो आत्मनेपदे में 
५९३ शल इगुपधादनिटः क्‍सः
इगुपधो यः शलन्‍तस्‍तस्‍मादनिटश्‍च्‍लेः क्‍सादेशः स्‍यात् । अधुक्षत् ।।
सूत्रार्थ-  इगुपध, शलन्त धातुसे परे अनिट् च्लिको क्सआदेश हो। 
५९४ लुग्‍वा दुह-दिह-लिह-गुहामात्‍मनेपदे दन्‍त्‍ये
एषां क्‍सस्‍य लुग्‍वा स्‍याद्दन्‍त्‍ये तङि । अदुग्‍धअधुक्षत ।।
सूत्रार्थ-  दुह्, दिह्,लिह् तथा गुह्  धातु से परे क्सका लुक्हो, दन्त्य त ङ्के परे विकल्प से। 
५९५ क्‍सस्‍याचि
अजादौ तङि क्‍सस्‍य लोपः । अधुक्षाताम् । अधुक्षन्‍त । अदुग्‍धाःअधुक्षथाः । अधुक्षाथाम् । अधुग्‍ध्‍वम्अधुक्षध्‍वम् । अधुिक्ष । अदुह्‍वहिअधुक्षावहि । अधुक्षामहि । अधोक्ष्यत ।। एवं दिह उपचये ।। २२ ।। लिह आस्‍वादने ।। २३ ।। लेढि । लीढः । लिहन्‍ति । लेिक्ष । लीढे । लिहाते । लिहते । लिक्षे । लिहाथे । लीढ्वे । लिलेहलिलिहे । लेढासिलेढासे । लेक्ष्यतिलेक्ष्यते । लेढु । लीढाम् । लिहन्‍तु । लीढि । लेहानि । लीढाम् । अलेट्अलेड् । अलिक्षत्अलीढअलिक्षत । अलेक्ष्यत्अलेक्ष्यत ।। ब्रूञ् व्‍यक्तायां वाचि ।। २४ ।।
सूत्रार्थ-  अजादि तङ्के परे रहते  क्स’ (क्सके ’) का लोप हो।
५९६ ब्रुवः पञ्चानामादित आहो ब्रुवः
ब्रुवो लटस्‍तिबादीनां पञ्चानां णलादयः पञ्च वा स्‍युर्ब्रुवश्‍चाहादेशः । आह । आहतुः । आहुः ।।
सूत्रार्थ-  ब्रूधातु से परे लट् लकार स्थानिक तिप् आदि  पाँचों प्रत्ययों को णल आदि आदेश हो, विकल्प से और ब्रूको आहआदेश भी हो। 
५९७ आहस्‍थः
झलि परे । चर्त्‍वम् । आत्‍थ । आहथुः ।।
सूत्रार्थ-  झल्के परे रहते आह्को थकारान्त आदेश हो । 
५९८ ब्रुव ईट्
ब्रुवः परस्‍य हलादेः पित ईट् स्‍यात् । ब्रवीति । ब्रूतः । ब्रुवन्‍ति । ब्रूते । ब्रुवाते । ब्रुवते ।।
सूत्रार्थ-  ब्रूधातु से परे हलादि पित्को ईट्का आगम हो। 
५९९ ब्रुवो वचिः
आर्धधातुके । उवाच । ऊचतुः । ऊचुः । उवचिथउवक्‍थ । ऊचे । वक्तासिवक्तासे । वक्ष्यतिवक्ष्यते । ब्रवीतुब्रूतात् । ब्रुवन्‍तु । ब्रूहि । ब्रवाणि । ब्रूताम् । ब्रवै । अब्रवीत्अब्रूत । ब्रूयात्ब्रुवीत । उच्‍यात्वक्षीष्‍ट ।।
सूत्रार्थ-  ब्रुको वचादेश हो, आर्धधातुक के परे। 
६०० अस्‍यतिवक्तिख्‍यातिभ्‍योऽङ्
एभ्‍यश्‍चलेरङ् स्‍यात् ।।
सूत्रार्थ-  अस् और ख्या धातुओं से परे च्लि को अङ् आदेश हो। 
६०१ वच उम्
अङि परे । अवोचत्अवोचत । अवक्ष्यत्अवक्ष्यत ।
सूत्रार्थ-  आङ् प्रत्यय के परे रहते वच् को उम् का आगम हो। 
(ग. सू) चर्करीतं च । चर्करीतमिति यङ्लुगन्‍तस्‍य संज्ञातददादौ बोध्‍यम् ।। ऊर्णुञ् आच्‍छादने ।। २५ ।।
सूत्रार्थ-  चर्करीतम्यङ्लुगन्त को कहते हैं। उसे अदादि गण में समझना चाहिए। 
६०२ ऊर्णोतेर्विभाषा
वा वृद्धिः स्‍याद्धलादौ पिति सार्वधातुके । ऊर्णौतिऊर्णोति । ऊर्णुतः । ऊर्णुवन्‍ति । ऊर्णुते । ऊर्णुवाते । ऊर्णुवते ।
सूत्रार्थ-  ऊर्णुधातु को वृद्धि हो, हलादि पित् सार्वधातुक के परे, विकल्प से। 
(ऊर्णोतेराम्‍नेति वाच्‍यम्) ।।
सूत्रार्थ-  ऊर्णु धातु को आम्नहीं हो लिट्के परे। 
६०३ न न्‍द्राः संयोगादयः
अचः पराः संयोगादयो नदरा द्विर्न भवन्‍ति । नुशब्‍दस्‍य द्वित्‍वम् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ।।
सूत्रार्थ-  अच्से परे संयोग के आदि नकार, दकार और रेफ को द्वित्व नहीं हो। 
६०४ विभाषोर्णोः
इडादिप्रत्‍ययो वा ङित्‍स्‍यात् । ऊर्णुनुविथऊर्णुनविथ । ऊर्णुविताऊर्णविता । ऊर्णुविष्‍यतिऊर्णविष्‍यति । ऊर्णौतुऊर्णोतु । ऊर्णवानि । ऊर्णवै ।।
सूत्रार्थ-  ऊर्णुधातु से परे इङादि प्रत्यय ङित्हो, विकल्प से। 
६०५ गुणोऽपृक्ते
ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्‍यपवादः । और्णोतु । और्णोः । ऊर्णुयात् । ऊर्णुयाः । ऊर्णुवीत । ऊर्णूयात् । ऊर्णुविषीष्‍टऊर्णविषीष्‍ट ।।
सूत्रार्थ-  ऊर्णुधातु को गुण हो, अपृत्कसंज्ञक हलादि पित्सार्वधातुक के परे। 
६०६ ऊर्णोतेर्विभाषा
इडादौ सिचि वा वृद्धिः परस्‍मैपदे परे । पक्षे गुणः । और्णावीत्और्णुवीत्और्णवीत् । और्णाविष्‍टाम्और्णुविष्‍टाम्और्णविष्‍टाम् । और्णुविष्‍टऔर्णविष्‍ट । और्णुविष्‍यत्और्णविष्‍यत् । और्णुविष्‍यतऔर्णविष्‍यत ।।
सूत्रार्थ-  इडादि परस्मैपद पद सिच् प्रत्यय के परे रहते ऊर्णु धातु को विकल्प से वृद्धि हो  । 
इत्‍यदादयः ।। २ ।।
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

लोकप्रिय पोस्ट

ब्लॉग की सामग्री यहाँ खोजें।

लेखानुक्रमणी

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

संस्कृतसर्जना वर्ष 1 अंक 1

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

Recent Posts

लेखाभिज्ञानम्

अंक (1) अभिनवगुप्त (1) अलंकार (3) आचार्य (1) आधुनिक संस्कृत (1) आधुनिक संस्कृत गीत (1) आधुनिक संस्कृत साहित्य (3) आम्बेडकर (1) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋतु (1) ऋषिका (1) कणाद (1) करक चतुर्थी (1) करण (2) करवा चौथ (1) कर्मकाण्ड (33) कामशास्त्र (1) कारक (1) काल (3) काव्य (4) काव्यशास्त्र (12) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (2) गंगा (1) गया (1) गाय (1) गीतकार (1) गीति काव्य (1) गुरु (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) चरण (1) छन्द (4) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (3) ज्योतिष (13) तकनीकि शिक्षा (1) तद्धित (10) तिङन्त (11) तिथि (2) तीर्थ (3) दर्शन (11) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (12) नक्षत्र (3) नाटक (2) नाट्यशास्त्र (2) नायिका (2) नीति (2) पक्ष (1) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (2) पुरुषार्थोपदेश (1) पुस्तक (2) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (2) योग (6) योग दिवस (2) रचनाकार (3) रस (1) राजभाषा (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (1) राशि (1) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (2) वैचारिक निबन्ध (22) वैशेषिक (1) व्याकरण (15) व्यास (2) व्रत (2) व्रत कथा (1) शंकाराचार्य (2) शतक (1) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (16) संस्कृत आयोग (1) संस्कृत गीतम्‌ (9) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (4) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (1) साहित्यदर्पण (1) सुबन्त (7) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्त्रीप्रत्यय (1) स्मृति (11) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (1) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Kahani (1) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (1) UGC NET/ JRF (4)