अथ क्रयादयः
डुक्रीञ् द्रव्यविनिमये ।। १ ।।
६८७ क्रयादिभ्यः श्ना
सूत्रार्थ-
क्रयादिगणपठित धातुओं
से कर्ता अर्थ में सार्वधातुकसंज्ञक प्रत्यय के परे होने पर श्ना प्रत्यय होता है।
शपोऽपवादः ।
शप इति – श्ना प्रत्यय शप् का अपवाद है।
शप् में पकार की इत्संज्ञा होती है। जहाँ पकार की इत्संज्ञा नहीं होती है, वह
अपित् कहलाता है। श्ना में पकार की इत्संज्ञा नहीं होने के कारण श्ना को सार्वधातुकमपित्
से ङित् हो जाता है। अतः इसके परे होने पर क्ङिति च से गुण तथा वृद्धि का निषेध हो
जाता है।
क्रीणाति । ई हल्यघोः । क्रीणीतः । श्नाभ्यस्तयोरातः । क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीणीवः । क्रीणीमः । क्रीणीते । क्रीणाते । क्रीणते । क्रीणीषे । क्रीणाथे । क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्रयिथ, चिक्रेथ । चिक्रिय । चिक्रिये । क्रेता । क्रेष्यति, क्रेष्यते । क्रीणातु, क्रीणीतात् । क्रीणीताम् । अक्रीणात्, अक्रीणीत । क्रीणीयात्, क्रीणीत । क्रीयात्, क्रेषीष्ट । अक्रैषीत्, अक्रेष्यत ।। प्रीञ् तर्पणे कान्तौ च ।। २ ।। प्रीणाति, प्रीणीते ।। श्रीञ् पाके ।। ३ ।। श्रीणाति, श्रीणीते ।।
मीञ् हिंसायाम् ।। ४ ।।
डुक्रीञ् धातु द्रव्यविनिमय ( खरीदना ) अर्थ में है। यह अनिट् धातु है | डुक्रिञ् में डकार की इत्संज्ञा होने से यह डित् है । ञकार की इत्संज्ञा होने के कारण ञित् तथा उभयपदी है ।
क्रीणाति। क्री धातु से परस्मैपद लट् लकार आया। लट् के स्थान पर प्रथम पुरूष एकवचन में
तिप् हुआ। कर्तरि शप् से
शप् प्राप्त हुआ उसे बाधकर श्ना विकरण हुआ। श्ना में शकार का
अनुबन्धलोप, क्री + ना + ति बना। क्री के रेफ से परे ना के नकार को
अट्कुप्वाङनुष्व्यवायेऽपि से णत्व होकर क्रीणाति रूप सिद्ध हुआ।
क्रीणीतः । क्री धातु से प्रथम पुरूष द्विवचन में तस् हुआ । शप् के बाधकर
श्ना विकरण हुआ। श्ना में शकार का अनुबन्धलोप,
क्री ना + तस् बना। तस् ङित्वत् है,
अतः उसके परे होने पर श्ना के आकार के स्थान पर 'ई हल्यघो:' सूत्र से ईकार होकर क्री + नी + तस् बना।
णत्व और रुत्वविसर्ग करके क्रीणीतः रूप सिद्ध हुआ।
क्रीणन्ति । क्री धातु से प्रथम पुरूष बहुवचन में झि प्रत्यय हुआ, श्ना विकरण तथा झकार को
अन्त् आदेश होने पर क्री ना + अन्ति बना । अब श्नाभ्यस्तयोरात: से ना के आकार का
लोप हुआ, नकार का णत्व तथा वर्णसम्मेलन करने पर क्रीणन्ति रूप सिद्ध
हुआ।
६८८ हिनुमीना
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात् । प्रमीणाति, प्रमीणीते । मीनातीत्यात्वम् । ममौ । मिम्यतुः । ममिथ, ममाथ । मिम्ये । माता । मास्यति । मीयात्, मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।। षिञ् बन्धने ।। ५ ।। सिनाति, सिनीते । सिषाय, सिष्ये । सेता ।। स्कुञ् आप्लवने ।। ६ ।।
६८९ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च
चात् श्ना । स्कुनोति, स्कुनाति । स्कुनुते, स्कुनीते । चुस्काव, चुस्कुवे । स्कोता । अस्कौषीत्, अस्कोष्ट ।। स्तन्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्थाः परस्मैपदिनः ।।
६९० हलः श्नः शानज्झौ
हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान ।।
६९१ जृस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च
च्लेरङ् वा स्यात् ।।
६९२ स्तन्भेः
स्तन्भेः सौत्रस्य सस्य षः स्यात् । व्यष्टभत् । अस्तम्भीत् ।। युञ् बन्धने ।। ७ ।। युनाति, युनीते । योता ।। क्नूञ् शब्दे ।। ८ ।। क्नूनाति, क्नूनीते ।। द्रूञ् हिंसायाम् ।। ९ ।। द्रूणाति, द्रूणीते ।। दॄ विदारणे ।। १० ।। दृणाति, दृणीते ।। पूञ् पवने ।। ११ ।।
६९३ प्वादीनां ह्रस्वः
पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः । पुनाति, पुनीते । पविता ।। लूञ् छेदने ।। १२ ।। लुनाति, लुनीते ।। स्तॄञ् आच्छादने ।। १३ ।। स्तृणाति । शर्पूर्वाः खयः । तस्तार । तस्तरतुः । तस्तरे । स्तरीता । स्तरिता । स्तृणीयात्, स्तृणीत । स्तीर्यात् ।।
६९४ लिङि्सचोरात्मनेपदेषु
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङि्सचोरिड् वा स्यात्तङि ।।
६९५ न लिङि
वॄत इटो लिङि न दीर्घः । स्तरिषीष्ट । उश्चेति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु । अस्तारीत् । अस्तारिष्टाम् । अस्तारिषुः । अस्तरीष्ट, अस्तरिष्ट, अस्तीष्र्ट ।। कृञ् हिंसायाम् ।। १४ ।। कृणाति, कृणीते । चकार, चकरे ।। वृञ् वरणे ।। १५ ।। वृणाति, वृणीते । ववार, ववरे । वरिता, वरीता । उदोष्ठ्यत्युत्त्वम् । वूर्यात् । वरिषीष्ट, वूर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट, अवरीष्ट, अवूष्र्ट ।। धूञ् कम्पने ।। १६ ।। धुनाति, धुनीते । धविता, धोता । अधावीत् । अधविष्ट, अधोष्ट ।। ग्रह उपादाने ।। १७ ।। गृह्णाति, गृह्णीते । जग्राह, जगृहे ।।
६९६ ग्रहोऽलिटि दीर्घः
एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । हलः श्नः शानज्झाविति श्नः शानजादेशः । गृहाण । गृह्यात्, ग्रहीषीष्ट । ह्म्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् ।। कुष निष्कर्षे ।। १८ ।। कुष्णाति । कोषिता ।। अश भोजने ।। १९ ।। अश्नाति । आश । अशिता । अशिष्यति । अश्नातु । अशान ।। मुष स्तेये ।। २० ।। मोषिता । मुषाण ।। ज्ञा अवबोधने ।। २१ ।। जज्ञौ ।। वृङ् संभक्तौ ।। २२ ।। वृणीते । ववृषे ।। ववृढ्वे । वरिता, वरीता । अवरीष्ट, अवरिष्ट, अवृत ।।
इति क्रयादयः ।। ९ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें