अथ नामधातवः
७२३ सुप आत्मनः क्यच्
इषिकर्मण एषितुः सम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो
वा स्यात् ।।
७२४ सुपो धातुप्रातिपदिकयोः
एतयोरवयवस्य सुपो लुक् ।।
७२५ क्यचि च
अवर्णस्य ईः । आत्मनः पुत्रमिच्छति पुत्रीयति ।।
७२६ नः क्ये
क्यचि क्यङि च नान्तमेव पदं नान्यत् । नलोपः । राजीयति । नान्तमेवेति
किम्? वाच्यति । हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेह – दिवमिच्छति दिव्यति ।।
७२७ क्यस्य विभाषा
हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके । आदेः परस्य । अतो लोपः
। तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता, समिध्यिता ।।
७२८ काम्यच्च
उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति ।
पुत्रकाम्यिता ।।
७२९ उपमानादाचारे
उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् । पुत्रमिवाचरति
पुत्रीयति छात्रम् । विष्णूयति द्विजम् ।।
(सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः) । अतो गुणे । कृष्ण इवाचरति कृष्णति । स्व इवाचरति स्वति । सस्वौ ।।
७३० अनुनासिकस्य क्विझलोः क्ङिति
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति ।
इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति ।।
७३१ कष्टाय क्रमणे
चतुर्थ्यन्तात् कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय
क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ।।
७३२ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते
।। (गसू) तत्करोति तदाचष्टे; इति णिच् ।। (गसू) प्रातिपदिकाद्धात्वर्थे
बहुलमिष्ठवच्च । प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप- विन्मतुब्लोप-यणादिलोप-प्रस्थस्फाद्यादेश-भसंज्ञास्तद्वण्णावपि
स्युः । इत्यल्लोपः । घटं करोत्याचष्टे वा घटयति ।।
इति नामधातवः
अथ कण्ड्वादयः
७३३ कण्ड्वादिभ्यो यक्
एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे । कण्डूञ्
गात्रविघर्षणे ।। १ ।। कण्डूयति । कण्डूयत इत्यादि ।।
इति कण्ड्वादयः ।।
अथात्मनेपदप्रक्रिया
७३४ कर्तरि कर्मव्यतिहारे
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम् । व्यतिलुनीते । अन्यस्य
योग्यं लवनं करोतीत्यर्थः ।।
७३५ न गतिहिंसार्थेभ्यः
व्यतिगच्छन्ति । व्यतिघ्नन्ति ।।
७३६ नेर्विशः
निविशते ।।
७३७ परिव्यवेभ्यः क्रियः
परिक्रीणीते । विक्रीणीते । अवक्रीणीते ।।
७३८ विपराभ्यां जेः
विजयते । पराजयते ।।
७३९ समवप्रविभ्यः स्थः
संतिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते ।।
७४० अपह्नवे ज्ञः
शतमपजानीते । अपलपतीत्यर्थः ।।
७४१ अकर्मकाच्च
सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्यर्थः ।।
७४२ उदश्चरः सकर्मकात्
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः ।।
७४३ समस्तृतीयायुक्तात्
रथेन सञ्चरते ।।
७४४ दाणश्च सा चेच्चतुर्थ्यर्थे
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे
। दास्या संयच्छते कामी ।।
७४५ पूर्ववत्सनः
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्
। एदिधिष्यते ।।
७४६ हलन्ताच्च
इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ।।
७४७ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु
कृञः
गन्धनं सूचनम् । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्त्सनम्
। श्येनो वर्तिकामुत्कुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवत इत्यर्थः
। परदारान् प्रकुरुते । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते
। कथाः प्रकुरुते । प्रकथयतीत्यर्थः । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते ।
एषु किम् ? कटं करोति ।।
७४८ भुजोऽनवने
ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ।।
इत्यात्मनेपदप्रक्रिया ।।
अथ परस्मैपदप्रक्रिया
७४८ अनुपराभ्यां कृञः
कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात् । अनुकरोति । पराकरोति
।।
७४९ अभिप्रत्यतिभ्यः क्षिपः
िक्षप प्रेरणे स्वरितेत् । अभििक्षपति ।।
७५० प्राद्वहः
प्रवहति ।।
७५१ परेर्मृषः
परिमृष्यति ।।
७५२ व्याङ्परिभ्यो रमः
रमु क्रीडायाम् ।। विरमति ।।
७५३ उपाच्च
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ।।
इति परस्मैपदप्रक्रिया ।।
इति पदव्यवस्था ।।
अथ भावकर्मप्रक्रिया
७५४ भावकर्मणोः
लस्यात्मनेपदम् ।।
७५५ सार्वधातुके यक्
धातोर्यक् भावकर्मवाचिनि सार्वधातुके । भावः क्रिया । सा च
भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः
पुरुषः । तिङ्वाच्यक्रियाया अद्रव्य रूपत्वेन द्वित्वाद्यप्रतीतेर्न
द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः । त्वया मया अन्यैश्च भूयते । बभूवे ।।
७५६ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां
वा चिण्वदिट् च
उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु
भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । चिण्वद्भावपक्षेऽयमिट् । चिण्वद्भावाद्
वृद्धिः । भाविता, भविता । भाविष्यते, भविष्यते । भूयताम् । अभूयत । भाविषीष्ट, भविषीष्ट
।।
७५७ चिण् भावकर्मणोः
च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत, अभविष्यत । अकर्मकोऽप्युपसर्गवशात्सकर्मकः । अनुभूयते आनन्दश्चैत्रेण
त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि ।
अन्वभाविषाताम्, अन्वभविषाताम् । णिलोपः । भाव्यते ।
भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे । चिण्वदिट् । आभीयत्वेना सिद्धत्वाण्णिलोपः । भाविता, भावयिता । भाविष्यते, भावयिष्यते । अभाव्यत
। भाव्येत । भाविषीष्ट, भावयिषीष्ट । अभावि ।
अभाविषाताम्, अभावयिषाताम् ।। बुभूष्यते ।। अकृत्सार्वधातुकयोर्दीर्घः
। स्तूयते विष्णुः । स्ताविता, स्तोता । स्ताविष्यते, स्तोष्यते । अस्तावि । अस्ताविषाताम्, अस्तोषाताम्
।। ऋ गतौ । गुणोऽर्तीति गुणः । अर्यते ।। स्मृ स्मरणे । स्मर्यते । सस्मरे ।
उपदेशग्रहणाच्चिण्वदिट् । आरिता, अर्ता । स्मारिता, स्मर्ता । अनिदितामिति नलोपः । त्रस्यते । इदितस्तु नन्द्यते ।
संप्रसारणम् । इज्यते ।।
७५८ तनोतेर्यकि
आकारोऽन्तादेशो वा स्यात् । तायते, तन्यते ।।
७५९ तपोऽनुतापे च
तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन
। घुमास्थेतीत्त्वम् । दीयते । धीयते । ददे ।।
७६० आतो युक् चिण्कृतोः
आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च । दायिता, दाता । दायिषीष्ट, दासीष्ट । अदायि ।
अदायिषाताम् ।। भज्यते ।।
७६१ भञ्जेश्च चिणि
नलोपो वा स्यात् । अभाजि, अभञ्जि ।। लभ्यते ।।
७६२ विभाषा चिण्णमुलोः
लभेर्नुमागमो वा स्यात् । अलम्भि, अलाभि ।।
इति भावप्रक्रिया ।।
अथ कर्मकर्तृप्रक्रिया
यदा कर्मैव कर्तृत्वेन विविक्षतं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि
भावे च लकारः ।।
७६३ कर्मवत्कर्मणा तुल्यक्रियः
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् ।
कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्वदिटः स्युः । पच्यते फलम् । भिद्यते
काष्ठम् । अभेदि । भावे, भिद्यते काष्ठेन ।।
इति कर्मकर्तृप्रक्रिया ।।
अथ लकारार्थप्रक्रिया
७६४ अभिज्ञावचने लृट्
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् । लङोऽपवादः ।। वस
निवासे ।। स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे, चेतयसे, इत्यादिप्रयोगेऽपि ।।
७६५ न यदि
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्ज्महि ।।
७६६ लट् स्मे
लिटोऽपवादः । यजति स्म युधिष्ठिरः ।।
७६७ वर्तमानसमीप्ये वर्तमानवद्वा
वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च
वा स्युः । कदागतोऽसि । अयमागच्छामि, अयमागमं वा । कदा गमिष्यसि । एष गच्छामि, गमिष्यामि वा ।।
७६८ हेतुहेतुमतोर्लिङ्
वा स्यात् । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति
चेत्सुखं यास्यति । (भविष्यत्येवेष्यते) । नेह । हन्तीति पलायते ।।
विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् ।
यजेत ।। निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः
प्रवर्तनम् । इह भुञ्जीत ।। आमन्त्रणं कामचारानुज्ञा । इहासीत ।। अधीष्टं सत्कारपूर्वको
व्यापारः । पुत्रमध्यापयेद् भवान् ।। संप्रश्नः संप्रधारणम् । किं भो वेदमधीयीय
उत तर्कम् ।। प्रार्थनं याच्ञा । भो भोजनं लभेय । एवं लोट् ।।
इति लकारार्थप्रक्रिया ।।
इति तिङन्तं समाप्तम् ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें