प्रत्यक्षपरिच्छेदः
तत्र
प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।
न्यायबोधिनी
षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणस्य
लक्षणमाह- तत्रेति। तत्र प्रमाभूतेषु प्रत्यक्षादिषु प्रत्याक्षात्मकं यज्ज्ञानं
चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापारवदसाधारणं कारणमिन्द्रियं भवति। अतः
प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम्।
आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वेनेन्द्रियजन्यत्वाभावाद्
व्यापारत्वं न सम्भवतीति इन्द्रियमनःसंयोगस्यैव बाह्यप्रत्यक्षे जननीये
इन्द्रियव्यापारता बोध्या। मानसप्रत्यक्षे त्वात्ममनःसंयोगस्यैव सा बोध्या।
दीपिका
प्रत्यक्षलक्षणमाह
तत्रेति । प्रमाणचतुष्टयमध्ये इत्यर्थः ।
इन्द्रियार्थसन्निकर्षजन्यं
ज्ञानं प्रत्यक्षम् । (ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्)
न्यायबोधिनी
प्रत्यक्षप्रमाणलक्षणमुक्त्वा
प्रत्यक्षप्रमालक्षणमाह- इन्द्रियार्थसन्निकर्षेति। जन्यप्रत्यक्षस्यैव
लक्ष्यत्वमित्यभिप्रायेणेदं लक्षणम्। ज्ञानाऽकरणम् इति। क्षेपकं लक्षणमिदम्।
ज्ञानं व्याप्तिज्ञानं, सादृश्यज्ञानं,
पदज्ञानञच करणं येषां ते ज्ञानकरणकाः, अनुमित्युपमितिशाब्दाः।
ज्ञानकरणकं न भवतीति ज्ञानाकरणकम्। तत्त्वं प्रत्यक्षणमित्यर्थः। इदं
लक्षणमीश्वरप्रत्यक्षसाधारणम्। ईश्वरप्रत्यक्षस्याजन्यत्वात् जन्यप्रत्यक्षे च
इन्द्रियाणामेव करणत्वं, न तु ज्ञानस्येति तयोरुभयोः
संग्रहः।
तद्द्विविधं
निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् यथेदं किञ्चित्
।
सप्रकारकं
ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ।
न्यायबोधिनी
प्रत्यक्षं
विभजते- निर्विकल्पकमिति। तल्लक्षयति- तत्र निष्प्रकारकमिति।
प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकत्वमित्यर्थः। निर्विकल्पके चतुर्थी विषयता
स्वीक्रियते, न तु त्रिविधविषयतामध्ये कापि
तत्रास्ति। अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं
सम्भवति।
सविकल्पकं
लक्षयति- सप्रकारकमिति। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन
प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम्। एवं विशेष्यतानिरूपकज्ञानत्वं
संसर्गतानिरूपकज्ञानत्वमित्यपि लक्षणं सम्भवति। उदाहरणं- यथेति। इदन्त्वावच्छिन्न-
विशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च
(श्यामत्वप्रकारताशालिज्ञानं च)सविकल्पकमित्यर्थः।
दीपिका
प्रत्यक्षज्ञानस्य
लक्षणमाह -- इन्द्रियेति । इन्द्र्यियं चक्षुरादिकम्, अर्थो
घटादिः, तयोः
संनिकर्षः संयोगादिः, तज्जन्यं
ज्ञानमित्यर्थः । तद्विभजते तद्द्विविधमिति । निर्विकल्पस्य लक्षणमाह -निष्प्रकारकमिति
।
विशेषणविशेष्यसंबन्धानवगाहि
ज्ञानमित्यर्थः । ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति
विशिष्टज्ञानं विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति
ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात् । विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः
। सविकल्पकं लक्षयति । सप्रकारकमिति । नामजात्यादिविशेष्यविशेषणसंबन्धावगाहि ज्ञानमित्यर्थः
। सविकल्पकमुदाहरति । यथेति ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः
षड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः
विशेषणविशेष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः । घटरूपप्रत्यक्षजनने
संयुक्तसमवायः संनिकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे
संयुक्तसमवेतसमवायः संनिकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य
समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात्
शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः
संनिकर्षः श्रोत्र्समवेते शब्दे शब्दत्वस्य समवायात् ।
न्यायबोधिनी
चाक्षुषादिषड्विधप्रत्यक्षकारणीभूतान्
षड्विधसन्निकर्षान्विभजते- संयोग इत्यादिना। द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन
चाक्षुत्वावच्छिन्नं प्रति चक्षुसंयोगः कारणम्।
द्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति
चक्षुःसंयुक्तसमवायस्य हेतुत्वम्। द्रव्यसमवेतसमवेत- वृत्तिलौकिकविषयतासम्बन्धेन
चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम्।
द्रव्यग्राहकाणीन्द्रियाणि चक्षुत्वङ्मनांसि त्रीण्येव। अन्यानि घ्राणरसनश्रावणानि
गुणग्राहकाणि। अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन
त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता। एवं द्रव्यसमवेतत्वाचप्रत्यक्षत्वावच्छिन्नं
प्रति त्वक्संयुक्तसमवायस्य हेतुता।
द्रव्यसमवेतसमवेतोष्णत्वशीतत्वादिस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य
हेतुता। एवमात्ममानसप्रत्यक्षे मनःसंयोगस्य हेतुता। आत्मसमवेतसुखादिमानसप्रत्यक्षे
मनःसंयुक्तसमवेतसमवायस्य हेतुता। रसनघ्राणयोस्तु रसगन्धतद्गतजातिग्राहकत्वेन
द्वितीयतृतीययोः सन्निकर्षयोरेव तत्र हेतुता वाच्या। श्रवणेन्द्रियस्याकाशरूपत्वेन
शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः।
शब्दवृत्तिशब्दत्वकत्वखत्वादिजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुता च
बोध्या |
दीपिका
इन्द्रियार्थसंनिकर्षं
विभजते । प्रत्यक्षेति । संयोगसंनिकर्षमुदाहरति । चक्षुषेति । द्रव्यप्रत्यक्षे
सर्वत्र संयोगः संनिकर्षः । आत्मा मनसा संयुज्यते, मन
इन्द्रियेण, इन्द्रियमर्थेन, ततः
प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः । संयुक्तसमवायमुदाहरति । घटरूपेति । तत्र
युक्तिमाह । चक्षुःसंयुक्त इति ।
रूपत्वसामान्यप्रत्यक्षे
संयुक्तसमवेतसमवायः संनिकर्षः ।संयुक्तसमवेतसमवायमुदाहरति । रूपत्वेति | समवायमुदाहरति
। श्रोत्रेणेति । तदुपपादयति । कर्णेति । ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति
चेत् न,
वीचीतरङ्गन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण
संबन्धात्प्रत्यक्षसंभवः । समवेतसमवायमुदाहरति । शब्दत्वेति ।
अभावप्रत्यक्षे
विशेषणविशेष्यभावः संनिकर्षः,घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले
घटाभावस्य विशेषणत्वात् । एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं तत्करणमिन्द्रियं
तस्मातिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९॥
न्यायबोधिनी
अभावप्रत्यक्षे
विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चविधसन्निकर्षोपरि विशेषणता
योजनीया। तथाहि द्रव्याधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता।
द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता।
द्रव्यसमवेतसमवेता- धिकरणाकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता।
संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं च घटयित्वा
अभावप्रत्यक्षस्थले निर्वाह्यम्। तथा घटद्रव्यसमवेतं घटत्वं पृथिवीत्वादिकं
रूपादिकं च। तत्र नीलादौ पीतत्वाभावः, घटत्वादिजातौ
पटत्वाभावश्च वर्तते। स चाभावः संयुक्तसमवेतविशेषणतासन्निकर्षेण गृह्यते। एवं
नीलत्वादिजातौ पीतत्वाभावः अपीन्द्रियसंयुक्तसमवेतसमवेतविशेषणतासन्निकर्षेण
गृह्यते। घटसमवेतं नीलं, तत्समवेतं नीलत्वं, तद्विशेषणता पीतत्वाभावे वर्तते इति संक्षेपः।
दीपिका
विशेषणविशेष्याभावमुदाहरति
। अभावेति । तदुपपादयति । घटाभाववदिति । भूतले घटो नास्तीत्यत्र अभावस्य
विशेष्यत्वं द्रष्टव्यम् । एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् । यद्यत्र घटोऽभविष्यत्तर्हि
भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति
तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव अभावज्ञानोत्पत्तौ
अनुपलब्धेः प्रमाणान्तरत्वासंभवात् । अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव
करणत्वोपपत्तावनुपलब्धेः करणत्वयोगात् । विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव,
नातिरिक्तः संबन्धः । प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह एवमिति । असाधारणकारणत्वादिन्द्रियं
प्रत्यक्षज्ञानकरणमित्यर्थः । प्रत्यक्षप्रमाणमुपसंहरति ।
अनुमितिकरणमनुमानम्
। परामर्शजन्यं ज्ञानमनुमितिः ।
न्यायबोधिनी
अनुमानं
लक्षयति- अनुमितीति। अनुमितौ व्याप्तिज्ञानं करणम्, परामर्शो व्यापारः, अनुमितिः फलं, कार्यमित्यर्थः। परामर्शस्य व्याप्तिज्ञानजन्यत्वात्
व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तज्जन्यत्वे सति
तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अनुमितिकरणत्वम् अनुमानस्य लक्षणम्। अनुमानं
व्याप्तिज्ञानम्। एतस्य परामर्शरूपव्यापारद्वारा अनुमितिं
प्रत्यसाधारणकारणतयानुमितिकरणत्वमुपपन्नम्। परामर्शजन्यमिति।
परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम्। अत्र ज्ञानत्वमात्रोपादाने
प्रत्यक्षादावतिव्याप्तिः, अतस्तद् वारणाय परामर्शजन्यत्वे
सतीति विशेषणोपादानम्। परामर्शजन्यत्वमात्रोक्तौ
परामर्शध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम्।
दीपिका
अनुमानं
लक्षयति अनुमितिकरणमिति । अनुमितिं
लक्षयति --- परामर्शेति । ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः
स्थाणुपुरूषसंशयानन्तरं पुरूषत्वव्याप्यकरादिमानयम् इति परामर्शे सति पुरूष एव इति
प्रत्यक्षजननात् । न च तत्रानुमितिरेवेति वाच्यम् । पुरूषं साक्षात्करोमि इत्यनुव्यवसायविरोधादिति
चेत् न,
पक्षतासहकृतपरामर्शजन्यत्वस्य विविक्षित्वात् । सिषाधयिषाविरहविशिष्टसिद्धयभावः
पक्षता । साध्यसिद्धिरनुमितिप्रतिबन्धिका । सिद्धिसत्त्वेऽपि अनुमियुयाम् इतीच्छायामनुमितिदर्शनात्
। सिषाधयिषोत्तेजिका । तत्श्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत्सिषाधयिषाविरहविशिष्टसिद्धयभावस्याप्यनुमितिकारणत्वम्
।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं
। यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो
वह्निमानिति ज्ञानमनुमितिः ।
न्यायबोधिनी
अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे-
व्याप्तिविशिष्टेति। व्याप्तिविशिष्टञ्च तत्पक्षधर्मताज्ञानञ्चेति कर्मधारये
विशिष्टपदस्य प्रकारतानिरूपकत्वात् पक्षधर्मताज्ञानमित्यत्र षष्ठ्या
विषयत्वबोधनात्, धर्मतापदस्य सम्बन्धार्थकत्वाच्च
कर्मधारयसमासे समस्यमान- पदार्थयोरभेदसंसर्गलाभेन च व्याप्तिप्रकारकाभिन्नं
यत्पक्षसम्बन्धविशेष्यकं ज्ञानं तत्परामर्श इति लभ्यते। एवं सति धूमो
वह्निव्याप्यः, आलोकवान्पर्वतः
इत्याकारकसमूहालम्बने परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपिता
या हेतुनिष्टा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं
परामर्शः इति निष्कर्षः। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम्। अनुमितिपरामर्शयोर्विशिष्यकार्यकारणभावश्चेत्थं-
पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नविधेयताकानु-
मितित्वाच्छिन्नं प्रति
वह्नित्वावच्छिन्नप्रकारतानिरूपिताव्याप्तित्ववच्छिन्नप्रकारतानिरूपिता या
धूमत्वावच्छिन्नप्रकारता तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता
तच्छालिनिर्णयः कारणम्। (वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यताया
धूमत्वावच्छिन्नविशेष्यता-
निरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्चाभेदाऽनङ्गीकर्तृमते तु वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नव्याप्तित्वावच्छिन्नप्रकारता
निरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः
कारणं वक्तव्यम्।) स च निर्णयः वह्निव्याप्यधूमवान्पर्वत इत्याकारको बोध्यः।
दीपिका
परामर्शं
लक्षयति - व्याप्तीति । व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः ।
परामर्शमभिनीय दर्शयति - यथेति । अनुमितिमभिनीय दर्शयति -तज्जन्यमिति ।
परामर्शजन्यमित्यर्थः ।
यत्र
यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।
न्यायबोधिनी
यत्र यत्रेति। यत्र पदवीप्सावशाद्धूमाधिकरणे
यावति वह्निमत्त्वलाभाद् यावत्पदमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तदेव स्पष्टयति- साहचर्यनियम इति। एतदर्थस्तु नियतसाहचर्यं व्याप्तिरिति। नियतत्वं
व्यापकत्वम्। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनियतवह्निसामानाधिकरण्यं
व्याप्तिरित्यर्थः। अत्र वह्नेर्धूमव्यापकत्वं नाम
धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वम्। तथाहि धूमाधिकरणे
पर्वतचत्वरमहानसादौ वर्तमानो यो अभावः, घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः
न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः, कुतः?पर्वतादौ वह्नेः सत्त्वात्। एवं सति धूमाधिकरणे पर्वतचत्वरादौ वर्तमानस्य
घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं, तद्वत्वं वह्नौ वर्तते अतो धूमव्यापकत्वं वह्नौ वर्तते। तथा च
धूमव्यापकवह्निसामानाधिकरणं व्याप्तिरिति फलितम्। इयमन्वयव्याप्तिः
सिद्धान्तानुसारेण। पूर्वपक्षव्याप्तिस्तु साध्याभाववदवृत्तित्वम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसम्बन्धा- वच्छिन्नप्रतियोगितावच्छेदकावच्छिन्न-वैयधिकरण्यावच्छिन्नाभाववन्निरूपित-हेतुतावच्छेदकसम्बन्धावच्छिन्न-वृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो
व्याप्तिरिति निष्कर्षः। तच्च केवलान्वयिन्यव्याप्तिमिति सिद्धान्तानुसरणम्।
दीपिका
यत्र
धूमस्तत्राग्निः इति व्याप्तेरभिनयः । साहचर्यनियमः इति लक्षणम् । साहचर्यं
सामानाधिकरण्यं, तस्य नियमः । हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं
व्यापाप्तिरित्यर्थः ।
व्याप्यस्य
पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४०॥
दीपिका
पक्षधर्मतारूपमाह
-- व्याप्यस्येति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें