नीति-श्लोकाः

 अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।

विद्या-तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

अनारोग्यमनायुष्यमस्वर्ग्यं चाऽतिभोजनम् ।

अपुण्यं लोकविद्विष्टं तस्मात् तं परिवर्जयेत् ॥

अनेके फणिनः सन्ति भेकभक्षणतत्पराः ।

एक एव हि शेषोऽयं धरणीधरणक्षमः ॥

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।

अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

अर्थवन्तं नरं नित्यं पञ्चभिर्घ्न्ति शत्रवः ।

राजा चौरश्च दायादा भूतानि क्षय एव च ॥

अर्थाः पादरजोपमा, गिरिनदी - वेगोपमं यौवनम्

आयुष्यं जललोलबिन्दुचपलं, फेनोपमं जीवितम् ।

धर्मं यो न करोति निन्दितमतिः स्वर्गाऽर्गलोद्घाटनं,

पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।

दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥

 

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

व्यापारे बहुकार्यभारगुरुभिः कालो न विज्ञायते ।

दृष्ट्वा जन्म-जरा- विपत्ति मरणं त्रासश्च नोत्पद्यते

पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥

आपत्सु मित्रं जानीयाद्युध्दे शूरमृणे शुचिम्।

भार्यो क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्॥

आसनात्-शयनाच्चैव संजल्पात् सहभोजनात् ।

पुंसां संक्रमते पापं घटाद् घटमिवोदकम् ॥

इक्षुदण्डास्तिलाः क्षुद्राः कान्ता हेम च मेदिनी ।

चन्दनं दधि ताम्बूलं मर्दनं गुणवर्द्धनम् ॥

 

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।

तडागोदर संस्थानां परीवाह इवाम्भसाम् ॥

 

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी

भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥

ऋणशेषं व्याधिशेषं चाऽग्निशेषं तथैव च ।

पुनः पुनः प्रवर्धन्ते तस्मात् शेषं न कारयेत् ॥

 

काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् ।

तथा तत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥

कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः ।

अश्माऽपि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥

कुचैलिनं दन्तमलोपधारिणं

बह्वाशिनं निष्ठुरभाषिणञ्च ।

सूर्योदये चास्तमिते शायिनं 

विमुञ्चति श्रीर्यदि चक्रपाणिः ॥ चाणक्यनीतिः।

कुले कलङ्कः कवले कदन्नता सुतः कुबुद्धिर्भवने दरिद्रता ।

रुजः शरीरे कलहप्रिया प्रिया गृहागता दुर्गतयः षडेव ॥

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥

को वा ज्वरः प्राणभृतां हि चिन्ता

मूर्खस्तु को यस्तु विवेकहीनः ।

कार्या प्रिया का शिवविष्णुभक्तिः

किं जीवनं दोषविवर्जितं यत् ॥

क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥

क्षुधासमा नास्ति शरीरवेदना चिन्तासमा नास्ति शरीरशोषणा ।

विद्यासमा नास्ति शरीरभूषणा वृत्त्या समा नास्ति शरीरषोपणा ॥

 

चिता चिन्ता द्वयोर्मध्ये चिन्ता ह्येव गरीयसी ।

चिता दहति निर्जीवं चिन्ता चैव सजीवकम् ॥

 

दारिद्रयाद् ह्रियमेति ह्रीरपरिगतः सत्वात् परिभ्रश्यते

निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते ।

निर्विण्णः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते

निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥

दिवा पश्यति नोलूकः काको नक्तं न पश्यति ।

अपूर्वः कोऽपि कामान्धो दिवा नक्तं न पश्यति ॥

दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् ।

मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥

दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।

मधु तिष्ठति जिह्वावाग्रे हृदि हालाहलं विषम्॥

 

धनेन किं यो न ददाति चाऽश्नुते, बलेन किं यश्च रिपून् न बाधते ।

श्रुतेन किं यो न च धर्ममाचरेत्, किमात्मना यो न जितेन्द्रियो भवेत् ॥

धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् ।

सा सर्वदैव तिष्ठेच्चेत् को न मुच्येत बन्धनात् ॥

 

न तेन वृद्धो भवति येनाऽस्य पलितं शिरः ।

यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥

नदीनां शस्त्रपाणीनां नखीनां शृङ्गिणां तथा ।

विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥

न विषादे मनः कार्यं विषादो बलवत्तरः ।

विषादो हन्ति पुरुषं बालं क्रुद्धं इवोरगः ॥

न हि ज्येष्ठस्य ज्येष्ठत्वं गुणेर्ज्येष्ठत्वमुच्यते ।

केतकीवर पत्रेषु लघुपत्रस्य गौरवम् ॥

नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।

छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ।

नाऽधर्मश्चरतो लोके सद्यः फलति गौरिव ।

शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥

नाऽधार्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् ।

नैकः प्रपद्येदध्वानं न चिरं पर्वते विशेत् ॥

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।

नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानात् परं सुखम् ॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।

अद्यैव मरणमस्तु युगान्तरे वा

न्याय्यात् पथ: प्रविचलन्ति पदं न धीराः ॥

निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् ।

वयोगते किं वनिता-विलासःपयोगते कि खलु सेतुबन्धः ॥

 

परान्नं परवस्त्रं च परशय्यां परस्त्रियम् ।

परवादं परद्रव्यं दूरतः परिवर्जयेत् ॥

पापान्निवारयति योजयते हिताय

गुह्यान् निगूहति गुणान् प्रकटीकरोति ।

आपद्गतं च न जहाति ददाति काले

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।

वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥

पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत् ।

यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत्॥

प्रायश्चित्तं चिकित्सां च ज्योतिषं धर्मनिर्णय: ।

विना शास्त्रेण यो ब्रूयात् तं विद्याद् ब्रह्मघातकम् ॥

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।

काष्ठान्यपि हि जीर्यन्ते दरिद्राणां च सर्वशः ।।

प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः

प्रारब्धमुत्तमजना न परित्यजन्ति ॥

 

ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।

शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥

 

भोजनान्ते पिबेत् तक्रं वासरान्ते पिबेत् पयः ।

निशान्ते च पिवेद्वारि त्रिभिः रोगो न जायते ॥

 

मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः ।

नीचाः कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः ॥

मनःशौचं कर्मशौचं कुलशौचं तथैव च ।

शरीरशौचं वाक्शौचं शौचं पञ्चविधं स्मृतम् ॥

पञ्चस्वेतेषु शौचेषु हृदि शौचं विशिष्यते ।

हृदयस्य तु शौचेन स्वर्गं गच्छति मानवः ॥

मनसेव कृतं पापं न शरीरकृतं कृतम् ।

येनैवाऽऽलिङ्गिता कान्ता तेनैवाऽऽलिङ्गिता सुता ॥

मनो मधुकरो मेघो मानिनी मदनो मरुत् ।

मा मदो मर्कटो कत्स्यो मकारा दश चञ्चलाः ॥

मनो हि जगतां कर्तृ मनो हि पुरुषः परः ।

मनकृतं कृतं लोके न शरीरकृतं कृतम् ॥

माता शत्रुः पिता वैरी येन बालो न पाठितः ।

न शोभते सभामध्ये हंसमध्ये बको यथा ॥

मातृवत् परदारेषु परद्रव्येषु लोष्ठवत् ।

आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥

मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः

प्राप्तं यत् सुखदुःखयोः सह भवेन्मित्रेण तद् दुर्लभम् ।

ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलाः

ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥

मृत्युर्विभेषि किं मूढ भीतं मुञ्चति किं यमः ।

अजातं नैव गृह्णाति कुरु यत्नमजन्मनि ॥

 

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।

एवं पुरुषकारेण विना दैवं न सिध्यति ॥

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।

निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।।

यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।

यस्यार्थः स पुमांल्लोके यस्यार्थः स हि पण्डितः ॥

यावत् स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा

यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः ।

आत्मश्रेयसि तावदेव विदुषा कार्य: प्रयत्नो महान्

प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृश: ।।

 

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥

 

वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पक्कफलाम्बु भोजनम् ।

तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीन-जीवनम् ॥

 

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।

स्वेदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

वेपथुर्मलिनं वक्त्रं दीनां वाग् गद्गदः स्वरः ।

मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥

वैद्या वदन्ति कफपित्तमरुद्विकारा

ज्योतिर्विदा ग्रहगतिं परिवर्तयन्ति ।

भूताऽभिषंग इति भूतविदो वदन्ति

प्रारब्धकर्म बलवन्मुनयो वदन्ति ॥

 

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो

नागेन्द्रो निशितांकुशेन समदो दण्डेन गोगर्दभौ ।

व्याधिर्भेषज-संग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥

अर्थ- अग्नि को जल से बुझाया जा सकता है, सूर्य की तीव्र धूप को छाते से रोका जा सकता है, मतवाले हाथी को तीक्ष्ण अङ्कुश से वश में किया जा सकता है। सांड और गधे को डंडे से रोका जा सकता है, भयंकर रोग को दवाओं से दूर किया जा सकता है तथा अनेन प्रकार के मंत्रों के प्रयोग से विष को उतारा जा सकता है। सभी (समस्याओं) की दवा शास्त्रों में विहित है,किंतु मूर्ख की मूर्खता को दूर करने के लिए कोई दवा नहीं है।

शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेत् ।

लक्षं विहाय दातव्यं कोटिं त्यक्त्वा हरिं भजेत् ॥

शनैः शनैस्तुः भोक्तव्यं स्वयं वित्तमुपार्जितम् ।

रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥

शास्त्राण्यधीत्यापि भवन्ति मूर्खा

यस्तु क्रियावान् पुरुषः स विद्वान् ।

सुचिन्तितं चौषधमातुराणां 

न नाममात्रेण करोत्यरोगम् ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।

न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥

 

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।

त्रिषु चैव न कर्तव्यो दाने तपसि पाठने ।

सम्पदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् ।

तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥

सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।

श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥
Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)