संस्कृत-गौरवम्
संस्कृतं संस्कृतिः संस्कृतिः संस्कृतम्,
संस्कृतं भारतं भारतं संस्कृतम्,
संस्कृते ब्रह्मणः स्वास-भूता श्रुतिः,
संस्कृते मे पुराणं पुराणस्मृतिः,
व्यासकाणाद-पातञ्जलं सौख्यकम्,
शास्त्रजालं महाज्ञानदं मोक्षदम्,
संस्कृते राजते राजनीत्यमृतम्
संस्कृतं भारतं भारतं संस्कृतम् । १ ।
वैरिभीदं गानविद्या वरैः धनुर्वेद संगर्जनम्,
गानविद्यास्वरैः पूर्णमाह्लादनम्,
आयुषो वेदतो देह संरक्षणम्,
चित्रकार्यं सदा विश्वमाश्चर्यदम्,
संस्कृते मोदते नाटकं भारतम्,
संस्कृतं भारतं भारतं संस्कृतम् । २ ।
अत्र कृष्णस्य गीतास्वनं सुस्वरम्,
ब्रह्म-सन्दर्शनं वेदहृद्भास्वरम्,
भक्ति--संन्यास-विज्ञान-सत्कर्मणम्।
योग-व्याख्यानकं पापहं पावनम्,
संस्कृते वै विराजो वपुर्वर्णितम्,
संस्कृतं भारतं भारतं संस्कृतम् ।
संस्कृते विष्णु-रूपस्य सीतापतेः,
कीर्तिरूपं विशालं हि रामायणम्,
पाप-नाशाय सुश्लोक्यतेऽहर्निशम्,
भारतीयैः सदा यस्य पारायणम्,
संस्कृते पाण्डवीयं महाभारतम्,
हृन्मनोन्मादिनीं बाण-कादम्बरीम्,
सम्भृतां वीक्ष्य पात्रे च सौवर्णिके,
कस्य सारस्वती नो हृदा नृत्यते,
मुह्यते हृष्यते दृष्यते पीयते,
संस्कृते चित्रमायूरकं वैरुतम्,
संस्कृतं भारतं भारतं संस्कृतम् ।५।
सृष्टि-संहार-सूर्येन्दु-वंश-कृतिः,
व्यास-ज्ञानोदिता कृष्णचन्द्रस्तुतिः ।
पापनाशाय सूर्यप्रभा मण्डलम्,
पण्डितानां सदा ज्ञानमानोपलम्,
संस्कृते भासते श्रीमद्भागवतम्,
संस्कृतं भारतं भारतं संस्कृतम् । ६।
नैषधीयं महाकाव्य-मंत्रोदितम्,
उच्यते यद् बुधैर्ज्ञानिनामौषधम्,
प्राप्त - चिन्तामणेर् - यस्य संघर्षणैः,
गर्जितो धीधरोप्यार्तिना नादितम्,
तद्यशो शोभते भारते विस्तृतम्,
संस्कृतं भारतं भारतं संस्कृतम् । ७ ।
संस्कृते कालिदासस्य काव्यामृतम्,
संस्कृते पाणिनेः शब्दशास्त्रश्रुतम्,
संस्कृते शल्यशालाक्य सम्बन्धितम्,
ग्रन्थरत्नं न कैः सुश्रुतं विश्रुतम्,
संस्कृतेनैव सत्यं सदा संस्थितम् ।
संस्कृतं भारतं भारतं संस्कृतम् । ८ ।
संस्कृतं क्रीडनं संस्कृतं नर्तनम्,
संस्कृतालापनं संस्कृतं चिन्तनम्,
संस्कृतं मे मनो ध्यायते सर्वदा,
संस्कृतं मे सदा चास्तु संकल्पितम् ।
संस्कृते शस्यते संस्कृतं चार्जितम्
संस्कृतं भारतं भारतं संस्कृतम् । ९।
संस्कृतं नो गृहं संस्कृतं नो वनम् ।
संस्कृतैवाकृतिः संस्कृता सम्भृतिः ।
संस्कृतं नः श्रुतं संस्कृतं विश्रुतम् ।
संस्कृता नः कृतिः संस्कृता नो भृतिः ।
भारते राजते सर्वदा
संस्कृतम् ।
संस्कृतेनैव शोभाभृतं
भारतम् ।
लेखकः- भालचन्द्र पाण्डेयः
प्राचार्यचर, नन्दलाल बाजोरिया संस्कृत महाविद्यालय,
वाराणसी
अहो ? भाग्यपंक्तेश्च विक्रीडितम्
म्रियन्तेऽधना हा क्षुधापीडिताः
पाचनायौषधिश्च क्वचित्सेव्यते ।
अस्थि-मात्रा-वशिष्टा इतो वै नराः,
राजतेऽन्यत्र मेदस्विता-जृम्भितम् ।
अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ १ ॥
निरन्नैश्च शावैरितः क्रन्द्यते,
तत्र दुग्धाऽमृतं नो शुना पीयते ।
अत्र गेहेषु वै कुक्कुराः पोषिताः,
दृश्यते हाऽधनानां बहिः संस्थितम्
अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ २ ॥
अस्तशीतातपं सद्मनां च शतम्,
शोभते कामिनी-कांचनाऽलंकृतम्
छिन्नकन्थावृतं भग्न-पात्रर्युतम्
दुर्गृहं चास्ति वे नग्नवालाकुलम्
अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ ३ ॥
क्षुत्पिपासा-कुलो देवरूपो नरः,
कृतश्रमो दत्तदण्डो बहिः स्थाप्यते ।
पूज्यते गन्धमाल्याशनैर्-मृत्प्रभुः,
जाल्मसेवाव्रती, कीदृशं स्वागतम् ।
अहो भाग्यपंक्तेश्च विक्रीडितम् ॥ ४ ॥
लेखकः- भालचन्द्र पाण्डेयः
रचनायें-
१- श्रीकृष्णदौत्यम्-नाटकम्
२- ध्रुवचरितम्
३- प्रह्लादप्रह्लादम्
४- -संस्कृत-शिशुरागिणी 'बालकानाम्'
५- लक्ष्मणारामाशनिः खण्डकाव्यम्
६- पत्रदूत 'खण्डकाव्य' ( हिन्दी )
७- वालोद्यानम् (बालकथा संग्रहः)
लेखक- श्रीराम भिकाजी वेलणकर की
पुस्तक प्रीतिपथे से साभार |
प्रलय इह सदा
आकर्षसि
मदन्तरं सखि कथं मुदा
दुनोति सौख्यं हृदयं मृद्वनेकदा ॥
चित्तचकोरो
ह्यबलः
शशिनमदृष्ट्वा
विकलः
उदिता
ते वदनचन्द्रपूर्णिमा तदा ॥
तिमिरावृतहृदयमिदं
दर्शनेन
वहति मुदं
दारुणदहना
मा भूः, भव
हि शान्तिदा ॥
स्पर्शलेशमर्षणेन
चपलमनःकम्पनेन
वपुरुत्पतने
विलसति सा शतह्रदा ॥
रुचिरा
नु कपोलगता
त्रपासंभवारुणता
प्रणयमखे
प्रखरहुताशन इतस्तदा ॥
प्रतिगमनं
न च जाने
मग्नोऽहं
प्रेमघने
विशति
पतङ्गे दीप्तौ प्रलय इह सदा ॥
नियता सा प्रलपिता
विलसति
न हि शशी नभसि
सा
व्यथा चकोरमनसि
तावत्
तव वदनेन्दोः पूर्णिमा भृता ॥
हृदयं
मे तपोभृतं
तवोदये
प्रज्वलितं
प्रखरा
न स्याद् भवती मन्ददीपिता ॥
तव
नु तनुः स्पर्शपरा
प्रकम्पते
मनोधरा
आविरस्ति
मे देहे ननु तडिल्लता ॥
त्रपा
तव कपोलगता
रक्ततापि
सा शुचिता
अनलज्वाला
प्रबला प्रणयमखवृता ॥
लाजाहोमोऽपि
वृथा
सप्तपदी
विधिगाथा
पतंगदीपनसन्निधिकृता
प्रलयिता ॥
नित्यचिन्ता अभिनवा
सन्निधौ
मयि वसति सखि किं ते वृथेदं कोपनं
दूरगामिनि
मयि पुनः किं तद् हताशं चिन्तनम् ॥
भामिनीभावं
नु वितथं दर्शयसि मे वाह्यतः
विरहिणी
दीनाऽवला त्वं मयि गते सखि तत्त्वतः ॥
दूरनगरे
काचिदन्या सुन्दरी मां हारयेत्
मन्यसे
ननु ! मानसं ते सखि विषादं धारयेत् ॥
चन्द्रमा
उदयेन दत्ते प्रणयसंभ्रमविलसितं
अस्तमयति
हि शशिनि किंवा संयमे मन आहितम् ॥
न
हि विजाने किं प्रियं ते बन्धनं सहवासजं
मुक्तिरनुपस्थानतो
वा क्व हि पदं मे प्रीतिजम् ॥
प्राग्विवाहाद्
दृश्यमाना दर्शनार्थं मे स्थिता
याधुनाऽननुभूयमाना
सा क्व लुप्ताऽधीरता ॥
क्षुब्धचित्तं
शमयितुं ते यद् यतेय समीपगः
व्यग्रचित्तो
दूरवासो याप्यसमयो दुर्भगः ॥
कुत्र
सखि मे सौख्यवासः सन्निधौ दूरे न वा
भवसि सस्मिता
वदन
खिन्नता
चित्तविकलता
दीर्घपथक्रमणे
नन्वियं श्रान्तता ? ॥
सदा
मम हितं
स्वयं
रक्षितं
भारभरैः
संभूता ननु क्लान्तता ॥
तापिता
धरा
यदि
हि शमहरा
शीतलता
प्रीतिनिर्झरेण ते भृता ॥
दरी
निर्जना
स्थिता
भयघना
सन्निधाय
पाणी नौ पारगामिता ॥
शिलोल्लंघनैः
पयोऽवतरणैः
सिन्धुमेति
शान्तजला सरिच्छ्मयुता ॥
समीपमुपविश
करं
मे स्पृश
रञ्जयतु
त्वां कवनैर्मम प्रणयिता ॥
भाविदर्शनं
मनोहर्पणं
नाथ कथं मत्ता ?
(प्रौढवयसि
शरीरसुखे अनादरः अनासक्तिश्च । न प्रेमाभावः ।)
सा-
कथय मे ! नाथ ! कथं मत्ता ॥
न
हि जनको मे न चाथ जननी
नैव
भ्राता न तथा भगिनी
कुण्ठिता
च मे जीवने धुनी
मा
कुप्यतु भर्ता ॥ कथय मे० ॥
तव
समीपमागम्य संयमात्
भाषाधाष्ट्र्यं
नास्ति संभ्रमात्
वञ्चितोऽसि
यदि मया संगमात्
कथमहं प्रमत्ता ॥ कथय मे० ॥
मनः
स्तम्भितं मतिः कुण्ठिता
देहधारणा
सदा दुःखिता
सफला
भवति न तवाप्यर्थिता
सत्ता परिभूता ? ॥ कथय मे० ॥
वसति
न हृदये कोऽप्यन्यो मे
प्राणास्त्वदधीनाः
सन्तीमे
मतिं
च कृपया विनिधेहि शमे
मा भूदुन्मादिता ॥ कथय मे० ॥
विजानीहि
मे मनसि संभ्रमं
धारय
चित्ते निजे संयमं
शंकरगौरीसंगमं
न्विमं
स्वयमिहानुभोक्ता
॥
तृतीयः पन्थाः
निःशब्दा
ते कथं हि रसना पृच्छति माय किमपि ते ॥
रोचते
न पृच्छा ते मे
प्रतिवचो
न वा तव भामे
निःशब्दतापि
वा गूढगभीरा सार्थापि च विद्यते ॥
कम्पते
वचनवानधरः
दमयति
तं दन्तनिकूरः
अन्यार्थशब्दतः
परमानर्थो भवेद् भयं किंकृते ॥
आरक्तकपोलः
कान्तः
किं
क्रोधानललवनिभृतः
भावनान्तरं
वा चण्डोलोऽयं व्यनक्ति वचनादृते ॥
किं
प्रश्नश्रवणेन पुनः
रमते
ननु ते स्वप्नमनः
कल्लोलिलोचनेनाप्यभियानं
तदर्थमारभ्यते ॥
पृच्छा
पुनरपि साभिहिता
अपराद्धा
वृत्तिर्विहिता
प्रत्युत्तरवीक्षा
विलोलनयनाद् हृदयं दोलायते ॥
शब्देषु
न विश्वासोऽतः
अर्थवांस्तु
निःश्वास इतः
नन्वयं
तृतीयः पन्थास्तव मां विचालितं वितनुते ॥
चेतसि कोपः कुतः ?
चेतसि
कोपः कुतः । रञ्जने । सखि सज्ज्ञोऽस्म्यहमितः ॥
वक्रा
भृकुटी रक्ते नयने
स्नेहजलं
क्षुब्धं ननु पवने
हृत्सिन्धुः
सक्षोभमुच्छलति मनोमीन उत्कृतः ॥
नयनसरो
जललहरीनिभृतं
कमलं
ननु वातालिविधूतं
कपोलतलगः
नेत्रजलौघः प्रवहति परिनिःसृतः ॥
उदितोऽहं
चन्द्रमा नु स्वयं
उज्ज्वलंयस्तारके
निर्भयं
उष्णवाप्पनिर्झरः
कुतोऽसौ शीतचन्द्रिकाभृतः ॥
दुःखाघातैः
कुतः स्तम्भिता
रसना
मूका वाणी विरता
कायाकम्पः
क्रोधविपाकः ! कथय कथामादितः ॥
समारक्तता
कपोलैर्वृता
अग्रनासिकापि
प्रस्फुरिता
द्वादशनेत्रोद्घाती
सविता ! प्रलयकाल आगतः ॥
सज्जीभूतं
सखि भ्रूधनुः
संपतितुं
सिद्धापि तव तनुः
खदिराङ्गारप्रदाहिनयने
रुद्र एव संहितः ॥
सिन्धुस्तम्भे
काव्यशरोऽयं
वाष्पं
याति स्मिते च विलयं
पर्जन्यास्त्रेऽग्न्यस्त्रविनाशो
न्याय एष संमतः ॥
स्वयं त्वया स्वीकृता
मुष्टिरस्तु
संयता ! सखे तव ।
कुतो
व्याहतिः ? नित्यसंगतिः
स्वयं त्वया स्वीकृता ॥
सप्तपदी
सह मया, तत्क्षणे
वह्निः
साक्षी शपथग्रहणे
किं
विस्मरसि ? द्रुतमुच्छलसि
! प्रसन्नता क्व नु गता ? ॥
करेण
स्पृष्ट्वा मया तव करे
'मम' इति गदिते जीवनमन्त्रे
रुष्टा
ममता वृष्टा श्रमिता वृथा त्वहं वञ्चिता ॥
सर्वत्र
सदा मद्देहवृता
सौख्यविधाने
तव च्छत्रता
सोढं
दुःखं मतं तु सौख्यं तुष्टिस्ते साधिता ॥
मत्वा
गेहं देवमन्दिरं
भवदीयाज्ञां
धर्माचारं
पुराणं
कथाः कीर्तनं वृथा गाथा सा विगणिता ॥
मंगलसूत्रं
कण्ठनिवद्धं
मम
सौभाग्यव्रतमुपलब्धं
उच्छृंखलता
किं शृंखलिता? न
ते मया नियमिता ॥
पुराऽभवन्नौ
प्रीतिकूजितं
मधुरं
हि वचो नित्यभाषितं
आरोपेण
तु समारोप्यते मे जीवनगाथा ॥
शापवचांसि
नु वसन्ति वदने
खदिराङ्गारास्तथैव
नयने
कथं
नृसिंहो धारयति महो ह्यबलाया जेता ॥
मम बलिदाने
त्वदीयं हितं
वसेत्
तदा स्यात् तदपि हि विहितं
निधनं
संमानेन यान्यहं चरणे तव संनता ॥
सहजं स्मरणम्
तदा
त्वदीयं सहजं स्मरणम् !
गते
मयि कदा सुदूरनगरं
वीक्षन्ते
मां जना निर्भरं
नानुभूय
तत् सौहृदं वरं
विषादमयते
मेऽन्तःकरणम् ॥
प्रवसने
क्वचित् निसर्गरुचिरं
दृश्यं
दृष्ट्या हृन्मनोहरं
प्रविगाह्य
परं सौख्यनिर्झरं
स्मरणं
तव तूल्हासकारणम् ॥
कण्ठगता
मे सुमनोहाराः
भासन्ते
व्यर्था निःसाराः
क्षणिकाः
सर्वे स्पर्शभङ्गराः
स्मरणे
ते तेषां च निरसनम् ॥
पुरतो
गन्तुं सहते नेर्षा
प्रत्यागन्तुं
भवति मनीषा
मूर्तिर्मनसा
स्मृता तवैषा
बिभर्ति
चेतसि भूयः स्मरणम् ॥
तव
सांनिध्याद् रुचितं गमनं
गते
रोचते पुनरागमनं
द्रष्टव्यं
च त्वदीयवदनं
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें