आधुनिक संस्कृत गीतकारों की प्रतिनिधि रचनायें (भाग - 3)

मैंने इस आलेख में संस्कृत के दो आधुनिक कवियों के नवगीति का संकलन किया है। इन दोनों गीतकारों ने संस्कृत में अनेक गीतों की रचनाएँ की हैं, उनमें से उन गीतों का चयन  किया गया है, जिसे बच्चे अधिक सरलता पूर्वक गा सकें। साहित्य की दृष्टि से उनकी कुछ अच्छी रचना रहते हुए भी उसे यहाँ सम्मिलित नहीं करने की विवशता भी है। संस्कृत भाषा में प्रतिवर्ष सैकड़ों की संख्या में गीत लिखे एवं प्रकाशित हो रहे हैं। यह गीत आम जनमानस के निकट पहुँच सके, इसके लिए संस्कृत गीतों का स्वरबद्ध गायन आवश्यक है। मैं आधुनिक गीतकारों के गीतों को कलाकारों के माध्यम से मंचीय प्रस्तुति भी दिलाता रहता हूँ। इन्टरनेट का माध्यम पाकर ये गीत मुद्रित पुस्तक से बाहर निकलकर जन-जन के कंठ में बसे, इसी अभिलाषा का साथ-

संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-2) में अधोलिखित गीतकारों के गीत संकलित हैं-

 गीतकारों के नाम             पुस्तक का नाम         गीतों की संख्या

मायाप्रसाद त्रिपाठी        क्वणति किञ्जल्कःध्वनति वज्रः        4

अरविन्द कुमार तिवारी         बालगुञ्जनम्                     13

सुरभयति कुन्दशेमुषी

रुनुन् झुनुन् रुनुन् झुनुन्

रुनुन् झुनुन् रुनुन् झुनुन्

 

 

शिङ्क्ते ज्योत्स्ना

कैलासकृत्स्ना

पुष्पित स्वप्ना

पाटलप्रश्ना

प्रणयनिकेते

सुधाभिषेके

 

रुनुन् झुनुन् रुनुन् झुनुन्

रुनुन् झुनुन् रुनुन् झुनुन्।। १ ।।

 

निःस्वनरागाः

इन्दुविहागाः

मन्त्रित-सुरभिः

विह्वलावधि:

आम्, ताथेयी !

आम्, ताथेयी !

शारदोवंशी

कुन्दशेमुषी

नृत्यति नीलम्

श्वेतोन्मीलम् ।। २ ।।

 

मधुरनिमन्त्रण !

प्राणनियन्त्रण !

निशीथ हे ! शृणु !

रूपकं वृणु !

एहि देहलीं

रजन्मालिनीम्

एकलगीताम्

कविपरिणीताम्

 

स्पृश सन् सनन ! !

पेशलपवन ! ॥ ३ ॥

 

जोषं ! जोषम् !

जोषं ! जोषम् !

तुहिने पन्थाः !

रसरोमन्था

शाद्वलकन्या

 

धक् ! धक् ! धक् ! धक् !

झक् ! झक् ! झक् ! झक् ! !

 

आतुरधरणिः

सपक्षतरणिः

डयते प्रेम्ण ।। ४ ।।

 

विश्वसुशान्ते !

युद्धक्षान्ते !

श्लक्ष्णं श्लक्ष्णम्

कोशेयवृष्णम्

कर्पूरलक्ष्म

तारापक्ष्म

तव खलु हर्म्यम्

सर्वैर्गम्यम्

इह विशति शिवः

समाधिविकारः।।

क्वणति किञ्जल्कः, ध्वनति वज्रः से साभार

लेखक- महाकवि मायाप्रसाद त्रिपाठी

चल मुदा समम्

 

चल मुदा समं चल मुदा समम्

प्रार्थना कथम् ? याचना कथम् ?

 

शूरवीरसाहसिन् !

सूर्यदेवयरथिन् !

सत्यखड्गसार्थं ! चल !

योगक्षेमपार्थं ! चल ! ॥ १ ॥ चल.......... कथम् ?

नूत्न-विश्वकल्पना,

नूत्न-राष्ट्रभावना, विश्व-शान्तिसाधना,

यस्य लक्ष्यघोषणा,

सत्यखङ्गसार्थं ! चल !

योगक्षेमपार्थं ! चल ! ॥ २ ॥

नूत्न-रामगर्जना,

नूत्न-ख्रीष्टसर्जना,

सर्वधर्म-रञ्जना,

यस्य लक्ष्यघोषणा,

न्यायवर्त्मसार्थं ! चल !

योगक्षेमपार्थं ! चल ! ॥ ३ ॥ चल.....कथम् ?

रोगशोकभञ्जना, विघ्नभीतिगञ्जना,

शकुन-पक्षिखञ्जना,

यस्य लक्ष्यघोषणा,

बुद्धशुद्धसार्थं ! चल !

योगक्षेमपार्थ ! चल ! ।। ४ ।। चल.... कथम् ?

 

रुद्धयुद्धयोजना,

न परमाणुजल्पना,

नाणुशक्तिवर्द्धना,

यस्य लक्ष्यघोषणा,

पञ्चशीलसार्थ ! चल !

योगक्षेमपार्थं ! चल ! ॥ ५ ॥

 

सकलजनसुचन्दना,

तूर्यनादबृंहणा,

शुभ्र शक्तिवन्दना,

यस्य लक्ष्यघोषणा

साम्यसन्धिसार्थ! चल !

योगक्षेमपार्थं ! चल ! ॥ ३ ॥ चल.....कथम् ?

सकलजनसुचन्दना,

तूर्यनादबृंहणा,

शुभ्र शक्तिवन्दना,

यस्य लक्ष्यघोषणा

साम्यसन्धिसार्थ! चल !

योगक्षेमपार्थं ! चल ! ॥ ३ ॥ चल.....कथम् ?

 

सकलजनसुचन्दना,

तूर्यनादबृंहणा,

शुभ्रशक्तिवन्दना,

यस्य लक्ष्यघोषणा

साम्यसन्धिसार्थं ! चल !

योगक्षेमपार्थ ! चल ! ।। ६ ।। चल…….कथम् ?

 

उचित कार्य नोदना,

उचितसूत्रशोभना,

हिस्रदृष्टिवारणा,

यस्य लक्ष्यघोषणा,

उचित मार्ग सार्थ ! चल !

योगक्षेमपार्थं ! चल ! ।। ७ ।। चल ...... कथम् ?

 

चल मुदा समं चल सदा समम्

प्रार्थना कथं ? याचना कथम् ?

            क्वणति किञ्जल्कः, ध्वनति वज्रः से साभार

लेखक- महाकवि मायाप्रसाद त्रिपाठी

आलोडनं समीहते

( देशाङ्करागे एकतालीताले अष्टपदी-ध्रुवपदे )

 

ज्योत्स्ना- स्मित ! मा वर्ष प्रणयम्

भव निशि निमिषार्धं त्वं सदयम्

आलपति निःस्वनता प्रश्नविरावे पुष्पितमुग्धा ॥ १ ॥

 

हृदये ह्युच्छ्वाससरितवंशी

प्रणदति प्राणोद्वेलनशंसी

आलपति निःस्वनता... पुष्पितमुग्धा ॥ २ ॥

 

किं परिरम्भवर्तनीमुखरः

पवनः पृच्छत्याशाविकिरः ?

आलपति.....पुष्पितमुग्धा ॥ ३ ॥

 

स्पर्शनिमीलितनेत्राः शब्दाः

अधरारोपित निगडितलुब्धाः ।

आलपति........पुष्पितमुग्धा ॥ ४॥

 

हर्षति पुलके रजनी - वेला,

सीदति भ्रान्तकल्पना खेला ।

आलपति... ...पुष्पितमुग्धा ।। ५ ।

 

नहि विहसति द्वारे शेफाली

आम्रविचुम्बितपल्लवपाली ।

आलपति....... पुष्पितमुग्धा ॥ ६ ॥

 

दूरे बहिर्गतं सामीप्यम्,

बन्धके रक्षितं सालोक्यम् ।

आलपति.. ...पुष्पितमुग्धा ।। ७ ।।

स्मारं स्मारं प्रथयति कवितां

हर्षस्य विषादः प्लवमथिताम् ।

आलपति...... पुष्पितमुग्धा ॥ ८ ॥

 

पयसामाप्लावे तिमिरविषम्

पदे पदे मधूकमधुरमिषम् ।

आलपति.........पुष्पितमुग्धा ॥ १० ॥

क्वणति किञ्जल्कः, ध्वनति वज्रः से साभार

लेखक- महाकवि मायाप्रसाद त्रिपाठी


कोकिल ! 'कुहू' त्वं न कुरु

( रागभैरवी - झपतालताले )

कोकिल ! 'कुहू' त्वं न कुरु मधौ विपिने ।

अधुना किशुकहृदि प्रणयोविलुलितः

अरुणा पीडा व्यथयति, स भृशं निभृतः,

परिहासपरः पवनो नृत्यति मुदितः ॥ १ ॥

 

आम्रो ह्ययं चित्रयति प्रियां प्रथमे

सरिताया क्षुब्धाम्भसि रागव्यथितः ।

शाल्मलिः सुमस्तववो आशामथितः

अनुराधां परिरभते निशि जागरितः ॥ २ ॥

 

पाटलसुरभिरद्य वंशिका स्वप्ने

मृग्यति घने केलिकौतुके प्रघणे ।

मृगभ्रम उडी सम्पिबति मधुरप्लवने

ज्योत्स्नाया अधरसुधां ज्योतिर्धमने ।। ३ ।।

 

शेफालिके ! एहि वाहने मदने

छायानीते, शशधर आलोडितः

इच्छति दूरे गन्तुं, दयितारहितः,

वितथामन्त्रणलेख: किशलयलिखितः ।। ४ ।

कोकिल ! 'कुहू' त्वं न कुरु मधौ विपिने ।

            क्वणति किञ्जल्कः, ध्वनति वज्रः से साभार

लेखक- महाकवि मायाप्रसाद त्रिपाठी


बालगुञ्जनम् से साभार

लेखक- डॉ. अरविन्द कुमार तिवारी

 

तिरङ्गाध्वजगानम्

                                *अरविन्दः

तिरङ्गाध्वजो यस्य हस्ते स पूज्यो

जनो भारतीयः प्रवीरः सहर्षम्।

तिरङ्गाध्वजो यस्य हस्ते न दृष्टः

स हेयः स हेयः स हेयः सगर्वम् ।।

 

     तिरङ्गाविहीनः करः शक्तिहीनः

    तिरङ्गायितं मानसं सौख्यलीनम्।

    तिरङ्गान्वितं मे वचो हे सखायः

    तिरङ्गाकुलः प्राणवायुर्मदीयः।।

 

तिरङ्गां स्वहस्ते वहन्तः सुभाषः

स बोसः स लालः स बालः स पालः।

सखा बिस्मिलः चैत आजादवीराः

प्रचक्रुः बलिं मातृभूम्यै सुधीराः।।

     तिरङ्गा मनो मे तिरङ्गा शरीरं

    तिरङ्गैव देवः तिरङ्गाद्य सर्वम्।

    तिरङ्गाध्वजं स्वं करे सन्दधानाः

    प्रकुर्याम देशस्य रक्षां प्रसन्नाः।।

 

  वयं जाति-धर्मप्रवर्णादिभेदं

 विहायैकमत्येन हे भारतीयाः।

 तिरङ्गाप्रिया मातृभूमिं नमन्तः

 सदा घातयेम स्वशत्रुं चलन्तः।

 

     तिरङ्गा गृहे नः तिरङ्गा वनेषु

    तिरङ्गा नदीषु तिरङ्गा नगेषु।

    तिरङ्गा समस्तासु दिक्षु प्रहृष्टा

    लसेन्मातृभूमेः वदेम प्रकृष्टाः ।।

 

भारतम्

  *अरविन्दः

मम देश एष भव्यः

बहु रोचते सुरम्यः

विविधाश्च वेशभूषाः

नैकाश्च श्रव्यभाषाः।

पूजाविधिः प्रशस्यः ।

बहुधर्मजातिसेव्यः।। मम देशः

हिन्दुश्च मुस्लिमोऽत्र

सिक्खो जिनेन्द्रशिष्यः।

ईसामसीहभक्ता

निवसन्ति सानुरक्ताः।। मम देशः

संश्रूयते सुमन्त्रः

आकर्ण्यते नमाजः।

वाहेगुरुः सुशब्दः

ददते सुखं समाजः।।मम देशः

होली च सूर्यषष्ठी

दीपावली मोहर्रम्।

जिनबौद्धधर्मवाणी

सम्मन्यते सहर्षम्।। मम देशः

नैवास्ति भेदभावः

जिह्वासु चैकरावः।

निजराष्ट्रसद्विकासं

कांक्षाम एव नित्यम्।। मम देशः

 

बलिदानी पिता

                      *अरविन्दः

 

कथं हा रुदन्त्यत्र सर्वेऽपि मातः

पितुर्नाम नीत्वाम्ब हे ज्येष्ठतात।

न मां प्रेक्षते सानुरागं तु रुष्टः

पितर्भाषते नैव मातः सुषुप्तः।।

अयं ते पिता शत्रुनाशे प्रवीरः,

 गतो वीरदेशं सगर्व सुधीरः।

अतो भाषते नो पिता तेऽद्य सुप्तः

पितर्भाषते नैव मातः सुषुप्तः।।।

अये मातृके दास्यते कैः प्रियं मे

नवं कन्दुकं पुस्तकं चुम्बनं मे।

निजाङ्के सुखं दास्यते कोऽद्य पुष्टः

पितर्भाषते नैव मातः सुषुप्तः।।

तवाहं प्रिया मातृकाहर्निशं रे

समग्रं प्रदास्यामि स्वं जीवनं रे।

पितुस्ते समीहा भवेस्त्वं विशिष्टः

पितर्भाषते ते शृणोमीव सुप्तः।।

अहं सैनिकः सम्भविष्यामि मातः

स्वदेशस्य शत्रून् हनिष्यामि जातः।

पितुः काङ्क्षितं पूरयिष्यामि गुप्तः

पितर्भाषते श्रूयते चाद्य सुप्तः।।

 

सरस्वती वन्दना

                           *अरविन्दः

 

विमलहंससुखासनवर्तिनि

मृदुलरावमनोहररूपिणि।

निजकटाक्षकवित्वविकासिनि ।

हर मृतिं मम बुद्धिविवर्धिनि ।।1।।

प्रसृतविश्वतमोऽन्धविनाशिनि

शशिसुधारसवृष्टिविधायिनि।

अखिलमन्त्ररवोद्भवकारिणि

भ्रम मुखे नितरां मतिशोधिनि।।2।।

वटुकसङ्घमुखश्रुतिदायिनि

दनुजमानुषदेवविलासिनि।

धवलरूपतिररस्कृतदामिनि

हर शुभे जडतां गुणकारिणि ।।3।।

विधुवितानचमत्कृतिमर्दिनि

रविविभाशतसागरहारिणि।

कविशिशुप्रियरोदननाशिनि

तें विमलां गतिशालिनि।।4।।

अमृतबोधनिपाननिपायिनि

कविजदुर्गुणदोषशताशिनि।

अगणिताननकान्तिनिवासिनि

निवस शिष्यहृदीतिविखण्डिनि।।।।।

 

 

सैनिकः

*अरविन्दः

मातः स्वदेशसेवा

नितरां जनैः विधेया

पुत्राः समेऽपि लोकैः

सेनासु प्रेषणीयाः

देशः विशाल एषः

प्रतिवेशिचीनदृष्टः

प्रतिवेशिपापिक्षुब्धः

तनयैर्हदावधेयः।। मातः स्वदेशसेवा

आंग्लैः प्रताडिता ये

निजराष्ट्ररक्षणार्थ

बलिवेदिकां गता ये

कुसुमैः समर्चनीयाः।। मातः स्वदेशसेवा--

शृणु मातृके प्रतिज्ञां

वद सैनिको भवेयम्।

निजपूज्यमातृभूमिः

रक्तेन सेचनीया।। मातः स्वदेशसेवा 

 

 

पिपीलिका

                             *अरविन्दः

 

पिपीलिकां सम्पश्यतु बन्धो

संघे याति सदा मुदिता।

 शिक्षयतीव सखे लघुदेहा

संघे निवतसतु सा तृषिता !

एकाकी कुरुते न मानवः

कार्य निजं विशालं रे।

जालं स्मर तु कपोतैर्नीतं

पंचतन्त्रकथां किल रे।

पश्यतु चाग्रे मुख्या चासौ

मार्ग दिशति बलिष्ठा रे।

आकारयति पश्यति सर्वाः

नयति दलं तु कनिष्ठा रे

भोज्यं गिरिं नयतीव समोदं

सहयोगेन सखीनां रे।

बिले करिष्यति गुप्तं विज्ञा

पिपीलिका सम्बुद्धा रे।

कथयति तातः सखे मदीयः

संघे वस्तव्यं मनुजैः।

करणीयं सकलं निजकार्य

पिपीलिकावत् भुवि विबुधैः ।।

 

प्राण्युद्यानम्

                         *अरविन्दः

रविवासरे प्रातः बालाः  

प्राण्युद्यानं यास्यामः।

वयं स्वशिक्षकवर्यैः साकं

चित्रं तत्र ग्रहीष्यामः।।

सिंह वनराजं द्रक्ष्यामः

करिणं हरिणं पक्षिगणम्।

दूरात् प्रीताः सर्वे बालाः

भल्लुकवृक्कान् सर्पगणम्।।

व्याघ्रो निवसति भुंक्ते किं किं

वयं तु निकटात् ज्ञास्यामः।

मकरं जलक्रीडामग्नं वै

दुष्टुं सखे तु शक्ष्यामः।।

मित्र मयूरं नृत्यन्तं तं

चित्रग्रीवं द्रष्टुमनाः।

समुत्सुको वर्ते भाषेऽहं

सद्यः मन्ये गन्तुमनाः।।

नीत्वा चित्रं प्राण्युद्यानात्

रक्षिष्यामि सखे सकलम्।

चित्रावल्यां यत्नैः सर्व

द्रक्ष्यामि सुखदायि ध्रुवम्

 

कामयेऽहम्

               *अरविन्दः

 

सखे वर्धतां भारतं कामयेऽहम्

विना भेदभावं हृदा प्रार्थयेऽहम्

क्वचिच्छ्रूयतां नाधनस्योपहासः

न वाकर्ण्यतां भो धनाढ्याट्टहासः।

प्रभूयात्स्वदेशे सदुल्लासवासः

प्रफुल्लाननं भारतं भावयेऽहम्।

हरेद्रावणो नो कुटीरात् सुकन्यां

न कुर्युर्जना भ्रूणहत्यां जघन्याम्।

लसेद् भारतेऽस्मिन् प्रजातन्त्रिकेयं

स्वदेशे रतिं सर्वथा पालयेऽहम् ।।

कविः कालिदासः पुनः काव्यवृष्ट्या

समस्तां भुवं रञ्जयेद् दिव्यसृष्ट्या।

शुभा विक्रमादित्यभूमिः पवित्रा

गिरा भाषतां सर्वदावेदयेऽहम् ।।

क्वचिज्जातिवादः क्वचिद्धर्मनादः

क्वचिज्जल्पवादः क्वचिद् हा विवादः ।

कवे श्रूयते हन्त सर्वत्र देशे

विवादावमुक्तां धरां कामयेऽहम्

स्वदेशे न भूयाद् विपल्लेशमात्रं.

द्विषः पाकचीनाभिधाना म्रियन्ताम्

पुनर्भारतं भारतीयत्वपूर्ण

चकास्याच्चिरं बन्धवोऽभ्यर्थयेऽहम् ।

 

वन्दे मातरम्

                   *अरविन्दः

भारतीया धरा मातृका बन्धवः!

दूयमानाधुना दृश्यते नैव किम्?

 

रोषरक्तानना त्यक्तसर्वाशना

लब्धशस्त्रा स्वयं युध्यमानानिशम्।

कालिका चीनपाकोद्भवान् दानवान् ''

 सीम्नि हन्तुं स्थिता स्तूयते नैव किम्?

शेध्वमेवं प्रियाः पुत्रकाः विष्टरे,

कामिनीपाशबद्धा हता निस्त्रपाः!।

पादुकां नीचचीनोऽद्य कर्षत्यहो!

भाषमाणाधुना लोक्यते नैव किम्?

 

लुण्ठितं शासकैर्हन्त वैदेशिकैः

रक्तधारा निपीता विदेशात्मजैः।

यद्धि विक्रीतमेवं कुपुत्रैर्निजैः

भूषणं मामकं पीड्यते नैव किम्?

शासको भारतीयः स्वसीमांक-

नरक्षणेतत्परः सिंहशक्तिर्मतः।

किन्तु दुष्टैरबोधैर्मदीयस्सुतैः

सैष आक्षिप्यते श्रूयते नैव किम्?

 

यो हि पाकः शिशुर्वर्धितो लालितो

दुष्टपुत्रोपमः पीडयन् मामहो!।

 एष आतंकिवृक्षो विशालोऽदृढो

वर्धमानोऽधुना छिद्यते नैव किम् ।?

 

कन्याभ्रूणप्रार्थना

                 *अरविन्दः

अवध्यां दयालो शुभां मातृकुक्षौ

अदेहामजां मां सुतां पुत्रभिक्षो।  

इमां पिण्डरूपामजातां प्रपश्यन्

न मारय पिता त्वदीया सुताहम्।।

अहो मत्पितर्दृश्यसे लोकभीतो

यतो कोमलाङ्गीं निहन्तुं प्रवृत्तः।

त्यजैतत् कुकृत्यं जघन्यं विनिन्द्यं

न मारय पिता त्वदीया सुताहम्।।

क्व याचे धनानि पटं भूषणानि

 क्व भाषे वचांसीह विपरीतकानि।

अये वज्रहत्त्वं भवेः वीतचिन्तः

न मारय पिता त्वदीया सुताहम्।।

कराले कलौ सन्ति दैत्या असंख्या

भ्रमन्तो यतः कन्यकास्ते सुरक्ष्याः।

बिभेषीव हा हन्त दृष्ट्वा पितस्त्वं

न मारय पितां त्वदीया सुताहम्।।

चलापांगनेत्रा निरीहानवद्या

मृगी सिंहदेशागतेवाद्य हृद्या।

सुता दानवैर्भक्ष्यते हन्त नित्यं

न मारय पिता त्वदीया सुताहम्।।

 

खलं यौतुकं वर्धते नो विशालम्

धनं सम्पदो लोकमानं कुचालम्।

यतो हन्यते पुत्रिकारत्नमेवम्

न मारय पिता त्वदीया सुताहम्।।

 

                             भगवन्! स्वदेशभूमिः किं विस्मृता तवेयम्?

                                                                                       *अरविन्दः

 

भगवन्! स्वदेशभूमिः किं विस्मृता तवेयम्?

जातः पुरा मुरारे! किं विस्मृता तवेयम्?

वृन्दावनस्थगेहं स्मरसीव नैव सत्यं

गोगोपिकापिकानां ध्यानं करोषि किं त्वम?

 मोहन! विरौति मायामुग्धा प्रिया प्रजेयं

 भगवन्! स्वदेशभूमिः किं विस्मृता तवेयम्?

 विचरन्ति कौरवाणामिह पुत्रका बलिष्ठाः

लक्षाधिकाः प्रमत्ता दुर्योधनानुशिष्टाः।

 हा द्रौपदी विदूना गेहे धुना सुतेयं

 भगवन्! स्वदेशभूमिः किं विस्मृता तवेयम्?

लाक्षागृहाः स्वराष्ट्रे वर्द्धन्त एव नित्यं

पश्यन्ति के न लोके दुःशासनस्य कृत्यम्?

वितनोति कीर्तिकान्तिं नो भारती शुभेयं भगवन्!

स्वदेशभूमिः किं विस्मृता तवेयम्?

कंसादयो महान्तो निजभारतेऽद्य सिद्धा

भीष्मादयो विभीता निगदन्ति नैव वृद्धाः।

विलपत्यहो नृवन्द्या नारी पुनः पृथेयं भगवन्!

स्वदेशभूमिः किं विस्मृता तवेयम्?

मथुरा हृतारिसैन्यैस्त्वन्मन्दिरं हृतं तत्

वृन्दावनं विलोक्यं सघनं विनाशितं तत्।

क्रीडास्थलीह खिन्ना यमुनानदी रमेयं

भगवन्! स्वदेशभूमिः किं विस्मृता तवेयम् ?

गीता तवास्ति कण्ठे कार्ये न शास्त्यनन्त!

धृतराष्ट्रपत्रमोहः संवर्द्धते प्रशान्त!

रक्ष्या द्रुतं कलौ नो जननी सतां धरेयम्।

भगवन्! स्वदेशभूमिः किं विस्मृता तवेयम्?

 

 

तिरङ्गागानम्

             @@ अरविन्दतिवारी

स्वातन्त्र्य-शौर्यमनारतं बलिदानिनां  संस्मारयन्

विभ्राजमानोऽयं मनोज्ञो  देशभक्तिं शिक्षयन्

संवर्द्धयन् सद्भावनां भुवनत्रये नोनूयते

भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. १

संसूचयन् प्रकृतिं त्रिवर्णां भारतीयां भुवि लसन्

नवभारतं रचयन्  सुजनतां भावयन् नृमनो हरन्

क्रान्तिस्वरं  संश्रावयन् भवनेऽमरो देदीप्यते

भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. २

देश: स्वतन्त्रो भारतं बलशालिनां लभते पदं

वैज्ञानिकीप्रतिभाचमत्कारं विधत्ते सत्फलम्.

दृष्ट्वैव यं भीता द्विषन्त: स ध्वजो नोनुद्यते

भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ३

अरविन्दगांधिसुभाषबल्लभचन्द्रशेखरकाङ्क्षिता

राजेन्द्रगंगाधरतिलकसुतभगतसिंहसमर्चिता.

लब्धा शुभा स सुभारती येनाधुना राराज्यते

भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. ४

जातो विकासो भारते सुखिनो जनाश्च समन्तत:

विहरन्ति याने वा विमाने मानिता मुदिता अत:.

सर्वं फलं यस्यास्ति दत्तं सैष किन्न महीयते?

भव्यस्तिरंगा भारतस्य  गृहे गृहे लालस्यते. ५

आकर्ण्यतां वीरा:! सगर्वं गर्जनामरविन्दजां

निजराष्ट्रसेवाभावनाभरितामिमां हृदयाश्रिताम्

दास्यामहे राष्ट्राय सर्वं य; स नो नोनूयते

भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ६

अमृतमहोत्सव एष राजति पञ्चसप्ततिसञ्ज्ञक:

स्वान्तन्त्र्यगाथां श्रावयन् सदने समेषां  मानद:.

प्रियदेशभक्तिरसाकरो निजभारते बोभूयते

भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ७

 

 तिरंगा

      *अरविन्दः

स्वराष्ट्रैक्यं विधत्ते यो नुमस्तं बालका नित्यम्।।

तिरंगाख्यो ध्वजः श्रेष्ठो नुमस्तं बालका नित्यम्।।  १

 

बलं शौर्यं सदोत्साहं स्वदेशं रक्षितुं दत्ते।

तिरंगा राष्ट्रभक्तेर्यो नुमस्तं बालका नित्यम्।। २

 

ललाटे शूरवीराणां विशाले दृश्यते दृश्यः।

तिरंगा वन्दनीयो यो नुमस्तं बालका नित्यम्।। ३

 

द्विषां सेनां निहन्तुं सैनिकैः सम्पूज्यते नत्या।

तिरंगा यः ससम्मानं नुमस्तं बालका नित्यम्।। ४

 

वयं यं सम्भजामः स्वप्रतीकं सादरं वन्द्यम्।

तिरंगामानता वीरा नुमस्तं बालका नित्यम्।। ५

 

प्रतिज्ञां राष्ट्ररक्षायाः करिष्यामो वयं पूर्णाम्।

तिरंगा भाषतेऽन्तर्यो नुमस्तं बालका नित्यम्।। ६

रविगीतम् (कजलीस्वरमयम्)

           

दाहक: प्रचण्डरश्मिभिर्दिवानिशं

रविर्दहत्यहो नृजीवनम्।।

 

शीतवायवो न वान्ति दीप्तवह्नयो ज्वलन्ति।

योषितो न यान्ति हा निजं महानसम्।

रविर्दहत्यहो नृजीवनम्।

दाहक:-- १

 

पीनमाशका दशन्ति दीनबालका रुदन्ति

नीडशावका रुवन्ति हन्त सन्ततम्।।

रविर्दहत्यहो नृजीवनम्।

दाहक:---। २

 

कौति कोकिला द्रुमेषु रौति भ्रामर: सुमेषु।

नौति को जनो न मन्दिरं नवं नवम्।।

रविर्दहत्यहो नृजीवनम्।

दाहक:--- ३

 

हाति नो कृशानुरेष पाति नो च शम्भुरेष।

याति कामिनी पितुर्गृहं निरन्तरम्।।

रविर्दहत्यहो नृजीवनम्।

दाहक:-- ४

 

स्वेदबिन्दवो लसन्ति देहमेव निर्दहन्ति।

मानवा हरिं स्तुवन्ति भक्तिपूर्वकम्।।

रविर्दहत्यहो नृजीवनम्।

दाहक:-- ५

 

ग्रीष्मताण्डवं विभाव्य दग्धकाव्यकृद् विहस्य।

विद्युतो गतिं विचिन्त्य नात्ति पायसम्।।

रविर्दहत्यहो नृजीवनम्।

दाहक:--।। ६

लेखकः- अरविन्दः

 

विश्वभूतले स्वभारतं महीयते

विश्वभूतले स्वभारतं महीयते

विभाव्यतां  सखे पदे - पदे

 

ज्ञानवैभवं तनोति

लोकमङ्गलं करोति

विश्वबन्धुतां नयत्यहो पणे- पणे

विभाव्यतां सखे! पदे-पदे।

विश्व--१

 

मित्रतारसं सुनोति

शत्रुभावनां धुनोति

दिग्दिगन्ततां प्रयात्यहो क्षणे - क्षणे

विभाव्यतां सखे! पदे- पदे

विश्व---२

 

राष्ट्रचेतनां बिभर्ति

देशभावनां पिपर्ति

शौर्यसर्जनां भरत्यहो रणे- रणे

विभाव्यतां सखे! पदे- पदे

विश्व---३

 

स्तौति रामकृष्णनाम

नौति तीर्थराजधाम

हन्ति कल्मषं  सदा सतां गणे- गणे

विभाव्यतां सखे! पदे-पदे

विश्व--४

 

अद्रयो विभान्ति यत्र

साधवो वसन्ति तत्र

यस्य जाह्नवी विराजते कणे-कणे

विभाव्यतां सखे! पदे- पदे

विश्व-५

 

मानवा मुदा वसेम

राष्ट्रभावनां नयेम

द्वेषदर्शनं त्यजेम नो जने- जने

विभाव्यतां सखे! पदे- पदे

विश्व-६

 

अस्मदीयमेतदेव

राष्ट्रमस्ति देवतेव

श्रेष्ठभारतं जयत्यहो युगे- युगे

विभाव्यतां सखे! पदे-पदे

विश्व-७

 

पावनं स्वराष्ट्रमेक-

भारतं निबद्धुमेक-

स्वर्णशृंखलां ददात्यहो गृहे- गृहे

विभाव्यतां सखे! पदे-पदे

विश्व-८

 

भारतध्वजो नगेषु

चन्द्रयानकेषु खेषु

आत्मनिर्भरं करोत्यहो दिने -दिने

विभाव्यतां सखे! पदे-पदे

विश्व-९

 

वन्दे भारतवर्षम्!!

 

वीराणां महतां राष्ट्रं नो महनीयं भुवि गेयं

वैश्विकपटले यच्छति नित्यं जीवनमूल्यं पेयम्।

यत्रत्या गङ्गा कलनादैस्तनुते नित्यं हर्षं

वन्दे भारतवर्षं वन्दे भारतवर्षम्।। १

 

जीट्वेण्टीसम्मेलनमतुलं वर्द्धयते सम्मानं

वसुधैव कुटुम्बकमेवं कुरुते मधुरं गानम्।

यस्मिन देशे दर्शयते जनता निजसंस्कृतिदर्शं

वन्दे भारतवर्षं वन्दे भारतवर्षम्।। २

 

सत्यसनातनधर्मो गर्जन् ददते नित्यं ज्ञानं

ऋषिमुनिजनसन्मार्गो नयते जीवं दिव्यं स्थानम्।

यत्रत्या देवी जगदम्बा रक्षत्येषावर्षं

वन्दे भारतवर्षं वन्दे भारतवर्षम्।। ३

 

आदिकालतो यत्रत्याः प्रणमन्ति प्रेम्णा  काशीं

विबुधानां नगरी या पूज्या दत्ते वैभवराशिम्।

शम्भुभर्गवान् हरते यत्रत्यो हृदयामर्षं

वन्दे भारतवर्षं वन्दे भारतवर्षम्।। ४

 

आध्यामिकविद्या यत्रत्या मोक्षदायिका धन्या

शास्त्रं श्रुतं गोपाय श्रुत्वा नन्दति वसुधा मान्या।

समश्नुते विद्यया चामृतं नो कुरुते सङ्घर्षं

वन्दे भारतवर्षं वन्दे भारतवर्षम्।। ५

लेखक- अरविन्द

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)