हिमगिरिशृङ्गं उत्तुङ्गम्
हिमगिरिशृङ्गं
उत्तुङ्गं
भारतमातुर्मणि
मकुटम् ।
गङ्गा-यमुना-सिन्धु-सरस्वती
प्रवहति
मातुर्हृदयतटम् ॥ ध्रुवपदम् ॥
काश्मीरादि
महोन्नतदेशे विकसन्त्यधुना कुसुमानि ।
गायन्त्यचिरात्
तानि सुमानि
वन्दे-मातर-गानानि
वन्दे-मातर-गानानि ॥ 1॥
वन्दे
मातरं सुजलां सुफलां मलयजशीतलां
आरब-वङ्ग-महोदधिनायुत
हिन्दुसमुद्रो
स्तौति चिरं ताम् ।
तस्य
तरङ्गकरेण हारेण
अर्च्यते
मम भारतमाता ॥ २॥
लेखकः- अय्यम्पुष हरिकुमारः
जयतु भारतं नौका गानम्
जयतु
भारतं (नौका गानं)
भारताम्बे
जगन्माते, मातुर्माते वन्दनं ते,
भजामहे
वीराः वयं तव सन्निधौ
सुदीर्घाः
सीमानः पालयितुं सज्जा वयं
कटी
बद्धो भूत्वा सदा तिष्ठामः खलु
देवतात्मा
हिमालयो उत्तरेषु विराजन्ते
भूमि
माते तव मणिमकुटमिव
दक्षिणेषु
भारताब्धि विराजते भवत्पादौ
कनक-नूपुरमिव
नादमुदीर्य
आरबवङ्ग
सागरौ उभयतो वर्तेते च
चामरादि
वीचनेन धन्यतां विन्दौ
देव
किन्नरादयः यक्षगन्धर्वादयः
अष्टदिक्षु
मोदमोदं पालयन्ति ते ।
आङ्गलेय
तस्कराः यवनभीकराः च
धर्मयुद्धे
पराजिताः पलायिताः
भरतवंशजो
वयं संस्कृतचित्ताः वयं
भरताभिमानिनः
उन्नतशीर्षाः ॥
लेखकः - अय्यम्पुष हरिकुमारः
होलीगीतम्
भवतु
संस्कृता होली अरे रे
भवतु
संस्कृता होली।
होली
भवतु सदा शुभरङ्गै; नैव दूषितैः पङ्कैः।
सुरभित-पिष्टातकैः
समेषां भवतु मस्तके रोली ।
अरे रे भवतु मस्तके रोली।
चंदनचूर्णैः
पलाशकुसुमैः आम्रमञ्जरीगुच्छैः।
पूर्णा
भवतु बलिकागानैः नगरे समा प्रतोली।
अरे रे नगरे समा प्रतोली।
मधुमासस्य
शासनं मत्त्वा जनाः माधवाः भूत्वा ।
आमोदं
कुर्वन्तु सहासा तदा शुभा स्यात् होली।
अरे रे तदा शुभा स्यात् होली।
नो
संघर्षः नो संघट्टः नो गल्हीनां दानम्।
रंगखेलने
हृदयमेलने प्रिया खाद्यतां पोली।
अरे
रे प्रिया खाद्यतां पोली।
भवतु
संस्कृता होली अरे रे भवतु संस्कृता होली।
लेखकः- डॉ. वीरभद्र मिश्रः
चलति विडालः
शतं मूषकान् कवले कृत्वा
चलति बिडालः श्रमणो भवितुम्।
भाषाधारे देशं भङ्क्त्वा
वाञ्छति देश एकतामवितुम्।
येन संस्कृता भाषा त्यक्ता
भारतीयता दूरे क्षिप्ता
तेन संस्कृतेः गानं व्यर्थं
शब्दं विनाऽभिधा नहि शक्ता
अनिवार्यामांग्लामिह कृत्वा
चलसि संस्कृतेः श्रवणो भवितुम्।
शतं मूषकान्........एकतामवितुम्।
विस्तृत तिलक भूषितो भालः
कण्ठो लम्बिततुलसीमालः
नैव शोभते विना संस्कृतां
धारां विना यथा करवाल:
कर्गदरावण दहनं कृत्वा
वाञ्छति सीतारमणो भवितुम्।
शतं मूषकान्....एकतामवितुम्।
लुप्ताऽयोध्या फैजाबादे
गतः प्रयाग इलाहाबादे
किंतु पौरुषं प्रदर्शयामो
दूरे सिंहल-तमिलविवादे
भारतमूलान् हत्वा वाञ्छति
हन्त सिंहले सिंहो भवितुम्।
चन्द्रः आकाशे.....
चन्द्रः कथमाकाशे तिष्ठति ।
एक: चन्द्रो बहु-बहु ताराः।
किंतु नैव तेषामाधाराः।
केन योजिता इमे न जाने
कथं पतन्ति न नाऽहं जाने
इमे सदा प्रेजन्ते टिम्-टिम्
मह्यं बहु रोचन्ते टिम्-टिम्
मम पाश्वे नायान्ति कदाचित्
भूमौ नहि खेलति कदाचित्
अहमुड्डीय तत्र गच्छेयम्
स्वयम् तैः सार्धं खेलेयम्
अहं बालकः किं करवाणि ?
गन्तुं तत्र कथम् प्रभवाणि?
ध्रुवं पतिष्यति ध्रुवं पतिष्यति
चल मम घोटक!
चल मम घोटक! टिक् टिक् टिक्
चल रे चल रे टिक् टिक् टिक्
गंगापारं यमुनापारम्
रेवापार कृष्णापारं
सिन्धु-शोण-कावेरी-पारम्
ब्रह्मपुत्र-दामोदर-पारम्
मम घोटक! टिक् टिक् टिक्,
चल चल रे चल रे टिक् टिक् टिक्
विन्ध्य-हिमालय-पर्वतपारम्
हिन्दूकुश-पटकायी-पारम्
नन्दादेवि-मलयगिरि-पारम्
नागा-खासी-गारो-पारम्
चल मम घोटक! टिक् टिक् टिक्
चल रे चल रे टिक् टिक् टिक्
चल रे मानसरोवरपारम्
चल कैलासधवलगिरिपारम्
चल बंगाब्धिवंकजलपारम्
चल चल भारत सागरपारम्
चल मम घोटक! टिक् टिक् टिक्
चल रे चल रे टिक् टिक् टिक्
आकाशे चल पाताले चल
गिरिशिखरे चल जलधितले चल
निजदेशे चल परदेशे चल
पृष्ठे वहन् मां शीघ्रं चल
चल मम घोटक! टिक् टिक् टिक्
लालनी
स्वपिहि सुते! मम सुखकलिके
रविरपि निजदिनकार्य कृत्वा
गृहं गतः स्वपितुम्।
पश्य कमलिनी मुकुलितकुसुमा
वाञ्छति निद्रां लब्धुम्।
निद्राप्रहरी दीपो ज्वलितो
निर्मल-गगन-विताने
अयि पुत्रिके स्वपिहि मृदुशयने
विहित-विधेय-विधाने।
निद्रे ! एहि चुम्ब सुखसारां
पुत्रीं मम जीवातुम्।
सर्वलोकसुखराशिमुपेक्षे
सुखमस्यै परिदातुम्।
महिषासुर-भय-दीने सर्वे
वीरगणे दुर्गा सा।
यथा जघान तमसुरं वीरा
भविता ध्रुवं तथैषा।
विदुषी सरस्वतीसदृशीयं
सुभगा लक्ष्मी-सदृशी ।
व्रतवीरा निष्कलुष-चरित्रा
भविता गौरी-सदृशी।
गगन! निशे! हे दिशश्च विदिशः
चन्द्र ! तारकाः ! सकलाः!
अस्यां स्नेहं कुरुत, कुरुत हे
अस्या आशा: सफलाः
स्वपितु पुत्रिका रक्षत यूयं
काले कलि-कलकलके।
स्वपिहि सुते मम सुखकलिके।
लेखकः- डॉ. वीरभद्र मिश्रः
माकन्दे (गीतम्)
कुहूकुहू
माकन्दे मन्दं मन्दधारा
वर्षा सञ्जाता पीयूषसारा।।
मञ्जरीषु
सततं भृङ्गाः सन्ति पंक्तिबद्धा:,
पल्लवेषु
रागं धत्ते कोकिलोऽयमद्धा,
पादपेषु
लग्ना वल्ली शोभते सुहारा,
पीयूषसारा ।।
मासेषु
दिव्यो भावो वर्द्धते नराणाम्,
उन्मना
हि प्रेमा चित्ते जायते जनानाम्,
पान्थचित्तवत्तिर्नूनं
प्रियादुःखभारा,
पीयूषसारा ।।
वियोगेन
तप्ता जाता तनुः प्रेयसीनाम्,
किञ्च
देहवल्ली तनुतां गता भूयसीनाम्,
चन्द्रिकाऽपि
तनुते तापं, भवति सद्मकारा,
पीयूषसारा ।।
सरस्वतीवन्दना
जयति
वीणावादिनी सा।
शारदा
विज्ञानदा याऽनन्दनिधिरूपा सदा।
कौमुदी
रुचिपूर्णहृदया व्याप्य विश्वं शोभिता।
ब्रह्मविष्णुशिवादिसेव्या
पातु पुस्तकधारिणी सा।। जयति...।।१।।
शुभ्रवस्त्राऽलंकृता
याऽखिलचराचरवन्दिता।
नर्तकी
रसनाङ्गणे सम्पूज्यपादा देवता,
संस्कृता
सुरभारतीरूपा सुधासम्पायिनी सा।। जयति...।।२।।
घंटिकां
शूलं हलं धृत्वासने कमलेस्थिता।
बालकानां
मादृशानां सर्वकार्यफलप्रदा
संस्कृते
सञ्चालने साफल्यमंगलदायिनी सा, ।। जयति...।।३।।
गायने
सम्वादने विद्यार्जने सम्भाषणे,
सिद्धिदाऽऽभ्यासे
जनानां, भारते जननी मुदा
या
जगत्याधाररूपा सर्वकर्मविधायिनी सा।। जयति...।।४।।
या
परा वाणी स्वरूपा मध्यमा या वैखरी
या
च पश्यन्तीतिसिद्धा ज्ञायते त्रिगुणात्मिका।
शारदेन्दुमुखी
च माताऽशेषधर्मविधायिनी सा।। जयति...।।५।।
लेखकः- आचार्य लालमणि पाण्डेयः
गोपीनां विरहगीतम्
श्रावणमाससमयसुखदायी
भवति दुःखदायी विना हरिणा।
जलदो
गर्जति वर्षति सततम्,
दर्दुरध्वनिपरिपूर्णदिगन्तम्।
चित्तं
वनं विना करिणा...
श्रावण...।।१।।
उद्धव
! प्रेषय मम गोपालं,
मां
संजीवय प्रेष्य सुभालम्।
मनोभवेन
दलति ह्यरिणा।
श्रावण...।।२।।
वंशीध्वनिसारंगप्रमोदः,
गोपीनां
हृदि निहितवियोगः।
वृन्दावनविहरणविधिना...।
श्रावण...।।३।।
गोविन्दश्च
हरिश्च मुरारिः,
भक्तिजपरनिर्वृतिकंसारिः
जीवनसुखं
केन विधिना।
श्रावण...।।४।।
मन्दं
मन्दं प्रवहति पवनो,
लताकुंजकृतसुन्दरभवनो,
भ्रमति
भ्रमर इव नाथो ना।।
श्रावण...।।५।।
मन्दसुगन्धसुगंधितलतिका,
कृष्णभ्रमररवगुंजितकलिका
पृष्टा
मया विना ध्वनिना।।
श्रावण...।।६।।
अद्य राधिका (कज्ज्लीगीतम्)
अद्य
राधिका मुदा मया विलोकिता,
सखीजनेन
सेविता दिने।
सखी
च कृष्णरूपगा विभाति रासनर्तने।
तथा
प्रसादिता लतागृहेऽनुधाविता ।।
सखीजनेन ....।।१।।
प्रियाः
प्रसूनपुञ्जमध्यगं हसन्ति मोहनम्
सखे
! श्रिया यथा हरेर्मुखं विलोकितं
स्वभावनिर्मला
मुदाऽयने ।।
अद्य राधिका ....।॥२॥
नन्दनन्दनं
शुभं च कामरूपबल्लभं
प्रिया
च राधिकाऽनुधाविता च मानिता ।। सखी०।
कृष्ण
कृष्ण प्राणवल्लभ प्रिया त्वया निवारिता-
मया
विचारितं त्वयाप्रिया सुधारिता।
सखीजनेन ....।।३।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें