📖 रचनाकार परिचय:
पंडित वासुदेव द्विवेदी शास्त्री का जीवन-वृत्त यहाँ पढ़ें ➔
🎵 इस भाग में संकलित गीत (सीधे जाने के लिए क्लिक करें):
१. स्वागत-गीतम्
महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः।
गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।।
दिनं नो धन्यतममेतत्, इयं मङ्गलमयी वेला।
वयं यद् बालका एते, त्वदीयं स्वागतं कुर्मः॥
न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः।
परं श्रद्धा-सुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः।
किमधिकं ब्रूमहे श्रीमन् निवेदनमेतदेवैकम्।
न बाला विस्मृतिं नेयाः त्वदीयं स्वागतं कुर्मः॥
२. सैन्य-गीतम्
सादरं समीहतां वन्दना विधीयताम्।
श्रद्धया स्वमातृभूसमर्चना विधीयताम्॥
आपदो भवन्तु वा विद्युतो लसन्तु वा।
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा।
धीरता न हीयतां वीरता विधीयताम्
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥१॥
प्राणदायिनीयं त्राणदायिनीयम्।
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनीयम्।
एतदीयवन्दने सेवनेऽभिनन्दने।
साभिमानमात्मनो जीवनं प्रदीयताम्॥२॥
३. भारतीयैकता-साधकं संस्कृतम्
भारतीयैकता-साधकं संस्कृतम्
भारतीयैकता-साधकं संस्कृतम्
भारतीयत्व-सम्पादकं संस्कृतम्
ज्ञान-पुञ्ज-प्रभादर्शकं संस्कृतम्
सर्वदानन्द-सन्दोहदं संस्कृतम्।।1।।
विश्वबन्धुत्व-विस्तारकं संस्कृतम्
सर्वभूतैकता-कारकं संस्कृतम्
सर्वत:शान्तिसंस्थापकं संस्कृतम्
पञ्चशील-प्रतिष्ठापकं संस्कृतम्।।2।।
त्याग-सन्तोष-सेवाव्रतं संस्कृतम्
विश्वकल्याण-निष्ठायुक्तं संस्कृतम्
ज्ञान-विज्ञान-सम्मेलनं संस्कृतम्
भुक्ति-मुक्ति-द्वयोद्भावनं संस्कृतम्
नगरे-नगरे ग्रामे-ग्रामे विलसतु संस्कृत-वाणी।
सदने-सदने जन-जनवदने जयतु चिरं कल्याणी।।4।।
४. मातृ-भूमि-वन्दना
मातृभूमे नमो मातृभूमे नमः ।
मातृभूमे नमो मातृभूमे नमः ॥
मातृभूमे नमो मातृभूमे नमो ।
अग्रतस्ते नमः पृष्ठतस्ते नमः
ऊर्ध्वतस्ते नमश्चाऽप्यधस्ते नमः
वामतस्ते नमो दक्षिणे ते नमो ।
ते गिरिभ्यो नमस्ते नदीभ्यो नमः
ते वनेभ्यो नमो जनपदेभ्यो नमः
ते कणेभ्यो नमस्ते अणुभ्यो नमो ।
प्राणदे त्राणदे देवि शक्तिप्रदे
ऋद्धिदे सिद्धिदे भुक्ति-मुक्तिप्रदे
सर्वदे ! सर्वदा देवि ! तुभ्यं नमो ।





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें