तर्कसंग्रहः 1 (न्यायबोधिनी दीपिका हिन्दी व्याख्या सहितः)

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥
न्यायबोधिनी
अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः।
ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्।।
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिमाप्त्यर्थमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति-निधायेति।

दीपिका
विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् ।
टीकां शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ॥
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक्-इष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नंश्चिकीर्षितं प्रतिजानीते ।
निधायेति । ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेऽपि किरणवल्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि कादम्बर्मादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न । किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । कादम्बर्यादौ ग्रन्थाद्वहिरेव मङ्गलं कृत्मतो न व्यभिचारः । ननु मङ्गलस्य (ग्रन्थादौ) कर्तव्यत्वे किं प्रमाणमिति चेत् न । शिष्टाचारानुमितश्रुतेरेव् प्रमाणत्वात् । तथा हि मङ्गलं वेद-बोधित्कर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचारवारणाय अलौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति । शिष्टपदं स्पष्टार्थम् । न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात् । तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः द्रव्यादिपदार्थास्तेषां संग्रहः संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः । कस्मै प्रयोजनायेत्यत आह । सुखबोधायेति । सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः । ननु बहुषु  तर्कग्रथेषु सत्सु किमर्थम्पूर्वोऽयं ग्रन्थः क्रियत इत्यत आह । बालानामिति । तेषामतिविस्तृतत्वाद्वालानां बोधो न जायत इत्यर्थः । ग्रहणधारणपुटुर्बालः न तु स्तनन्धयः । किं कृत्वा क्रियत इत्यत आह । निधायेति । विश्वेशं जगन्नियन्तारम् । हृदि निधाय नितरां स्थापयित्वा सदा तद्धयानपरो भूत्वेत्यर्थः । गुरूणां विद्यागुरूणां, वन्दनं नमस्कारं, विधाय कृत्वेत्यर्थः ॥

हिन्दी- मैं अन्नम्भट्ट अपने हृदय में विश्वेश को धारण करके तथा गुरू की वन्दना करके बालकों को सुखपूर्वक पदार्थों का ज्ञान कराने के लिए तर्कसंग्रह की रचना कर रहा हूँ।
पदार्थानां विभागः
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ।
न्यायबोधिनी
अथ पदार्थान् विभजते- द्रव्येति। तत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यप्तिलाभाय।
ननु शक्तिपदार्थस्याष्टमस्य सत्त्वात्कथं सप्तैवेति? तथा हि- वह्निसयुक्तेन्धनादौ सत्यपि मणिसंयोगे दाहो न जायते, तच्छून्येन तु जायते। अतो मणिसमवधाने शक्तिर्नश्यति, मण्यभावदशायां दाहानुकूला शक्तिपुत्पद्यत इति कल्प्यते। तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेत्- न, मणेः प्रतिबन्धकत्वेन मण्यभावस्य कारणत्वेनैव निर्वाहे मणिसमवधाना- समवधानाभ्यामनन्तशक्ति- तद्ध्वंस- तत्प्रागभाव- कल्पनाया अन्याय्यत्वात्। तस्मात्सप्तैवेति सिद्धम्।
दीपिका
पदार्थान् विभजते । द्रव्येति । पदस्यार्थः पदार्थः इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते) । ननु
विभागादेव सप्तत्वे सिद्धे सप्त (पद) ग्रहणं व्यर्थमिति चेत्, न अधिकसंख्याव्यवच्छेदार्थकत्वात् । नन्वतिरिक्तः पदार्थः प्रमितो वा न वा । नाऽद्यः प्रमितस्य निषेधायोगात् । न द्वितीयः प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न । पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात् (सप्तग्रहणम्) । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् । सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत्, न । द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्त्वम् । अतो दोषविरहात् । एवमग्रेऽपि द्रष्टव्यम् ॥

हिन्दी-  - द्रव्य, गुण, कर्म, सामान्य, विशेष, समवाय और अभाव ये सात पदार्थ हैं।

तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ।
न्यायबोधिनी
द्रव्याणि विभजते- पृथिवीति। नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेति तथाहि- नीलं तमश्चलतीति प्रतीतेर्नीलरूपाऽश्रयत्वेन क्रियाऽश्रयत्वेन च द्रव्यत्वं सिद्धम्। न च क्लृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम्। तमसो रूपवत्त्वात्, आकाशादिपञ्चकस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः, तमसो निर्गन्धत्वान्न पृथिव्याम् अन्तर्भावः, जलतेजसोः शीतोष्णस्पर्शवत्वान्न तयोरन्तर्भावः, तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेन्न, तेजोऽभावरूपत्वेनैवोपपत्तावतिरिक्ततत्कल्पनायां मानाभावात्। न च विनिगमनाविरहात्तेज एव तमोऽभावस्वरूमस्त्विति वाच्यम्, तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात्। तस्मादुष्णस्पर्शगुणाऽश्रयतया तेजसो द्रव्यत्वं सिद्धम्। तमसि नीलत्वादिप्रतीतिस्तु भ्रान्तिरेव। दीपाऽपसरणक्रियाया एव तत्र भानात्।
दीपिका
द्रव्यं (द्रव्याणि) विभजते । तत्रेति । तत्र द्रव्यादिमध्ये । द्रव्याणि नवैवेत्यन्वयः । कानि तानि इत्यत आह । पृथिवीति । ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति । तथा हि । नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं ताव्त् सिद्धम् । तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः रूपवत्त्वात् । अत एव न वायौ, स्पर्शाभावात् सदागतिमत्त्वाभावाच्च । नापि तेजसि, भास्वरूपाभावात् उष्णस्पर्शाभावाच्च । नापि जले, शीतस्पर्शाभावात् नीलरूपवत्त्वाच्च । नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेत्, न । तमसस्तेजोऽभावरूपत्वात् । तथा हि । तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत् । रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् । तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः । अतो नव द्रव्याणीति सिद्धम् । द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । यथा गोः कपिलत्वम् । अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावृत्तित्वमसंभवः । यथा गोरेकशफवत्त्वम् । एतद्दूषणत्रयरहितधर्मो लक्षणम् । स एवासाधारणधर्म इत्युच्यते । लक्षयतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिदेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्त्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनिष्टघटे चाव्याप्तेरिति चेत्, न । गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् । नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न । एकार्थसमवायादेव
तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् ।

हिन्दी-  - उन सात पदार्थों में द्रव्य नौ प्रकार का ही होता है-  पृथिवी, जल, तेज, वायु, आकाश, काल, दिक् आत्मा एवं मन ।

रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः ।

दीपिका
गुणान्विभजते । रूपेति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । गुणत्वजातिमान्वा । ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिर्गुणा इति चेत्, न । लघुत्वस्य गुरूत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात् ।

हिन्दी-  - रूप, रस, गन्ध, स्पर्श, संख्या, परिमाण, पृथकत्व, संयोग, विभाग, परत्व, अपरत्व, गुरूत्व, द्रवत्व, स्नेह, शब्द, बुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्न, धर्म, अधर्म और संस्कार, ये चौबीस (24) गुण होते है।

उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ।



दीपिका

कर्म विभजते । उत्क्षेपणेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा । भ्रमणादीनामपि गमने अन्तर्भावान्न पञ्चत्वविरोधः ॥


हिन्दी-  उत्क्षेपण (ऊपर फेंकना), अपक्षेपण (नीचे फेंकना), आकुञ्चन (बटोरना), प्रसारण (फैलाना) और गमन (चलना) ये पाँच कर्म होते हैं। 


परमपरं चेति द्विविधं सामान्यम् ।
दीपिका
सामान्यं विभजते । परमिति । परमधिकदेशवृत्ति । अपरं न्यूनदेशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ॥


हिन्दी-  पर - (अधिक देश में रहने वाली, जैसे सत्ता) और अपर - कम देश में रहने वाली, जैसे द्रव्यत्व आदि) के भेद से सामान्य (जाति) दो प्रकार का होता है। 

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ।
दीपिका
विशेषं विभजते । नित्येति । पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि ।


हिन्दी-  नित्य द्रव्यों (पृथ्वी, जल, तेज एवं वायु के परमाणु तथा आकाश, काल, दिक्, आत्मा एवं मन) में रहने वाले विशेष (अपने आश्रय के अनन्त होने के कारण) अनन्त होते हैं। 

समवायस्त्वेक एव ।
दीपिका
समवायस्य भेदो नास्तीत्याह । समवायस्त्विति ।


हिन्दी-  समवाय (सम्बन्ध) एक ही होता है।

(समवैति = नित्यं सम्बध्नाति, के आधार पर इसे नित्यसम्बन्ध भी कहा जाता है।)

अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ।
दीपिका
अभावं विभजते । प्रागभावेति ।
इत्युद्देशः


हिन्दी-  अभाव चार प्रकार के होते हैं – प्रागभाव, प्रध्वंसाभाव, अत्यन्ताभाव एवं अन्योन्याभाव।

तत्र गन्धवती पृथिवी । सा द्विविधा, नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा ।

पुनस्त्रिविधा, शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।

न्यायबोधिनी

गन्धवतीति। गन्धवत्त्वं पृथिव्या लक्षणम्। लक्ष्या पृथिवी। पृथिवीत्वं लक्ष्यतावच्छेदकम्। यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्यावच्छेदकः, स तद्धर्मावच्छिन्नः। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छिन्ना। गन्धसमानाधिकरणद्रव्यत्व- व्याप्यजातिमत्त्वं पृथिव्या लक्षणम्। एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता, जलत्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम्।

     दीपिका
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह ।गंध तत्रेति । नाम्ना पदार्थसंकीर्तनमुद्देशः । उद्देशक्रमे च सरवत्रेच्छैवं नियामिका ।ननु सुरभ्यसुरभ्यवयवाख्धे द्रव्ये परस्परविरोधेनगन्धानुत्पादादव्याप्तिः । न च तत्र गन्धप्रतीत्यनुपपत्तिरिति  वाच्यम् । अवयवगन्धस्यैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न । गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् । ननु जलादावपि गन्धप्रतीतिरिति चेत् न । अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न । सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणत्वस्य विवक्षितत्वात् । पृथिवीं विभजते । सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियोगित्वम् ।अनित्यत्वं ध्वंसप्रतियोगित्वम् |
प्रकारान्तरेण विभजते । पुनरिति । आत्मनो भोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । सुखदुःखसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय इति तत्तल्लक्षणं बोध्यम् । पार्थिवशरीरं दर्शयति । शरीरमिति । इन्द्रियं दर्शयति । इन्द्रियमिति । गन्धग्राहकमिति प्रयोजनम् । घ्राणमिति संज्ञा । नासाग्रेत्याश्रयोक्तिः । एवमुत्तरत्र ज्ञेयम् । पार्थिवविषयं दर्शयति । मृतपाषाणादीति ।

हिन्दी-  - उन नौ द्रव्यों में पृथिवी गन्ध वाली है। वह दो प्रकार की होती है। एक नित्य और अनित्य।   परमाणु रूप पृथिवी, नित्य है । कार्य रूप (उत्पन्न और नष्ट होनेवाली) पृथिवी अनित्य है। कार्य-रूपा (अनित्य) पृथिवी शरीर, इन्द्रिय और विषय के भेद से तीन प्रकार की होती है। शरीररूपी पृथिवी हम लोगों का शरीर है। (पार्थिव) इन्द्रिय, गन्ध का ग्रहण करने वाला घ्राण है, जो नासिका के अग्रभाग में रहती है। तथा (पार्थिव) विषय मिट्टी पाषाण आदि हैं।

शीतस्पर्शवत्य आपः । ताश्च द्विविधाः नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ १०॥
     दीपिका
अपां लक्षणमाह । शीतेति । उतपन्नविनिष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् “शीतं शिलातलम्”  इत्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः । अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ॥

हिन्दी-  - जल ठंढ़ा स्पर्श वाला होता है । वह भी पृथिवी की तरह नित्य और अनित्य दो तरह का होता है । नित्य जल का स्वरूप परमाणु  है तथा अनित्य जल का स्वरूप कार्यरूप है । कार्य रूप जल शरीर, इन्द्रिय एवं विषय के भेद से तीन तरह का होता है। जलीय शरीर, वरूणलोक में है। (ऐसी प्रसिद्धि है)। जलीय इन्द्रिय, रस का ग्रहण करनेवाली रसना है, जो जिह्वा के अग्रभाग पर रहती हैं। जल का विषय समुद्र आदि हैं।

उष्णस्पर्शवत्तेजः । तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ।
दीपिका
तेजसो लक्षणमाह । उष्णस्पर्शवदिति । `उष्णं जलम्' इति प्रतीतेस्तेजः संयोगानुविधायित्वान्नातिव्याप्तिः । विषयं विभजते । भौमेति । ननु `सुवणं पार्थिवं' पीतत्वाद्गुरूत्वात् हरिद्रावत् इति चेत् न । अत्यन्तानलसंयोगे सति घृतादौ द्रव्त्वनाशदर्शनेन,जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन
पार्थिवत्वाऽनुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः| रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरूपष्टम्भक पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्णं तैजसमिति सिद्धम् ।


हिन्दी-  - तेज उष्ण स्पर्श वाला है । यह भी नित्य और अनित्य के भेद से दो तरह का होता है ।  परमाणुरूप तेज नित्य होता है।  कार्य रूप तेज अनित्य होता है। कार्य रूप तेज भी इन्द्रिय एवं विषय के भेद से तीन प्रकार का होता है। तैजस शरीर आदित्यलोक (सूर्यलोक) में प्रसिद्ध है। तैजस इन्द्रिय, रूप का ग्रहण करने वाली चक्षु है, जो आँख की काली पुतली के अगले भाग पर रहती है। तैजस चार प्रकार के होते हैं, भौम, दिव्य, उदर्यं और आकरज। अग्नि आदि भौम (तैजस विषय) हैं। पानी इन्धन जिसका, वह विद्युत् आदि दिव्य (तैजस विषय) हैं। खाए हुये भोजन के पचाने का जो हेतु उस (तैजस विषय) को उदर्य कहते है। आकरज (खान से पैदा होने वाले) सुवर्ण आदि  (तैजस विषय) हैं।

रूपरहितः स्पर्शवान्वायुः । स द्विविधः नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तः संचारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ।
न्यायबोधिनी
एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति- रूपरहित इति। रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम्। सतिसप्तम्या विशिष्टार्थकतया रूपरहितत्वविशिष्टस्पर्शवत्त्वं वायोर्लक्षणम्। विशेषणांऽशानुपादाने स्पर्शवत्त्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः, तद्वारणाय विशेषणोपादानम्। तावन्मात्रोपादाने आकाशादावतिव्याप्तिः, तद्वारणाय विशेष्योपादानम्।
अतिव्याप्तिर्नाम- अलक्ष्ये लक्षणसत्त्वम्। यथा- गोः शृङ्गित्वं लक्षणं कृतं चेल्लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमानत्वात्। अव्याप्तिर्नाम- लक्ष्यैकदेशावृत्तित्वम्। लक्ष्यैकदेशे लक्ष्यतावच्छेदकाश्रयीभूते क्वचिल्लक्ष्ये लक्षणासत्त्वम् अव्याप्तिरित्यर्थः। यथा गोर्नीलरूपवत्त्वं लक्षणं कृतं चेल्लक्ष्यतावच्छेदकाश्रयीभूतश्वेतगवि अव्याप्तिस्तत्र नीलरूपाभावात्। असम्भवो नाम- लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वम्।यथा गोरेकशफवत्त्वं (लक्षणं कृतं चेत्) गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्त्वस्य कुत्राप्यसत्त्वात्।
अतिव्याप्त्यव्याप्त्यसम्भवानां निष्कृष्टलक्षणानि- लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेद- सामानाधिकरण्यमतिव्याप्तिः। अव्याप्तिस्तु लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्। असम्भवस्तु लक्ष्यतावच्छेदकव्यापकीभूता- भावप्रतियोगित्वम्।
दीपिका
वायुं लक्षयति । रूपरहितेति । आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति । पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति । प्राणस्य कुत्रान्तर्भाव इत्यत आह- शरीरेति । स चेति । एक एवः प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः । स्पर्शानुमेयो वायुः । तथा हि - योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्कचिदाश्रितः गुणत्वाद्रूपवत् । न चास्य आश्रयः पृथिवी उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपत्त्वनियमात् । न जल तेजसि अनुष्णाशीतस्पर्शवत्त्वात् । न विभुचतुष्टयम् सर्वत्रोपलब्धिप्रसङ्गात् । न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् । तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव) । ननु वायुः प्रत्यक्षः प्रत्यक्षाश्रयत्वात् घटवत् इति चेत् न । उद्भूतरूपस्योपाधित्वात् । ` यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वम् ' इति साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्वम् । न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात् । तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः । इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते । ततः परमाणुद्वयसंयोगे द्वयणुकमुत्पद्यते । त्रिभिरेव द्वयणुकैस्त्रयणुकमुत्पद्यते । एवं चतुरणुकादिक्रमेण महती पृथिवीः, महत्य आपः, महत्तेजः,महान्वायुरूत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्वयणुकनाशः । इत्येवं पृथिव्यादिनाशः । असमवायिकारणाशात् द्वयणुकनाशः । समवायिकारणाशात् त्र्यणुकनाश इति संप्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः । किं पुनः परमाणुसद्भावे प्रमाणम् । उच्यते -- जालसूर्यमरीचिस्थं सर्वतः सूक्षमतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुषद्रव्यत्वाद्धटवत् । त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत् । यो द्वयणुकावयवः स परमाणुः । स च नित्यं, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात् । सृष्टिप्रलयसद्भावे “धाता यथापूर्वमकल्पयत् । ' इति श्रुतिरेव प्रमाणम् ।`सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः । सर्वभावकार्यध्वंसो महाप्रलयः' इति विवेकः ।


हिन्दी-  - रूप से रहित एवं स्पर्श गुण से युक्त द्रव्य वायु कहलाता हैं । वह नित्य और अनित्य के भेद से दो प्रकार का होता है । परमाणु रूप वायु नित्य एवं कार्य रूप वायु अनित्य होता है। कार्य रूप वायु, शरीर इन्द्रिय एवं विषय के भेद से पुनः तीन प्रकार का होता है। वायु का शरीर वायु लोक में होता है। वायु का इन्द्रिय स्पर्श गुण का ग्रहण करने वाला त्वक् है, जो सम्पूर्ण शरीर में होता है। वायु का विषय वृक्ष आदि के कम्पन का हेतु है । शरीर के अन्दर घूमने वाला वायु प्राण कहलाता है। वह एक होने पर भी स्थान एवं गति रूप उपाधि के कारण प्राण आदि संज्ञाओं को प्राप्त करता है। 

शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यञ्च ।
न्यायबोधिनी
आकाशं लक्षयति शब्दगुणकमिति। अत्र गुणपदमाकाशे शब्द एव विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवारणाय, समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात्। तच्चैकमिति। अनेकत्वे मानाभावादिति भावः। विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वञ्च क्रियावत्वम्। पृथिव्यप्तेजोमनांसि मूर्तानि। पृथिव्यप्तेजोवाय्वाकाशेतिपञ्चकं भूतपदवाच्यम्। भूतत्वं नाम बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्।
दीपिका
आकाशं लक्षयति । शब्दगुणकमिति । नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह । तच्चैकमिति । भेदे प्रमाणाभावादित्यर्थः । एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति । सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा।विभुत्वादेव आत्मवन्नित्यमित्याह । नित्यं चेति ।

अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।
न्यायबोधिनी  
कालं लक्षयति अतीतेति। व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्ववहारहेतुभूतघटादावतिव्याप्तिः, तद्वारणाय अतीतादिविशेषणोपादानम्।
     दीपिका
कालं लक्षयति । अतीतेति । सर्वाधारः कालः सर्वकार्यनिमित्तकारणम् ।
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥ १६॥
न्यायबोधिनी
दिशो लक्षणमाह- प्राच्येति। उदयाचलसन्निहिता या दिक् सा प्राची। अस्ताचलसन्निहिता या दिक् सा प्रतीची। मेरोः सन्निहिता या दिक् सा उदीची। मेरोर्व्यवहिता या दिक् सा अवाची।
     दीपिका
दिशो लक्षणमाह । प्राचीति । दिगपि कार्यमात्रनिमित्तकारणम् ।


ज्ञानाधिकरणमात्मा । स द्विविधः जीवात्मा परमात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।
न्यायबोधिनी  
आत्मानं निरूपयति ज्ञानाधिकरणमिति। अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभाय।
     दीपिका
आत्मनो लक्षणमाह । ज्ञानेति । आत्मानं विभजते । स द्विविध इति । परमात्मनो लक्षणमाह । तत्रेति । नित्यज्ञानाधिकरणत्वमीश्वरत्वम् । नन्वीश्वरसद्भावे किं प्रमाणम् । न तावत्प्रत्यक्षम् । तद्धि बाह्यामान्तरं वा । नाद्यः अरूपिद्रव्यत्वात् । न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात् । नाप्यनुमानं लिङ्गाभावादिति चेत् न । अङ्कुरादिकं सकर्तृकं कार्यत्वाद्धटवत् इत्यनुमानस्यैव प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । उपादानं समवायिकारणम् । सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् । यः सर्वज्ञः स सर्ववित् इत्यागमोऽपि तत्र प्रमाणम् । जीवस्य लक्षणमाह । जीव इति । सुखाद्याश्रयत्वं जीवलक्षणम् । ननु मनुष्योऽहं ब्राह्मणोऽहम् इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत् न । शरीरस्यात्मवे करपादिनाशे शरीरनाशादात्मनोऽपि नाशप्रसंगात् । नापीन्द्रियाणामात्मत्वम् , `योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि' इत्यनुसन्धानाभावप्रसङ्गात् । अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात् । तस्माद्देहेइन्द्रियव्यतिरिक्तो जीवः सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः । स च न परमाणुः । सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मध्यमपरिमाणवान् तथा सति अनित्यत्वप्रसङ्गेन कृथानाकृताभ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ॥
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।
न्यायबोधिनी  
मनो निरूपयति- सुखादीति। उपलब्धिर्नाम साक्षात्कारः। तथा च सुखदुःखादिसाक्षात्कारकारणत्वे सतीन्द्रियत्वं मनसो लक्षणम्। इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः, अतः सुखादिसाक्षाकारकारणत्वविशेषणम्। विशेष्यानुपादाने आत्मन्यतिव्वाप्तिः, आत्मनः सुखादिकं प्रति समवायिकारणत्वात्। अत इन्द्रियत्वरूपविशेष्योपादानम्।
दीपिका
मनसो लक्षणमाह- सुखेति । स्पर्शरहित्वे सति क्रियावत्वं मनसो लक्षणम् । तद्विभजते । तच्चेति । एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वान् मसोऽप्यनेकत्वमित्यर्थः । परमाणुरूपमिति । मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः । ननु मनो विभु स्पर्शरहित्वे सति द्रव्यत्वादाकाशादिवदिति चेत् न । मनसो विभुत्वे आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः । न च विभुद्वयसंयोगोऽस्त्विति वाच्यम् । तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात, पुरीतद्रव्यतिरिक्तस्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मनः पुरीतत् प्रविंशति तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ।

चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ।
न्यायबोधिनी  
रुपं लक्षयति- चक्षुरिति। चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रुपस्य लक्षणम्। विशेष्यमात्रोपादाने रसादावतिव्याप्तिः,  अतश्चक्षुर्मात्रग्राह्यत्वं विशेषणम्। तावन्मात्रोपादाने रूपत्वेऽतिव्यप्तिः, यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिस्तदिन्द्रियग्राह्येति नियमात्, तद्वारणाय विशेष्योपादानम्। चक्षुमात्रग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियाऽग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याप्तिः, चक्षुग्राह्यत्वविशिष्टगुणत्वस्य तत्रापि सत्त्वात्, अतस्तद्वारणाय मात्रपदम्। संख्यादेश्चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति। अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति। अत्र लक्षणे ग्राह्यत्वं नाम प्रत्यक्षविषयत्वम्। अग्राह्यत्वं नाम तदविषयत्वम्। तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वमिति फलितोऽर्थः।
ननु प्रभाघटसंयोगे रूपलक्षणस्याऽतिव्याप्तिस्तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्न, गुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्, जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपादानात्। अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः। संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रयग्राह्यत्वात्तद् गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणादौ अतिव्याप्तिः। विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्तिः। अतो विशेषणविशेष्ययोः उभयोरुपादनम्।
दीपिका
रूपं लक्षयति । चक्षुरिति । संख्यादावतिव्याप्तिवारणाय मात्रपदम् । रूपत्वेऽतिव्याप्तिवारणाय गुणपदम् । नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् न । रूपस्य व्याप्यवृत्तित्वनियमात् । ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न । रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसंगात् । न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात् । तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः । रूपस्याश्रयमाह । पृथिवीति । आश्रयं विभज्य दर्शयति । तत्रेति ।

रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः। जले मधुर एव ।
न्यायबोधिनी  
स्पर्शं लक्षयति- त्वगिन्द्रियमात्रग्राह्य इति। अत्रापि मात्रपदं संख्यादिसामान्यगुणादावतिव्याप्तिवारणाय। अन्यविशेषणकृत्यं पूर्ववद्बोद्ध्यम। ग्राह्यत्वपदार्थोऽपि पूर्ववदेव प्रत्यक्षविषयत्वरूप एव बोध्यः।
दीपिका
रसं लक्षयति - रसनेति । रसत्वेऽतिव्याप्तिवारणाय गुणपदम् । रसस्याश्रयमाह । पृथिवीति । आश्रयं विभज्य दर्शयति । तत्रेति ।

घ्राणग्राह्यो गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।
     दीपिका
गन्धं लक्षयति । घ्राणेति । गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् ।

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः, शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः ।
तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।
दीपिका
स्पर्शं लक्षयति । त्वगिति । स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ।

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ।
न्यायबोधिनी
रूपादिचतुष्टयमिति। एतत्तत्त्वनिर्णयश्चेत्थं- पाको नाम विजातीयतेजः संयोगः। स च नानाजातीयरूपजनको विजातीयतेजःसंयोगः। तदपेक्षया रसजनको विजातीयः। एवं गन्धजनकोऽपि ततो विजातीय एव। एवं स्पर्शजनकोऽपि तथैव ।एवं प्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः। यथा तृणपुञ्जनिक्षिप्ते आम्रादौ उष्णलक्षणविजातीयतेजःसंयोगात्पूर्वहरितरूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिर्न तु रसादेरुत्पत्तिः, पूर्वरसस्याऽम्लस्यैवानुभवात्। क्वचित्पूर्वहरितरूपसत्त्वेऽपि रसपरावृत्तिर्दृश्यते, विजातीयतेजःसंयोगरूपपाकवशात्पूर्वतनाऽम्ल- रसनाशेन मधुररसस्यानुभवात्। तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एवाङ्गीकार्यः। एवं गन्धजनको विलक्षण एव, रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशेऽपि विजातीयपाकवशात्सुरभिगन्धोपलब्धेः। एवं स्पर्शजनकः। पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात्। तस्माद्रूपादिजनका विजातीया एव पाकाः। अत एव पार्थिवपरमाणूनामेकजातीयत्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवः, यथा-गोभुक्ततृणादीनामापरमाण्वन्तभङ्गे तृणारम्भकपरमाणुषु विजातीयतेजःसंयोगात् पूर्वरूपादिचतुष्टयनाशे तदन्तरं दुग्धे यादृशं रूपादिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजःसंयोगा जायन्ते। तदुत्तरं तादृशरूपरसादय उत्पद्यन्ते। तादृशरूपरसादिविशिष्टपरमाणुभिर्दुग्धद्व्यणुकमारभ्यते, ततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः। एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते। एवं पाकमहिम्ना दध्यारम्भकैरेव परमाणुभिर्नवनीतादिकमिति दिक्।
दीपिका
पाकजमिति । पाकस्तेजः संयोगः । तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत इत्यर्थः । तत्र परमाणुष्वेव पाको न द्वयणुकादौ । आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनद्वर्यणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायिकारणम् । तेजः संयोगोऽसमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् । द्वयणुकादिरूपे कारणरूपसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः । पूर्वघटस्य नाशं विनैव् अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः । अत एव पार्थिवपरमाणुरूपादिकमनित्यमनित्यर्थः । अन्यत्र जलादावित्यर्थः । नित्यगतमिति । परमाणुगतमित्यर्थः । अनित्यगतमिति । द्वयणुकादिगतभित्यर्थः । रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् । अनुद्भूतमप्रत्यक्षम् । उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः । तदभावोऽनुद्भूतत्वम् ।

एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ २४॥
दीपिका
संख्या लक्षयति । एकेति ।
मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं हृस्वं चेति ।
     दीपिका
परिमाणं लक्षयति । मानेति । परिमाणं विभजते । तच्चेति । भावप्रधानो निर्देशः । अणुत्वं,महत्त्वं,दीर्घत्वं,ह्रस्वत्वं चेत्यर्थः ।

पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्तिः ।
दीपिका
पृथकत्वं लक्षयति –पृथगिति || इद्मस्मात पृथक् इतिव्य्व्हारकारणमित्यर्थः ||
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ।
दीपिका
संयोगं लक्षयति । संयुक्तेति । इमौ संयुक्तौ इति व्यवहारहेतुरित्यर्थः । संख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्यप्तिवारणाय असाधाराणेति विशेषणीयम् । संयोगो द्विविधः कर्मजः संयोगजश्चेति । आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः । द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः । अव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम्|

संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ।
न्यायबोधिनी
विभागं लक्षयति- संयोगेति। संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम्। विशेषणमात्रोपादाने क्रियाया अपि संयोगनाशकत्वात् तत्रातिव्याप्तिस्तद्वारणाय गुणत्वमिति विशेष्योपादानम्।
दीपिका
विभागं लक्षयति । संयोगेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय संयोगनाशक इति । विभागोऽपि द्विविधः कर्मजो विभागजश्चेति । आद्यो हस्तपुस्तकविभागः । द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः ।

परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते द्विविधे । दिक्कृते कालकृते च ।
दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।
दीपिका
परत्वापरत्वयोर्लक्षणमाह । परापरेति । परव्यवहारासाधारणकारणं परत्वम् । अपरव्यवहारासाधारणकारणमपरत्वम् इत्यर्थः । ते विभजते । ते द्विविधे इति । दिक्कृतयोरूदाहरणमाह । दूरस्थ इति । कालकृते उदाहरति । ज्येष्ठ इति ।
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ।
न्यायबोधिनी
गुरुत्वं लक्षयति- आद्येति। द्वितीययतनक्रियायां वेगस्याऽसमवायिकारणत्वात् तत्रातिव्याप्तिवारणाय आद्येति। उत्तरत्र स्यन्दने आद्यविशेषणमपि पुर्ववदेव योजनीयम्।
दीपिका
गुरूत्वं लक्षयति । आद्येति । द्वितीयादिपतनस्य वेगासमवायिकारणत्वद्वेगेऽतिव्याप्तिवारणाय आद्येति ।
 स्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।
न्यायबोधिनी
स्नेहं लक्षयति- चूर्णादीति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्। पिण्डीभावो नाम चूर्णादेः धारणाऽकर्षणहेतुभूतो विलक्षणः संयोगः। तादृशसंयोगे स्नेहस्यैवाऽसाधारणाकारणत्वं, न तु जलादिगतद्रवत्वस्य। तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्तेः अतः स्नेह एवासाधारणं कारणम्। विशेषणमात्रोपादाने कालादावतिव्यप्तिरतस्तद्वारणाय विशेष्योपादानम्। वस्तुतस्तु द्रुतजलसंयोगस्य एव पिण्डीभावहेतुत्वं, स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्। जले द्रुतत्वविशेषणात् करकादिव्यावृत्तिः।
दीपिका
द्रवत्वं लक्षयति । आद्येति । स्यन्दनं प्रस्रवणम् । तेजःसंयोगजं नैमित्तिकम् । तद्भिन्नं सांसिद्धिकम् । पृथिव्यां नैमित्तिकमुदाहरति । घृतादाविति । तेजसि तदाह । सुवर्णादाविति ।
स्नेहं लक्षयति । चूर्णेति । कालादावतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ।

श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः। ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३॥
न्यायबोधिनी
शब्दं लक्षयति- श्रोत्रेति। शब्दत्वेऽव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। स त्रिविधः- संयोगजो विभागजः शब्दजश्चेति। यथा भेरीदण्डसंयोगजो झंकारादिशब्दः, हस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः, वंशे पाट्यमाने दलद्वयविभागजश्चटचटाशब्दः। शब्दोत्पत्तिदेशमारभ्य श्रोत्रदेशपर्यन्तं वीचितरङ्गन्यायेन कदम्बमुकुलन्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते। तत्र उत्तरोत्तरशब्दे पूर्वपूर्वशब्दः कारणम्।
दीपिका
शब्दं लक्षयति । श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय श्रोत्रेति । शब्दास्त्रिविधः संयोगजः,विभागजः, शब्दजश्चेति । तत्र आद्यो भेरीदण्डसंयोगजन्यः ।द्वितीयो वंशे पाटयमाने दलद्वयविभागजन्यश्चटाशब्दः । भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः ।

सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च ।
न्यायबोधिनी
बुद्धेर्लक्षणमाह- सर्वव्यवहारेति। व्यवहारः शब्दप्रयोगः। ज्ञानं विना शब्दप्रयोगासम्भावाच्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम्। बुद्धिं विभजते- सा द्विविधेति।
दीपिका
बुद्धेर्लक्षणमाह । सर्वव्यवहारेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति । जानामीत्यनुव्यवसायगम्यं ज्ञानमेव लक्षणमिति भावः । बुद्धिं विभजते । सेति ।

संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते ।

न्यायबोधिनी
स्मृतिं लक्षयति- संस्कारेति। संस्कारमात्रजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। विशेषणानुपादाने प्रत्यक्षानुभवेऽतिव्याप्तिः अतस्तद्वारणाय विशेषणोपादानम्। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशेष्योपादानम्। ध्वंसम्प्रति प्रतियोगिनः कारणत्वात् संस्कारध्वंसे अपि संस्कारजन्यत्वस्य सत्त्वात्। प्रत्यभिज्ञायामतिव्यप्तिवारणाय मात्रपदम्।
न्यायबोधिनी
अनुभवं लक्षयति- तद्भिन्नमिति। तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम्। तथा च स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम्। तत्र विशेषणानुपादाने स्मृतावतिव्याप्तिः। विशेष्यानुपादाने घटादावतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुभयोरुपादानम्। अनुभवं विभजते- स द्विविधः इति।
यथार्थनुभवं लक्षयति- तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्। तच्छब्देन प्रकारीभूतो धर्मो धर्तव्यः। तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम्। उदाहरणं- रजते इदं रजतम् इति ज्ञानम्। अत्र रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्य सत्त्वाल्लक्षणसमन्वयः। तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वम् इति तु निष्कर्षः। अन्यथा यथाश्रुते रङ्गरजतयोः इमे रजतरङ्गे इत्याकारकसमूरालम्बनभ्रमेऽतिव्याप्ति, तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयोः रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोः सत्त्वात्। उक्तनिष्कर्षे तु नातिव्याप्तिः। रजतत्वप्रकारताया रजतत्वद्विशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वाभावात्। किन्तु समूहालम्बनभ्रमस्य रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वात्। एवं रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वात् चेति। नानामुख्यविशेष्यताशालिज्ञानं समूहालम्बनम्।
     दीपिका
स्मृतेर्लक्षणमाः । संस्कारेति । भावनाख्यः संस्कारः । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रपदम् | अनुभवं लक्षयति । तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः । अनुभवं विभजते । स द्विविध इति ।यथार्थानुभवस्य लक्षणमाह । तद्वतीति । ननु घटे घटत्वम् इति प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभवः इत्यर्थाद्धटत्वे घटसंबन्धोऽस्तीति नाव्याप्तिः । सैवेति । यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः ।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।
न्यायबोधिनी
अयथार्थानुभवं लक्षयति- तदभाववतीति। अत्रापि पूर्ववत् तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानत्वं विवक्षणीयम्। अन्यथा रङ्गरजतयोः इमे रङ्गरजते इत्याकारकसमूहालम्बनप्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रङ्गरजतोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभय- प्रकारत्वेन च रजतत्वाभाववद्रङ्गविशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु तादृशप्रमाया रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्वाभाववद्रजतविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिः। उदाहरणं यथा शुक्तौ इदं रजतम् इति।
     दीपिका
अयथार्थानुभवं लक्षयति । तदभाववतीति । नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न । यदवच्छेदेन यत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विविक्षितत्वात् । संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः ।

यथार्थनुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशाब्दभेदात् ।
न्यायबोधिनी
यथार्थानुभवं विभजते- चतुर्विध इति। तत्करणमिति। फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः।प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम्। एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षानेत्यादिना।
     दीपिका
प्रसङ्गात्प्रमाकरणं विभजते । तत्करणमपीति । प्रमाकरणमित्यर्थः । प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ।

असाधारणं कारणं करणम् ।
 न्यायबोधिनी
करणलक्षणमाह- असाधारणमिति। व्यापारवदसाधारणं कारणं करणमित्यर्थः। असाधारणत्वं च कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता- निरूपितकारणताशालित्वम्। यथा दण्डादेर्घटादिकं प्रत्यसाधारणकारणत्वम्। कार्यत्वातिरिक्तो घटत्वादिरूपो धर्मः, तदवच्छिन्नकार्यता घटे, तन्निरूपिता कारणता दण्डे। अतो घटं प्रति दण्डः असाधारणं कारणम्। भ्रम्यादिरूपव्यापारवत्त्वाच्च करणम्। साधारणकारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात् साधारणकारणत्वम्।
दीपिका
करणलक्षणमाह । असाधारणेति । साधारणकारणे दिक्कालादावतिव्याप्तिवारणाय असाधारणेति ।

कार्यनियतपूर्ववृत्ति कारणम् ।
न्यायबोधिनी
कारणं लक्षयति- कार्यनियतेति। कार्यंप्रति नियतत्वे सति पूर्ववृत्तित्वं कारणत्वम्। नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादेरपि घटादिकारणत्वं स्यादतो नियतत्वे सतीति विशेषणम्। नियतपूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्यादतः अनन्यथासिद्धपदमपि कारणलक्षणे निवेशनीयम्, एवं च न तत्राऽतिव्याप्तिः, दण्डरूपादीनामन्यथासिद्धत्वात्।
     दीपिका
कारणलक्षणमाह । कार्येति । पूर्ववृत्ति कारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति । तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति । ननु तन्तुरूपमपि पटं प्रति कारणं स्यादति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणात् । अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम् । अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम् । यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति । तं प्रति तदन्यथासिद्धम् । यथा शब्दं प्रति पूर्ववृतित्त्वे ज्ञात एव पटं प्रत्याकाशस्य । अन्यत्र कॢप्तनियतपूर्ववतिर्न एव कार्यसंभवे तत्सहभूतमन्यथासिद्धम् । यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य । एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ।

कार्यं प्रागभावप्रतियोगि ।.
न्यायबोधिनी
कार्यं लक्षयति- कार्यमिति। प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम्। कार्योत्पत्तेः पूर्वम् इह घटो भविष्यति इति प्रतीतिर्जायते। एतत्प्रतीतिविषयीभूतो योऽभावः स प्रागभावः, प्रतियोगि घटादिरूपं कार्यम्।
दीपिका
कार्यलक्षणमाह । कार्यमिति ।

 कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तभेदात् ।
न्यायबोधिनी
कारणं विभजते- कारणमिति। समवायिकारणमसमवायिकारणं निमित्तकारणं चेति।

यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य । पटश्च स्वगतरूपादेः ।
समवायिकारणं लक्षयति- यत्समवेतमिति। यस्मिन्समवेतं सत् समवायेन सम्बद्धं सत्, कार्यमुत्पद्यते, तत् समवायिकारणम् इत्यर्थः। उदाहरणं यथा- तन्तव इति। येषु तन्तुषु समवायेन सम्बद्धं सत् पटात्मकं कार्यमुत्पद्यते, ते तन्तवः समवायिकारणमित्यर्थः। सामान्य लक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न कारणत्वं समवायिकारणत्वमिति। समवायसम्बन्धेन घटाधिकरणे कपालादौ, कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः।
समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव कारणत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्। द्रव्ये तु द्रव्यावयवाः समवायिकारणम्। अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह पटश्च स्वगतरूपादेः इति। समवायिकारणम् इत्यनुषज्यते।
दीपिका
कारणं विभजते । कारणमिति । समवायिकारणस्य लक्षणमाह -यत्समवेतमिति । यस्मिन् समवेतमित्यर्थः । असमवायिकारणं लक्षयति-- कार्यणेति । कार्येणेत्येतदुदाहरति ----- तन्तुसंयोग इति ।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ।
न्यायबोधिनी
असमवायिकारणं लक्षयति- कार्येणेति। असमवायिकारणं द्विविधं- कार्येण सहैकस्मिन्नर्थे समवेतं सद्यत्कारणं तदसमवायिकारणम् इत्येकम्, कारणेन सहैकस्मिन्नर्थे समवेतं सद्यत्कारणं तदपरमसमवायिकारणमित्यर्थः। अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। जन्यद्रव्यमात्रं प्रत्यवयवसंयोगस्यैवासमवायिकारणत्वात्पटात्मककार्ये तदवयवतन्तुसंयोगस्यैवासमवायिकारणत्वमिति दर्शयन्प्रथममुदाहरति- यथा तन्तुसंयोगः पटस्येति। यथा पटात्मककार्येण सहैकस्मिन्नर्थे तन्तौ समवेतं सत्समवायसम्बन्धेन वर्तमानं सत्पटात्मककार्यम्प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणं भवतीत्यर्थः।
द्वितीयासमवायिकारणं कारणेन सहेत्यादिना पूर्वोक्तं, तदुदाहरति- तन्तुरूपमिति। कारणेन सह पटरूपसमवायिकारणीभूतपटेन सह, एकस्मिन्नर्थे तन्तुरूपे अर्थे समवेतं सत् समवायसम्बन्धेनवर्तमानं सत्तन्तुरूपं पटगतरूपं प्रति कारणं भवति। अतः असमवायिकारणं तन्तुरूपं पटगतरूपस्य।
सामान्यलक्षणन्तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता या समवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति। द्रव्याऽसमवायिकारणीभूताऽवयवसंयोगादौ तु समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिता समवायसम्बन्धावच्छिन्ना कपालद्वयसंयोगनिष्ठा कारणता कपालद्वयसंयोगे वर्तते। एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः। आद्यपतनक्रियां प्रति आद्यस्यन्दनक्रियां प्रति च समवायसम्बन्धेनैव तयोः कारणत्वात्। अवयविगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्वसम्बन्धेनैव कारणत्वात्, तत्सम्बन्धावच्छिन्नकारणाताश्रयत्वम् अवयवगुणादौ वर्तते। अवयवगुणीभूतकपालतन्तुरूपादेः स्वशब्दग्राह्यकपालरूपतन्तुरूपादिसमवायिकपालतन्तुसमवेतत्वसम्बन्धेन घटपटादौ सत्वात्।
दीपिका
कार्येण पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमियर्थः । कारणेनेत्येतदुदाहरति -तन्तुरूपमिति । कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात् । तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः । निमित्तकारणं लक्षयति-  तदुभयेति । समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः ।

तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।
 न्यायबोधिनी
निमित्तकारणं लक्षयति- तदुभयभिन्नमिति। समवायिकारणभिन्नत्वे सति, असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।
न्यायबोधिनी
तदेतदिति। यदसाधारणमिति। व्यापारवत्वे सति इत्यपि पूरणीयम्। अन्यथा तन्तुकपालसंयोगयोरतिव्याप्तिः, तन्तुकपालसयोगयोरपि कार्यत्वातिरिक्तपटत्वघटत्वावच्छिन्नम्प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र कारणत्ववारणाय व्यापारवत्वे सति इति कारणलक्षणे विशेषणं देयम्। व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकत्वात् भ्रम्यादेर्दण्डव्यापारत्वम्। एवं कपालसंयोगतन्तुसंयोगादेरपि कपालतन्तुव्यापारत्वं कपालतन्तुजन्यत्वे सति कपालतन्तुजन्यघटपटजनकत्वात्। करणलक्षणेऽसाधारणत्वविशेषणा नुपादाने ईश्वरादृष्टादेरपि व्यापारवत्कारणत्वं स्यात्, अतस्तत्र अतिव्याप्तिवारणाय असाधारणेति विशेषणम्।
    
दीपिका
करणलक्षणमुपसंहरति तदेतदिति ।
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)